न्यायसूत्र (टीका सहित) · अध्याय 6
इति श्रीवात्स्यायनीये न्यायभाष्ये तृतीयाध्यायस्याद्यम् आह्निकम्॥
% प्.809
अथ तृतीयाध्यायास्य द्वितीयम् आह्निकम्
********************** न्य्स्भ्_3,2.1 **********************
परीक्षितानीन्द्रियाण्य् अर्थाश् च, बुद्धेर् इदानीं परीक्षाक्रमः, सा किम् अनित्या नित्या वेति। कुतः संशयः?
न्य्स्_3,2.1: कर्माकाशसाधर्म्यात् संशयः ॥
अस्पर्शवत्त्वं ताभ्यां समानो धर्म उपलभ्यते बुद्धौ, विशेषश् चोपजनापायधर्मवत्त्वम्, विपर्ययश् च यथास्वम् अनित्यनित्ययोस् तस्यां बुद्दौ नोपलभ्यते, तेन संशय इति
********************** न्य्स्भ्_3,2.2 **********************
अनुपपन्नरूपः खल्व् अयं संशयः। सर्वशरीरिणां हि प्रत्यात्मवेदनीया अनित्या बुद्धिः सुखादिवत्।
% सुकादिवत्] प्.810
भवति च संवित्तिः --- ज्ञास्यामि जानामि अज्ञासिषम् इति। न चोपजनापायाव् अन्तरेण त्रैकाल्यव्याक्तिः, ततश् च त्रैकाल्यव्यक्तेर् अनित्या बुद्धिर् इत्य् एतत् शिद्धम्। प्रमाणसिद्धं चेदं शास्तरे ऽप्य् उक्तम् --- `इन्द्रियार्थसन्निकर्षोत्पन्नम्ऽ, `युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्येवमादि। तस्मात् संशयप्रक्रियानुपपत्तिर् इति।
दृष्टिप्रवादोपालम्भार्थन् तु प्रकरणम्। एवं हि पश्यन्तः प्रवदन्ति साङ्ख्याः --- पुरुषस्यान्तःकरणभूता नित्या बुद्धिर् इति। साधनं च प्रचक्षते ---
% प्.811
न्य्स्_3,2.2: विषयप्रत्यभिज्ञानात् ॥
किं पुनर् इदं प्रत्यभिज्ञानम्? यं पूर्वम् अज्ञासिषम् अर्थं तम् इमं जानामीति ज्ञान्योः समाने ऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्, एतच् चावस्थिताया बुद्धेर् उपपन्नम्। नानात्वे तु बुद्धिभेदेषूत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः नान्यज्ञातम् अन्यः प्रत्यभिजानातीति
********************** न्य्स्भ्_3,2.3 **********************
न्य्स्_3,2.3: साध्यसमत्वाद् अहेतुः ॥
यथा खलु नित्यत्वं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानम् अपीति। किं कारणम्? चेतनधर्मस्य करणे ऽनुपपत्तिः। पुरुषधर्मः खल्व् अयं ज्ञानं दर्शनम् उपलब्धिर् बोधः प्रत्ययः अध्यवसाय इति।
% अध्यवसाय इति] प्.812
चेतनो हि पूर्वज्ञातम् अर्थं प्रत्यभिजानाति, तस्यैतस्माद् धेतोर् नित्यत्वं युक्तम् इति। करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयं नानिर्दिष्टस्वरूपम् आत्मान्तरं शक्यम् अस्तीति प्रतिपत्तुम्। ज्ञानं चेद् बुद्धेर् अन्तःकरणस्याभ्युपगम्यते चेतनस्येदानीं किं स्वरूपं को धर्मः किं तत्त्वम्? ज्ञानेन च बुद्धौ वर्तमानेनायं चेतनः किं करोतीति?
चेतयते इति चेत् न, ज्ञानाद् अर्थान्तरवचनम् --- पुरुषश् चेतयते बुद्धिर् जानातीति नेदं ज्ञानाद् अर्थान्तरम् उच्यते, चेतयते जानीते बुद्ध्यते पश्यति उपलभते इत्य् एको ऽयम् अर्थ इति। बुद्धिर् ज्ञ्पयतीति चेत् अद्धा --- जानीते पुरुषो बुद्धिर् ज्ञापयतीति सत्यम् एतत्। एवं चाभ्युपगमे ज्ञानं पुरुषस्येति सिद्धं भवति न बुद्धेर् अन्तःकरणस्येति।
%813
प्रतिपुरुषं च शब्दान्तरव्यवस्थाप्रतिज्ञाने प्रतिषेधहेतुवचनम्। यश् च प्रतिजानीते --- कश्चित् पुरुषश् चेतयते, कश्चिद् बुद्ध्यते, कश्चिद् उपलभते, कश्चित् पश्यतीति; पुरुषान्तराणि खल्व् इमानि चेतनो बोद्धोपलब्धा द्रष्टेति नैकस्यैते धर्मा इति अत्र कः प्रतिषेधहेतुर् इति?
अर्थस्याभेद इति चेत् समानम्। अभिन्नार्था एते शब्दा इति तत्र व्यवस्थानुपपत्तिर् इत्य् एवं चेन् मन्यसे, समानं भवति --- पुरुषश् चेतयते बुद्धिर् जानीते इत्य् अत्राप्य् अर्थो न भिद्यते तत्रोभयोश् चेतनत्वाद् अन्यतरलोप इति। यदि पुनर् बुध्यते ऽनयेति बोधनं बुद्धिः मन एवोच्यते तच् च नित्यम्,
% एवोच्यते तच् च नित्यम्,] प्.814
अस्त्व् एतद् एवम्, न तु मनसो विषयप्रत्यभिज्ञानान् नित्यत्वम्। दृष्टं हि करणभेदे ज्ञातुर् एकत्वात् प्रत्यभिज्ञानं `सव्यदृष्टस्येतरेण प्रत्यभिज्ञानाद्ऽ इति।
% प्.815
चक्षुर्वत् प्रदीपवच् च; प्रदीपान्तरदृष्टस्य प्रदीपान्तरेण प्रत्यभिज्ञानम् इति। तस्माज् ज्ञातुर् अयं नित्यत्वे हेतुर् इति
********************** न्य्स्भ्_3,2.4 **********************
यच् च मन्यते बुद्धेर् अवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति वृत्तिश् च वृत्तिमतो नान्येति, तच् च ---
न्य्स्_3,2.4: न, युगपद् अग्रहणात् ॥
वृत्तिवृत्तिमतोर् अनन्यत्वे वृत्तिमतो ऽवस्थानाद् वृत्तीनाम् अवस्थानम् इति यानीमानि विषयग्रहणानि तान्य् अवतिष्टन्त इति युगपद् विषयाणां ग्रहणं प्रसज्यत इति
********************** न्य्स्भ्_3,2.5 **********************
% प्.816
न्य्स्_3,2.5: अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ॥
अतीते च प्रत्यभिज्ञाने वृत्तिमान् अप्य् अतीत इत्य् अन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानात्वम् इति
********************** न्य्स्भ्_3,2.6 **********************
अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यत इति ---
न्य्स्_3,2.6: क्रमवृत्तित्वाद् अयुगपद् ग्रहणम् ॥
इन्द्रियार्थानाम्, वृत्तिवृत्तिमतोर् नानात्वम् इति।
% प्.817
********************** न्य्स्भ्_3,2.7 **********************
न्य्स्_3,2.7: अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ॥
अप्रत्यभिज्ञानम् अनुपलब्धिः। अनुपलब्धिश् च कस्याचिद् अर्थस्य विषयान्तरव्यासक्ते मनस्य् उपपद्यते वृत्तिवृत्तिमतोर् नानात्वात्, एकत्वे हि अनर्थको व्यासङ्ग इति
********************** न्य्स्भ्_3,2.8 **********************
विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः ---
न्य्स्_3,2.8: न, गत्यभावात् ॥
प्राप्तानीन्द्रियाण्य् अन्तःकरणेनेति प्राप्त्यर्थस्य गमनस्याभावः। तत्र क्रमवृत्तित्वाभावाद् अयुगपद् ग्रहणानुपपत्तिर् इति।
% प्.818
गत्यभावाच् च प्रतिषिद्धं विभुनो ऽन्तःकरणस्यायुगपद्ग्रहणं न लिङ्गान्तरेणानुमीयते इति। यथा चक्षुषो गतिः प्रतिषिद्धा सन्निकृष्टविप्रकृष्टयोस् तुल्यकालग्रहणात् पाणिचन्द्रमसोर् व्यवधानेन प्रतीघाते सोऽनुमीयत इति सो ऽयं नान्तः करणे विवादो न तस्य नित्यत्वे।
% करणे विवादो न तस्य नित्यत्वे] प्.819
सिद्धं हि मनो ऽन्तःकरणं नित्यं चेति। क्व तर्हि विवादः? तस्य विभुत्वे, तच् च प्रमाणतो ऽनुपलब्धेः प्रतिषिद्धम् इति। एकं चान्तःकरणं नाना चैता ज्ञानात्मका वृत्तयः, चक्षुर्विज्ञानं घ्राणविज्ञानं रूपविज्ञानं गन्धविज्ञानम्। एतच् च वृत्तिवृत्तिमतोर् एकत्वे ऽनुपपन्नम् इति। पुरुषो जानीते नान्तःकरणम् इति। एतेन विषयान्तरव्यासङ्गः प्रत्युक्तः। विषयान्तरग्रहणलक्षणो विषयान्तरव्यासङ्गः पुरुषस्य नान्तःकरणस्येति, केनचिद् इन्द्रियेण सन्निधिः केनचिद् असन्निधिर् इत्य् अयं तु व्यासङ्गो ऽनुज्ञायते मनस इति
********************** न्य्स्भ्_3,2.9 **********************
% प्.820
एकम् अन्तःकरणं नाना वृत्तय इति। सत्य् अभेदे वृत्तेर् इदम् उच्यते ---
न्य्स्_3,2.9: स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः ॥
तस्यां वृत्तौ नानात्वाभिमानः, यथा द्रव्यान्तरोपहिते स्फटिके अन्यत्वाभिमानो नीलो लोहित इति; एवं विषयान्तरोपधानाद् इति।
% प्.821
