भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · श्लोक 5-48

5-48.7--

इहेदानीम्.चतुर्णाम्.महाभूतानाम्.सृष्टिसंहारविधिर्.उच्यते.।

5-48.8--

ब्राह्मणे.मानेन.वर्षशतान्ते.{5..वर्षशतस्यान्ते}.वर्तमानस्य.ब्रह्मणो.ऽपवर्गकाले.संसारखिन्नानाम्.{5.संसारे.खिन्नानाम्}.सर्वप्राणिनाम्.निशि.विश्रामार्थम्.सकलभुवनपतेर्.महेश्वरस्य.संजिहीर्षासमकालम्.शरीरेन्द्रियमहाभूतोपनिबन्धकानाम्.सर्वात्मगतानाम्.अदृष्टानाम्.वृत्तिनिरोधे.सति.महेश्वरेच्छात्माणुसम्योगजकर्मभ्यः.शरीरेन्द्रियकारणाणुविभागेभ्यस्.तत्सम्योगनिवृत्तौ.तेषाम्.आपरमाण्वन्तो.विनाशः.{किर्..।.}

5-48.15--

तथा.पृथिव्युदकज्वलनपवनानाम्.अपि.महाभूतानाम्.अनेनैव.क्रमेणोत्तरस्मिन्न्.उत्तरस्मिन्.{5.उत्तरस्मिंश्.च}.सति.पूर्वस्य.पूर्वस्य.{5.पूर्वपूर्वस्य}.विनाशः.ततः.प्रविभक्ताः.परमाणवोवतिष्ठन्ते.धर्माधर्मसंस्कारानुविद्धा.आत्मानस्.{5.आत्मानश्.च}.तावन्तम्.एव.कालम्.।

5-48.19--

ततः.पुनः.प्राणिनाम्.भोगभूतये.महेश्वरसिसृक्षानन्तरम्.{5.महेश्वरस्य.सिसृक्षानन्तरम्}.सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्.तत्सम्योगेभ्यः.पवनपरमाणुषु.कर्मोत्पत्तौ.तेषाम्.परस्परसम्योगेभ्यो.द्व्यणुकादिप्रक्रमेण.महान्.वायुः.समुत्पन्नो.नभसि.दोधूयमानस्.तिष्ठति.।

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc