न्यायसूत्र (टीका सहित) · अध्याय 1
रेfएरेन्चे स्य्स्तेम्:
न्य्स्_ = न्यायसूत्र
न्य्स्भ्_ = न्यायसूत्रभाष्य
********************** न्य्स्भ्_1,1.1 **********************
प्रमाणतो ऽर्थप्रतिपत्तौ प्रवृत्तिसामथ्यदिर्थवत् प्रमाणम्।
प्रमाणमन्तरेण नार्थप्रतिपत्तिः।
नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थम्।
प्रमाणेन खल्वयं ज्ञातार्थमुपलभ्य तमीप्सति व जिहासति वा।
तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते।
सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः।
समीहमानस्वमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नाति जहाति वा।
अर्थस्तु सुखं सुखहेतुश्च।
सो ऽयं प्रमाणार्थो ऽपरिसंख्येयः, प्राणभृद्भेदस्यापरिसंख्येत्वात्।
अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति।
कस्मात् ? अन्यतमापाये ऽर्थस्यानुपपत्तेः।
तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः, स प्रमाता।
स येनार्थ प्रमिणोति विजानाति तत्प्रमाणम्।
यो ऽर्थः प्रमीयते
ज्ञायते तत्प्रमेयम्।
किं पुनस्तत्वम् ? सतश्च सद्भावो ऽसतश्चासद्भाव इति।
सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्वं भवति।
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तच्वं भवति।
कथं पुनरुत्तरस्य प्रमाणेनोपलब्धिरिति ?
सत्युपलभ्यमाने तद्वदनुपलब्धेः प्रदीपवत्।
यथा दर्शकेन प्रदीपेन दृश्ये गुह्यमाणे तदिव यन्न गृह्यते तत्रास्ति।
यद्यभविष्यदिदमिव व्यज्ञास्यते विज्ञानाभावान्नास्तीति।
तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति।
सच्च खलु षोडशधा व्यूढमुपदेक्ष्यते।
तासां खल्वासां सद्विधानाम् ---
न्य्स्_1,1.1: प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छुलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः॥
निर्देशे यथावचनं विग्रहः।
चार्थे द्वन्द्वः समासः।
प्रमाणादीनां तत्वमिति शैषिकी षष्ठी।
तत्वस्य ज्ञानं निःश्रेयसस्याधिगम इति च कर्मणि षष्ठ्यौ।
त एतावन्तो विद्यमानार्थाः।
एषामविपरीतज्ञानार्थमिहोपदेशः।
सो ऽयमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः।
आत्मादेः खलु प्रमेयस्य तत्वज्ञानात्रिःश्रेयसाधिगमः तच्चैदुत्तरसूत्रेणानूद्यते।
हेयं तस्य निर्वर्तकं हानमात्यन्तिकं तस्योपायो ऽधिगन्तव्य इत्येतानि खलु चत्वार्यर्थपदानि सम्यग्बुद्ध्वा निःश्रेयसमधिगच्छति।
तत्र सशयादीनां पृथग्वचनमर्थकमे संशयादयो हि यथासम्भवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरच्चिन्त इति।
सत्यमेवमेतत्, इमास्तु चतस्त्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां
चतुर्र्थायमान्वीक्षिकी न्यायविद्या।
तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः।
तेषा पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः।
तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाप्यते।
तत्र नानुपलब्धे न निणौते ऽर्थेः प्रवर्त्तते।
कि तर्हि ? संशयिते ऽर्थे।
तथाचोक्तम्, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥
(1.1 . 41) इति।
विमर्शः संशयः।
पक्षप्रतिपक्षौ न्यायप्रवृत्तिः।
अर्थावधारणं निर्णयस्तत्वज्ञानमिति।
स चायं किङ्खिदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः।
स च प्रमेये ऽन्तभवन्नेवमर्थ पृथगुच्यते इति।
अर्थ प्रयोजनम्, येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम्, यमर्थमभोप्सन् जिहासन् वा कर्मारभते।
तेनानेन सर्वे प्राणिनःसर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः।
तदाश्रयश्च न्यायः प्रवर्तते।
कः नुनरयं न्यायः? प्रमाणैरर्थपरीक्षणम्।
प्रत्यक्षागमाश्रितं चानुमनम्।
सान्वीक्षा।
प्रत्यक्षागमाभ्यामीक्षितस्यार्थस्यान्वीक्षणमन्वीक्षा।
तया प्रवर्तत इत्यान्वीक्षकी न्यायविद्या न्यायशास्त्रम्।
यत्पुनरनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः स इति।
तत्र वादजल्पौ सप्रयोजनौ, वितण्डा तु परिक्ष्यते।
वितण्डया प्रवतामानो वैतण्डिकः।
स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सो ऽस्य पक्षाः सो ऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति।
अथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्यापद्यते।
अथापि परपक्षप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतदपि तादृगेव।
यो ज्ञापयति, यो जानाति, येन ज्ञापयते, यच्च ज्ञाप्यते-एतच्च प्रतिपद्यते चदि, तदा वैतण्डिकत्वं जहाति।
अथ न प्रतिपद्यते, परपक्षप्रतिषेधज्ञापनं प्रयोजनमित्येतदस्य वाक्यमनर्थकं भवति।
वाक्यसमूहश्च स्थापनाहीनो वितण्डा।
तस्य यद्यभिधेयं प्रतिपधते सो ऽस्य पक्षाः स्थापनीयो भवति।
अथ न प्रतिपद्यते प्रलापमात्रमनर्थकं भवति, वितण्डत्वं निवर्तत इति।
अथ दृष्टान्तः।
प्रत्यक्षविषयो ऽर्थो दृष्टान्तः, चत्र लौकिकपरीक्षकाणां दर्शनं न वयाहन्यते।
स च प्रमेयम्।
तस्य पृथग्वचनं च।
तदाश्रयावनुमानागमौ।
तस्मिन् सति स्यातामनुमानागमौ, असति च न स्याताम्।
तदाश्रया न्यायप्रवृत्तिः।
दृष्टान्तविरोधेन च परपक्षप्रतिषेधो वचनीयो भवति।
दृष्टान्समाधिना च स्वपक्षः स्थापनीयो भवति।
नास्तिकश्च दृष्टान्तमभ्युपगच्छन् नास्तिकत्वं जहाति।
अनभ्युपगच्छन् किंसाधनः परमुपालभेत ?