न हेत्वभावात्। स्फटिकान्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमानो गौणो न पुनर् गन्धाद्यन्यत्वाभिमानवद् इति हेतुर् नास्ति हेत्वभावाद् अनुपपन्न इति। समानो हेत्वभाव इति चेत् न ज्ञानानां क्रमेणोपजनापायदर्शनात् --- क्रमेण हीन्द्रियार्थेषु ज्ञानान्य् उपजायन्ते चापयन्ति चेति दृश्यते।
% चापयन्ति चेति दृश्यते।] प्.822
तस्माद् गन्धाद्यन्यत्वाभिमानवद् अयं ज्ञानेषु नानात्वाभिमान इति
********************** न्य्स्भ्_3,2.10 **********************
% प्.823
स्फटिकान्यत्वाभिमानवद् इत्य् एतद् अमृष्यमाणः क्षणिकवाद्य् आह ---
न्य्स्_3,2.10: स्फटिके ऽप्य् अपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनाम् अहेतुः ॥
% प्.824
स्फटिकस्याभेदेनावस्थितस्योपधानभेदान् नानात्वाभिमान इत्य् अयम् अविद्यमानहेतुकः पक्षः। कस्मात्? स्फटिके ऽप्य् अपरापरोत्पत्तेः। स्फटिके ऽपि अन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्त इति। कथम्? क्षणिकत्वाद् व्यक्तीनाम्। क्षणश् चाल्पीयान् कालः क्षणस्थितिकाः क्षणिकाः। कथं पुनर् गम्यते क्षणिका व्यक्तय इति? उपचयापचयप्रबन्धदर्शनाच् छरीरादिषु। पक्तिनिर्वृत्तस्याहाररसस्य शरीरे रुधिरादिभावेनोपचयो ऽपचयश् च प्रबन्धेन प्रवर्त्तते। उपचयाद् व्यक्तीनाम् उत्पादः, अपचयाद् व्यक्तिनिरोधः। एवं च सत्य् अवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरे गृह्यते इति सो ऽयं व्यक्तिविशेषधर्मो व्यक्तिमात्रे वेदितव्य इति
********************** न्य्स्भ्_3,2.11 **********************
% प्.825
न्य्स्_3,2.11: नियमहेत्वभावाद् यथादर्शनम् अभ्यनुज्ञा ॥
सर्वासु व्यक्तिषु उपचयापचयप्रबन्धः शरीरवद् इति नायं नियमः। कस्मात्? हेत्वभावात्। नात्र प्रत्यक्षम् अनुमानं वा प्रतिपादकम् अस्तीति। तस्माद् यथादर्शनम् अभ्यनुज्ञा। यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिर् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,
% र् उपचयापचयप्रबन्धदर्शनेनाभ्यनुज्ञायते,] प्.826
यथा शरीरादिषु। यत्र यत्र न दृश्यते तत्र तत्र प्रत्याख्यायते यथा ग्रावप्रभृतिषु। स्फटिके ऽप्य् उपचयापचयप्रबन्धो न दृश्यते, तस्माद् अयुक्तं स्फटिके ऽप्य् अपराप्रोत्पत्तिर् इति। यथा चार्कस्य कटुकिम्ना सर्वद्रव्याणां कटुकिमानाम् आपादयेत् तादृग् एतद् इति
********************** न्य्स्भ्_3,2.12 **********************
यश् चाशेषनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकतां मन्यते तस्यैतत् ---
न्य्स्_3,2.12: नोत्पत्तिविनाशकारणोपलब्धेः ॥
उत्पत्तिकारणं तावद् उपलभ्यते अवयवोपचयो वल्मीकादीनाम्, विनाशकारणं चोपलभ्यते घटादीनाम् अवयवविभागः।
% लभ्यते घटादीनाम् अवयवविभागः।] प्.827
यस्य त्व् अनपचितावयवं निरुध्यते अनुपचितावयवं चोत्पद्यते तस्याशेषनिरोधे निरन्वये वापूर्वोत्पादे न कारणम् उभयत्राप्य् उपलभ्यते इति
********************** न्य्स्भ्_3,2.13 **********************
%829
न्य्स्_3,2.13: क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच् च तदुपपत्तिः ॥
यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणं चाभ्यनुज्ञायते तथा स्फटिके परापरासु व्यक्तिषु विनाशकारणम् उत्पादकारणं चाभ्यनुज्ञेयम् इति
********************** न्य्स्भ्_3,2.14 **********************
% प्.830
न्य्स्_3,2.14: लिङ्गतो ग्रहणान् नानुपलब्धिः ॥
क्षीरविनाशलिङ्गं क्षीरविनाशकारणं दध्युत्पत्तिलिङ्गं दध्युत्पत्तिकारणं च गृह्यते ऽतो नानुपलब्धिः, विपर्ययस् तु स्फटिकादिषु द्रव्येषु अपरापरोत्पत्तौ व्यक्तीनां न लिङ्गम् अस्तीत्य् अनुत्पत्तिर् एवेति
********************** न्य्स्भ्_3,2.15 **********************
% प्.846
अत्र कश्चित् परिहारम् आह ---
न्य्स्_3,2.15: न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥
पयसः परिणामो न विनाश इत्य् एक आह। परिणामश् चावस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिर् इति।
गुणान्तरप्रादुर्भाव इत्य् अपर आह। सता द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरम् उत्पद्यत इति। स खल्व् एकपक्षीभाव इव
********************** न्य्स्भ्_3,2.16 **********************
% प्.847
अत्र तु प्रतिषेधः ---
न्य्स्_3,2.16: व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेर् अनुमानम् ॥
संमूर्छनलक्षणाद् अवयवव्यूहाद् द्रव्यान्तरे दध्नि उत्पन्ने गृह्यमाणे पूर्वं पयोद्रव्यम् अवयवविभागेभ्यो निवृत्तम् इत्य् अनुमीयते, यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्याम् उत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्त्तते इति। मृद्वच् चावयवान्वयः पयोदध्नोर् नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटत इति
********************** न्य्स्भ्_3,2.17 **********************
% प्.848
अभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दध्युत्पादं च प्रतिषेध उच्यते ---
न्य्स्_3,2.17: क्वचिद् विनाशकारणानुपलब्धेः क्वचिच् चोपलब्धेर् अनेकान्तः ॥
क्षीरदधिवन् निष्कारणौ विनाशोत्पादौ स्फटिकव्यक्तीनाम् इति नायम् एकान्त इति। कस्मात्? हेत्वभावात्। नात्र हेतुर् अस्ति अकारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनां क्षीरदधिवत्, न पुनर् यथा विनाशकारणभावात् कुम्भस्य विनाश उत्पत्तिकारणभावाच् चोत्पत्तिः एवं स्फटिकादिव्यक्तीनां विनाशोत्पत्तिकारणभावाद् विनाशोत्पत्तिभाव इति।
% प्.849
निरधिष्ठानं च दृष्टान्तवचनम्। गृह्यमाणयोर् विनाशोत्पादयोः स्फटिकादिषु स्याद् अयम् आश्रयवान् दृष्टान्तः क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिवच् चेति, तौ तु न गृह्येते। तस्मान् निरधिष्ठानो ऽयं दृष्टान्त इति।
अभ्यनुज्ञाय च स्फटिकस्योत्पादविनाशौ यो ऽत्र साधकस् तस्याभ्यनुज्ञानाद् अप्रतिषेधः। कुम्भवन् न निष्कारणौ विनाशोत्पादौ स्फटिकादीनाम् इत्य् अनुज्ञेयो ऽयं दृष्टान्तः प्रतिषेद्धम् अशक्यत्वात्। क्षीरदधिवत् तु निष्कारणौ विनाशोत्पादाव् इति शक्यो ऽयं प्रतिषेद्धुं कारणतो विनाशोत्पत्तिदर्शनात्। क्षीरदध्नोर् विनाशोत्पत्ती पश्यता तत्कारणम् अनुमेयं कार्यलिङ्गं हि कारणम् इति
********************** न्य्स्भ्_3,2.18 **********************
% प्.850
उपपन्नम् अनित्या बुद्धिर् इति। इदं तु चिन्त्यते कस्येयं बुद्धिर् आत्मेइन्द्रियमनो ऽर्थानां गुण इति। प्रसिद्धो ऽपि खल्व् अयम् अर्थः परीकषाशेषं प्रवर्त्तयामीति प्रक्रियते। सो ऽयं बुद्धौ सन्निकर्षोत्पत्तेः संशयः विशेषस्याग्रहणाद् इति। तत्रायं विशेषः
न्य्स्_3,2.18: नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्ञानावस्थानात् ॥
नेन्द्रियाणाम् वा गुणो ज्ञानं तेषां विनाशो ऽपि ज्ञानस्य भावात्। भवति खल्व् इदम् इन्द्रिये ऽर्थे च विनष्टे ज्ञानम् अद्राक्षम् इति। न च ज्ञातरि विनष्थे ज्ञानं भवितुम् अर्हति। अन्यत् खलु वै तद् इन्द्रियार्थसन्निकर्षजं ज्ञानं यद् इन्द्रियार्थविनाशे न भवति।
% भवति] प्.851
इदम् अन्यद् आत्ममनःसन्निकर्षजम्, तस्य युक्तो भाव इति।स्मृतिः खल्व् इयम् अद्राक्षम् इति पूर्वदृष्टविषया। न च विज्ञातरि नष्टे पूर्वोपलब्धेः स्मरणं युक्तम्, न चान्यदृष्टम् अन्यः स्मरति। न च मनसि ज्ञातर्य् अभ्युपगम्यमाने शक्यम् इन्द्रियार्थयोर् ज्ञातृत्वं प्रतिपादयितुम्
********************** न्य्स्भ्_3,2.19 **********************
आस्तु तर्हि मनोगुणा ज्ञानम् ---
न्य्स्_3,2.19: युगपज् ज्ञेयानुपलब्धेश् च न मनसः ॥
युगपज् ज्ञेयानुपलब्धिर् अन्तःकरणस्य लिङ्गम्, तत्र युगपज् ज्णेयानुपलब्ध्या यद् अनुमीयते अन्तःकरणम्, न तस्य गुणो ज्ञानम्। कस्य तर्हि? ज्ञस्य वशित्वात्।
% प्.852
वशी ज्ञाता वश्यं करणम्, ज्ञानगुणत्वे च करणभावनिवृत्तिः। घ्राणादिसाधनस्य च ज्ञातुर् गन्धादिज्ञानभावाद् अनुमीयते अन्तःकरणसाधनस्य सुखादिज्ञानं स्मृतिश् चेति। तत्र यज् ज्ञानगुणं मनः स आत्मा, यत् तु सुखाद्युपलब्धिसाधनम् अन्तःकरणं मनस् तद् इति संज्ञाभेदमात्रं नार्थभेद इति।
% प्.853
युगपज् ज्ञेयोपलब्धेश् च योगिन इति वा चार्थः। योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीरान्तराणि तेषु युगपज् ज्ञेयान्य् उपलभते। तच् चैतद् विभौ ज्ञातर्य् उपपद्यते नाणौ मनसीति। विभुत्वे वा मनसो ज्ञानस्य नात्मगुणत्वप्रतिषेधः। विभु च मनस्तदन्तःकरणभूतम् इति तस्य सर्वेन्द्रियैर् युगपत् संयोगाद् युगपज् ज्ञानान्य् उत्पद्येरन्न् इति
********************** न्य्स्भ्_3,2.20 **********************
न्य्स्_3,2.20: तदात्मगुणत्वे ऽपि तुल्यम् ॥
विभुर् आत्मा सर्वेन्द्रियैः संयुक्त इति युगपज् ज्ञानोत्पत्तिप्रसङ्ग इति
********************** न्य्स्भ्_3,2.21 **********************
% प्.854
न्य्स्_3,2.21: इन्द्रियैर् मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ॥
गन्धाद्युपलब्धेर् इन्द्रियार्थसन्निकर्षवद् इन्द्रियमनःसन्निकर्षो ऽपि कारणम्, तस्य चायौगपद्यम् अणुत्वान् मनसः। अयौगपद्याद् अनुत्पत्तिर् युगपज् ज्ञानानाम् आत्मगुणत्वे ऽपीति
********************** न्य्स्भ्_3,2.22 **********************
यदि पुनर् आत्मेन्द्रियार्थसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्येत?
न्य्स्_3,2.22: नोत्पत्तिकारणानपदेशात् ॥
आत्मेन्द्रियसन्निकर्षमात्राद् गन्धादिज्ञानम् उत्पद्यते इति, नात्रोत्पत्तिकारणम् अपदिश्यते येनैतत् प्रतिपद्येमहीति
********************** न्य्स्भ्_3,2.23 **********************
% प्.855
न्य्स्_3,2.23: विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
``तदात्मगुणत्वे ऽपि तुल्यम्ऽऽ इत्य् एतद् अनेन समुच्चीयते। द्विविधो हि गुणनाशहेतुः, गुणानाम् आश्रयाभावो विरोधी च गुणः। नित्यत्वाद् आत्मनो ऽनुपपन्नः पूर्वः, विरोधी च बुद्धेर् गुणो न गृह्यते --- तस्माद् आत्मगुणत्वे सति बुद्धेर् नित्यत्वप्रसङ्गः
********************** न्य्स्भ्_3,2.24 **********************
% प्.856
न्य्स्_3,2.24: अनित्यत्वग्रहाद् बुद्धेर् बुद्ध्यन्तराद् विनाशः शब्दवत् ॥
अनित्या बुद्धिर् इति सर्वशरीरिणां प्रत्यात्मवेदनीयम् एतत्। गृह्यते च बुद्धिसन्तानः तत्र बुद्धेर् बुद्ध्यन्तरं विरोधी गुण इत्य् अनुमीयते यथा शब्दसन्ताने शब्दः शब्दान्तरविरोधीति
********************** न्य्स्भ्_3,2.25 **********************
% प्.857
असङ्ख्येयेषु ज्ञानकारितेषु संस्कारेषु स्मृतिहेतुष्व् आत्मसमवेतेष्व् आत्ममनसोश् च सन्निकर्षे समाने स्मृतिहेतौ सति न कारणस्यायौगपद्यम् अस्तीति युगपत् स्मृतयः प्रादुर्भवेयुः यदि बुद्धिर् आत्मगुणः स्याद् इति। तत्र कश्चित् सन्निकर्षस्यायौगपद्यम् उपपादयिष्यन्न् आह ---
न्य्स्_3,2.25: ज्ञानसमवेतात्मप्रदेशसन्निकर्षान् मनसः स्मृत्युत्पत्तेर् न युगपदुत्पत्तिः ॥
ज्ञानसाधनः संस्कारो ज्ञानम् इत्य् उच्यते ज्ञानसंस्कृतैर् आत्मप्रदेशैः पर्यायेण मनः सन्निकृष्यते। आत्ममनःसन्निकर्षात् स्मृतयो ऽपि पर्यायेण भवन्तीति
********************** न्य्स्भ्_3,2.26 **********************
% प्.858
न्य्स्_3,2.26: नान्तःशरीरवृत्तित्वान् मनसः ॥
सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनम् इष्यते। तत्रास्य प्राक् प्रायणाद् अन्तःशरीरे वर्तमानस्य मनसः शरीराद् बहिर्ज्ञानसंस्कृतैर् आत्मप्रदेशैः संयोगो नोपपद्यत इति
********************** न्य्स्भ्_3,2.27 **********************
% प्.859
न्य्स्_3,2.27: साध्यत्वाद् अहेतुः ॥
विपच्यमानकर्माशयमात्रं जीवनम्, एवं च सति साध्यम् अन्तःशरीरवृत्तित्वं मनस इति
********************** न्य्स्भ्_3,2.28 **********************
न्य्स्_3,2.28: स्मरतः शरीरधारणोपपत्तेर् अप्रतिषेधः ॥
सुस्मूर्षया खल्व् अयं मनः प्रणिदधानश् चिराद् अपि कंचिद् अर्थं स्मरति, स्मरतश् च शरीरधारणं दृश्यते। आत्ममनःसन्निकर्षजश् च प्रयत्नो द्विविधः --- धारकः प्रेरकश् च, निःसृते च शरीराद् बहिर् मनासि धारकस्य प्रयत्नस्याभावाद् गुरुत्वात् पतनं स्यात् शरीरस्य स्मरत इति
0
********************** न्य्स्भ्_3,2.29 **********************
% प्.860
न्य्स्_3,2.29: न तदाशुगतित्वान् मनसः ॥
आशुगति मनः तस्य बहिःशरीरात्मप्रदेशेन ज्ञानसंस्कृतेन सन्निकर्षः, प्रत्यागतस्य च प्रयत्नोत्पादनम् उभयं युज्यत इति। उत्पाद्य वा धारकं प्रयत्नं शरीरान् निःसरणं मनसः, अतस् तत्रोपपन्नं धारणम् इति
********************** न्य्स्भ्_3,2.30 **********************
न्य्स्_3,2.30: न स्मरणकालानियमात् ॥
किञ्चित् क्षिप्रं स्मर्यते किञ्चिच् चिरेण। यदा चिरेण, तदा सुस्मूर्षया मनसि धार्यमाणे चिन्ताप्रबन्धे सति कस्यचिद् अर्थस्य लिङ्गभूतस्य चिन्तनम् आराधितं स्मृतिहेतुर् भवति। तत्रैतच् चिरनिश्चरिते मनसि नोपपद्यत इति।
शरीरसंयोगानपेक्षश् चात्ममनःसंयोगो न स्मृतिहेतुः शरीरस्य भोगायतनत्वात्।
% प्.861
उपभोगायतनं पुरुषस्य ज्ञातुः शरीरं न ततो निश्चरितस्य मनस आत्मसंयोगमात्रं ज्ञानसुखादीनाम् उत्पत्तौ कल्पते, कॢप्तौ वा शरीरवैयर्थ्यम् इति
********************** न्य्स्भ्_3,2.31 **********************
न्य्स्_3,2.31: आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषः ॥
आत्मप्रेरणेन वा मनसो बहिः शरीरात् संयोगविशेषः स्यात्, यदृच्छया वा, आकस्मिकतया ज्ञतया वा मनसः? सर्वथा चानुपपत्तिः। कथम्? स्मर्तव्यत्वात्, इच्छातः स्मरणाज् ज्ञानासम्भवाच् च। यदि तावद् आत्मा अमुष्यार्थस्य स्मृतिहेतुः संस्कारः अमुष्मिन्न् आत्मदेशे समवेतस् तेन मनः संयुज्यताम् इति मनः प्रेरयति तदा स्मृत एवासाव् अर्थो भवति न स्मर्तव्यः। न चात्मप्रत्यक्ष आत्मप्रदेशः संस्कारो वा, तत्रानुपपन्नात्मप्रत्यक्षेण संवित्तिर् इति। सुस्मूर्षया चायं मनः प्रणिदधानश् चिराद् अपि कञ्चिद् अर्थं स्मरति नाकस्मात्, ज्ञत्वं च मनसो नास्ति ज्ञानप्रतिषेधाद् इति
********************** न्य्स्भ्_3,2.32 **********************
% प्.862
एतच् च ---
न्य्स्_3,2.32: व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥
यदा खल्व् अयं व्यासक्तमनाः क्वचिद् देशे शर्करया कण्टकेन वा पादव्यथनम् आप्नोति तदा आत्ममनः संयोगविशेष एषितव्यः, दृष्टं हि दुःखं दुःखवेदनं चेति। तत्रायं समानः प्रतिषेधः। यदृच्छया तु न विशेषो नाकस्मिकी क्रिया नाकस्मिकः संयोग इति।
कर्मादृष्टम् उपभोगार्थं क्रियाहेतुर् इति चेत् समानम्। कर्मादृष्टं पुरुषस्थं पुरुषोपभोगार्थं मनसि क्रियाहेतुः एवं दुःखं दुःखसंवेदनं च सिध्यतीत्य् एवं चेन् मन्यसे, समानम् --- स्मृतिहेताव् अपि संयोगविशेषो भवितुम् अर्हति। तत्र यद् उक्तम् ``आत्मप्रेरणयदृच्छाज्ञताभिश् च न संयोगविशेषःऽऽ इत्य् अयम् अप्रतिषेध इति। पूर्वस् तु प्रतिषेधो ``नान्तःशरीरवृत्तित्वान् मनसऽऽ इति
********************** न्य्स्भ्_3,2.33 **********************
%863
कः खल्व् इदानीं कारणयौगपद्यसद्भावे युगपद् अस्मरणस्य हेतुर् इति?