निरुक्तेन च दृष्टान्तेन शक्यमभिधातुम्,
साध्यसाधर्म्यात् तद्धर्मभावी दृष्टांन्त उदाहरणम्॥ ( 1.1.36 )
तद्विपर्ययाद् वा विपरीतम् ॥ ( 1.1.37 )
इति
अस्त्ययमित्यभ्यनुज्ञायमानो ऽर्थः सिद्धान्तः।
स च प्रमेयम्।
तस्य पृथग्वचनम्, सत्सु सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्तन्ते, नातान्यथेति।
साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते।
तेषु प्रमाणसमवायः।
आगमः प्रतिज्ञा, हेतुरनुमानम्, उदाहरणं प्रत्यक्षमे उपमानमुपनयः, सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति।
तदाश्रया च तत्वव्यवस्था।
ते चैते ऽवयवाः
शब्दविशेषाः सन्तः प्रमेये ऽन्तमूता एवमर्थ पुथग्रच्यन्त इति।
तर्को न प्रमाणसंगुहातो, न प्रमाणान्तरम्, प्रमाणानामनुग्राहकस्तत्वज्ञानाय कल्पते।
तस्योदाहरम्, किमिदं जन्म कृतकेन हेतुना निर्वर्त्यते, आहोस्विदकृतकेन, अथाकस्मिकमिति ? एवमविज्ञाततत्वे ऽर्थे कारणोपपत्या
उहः प्रवताते-यदि कृतकेन हेतुना निर्वर्त्यते, हेतूच्छेदादुपपन्नो ऽयं जन्मोच्छदः।
अथाकृतकेन हेतुना, ततो हेनूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः।
अथाकास्मिकम्, अतो ऽकस्मान्निर्वर्त्यमानं न पुनर्निर्वर्त्स्यतीति निवृत्तिकारणं नोपपद्यते।
तेन जन्मानुच्छेद इति।
एतस्मिंस्तर्कविषये कर्मनिमितं जन्मेति प्रमाणानि प्रवर्तमानानि
तर्केणानुगृह्यन्ते।
तन्वज्ञानविषयस्य च विभागात् तत्वज्ञानाय कल्पते तर्क इति।
सो ऽयमित्थमभूतस्तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय चार्थस्य भवतीत्येवमर्थ पृथगुच्यते प्रमेयान्तभूतो ऽपीति।
निर्णयस्तत्वज्ञानं प्रमाणानां फलम्।
तदवसानो वादः।
तस्य पालनार्थ जल्पवितण्डे।
तावेतौ तर्कनिर्णयौ
लोकयात्रां वहत इति।
सो ऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थ पृथगुद्दिष्ट इति।
वादः खलु नानाप्रवक्तृकः प्रत्यधिकरणसाधनो ऽन्यतराधिकरणनिर्णयावासानो वाक्यसमूहः पृथगुद्दिष्ट उपलक्षणार्थम्, उपलक्षितेन व्यवहारस्तत्वज्ञानाय भवतीति।
तद्विशेषौ जलवितण्डे तत्वाध्यावसायसंरक्षणार्थतमित्यक्तम्।
निग्रहस्थानभ्यः पृथगुद्दिष्ट हेत्वाभासाः, वादे चौदनीया भविष्यन्तीति।
जल्पवितण्डयोस्तु निग्रहस्थानानीति।
छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थः।
उपलक्षितानां स्वावक्ये परिवर्जनं छलजातिनिग्रहस्थानानां परवाक्ये पर्यनुयोगः।
जातेस्तु परेणप्र युज्यमाणायाः सुलभः समाधिः, स्वयं च सुकरः प्रयोग इति।
सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थैर्विभज्यमाना--
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥इति॥
तदिदं तत्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं वेदतव्यम्।
इह त्वध्यात्मविद्यायामात्मादिज्ञानं तत्वज्ञानम्।
निःश्रेयसाधिगमापवर्गप्राप्तिरिति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0