न्य्स्_3,2.33: प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावाद् युगपद् अस्मरणम् ॥
यथा खल्व् आत्ममनसोः सन्निकर्षः संस्कारश् च स्मृतिहेतुर् एवं प्रणिधानं लिङ्गादिज्ञानानि तानि च न युगपद्भवन्ति तत्कृता स्मृतीनां युगपद् अनुत्पत्तिर् इति। प्रतिभवत् तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः। यत् खल्व् इदं प्रातिभम् इव ज्ञानं प्रणिधानाद्यनपेक्षं स्मार्त्तम् उत्पद्यते कदाचित् तस्य युगपदुत्पत्तिप्रसङ्गो हेत्वभावात्। सतः स्मृतिहेतोर् असंवेदनात् प्रातिभेन समानाभिमानः। बह्वर्थविषये वै चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,
% चिन्ताप्रबन्धे कश्चिद् एवार्थः कस्यचित् स्मृतिहेतुः,] प्.864
तस्यानुचिन्तनात् तस्य स्मृतिर् भवति। न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते एवं मे स्मृतिर् उत्पन्नेति। असंवेदनात् प्रातिभम् इव ज्ञानम् इदं स्मार्तम् इति अभिमन्यते, न त्व् अस्ति प्रणिधानाद्यनपेक्षं स्मार्तम् इति।
प्रातिभे कथम् इति चेत् पुरुषकर्मविशेषाद् उपभोगवन् नियमः। प्रातिभम् इदानीं ज्ञानं युगपत् कस्मान् नोत्पद्यते? यथोपभोगार्थं कर्म युगपदुपभोगं न करोति एवं पुरुषकर्मविशेषः प्रतिभाहेतुर् न युगपद् अनेकं प्रातिभं ज्ञानम् उत्पादयति।
हेत्वभावाद् अयुक्तम् इति चेत्, न करणस्य प्रत्ययपर्याये सामर्थ्यात्। ``उपभोगवन् नियमऽऽ इत्य् अस्ति दृष्टान्तो हेतुर् नास्तीति चेन् मन्यसे? न, करणस्य प्रत्ययपर्याये सामर्थ्यात्। नैकस्मिन् ज्ञेये युगपद् अनेकं ज्ञानम् उत्पद्यते, न चानेकस्मिन्। तद् इदं दृष्टेन प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति।
% प्रत्ययपर्यायेणानुमेयं करणसामर्थ्यम् इत्थम्भूतम् इति न ज्ञातुः विकरणधर्मणो देहनानात्वे प्रत्यययौगपद्याद् इति।] प्.865
अयं च द्वितीयः प्रतिषेधः, अवस्थितशरीरस्य चानेकज्ञानसमवायाद् एकप्रदेशे युगपद् अनेकार्थस्मरणं स्यात्। क्वचिद् देशे ऽवस्थितशरीरस्य ज्ञातुर् इन्द्रियार्थप्रबन्धेन ज्ञानम् अनेकम् एकस्मिन्न् आत्मप्रदेशे समवैति। तेन यदा मनः संयुज्यते तदा ज्ञातपूर्वस्यानेकस्य युगपत् स्मरणं प्रसज्यते प्रदेशसंयोगपर्यायाभावाद् इति। आत्मप्रदेशानाम् अद्रव्यान्तरत्वाद् एकार्थसमवायस्याविशेषे सति स्मृतियौगपद्यप्रतिषेधानुपपत्तिः।
% प्.866
शब्दसन्ताने तु श्रोत्राधिष्ठानप्रत्यासत्त्या शब्दश्रवणवत् संस्कारप्रत्यासत्त्या मनसः स्मृत्युत्पत्तेर् न युगपद् उत्पत्तिप्रसङ्गः। पूर्व एव तु प्रतिषेधो नानेकज्ञानसमवायाद् एकप्रदेशे युगपत् स्मृतिप्रसङ्ग इति
********************** न्य्स्भ्_3,2.34 **********************
पुरुषधर्मो ज्ञानम् अन्तःकरणस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा इति कस्यचिद् दर्शनम्, तत् प्रतिषिध्यते ---
% प्.867
न्य्स्_3,2.34: ज्ञस्येच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः ॥
अयं खलु जानाति तावद् इदं मे सुखसाधनम् इदं मे दुःखसाधनम् इति ज्ञात्वा स्वस्य सुखसाधनम् आप्तुम् इच्छति, दुःखसाधनं हातुम् इच्छति, प्राप्तीच्छाप्रयुक्तस्यास्य सुखसाधनावाप्तये समीहाविशेष आरम्भः, जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनं निवृत्तिः, एवं ज्ञानेच्छाप्रयत्नद्वेषसुखदुःखानाम् एकेनाभिसम्बन्धः। एककर्तृकत्वं ज्ञानेच्छाप्रवृत्तीनां समानाश्रयत्वं च। तस्माज् ज्ञस्येच्छाद्वेषप्रयत्नसुखदुःखानि धर्मा नाचेतनस्येति। आरम्भनिवृत्त्योश् च प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानं वेदितव्यम् इति
********************** न्य्स्भ्_3,2.35 **********************
% प्.868
अत्र भूतचैतनिक आह ---
न्य्स्_3,2.35: तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् प्रतिषेधः ॥
आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति यस्यारम्भनिवृत्ती तस्येच्छाद्वेषौ तस्य ज्ञानम् इति प्राप्तं पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति चैतन्यम्
********************** न्य्स्भ्_3,2.36 **********************
न्य्स्_3,2.36: परश्वादिष्व् आरम्भनिवृत्तिदर्शनात् ॥
शरीरे चैतन्यनिवृत्तिः। आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति प्राप्तं परश्वादेः करणस्यारम्भनिवृत्तिदर्शनाच् चैतन्यम् इति। अथ शरीरस्येच्छादिभिर् योगः, परश्वादेस् तु करणस्यारम्भनिवृत्ती व्यभिचरतः, न तर्ह्य् अयं हेतुः पार्थिवाप्य् अतैजसवायवीयानां शरीराणाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषज्ञानैर् योग इति।
% प्.869
अयं तर्ह्य् अन्यो ऽर्थः --- तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधः। पृथिव्यादीनां भूतानाम् आरम्भस् तावत् त्रसस्थावरशरीरेषु तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषः लोष्टादिषु च लिङ्गाभावात् प्रवृत्तिविशेषाभावो निवृत्तिः। आरम्भनिवृत्तिलिङ्गाव् इच्छाद्वेषाव् इति पार्थिवाद्येष्व् अणुषु तद्दर्शनाद् इच्छाद्वेषयोगस् तद्योगाज् ज्ञानयोग इति सिद्धं भूतचैतन्यम् इति।
कुम्भादिष्व् अनुपलब्धेर् अहेतुः। कुम्भादिमृदवयवानां व्यूहलिङ्गः प्रवृत्तिविशेष आरम्भः, सिकतादिषु प्रवृत्तिविशेषाभावो निवृत्तिः। न च मृत्सिकतानाम् आरम्भनिवृत्तिदर्शनाद् इच्छाद्वेषप्रयत्नज्ञानैर् योगः। तस्मात् तल्लिङ्गत्वाद् इच्छाद्वेषयोर् इत्य् अहेतुर् इति
********************** न्य्स्भ्_3,2.37 **********************
न्य्स्_3,2.37: नियमानियमौ तु तद्विशेषकौ ॥
तयोर् इच्छाद्वेषयोर् नियमानियमौ विशेषकौ भेदकौ। ज्ञस्येच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती न स्वाश्रये।
% प्रवृत्तिनिवृत्ती न स्वाश्रये।] प्.870
किं तर्हि? प्रयोज्याश्रये। तत्र प्रयुज्यमानेषु भूतेषु प्रवृत्तिनिवृत्ती स्तः न सर्वेष्व् इत्य् अनियमोपपत्तिः।
यस्य तु ज्ञत्वाद् भूतानाम् इच्छाद्वेषनिमित्ते आरम्भनिवृत्ती स्वाश्रये तस्य नियमः स्यात्, यथा भूतानां गुणान्तरनिमित्ता प्रवृत्तिर् गुणप्रतिबन्धाच् च निवृत्तिर् भूतमात्रे भवति नियमेन, एवं भूतमात्रे ज्ञानेच्छाद्वेषनिमित्ते प्रवृत्तिनिवृत्ती स्वाश्रये स्याताम्, न तु भवतः तस्मात् प्रयोजकाश्रिता ज्ञानेच्छाद्वेषप्रयत्नाः, प्रयोज्याश्रये तु प्रवृत्तिनिवृत्तीति सिद्धम्।
% प्.871
एकशरीरे तु ज्ञातृबहुत्वं निरनुमानम्। भूतचैतनिकस्यैकशरीरे बहूनि भूतानि ज्ञानेच्छाद्वेषप्रयत्नगुणानीति ज्ञातृबहुत्वं प्राप्तम्। ओम् इति ब्रुवतः प्रमाणं नास्ति, यथा नानाशरीरेषु नाना ज्ञातारो बुद्ध्यादिगुणव्यवस्थानात्, एवम् एकशरीरे ऽपि बुद्ध्यादिव्यवस्थानुमानं स्याज् ज्ञातृबहुत्वस्येति।
% प्.872
दृष्टश् च अन्यगुणनिमित्तः प्रवृत्तिविशेषो भूतानां सो ऽनुमानम् अन्यत्रापि। दृष्टः करणलक्षणेषु भूतेषु परश्वादिषु उपादानलक्षणेषु च मृत्प्रभृतिष्व् अन्यगुणनिमित्तः प्रवृत्तिविशेषः। सो ऽनुमानम् अन्यत्रापि त्रसस्थावरशरीरेषु। तदवयवव्यूहलिङ्गः प्रवृत्तिविशेषो भूतानाम् अन्यगुणनिमित्त इति। स च गुणः प्रयत्नसमानाश्रयः संस्कारो धर्माधर्मसमाख्यातः सर्वार्थः पुरुषार्थाराधनाय प्रयोजको भूतानां प्रयत्नवद् इति।
आत्मास्तित्वहेतुभिर् आत्मनित्यत्वहेतुभिश् च भूतचैतन्यप्रतिषेधः कृतो वेदितव्यः। ``नेन्द्रियार्थयोस् तद्विनाशे ऽपि ज्जानावस्थानाद्ऽऽइति च समानः प्रतिषेध इति। क्रियामात्रं क्रियोपरममात्रं चारम्भनिवृत्ती इत्य् अभिप्रेत्योक्तम् ``तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधःऽऽ। अन्यथा त्व् इमे आरम्भनिवृत्ती आख्याते, न च तथाविधे पृथिव्यादिषु दृश्येते। तस्माद् अयुक्तम् ``तल्लिङ्गत्वाद् इच्छाद्वेषयोः पार्थिवाद्येष्व् अप्रतिषेधऽऽइति॥37
********************** न्य्स्भ्_3,2.38 **********************
% प्.873
भूतेन्द्रियमनसां समानः प्रतिषेधः, मनस् तूदाहरणमात्रम्।
न्य्स्_3,2.38: यथोक्तहेतुत्वात् पारतन्त्र्याद् अकृताभ्यागमाच् च न मनसः ॥
``इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्य् आत्मनो लिङ्गम्ऽऽइत्य् अतः प्रभृति यथोक्तं सङ्गृह्यते, तेन भूतेन्द्रियमनसां चैतन्यप्रतिषेधः।
पारतन्त्र्यात् --- परतन्त्राणि भूतेन्द्रियमनांसि धारणप्रेरणव्यूहनक्रियासु प्रयत्नवशात् प्रवर्त्तन्ते, चैतन्ये पुनः स्वतन्त्राणि स्युर् इति।
% प्.874
अकृताभ्यागमाच् च --- ``प्रवृत्तिर् वाग्बुद्धिशरीरारम्भऽऽइति चैतन्ये भूतेन्द्रियमनसां परकृतं कर्म पुरुषेणोपभुज्यत इति स्यात्, अचैतन्ये तु तत्साधनस्य स्वकृतकर्मफलोपभोगः पुरुषस्येत्य् उपपद्यत इति
********************** न्य्स्भ्_3,2.39 **********************
% प्.875
अथायं सिद्धोपसंग्रहः ---
न्य्स्_3,2.39: परिशेषाद् यथोक्तहेतूपपत्तेश् च ॥
आत्मगुणो ज्ञानम् इति प्रकृतम्। परिशेषो नाम `प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गाच् छिष्यमाणे सम्प्रत्ययःऽऽ। भूतेन्द्रियमनसां प्रतिषेधे द्रव्यान्तरं न प्रसज्यते शिष्यते चात्मा तस्य गुणो ज्ञानम् इति ज्ञायते।
यथोक्तहेतूपपत्तेश् चेति ``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽइत्येवमादीनाम् आत्मप्रतिपत्तिहेतूनाम् अप्रतिषेधाद् इति। परिशेषज्ञापनार्थं प्रकृतस्थापनादिज्ञानार्थं च यथोक्तहेतूपपत्तिवचनम् इति।
अथ वा उपपत्तेश् चेति हेत्वन्तरम् एवेदम्। नित्यः खल्व् अयम् आत्मा, यस्माद् एकस्मिन् शरीरे धर्मं चरित्वा कायस्य भेदात् स्वर्गे देवेषूपपद्यते, अधर्मं चरित्वा देहभेदात् नरकेषूपपद्यत इति। उपपत्तिः शरीरान्तरप्राप्तिलक्षणा, सा सति सत्त्वे नित्ये चाश्रयवती, बुद्धिप्रबन्धमात्रे तु निरात्मके निराश्रया नोपपद्यत इति। एकसत्त्वाधिष्ठानश् चानेकशरीरयोगः संसार उपपद्यते, शरीरप्रबन्धोच्छेदश् चापवर्गो मुक्तिर् इत्य् उपपद्यते। बुद्धिसन्ततिमात्रे त्व् एकसत्त्वानुपपत्तेर् न कश्चिद् दीर्घम् अध्वानं सन्धावति न कश्चिच् छरीरप्रबन्धाद् विमुच्यत इति संसारापवर्गानुपपत्तिर् इति। बुद्धिसन्ततिमात्रे च सत्त्वभेदात् सर्वम् इदं प्राणिव्यवहारजातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,
% -जातम् अप्रतिसंहितम् अव्यावृत्तम् अपरिनिष्ठं च स्यात्,] प्.876
ततः स्मरणाभावात् नान्यदृष्टम् अन्यः स्मरतीति। स्मरणं च खलु पूर्वज्ञातस्य समानेन ज्ञात्रा ग्रहणम् अज्ञासिषम् अमुम् अर्थं ज्ञेयम् इति। सो .यम् एको ज्ञाता पूर्वज्ञातम् अर्थं गृह्णाति तच् चास्य ग्रहणं स्मरणम् इति, तद् बुद्धिप्रबन्धमात्रे निरात्मके नोपपद्यते
********************** न्य्स्भ्_3,2.40 **********************
न्य्स्_3,2.40: स्मरणं त्व् आत्मनो ज्ञस्वाभाव्यात् ॥
उपपद्यत इति। आत्मन एव स्मरणं न बुद्धिसन्ततिमात्रस्येति। तुशब्दो ऽवधारणे। कथम्? ज्ञस्वभावत्वात्। ज्ञ इति अस्य स्वभावः स्वो धर्मः। अयं खलु ज्ञास्यति जानाति अज्ञासीद् इति त्रिकालविषयेणानेकेन ज्ञानेन सम्बध्यते,
% ज्ञास्यति जानाति ... सम्बध्यते,] प्.877
तच् चास्य त्रिकालविषयं ज्ञानं प्रत्यात्मवेदनीयं ज्ञास्यामि जानामि अज्ञासिषम् इति वर्त्तते, तद् यस्यायं स्वो धर्मस् तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति
********************** न्य्स्भ्_3,2.41 **********************
स्मृतिहेतूनाम् अयौगपद्याद् युगपद् अस्मरणम् इत्य् उक्तम्। अथ केभ्यः स्मृतिर् उत्पद्यत इति? स्मृतिः खलु ---
न्य्स्_3,2.41: प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ॥
सुस्मूर्षया मनसो धारणं प्रणिधानं सुस्मूर्षितलिङ्गचिन्तनं चार्थस्मृतिकारणम्। निबन्धः खल्व् एकग्रन्थोपयमो ऽर्थानाम्, एकग्रन्थोपयताः खल्व् अर्था अन्योन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति।
% आनुपूर्व्येणेतरथा वा भवतीति।] प्.878
धारणशास्त्रकृतो वा प्रज्ञातेषु वस्तुषु स्मर्तव्यानाम् उपनिक्षेपो निबन्ध इति।
अभ्यासस् तु समाने विषये ज्ञानानाम् अभ्यावृत्तिः, अभ्यासजनितः संस्कार आत्मगुणो ऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति।
लिङ्गं पुनः संयोगि समवाय्य् एकार्थसमवायि विरोधि चेति। यथा धूमो ऽग्नेः, गोर् विषाणम्, पाणिः पादस्य, रूपं स्पर्शस्य अभूतं भूतस्येति।
लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः, विदानाम् इदं गर्गाणाम् इदम् इति। सादृश्यं चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादि। परिग्रहात् स्वेन वा स्वामी स्वामिना वा स्वं स्मर्यते। आश्रयाद् ग्रामण्या तदधीनं संस्मरति। आश्रितात् तदधीनेन ग्रामण्यम् इति। सम्बन्धाद् अन्तेवासिना युक्तं गुरुं स्मरति, ऋत्विजा याज्यम् इति।
% याज्यम् इति।] प्.879
आनन्तर्याद् इति करणीयेष्व् अर्थेषु। वियोगाद् येन वियुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति। एककार्यात् कर्त्रन्तरदर्शनात् कर्त्रन्तरे स्मृतिः। विरोधात्, विजिगीषमाणयोर् अन्यतरदर्शनाद् अन्यतरः स्मर्यते। अतिशयाद् येनातिशय उत्पादितः। प्राप्तेः यतो ऽनेन किंचित् प्राप्तम् आप्तव्यं वा भवति तम् अभीक्ष्णं स्मरति। व्यवधानात् कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते।
% कोशादिभिर् असिप्रभृतीनि स्मर्यन्ते।] प्.880
सुखदुःखाभ्यां तद्धेतुः स्मर्यते। इच्छाद्वेषाभ्यां यम् इच्छति यं च द्वेष्टि तं स्मरति। भयाद् यतो बिभेति। अर्थित्वाद् येनार्थी भोजनेनाच्छादनेन वा। क्रियया रथेन रथकारं स्मरति। रागाद् यस्यां स्त्रियां रक्तो भवति ताम् अभीक्ष्णं स्मरति। धर्माज् जात्यन्तरस्मरणम् इह चाधीतश्रुतावधारणम् इति। अधर्मात् प्रागनुभूतदुःखसाधनं स्मरति। न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपद् अस्मरणम् इति। निदर्शनं चेदं स्मृतिहेतूनां न परिसङ्ख्यानम् इति
********************** न्य्स्भ्_3,2.42 **********************
% प्.881
अनित्यायां च बुद्धाव् उत्पन्नापवर्गित्वात् कालान्तरावास्थानाच् च अनित्यानां संशयः किम् उत्पत्पन्नापवर्गिणी बुद्धिः शब्दवत् आहोस्वित् कालान्तरावस्थायिनी कुम्भवद् इति। उत्पन्नापवर्गिणीति पक्षः परिगृह्यते।कस्मात्?
न्य्स्_3,2.42: कर्मानवस्थायिग्रहणात् ॥
कर्मणो ऽनवस्थायिनो ग्रहणाद् इति। क्षिप्तस्येषोर् आपतनात् क्रियासन्तानो गृह्यते, प्रत्यर्थनियमाच् च बुद्धीनां क्रियासन्तानवद् बुद्धिसन्तानोउपपत्तिर् इति। अवस्थितग्रहणे च व्यवधीयमानस्य प्रत्यक्शनिवृत्तेः। अवस्थिते च कुम्भे गृह्यमाणे सन्तानेनैव बुद्धिर् वर्तते प्राग् व्यवधानात् तेन व्यवहिते प्रत्यक्षं ज्ञानं निवर्तते,
% सन्तानेन इव बुद्धिर् ... ज्,जानं निवर्तते,] प्.882
कालान्तरावस्थाने तु बुद्धेर् दृश्यव्यवधाने ऽपि प्रत्यक्षम् अवतिष्ठेतेति।
स्मृतिश् चालिङ्गं बुद्ध्यवस्थाने संस्कारस्य बुद्धिजस्य स्मृतिहेतुत्वात्। यश् च मन्येत अवतिष्ठते बुद्धिः दृष्टा हि बुद्धिविषये स्मृतिः सा च बुद्धाव् अनित्यायां कारणाभावान् न स्याद् इति। तद् इदम् अलिङ्गम्। कस्मात्? बुद्धिजो हि संस्कारो गुणान्तरं स्मृतिहेतुर् न बुद्धिर् इति।
% प्.884
हेत्वभावाद् अयुक्तम् इति चेत्? बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः।यावद् अवतिष्ठते बुद्धिस् तावद् असौ बोद्धव्यार्थिः प्रत्यक्षः प्रत्य्स्क्षे च स्मृतिर् अनुपपन्न इति
********************** न्य्स्भ्_3,2.43 **********************
न्य्स्_3,2.43: अव्यक्तग्रहणम् अनवस्थायित्वाद् विद्युत्सम्पाते रूपाव्यक्तग्रहण्वत् ॥
यद्य् उत्पन्नापवर्गिणी बुद्धिः प्राप्तम् अव्यक्तं बोद्धव्यस्य ग्रहणम्, यथा विद्युत्सम्पाते वैद्युतस्य प्रकाशस्यानवस्थानाद् अव्यक्तं रूपग्रहणम् इति; व्यक्तं तु द्रव्याणां ग्रहणं तस्माद् अयुक्तम् एतद् इति
********************** न्य्स्भ्_3,2.44 **********************
न्य्स्_3,2.44: हेतूपादनात् प्रतिषेद्धव्याभ्यनुज्ञा ॥
उतपन्नापवर्गिणी बुद्धिर् इति प्रतिषेद्धव्यं तद् एव अभ्यनुज्ञायते विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति।
% प्.885
यत्राव्यक्तग्रहणं तत्रोत्पन्नापवर्गिणी बुद्धिर् इति। ग्रहणहेतुविकल्पाद् ग्रहणविकल्पो न बुद्धिविकल्पात्। यद् इदं क्वचिद् अव्यक्तं क्वचिद् व्यक्तं ग्रहणम् अयं विकल्पो ग्रहणहेतुविकल्पात् यत्रानवस्थितो ग्रहणहेतुः तत्राव्यक्तं ग्रहणम् यत्र अवस्थितस् तत्र व्यक्तम्, न तु बुद्धेर् अवस्थानानवस्थानाभ्याम् इति। कस्मात्? अर्थग्र्हणं हि बुद्धिः यत् तदर्थग्रहणम् अव्यक्तं व्यक्तं वा बुद्धिः सा इति। विशेषाग्रहणे च सामान्यग्रहणमात्रम् अव्यक्तग्रहणं तत्र विषयान्तरे बुद्ध्यनतरानुत्पत्तिर् निमित्ताभावात्। यत्र समानधर्मयुक्तश् च धर्मी गृह्यते विशेषधर्मयुक्तश् च तद् व्यक्तम् ग्रहणम्, यत्र तु विशेषे ऽगृह्यमाणे सामान्यग्रहणमात्रं तद् अव्यक्तं ग्रहणम्। समानधर्मयोगाच् च विशिष्थधर्मयोगो विषयान्तरम्, तत्र यद् ग्रहणं न भवति तद् ग्रहणनिमित्ताभावाद् न बुद्धेर् अनवस्थानाद् इति।
% प्.886
यथाविषयं च ग्रहणं व्यक्तम् एव प्रत्यर्थनियतत्वाच् च बुद्धीनाम्। सामान्यविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं विशेषविषयं च ग्रहणं स्वविषयं प्रति व्यक्तं प्रत्यर्थनियता हि बुद्धयः, तद् इदम् अव्यक्तग्रहणं देशितं क्व विषये बुद्ध्यनवस्थानकारितं स्य्यद् इति?
धर्मिणस् तु धर्मभेदे बुद्धिनानात्वस्य भावाभावाभ्यां तदुपपत्तिः।धर्मिणः खल्व् अर्थस्य समानाश् च धर्मा विशिष्टाश् च, तेषु प्रत्यर्थनियता नानाबुद्दयः, ता उभयो यदि धर्मिणि वर्तन्ते तदा व्यकतं ग्रहणं धर्मिणम् अभिप्रेत्य। यदा तु सामान्यग्रहणमात्रं तदाव्यक्तं ग्रहणम् इति। एवं धर्मिणम् अभिप्रेत्य व्यक्ताव्यकतयोर् ग्रहणयोर् उपपत्तिर् इति
********************** न्य्स्भ्_3,2.45 **********************
% प्.887
न चेदम् अव्यक्तं ग्रहणं बुद्देर् बोद्धव्यस्य वानवस्थायित्वाद् उपपद्यते इति। इदं हि ---
न्य्स्_3,2.45: न प्रदीपार्चिःसन्तत्त्सभिव्यक्तग्रहणवत् तद्ग्रहणम् ॥
अनवस्थायित्वे ऽपि बुद्धेस् तेषां ग्रहणं व्यक्तं प्रतिपत्तव्यम्। कथम्? प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्। प्रदीपार्चिषां सन्तत्या वर्तमानानां ग्रहणानवस्थानं ग्राह्यानवस्थानं च प्रत्यर्थनियतत्वाद् बुद्धीनां यावन्ति प्रदीपार्चींषि तावत्यो बुद्दय इति। दृश्यते चात्र व्यक्तं प्रदीपार्चिषाम् ग्रहणम् इति
********************** न्य्स्भ्_3,2.46 **********************
% प्.888
चेतना शरीरगुणः सति शरीरे भावाद् असति च अभावाद् इति
न्य्स्_3,2.46: द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ॥
सांशयिकः सति भावः, स्वगुणो ऽप्सु द्रवत्वम् उपलभ्यते, परगुणश् चोष्णता, तेनायं संशयः किं शरीरगुणश् चेतना शरीरे गृह्यत अथ द्रव्यान्तरगुण इति
********************** न्य्स्भ्_3,2.47 **********************
न शरीरगुणश् चेतना, कस्मात्?
न्य्स्_3,2.47: यावद् द्रव्यभावित्वाद् रूपादीनाम् ॥
न रूपादिहीनं शरीरं गृह्यते चेतनाहीनन् तु गृह्यते यथोष्णताहीना आपः, तस्मान् न शरीरगुणश् चेतनेति।
% प्.889
संस्कारवद् इति चेद् न कारणानुच्छेदात्। यथाविधे द्रव्ये संस्कारः तथाविध एवोपरमो न, तत्र कारणोच्छेदाद् अत्यन्तं संस्कारानुपपत्तिर् भवति। यथाविधे शरीरे चेतना गृह्यते तथाविधे एवात्यन्तोपरमश् चेतनाया गृह्यते। तस्मात् संस्कारवद् इत्य् असमः समाधिः।
अथापि शरीरस्थं चेतनोत्पत्तिकारणं स्यात्? द्रव्यान्तरस्थं वा? उभयस्थं वा? तन् न, नियमहेत्वभावात्। शरीरस्थेन कदाचिच् चेतनोत्पद्यते कदाचिन् नेति नियमे हेतुर् नास्तीति। द्रव्यान्तरस्थेन च शरीर एव चेतनोत्पद्यते न लोष्टादिष्व् इत्य् अत्र न नियमे हेतुर् अस्तीति। उभयस्थस्य निमित्तत्वे शरीरसमानजातीयद्रव्ये चेतना नोत्पद्यते शरीर एव चोत्पद्यते इति नियमे हेतुर् नास्तीति
********************** न्य्स्भ्_3,2.48 **********************
% प्.890
यच् च मन्येत सति श्यामादिगुणे द्रव्ये श्यामाद्युपरमो दृष्टः एवं चेतनोपरमः स्याद् इति ---
न्य्स्_3,2.48: न, पाकजगुणान्तरोत्पत्तेः ॥
नात्यन्तं रूपोपरमो द्रव्यस्य, श्यामे रूपे निवृत्ते पाकजं गुणान्तरं रक्तं रूपम् उत्पद्यते, शरीरे तु चेतनामात्रोपरमो ऽत्यन्तम् इति
********************** न्य्स्भ्_3,2.49 **********************
% प्.891
अथापि ---
न्य्स्_3,2.49: प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः ॥
यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस् तावत्सु पाकजोत्पत्तिर् दृश्यते पूर्वगुणैः सह पाकजानाम् अवस्थानस्याग्रहणात्। न च शरीरे चेतनाप्रतिद्वन्द्विसिद्धौ सहानवस्थायि गुणान्तरं गृह्यते येनानुमीयेत तेन चेतनाया विरोधः। तस्माद् अप्रतिषिद्धा चेतना यावच् छरीरं वर्तेत, न तु वर्तते, तस्मान् न शरीरगुणश् चेतना इति
********************** न्य्स्भ्_3,2.50 **********************
% प्.892
इतश् च न शरीरगुणश् चेतना ---
न्य्स्_3,2.50: शरीरव्यापित्वात् ॥
शरीरं शरीरावयवाश् च सर्वे चेतनोत्पत्त्या व्याप्ता इति न क्वचिद् अनुत्पत्तिश् चेतनायाः, शरीरवच् छरीरावयवाश् चेतना इति प्राप्तं चेतनबहुत्वम्। तत्र यथा प्रतिशरीरं चेतनबहुत्वे सुखदुःखज्ञानानां व्यवस्था लिङ्गम् एवम् एकशरीरे ऽपि स्यात्, न तु भवति, तस्मान् न शरीरगुणश् चेतनेति
********************** न्य्स्भ्_3,2.51 **********************
यद् उक्तं न क्वचिच् छरीरावयवे चेतनाया अनुत्पत्तिर् इति सा ---
न्य्स्_3,2.51: न केशनखादिष्व् अनुपलब्धेः ॥
केशेषु नखादिषु चानुत्पत्तिश् चेतनाया इति अनुपपन्नं शरीरव्यापित्वम् इति
********************** न्य्स्भ्_3,2.52 **********************
% प्.893
न्य्स्_3,2.52: त्वक्पर्यन्तत्वाच् छरीरस्य केशनखादिष्व् अप्रसङ्गः ॥
इन्द्रियाश्रयत्वं शरीरलक्षणम्, त्वक्पर्यन्तं जीवमनःसुखदुःखसंवित्त्यायतनभूतं शरीरम्, तस्मान् न केशादिषु चेतनोत्पद्यते। अर्थकारितस् तु शरीरोपनिबन्धः केशादीनाम् इति
********************** न्य्स्भ्_3,2.53 **********************
इतश् च न शरीरगुणश् चेतना ---
न्य्स्_3,2.53: शरीरगुनवैधर्म्यात् ॥
% प्.894
द्विविधः शरीरगुणः --- अप्रत्यक्षश् च गुरुत्वम्, इन्द्रियग्राह्यश् च रूपादिः, विधान्तरं तु चेतना, नाप्रत्यक्षा संवेद्यत्वात्, नेन्द्रियग्राह्या मनोविषयत्वात्। तस्माद् द्रव्यान्तरगुण इति
********************** न्य्स्भ्_3,2.54 **********************
न्य्स्_3,2.54: न रूपादीनाम् इतरेतरवैधर्म्यात् ॥
यथा इतरेतरविधर्माणो रूपादयो न शरीरगुणत्वं जहत्य् एवं रूपादिवैधर्म्याच् चेतना शरीरगुणत्वं न हास्यतीति
********************** न्य्स्भ्_3,2.55 **********************
% प्.895
न्य्स्_3,2.55: ऐन्द्रियकत्वाद् रूपादीनाम् अप्रतिषेधः ॥
अप्रत्यक्सत्वाच् चेति। यथेतरेतरविधर्माणो रूपादयो न द्वैविध्यम् अतिवर्तन्ते तथा रूपादिवैधर्म्याच् चेतना न द्वैविध्यम् अतिवर्तेत यदि शरीरगुणः स्याद् इति। अतिवर्त्तते तु, तस्मान् न शरीरगुण इति।
भूतेन्द्रियमनसां ज्ञानप्रतिषेधात् सिद्धे सत्य् आरम्भो विशेषज्ञापनार्थः, बहुधा परीक्ष्यमाणं तत्त्वं सुनिश्चिततरं भवतीति
********************** न्य्स्भ्_3,2.56 **********************
% प्.896
परीक्षिता बुद्धिः, मनस इदानीं परीक्षाक्रमः। तत् किं प्रतिशरीरम् एकम् अनेकम् इति विचारे ---
न्य्स्_3,2.56: ज्ञानायौगपद्याद् एकं मनः ॥
अस्ति खलु वै ज्ञानायौगपद्यम् एकैकस्येन्द्रियस्य यथाविषयम्, करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात्, न तदेकत्वे मनसो लिङ्गम्। यत् तु खल्व् इदम् इन्द्रियान्तराणां विषयान्तरेषु ज्ञानायौगपद्यम् इति तल् लिङ्गम्। कस्मात्? सम्भवति खलु वै बहुषु मनःस्व् इन्द्रियमनःसंयोगयौगपद्यम् इति ज्ञानयौगपद्यं स्यात्, न तु भवति। तस्माद् विषये प्रत्ययपर्यायाद् एकं मनः
********************** न्य्स्भ्_3,2.57 **********************
% प्.897
न्य्स्_3,2.57: न युगपद् अनेकक्रियोपलब्धेः ॥
अयं खल्व् अध्यापको ऽधीते व्रजति कमण्डलुं धारयति पन्थानं पश्यति शृणोत्य् आरण्यजान् शब्दान् बिभ्यद् व्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयम् इति। क्रमस्याग्रहणाद् युगपद् एताः क्रिया इति प्राप्तं मनसो बहुत्वम् इति
********************** न्य्स्भ्_3,2.58 **********************
न्य्स्_3,2.58: अलातचक्रदर्शनवत् तदुपलब्धिर् आशुसञ्चारात् ॥
आशुसञ्चाराद् अलातस्य भ्रमतो विद्यमानः क्रमो न गृह्यते। क्रमस्याग्रहणाद् अविच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति।
% -विच्छेदबुद्ध्या चक्रवद् बुद्धिर् भवतीति।] प्.898
तथा बुद्धीनां क्रियाणां चाशुवृत्तित्वाद् विद्यमानः क्रमो न गृह्यते क्रमस्याग्रहणाद् युगपत् क्रिया भवन्न्तीत्य् अभिमानो भवति।
किं पुनः क्रमस्याग्रहणाद् युगपत् क्रियाभिमानः, अथ युगपद्भावाद् एव युगपदनेकक्रियोपलब्धिर् इति नात्र विशेषप्रतिपत्तेः कारणम् उच्यत इति। उक्तम् इन्द्रियान्तराणां विषयान्तरेषु पर्यायेण बुद्धयो भवन्तीति तच् चाप्रत्याख्येयम् आत्मप्रत्यक्षत्वात्। अथापि दृष्टश्रुतान् अर्थान् चिन्तयतः क्रमेण बुद्धयो वर्तन्ते न युगपद् अनेनानुमातव्यम् इति। वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनां चाशुवृत्तित्वात् क्रमस्याग्रहणम्। कथम्? वाक्यस्थेषु खलु वर्णेषूच्चरत्सु प्रतिवर्णं तावच् छ्रवणं भवति, श्रुतं वर्णम् एकम् अनेकं वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृत्या पदार्थं प्रतिपद्यते, पदसमूहप्रतिसन्धानाच् च वाक्यं व्यवस्यति, सम्बद्धांश् च पदार्थान् गृहीत्वा वाक्यार्थं प्रतिपद्यते। न चासां क्रमेण वर्तमानानां बुद्धीनाम् आशुवृत्तित्वात् क्रमो गृह्यते, तद् एतद् अनुमानम् अन्यत्र बुद्धिक्रियायौगपद्याभिमानस्येति। न चास्ति मुक्तसंशया युगपद् उत्पत्तिर् बुद्धीनां यया मनसां बहुत्वम् एकशरीरे ऽनुमीयेत इति
********************** न्य्स्भ्_3,2.59 **********************
% प्.899
न्य्स्_3,2.59: यथोक्तहेतुत्वाच् चाणु ॥
अणु मन एकं चेति धर्मसमुच्चयो ज्ञानायौगपद्यात्। महत्त्वे मनसः सर्वेन्द्रियसंयोगाद् युगपद् विषयग्रहणं स्याद् इति
********************** न्य्स्भ्_3,2.60 **********************
मनसः खलु भोः सेन्द्रियस्य शरीरे वृत्तिलाभो नान्यत्र शरीरात्। ज्ञातुश् च पुरुषस्य शरीरायतना बुद्ध्यादयो विषयोपभोगो जिहासितहानम् ईप्सितावाप्तिश् च सर्वे च शरीराश्रया व्यवहाराः। तत्र खलु विप्रतिपत्तेः संशयः --- किम् अयं पुरुषकर्मनिमित्तः शरीरसर्ग आहोस्विद् भूतमात्राद् अकर्मनिमित्त इति। श्रूयते खल्व् अत्र विप्रतिपत्तिर् इति।
तत्रेदं तत्त्वम् ---
न्य्स्_3,2.60: पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ॥
पूर्वशरीरे या प्रवृत्तिर् वाग्बुद्धिशरीरारम्भलक्षणा तत् पूर्वकृतं कर्मोक्तम्, तस्य फलं तज्जनितौ धर्माधर्मौ।
% तज्जनितौ धर्माधर्मौ।] प्.900
तत्फलस्यानुबन्ध आत्मसमवेतस्यावस्थानम्, तेन प्रयुक्तेभ्यो भूएब्यस् तस्योत्पत्तिः शरीरस्य, न स्वतन्त्रेभ्य इति। यद् अधिष्ठानो ऽयम् आत्मा ऽयम् अहम् इति मन्यमानो यत्राभियुक्तो यत्रोपभोगतृष्णया विषयानुपलभमानो धर्माधर्मौ संस्करोति तद् अस्य शरीरम्, तेन संस्कारेण धर्माधर्मलक्षणेन भूतसहिते पतिते ऽस्मिन् शरीर उत्तरं निष्पद्यते, निष्पन्नस्य चास्य पूर्वशरीरवत् पुरुषार्थक्रिया, पुरुषस्य च पूर्वशरीरवत् प्रवृत्तिर् इति कर्मापेक्षेभ्यो भूतेभ्यः शरीरसर्गे सत्य् एतद् उपपद्यत इति।
% प्रवृत्तिर् इति कर्मापेक्षेभ्यो ... उपपद्यत इति।] प्.901
दृष्टा च पुरुषगुणेन प्रयत्नेन प्रयुक्तेभ्यो भूतेभ्यः पुरुषार्थ्क्रियासमर्थानां द्रव्याणां रथप्रभृतीनाम् उत्पत्तिः। तथानुमातव्यं शरीरम् अपि पुरुषार्थक्रियासमर्थम् उत्पद्यमानं पुरुषस्य गुणान्तरापेक्षेभ्यो भूतेभ्य उत्पद्यत इति
********************** न्य्स्भ्_3,2.61 **********************
% प्.902
अत्र नास्तिक आह ---
न्य्स्_3,2.61: भूतेभ्यो मूर्त्युपादानवत् तदुपादानम् ॥
यथा कर्मनिरपेक्षेभ्यो भूतेभ्यो निर्वृत्ता मूर्तयः सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतयः पुरुषार्थकारित्वाद् उपादीयन्ते तथा कर्मनिरपेक्षेभ्यो भूतेभ्यः शरीरम् उत्पन्नं पुरुषार्थकारित्वाद् उपादीयते इति
********************** न्य्स्भ्_3,2.62 **********************
न्य्स्_3,2.62: न, साध्यसमत्वात् ॥
यथा शरीरोत्पत्तिर् अकर्मनिमित्ता साध्या तथा सिकताशर्करापाषाणगैरिकाञ्जनप्रभृतीनाम् अप्य् अकर्मनिमित्तः सर्गः साध्यः साध्यसमत्वाद् असाधनम् इति ``भूतेभ्यो मूर्त्युपादानवद्ऽऽ इति चानेन साध्यम्
********************** न्य्स्भ्_3,2.63 **********************
% प्.903
न्य्स्_3,2.63: नोत्पत्तिनिमित्तत्वान् मातापित्रोः ॥
विषमश् चायम् उपन्यासः। कस्मात्? निर्बीजा इमा मूर्तय उत्पद्यन्ते बीजपूर्विका तु शरीरोत्पत्तिः। मातापितृशब्देन लोहितरेतसी बीजभूते गृह्येते। तत्र सत्त्वस्य गर्भवासानुभवनीयं कर्म पित्रोश् च पुत्रफलानुभवनीये कर्मणी मातुर् गर्भाश्रये शरीरोत्पत्तिं भूतेभ्यः प्रयोजयन्तीत्य् उपपन्नं बीजानुविधानम् इति
********************** न्य्स्भ्_3,2.64 **********************
% प्.904
न्य्स्_3,2.64: तथाहारस्य ॥
उत्पत्तिनिमित्तत्वाद् इति प्रकृतम्। भुक्तं पीतम् आहारः तस्य पक्तिनिर्वृत्तं रसद्रव्यं मातृशरीरे चोपचीयते बीजे गर्भाशयस्थे बीजसमानपाकम्, मात्रया चोपचयो बीजे यावद् व्यूहसमर्थः सञ्चय इति। सञ्चितं च कललार्बुदमांसपेशीकण्डराशिरःपाण्यादिना च व्यूहेनेन्द्रियाधिष्ठानभेदेन व्युह्यते, व्यूहे च गर्भनाड्यावतारितं रसद्रव्यम् उपचीयते यावत् प्रसवसमर्थम् इति। न चायम् अन्नपानस्य स्थाल्यादिगतस्य कल्पत इति। एतस्मात् कारणात् कर्मनिमित्तत्वं शरीरस्य विज्ञायत इति
********************** न्य्स्भ्_3,2.65 **********************
% प्.905
न्य्स्_3,2.65: प्राप्तौ चानियमात् ॥
न सर्वो दम्पत्योः संयोगो गर्भाधानहेतुर् दृश्यते तत्रासति कर्मणि न भवति सति च भवतीत्य् अनुपपन्नो नियमाभाव इति। कर्मनिरपेक्षेषु भूतेषु शरीरोत्पत्तिहेतुषु नियमः स्यात् न ह्य् अत्र कारणाभाव इति
********************** न्य्स्भ्_3,2.66 **********************
% प्.906
अथापि ---
न्य्स्_3,2.66: शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ॥
यथा खल्व् इदं शरीरं धातुप्राणसंवाहिनीनां नाडीनां शुक्रान्तानां धातूनां च स्नायुत्वगस्थिशिरापेशीकललकण्डराणां च शिरोबाहूदराणां सक्थ्नां च कोष्ठगानां वातपित्तकफानां च मुखहृदयामाशयपक्वाशयाधःस्रोतसां च परमदुःखसम्पादनीयेन सन्निवेशेन व्यूहनम् अशक्यं पृथिव्यादिभिः कर्मनिरपेक्षैर् उत्पादयितुम् इति कर्मनिमित्ता शरीरोत्पत्तिर् इति विज्ञायते; एवं च प्रत्यात्मनियतस्य निमित्तस्याभावान् निरतिशयैर् आत्मभिः सम्बन्धात् सर्वात्मनां च समानैः पृथिव्यादिभिर् उत्पादितं शरीरं पृथिव्यादिगतस्य च नियमहेतोर् अभावात् सर्वात्मनां सुखदुःखसंवित्त्यायतनं समानं प्राप्तम्। यत् तु प्रत्यात्मं व्यवतिष्ठते तत्र शरीरोत्पत्तिनिमित्तं कर्म व्यवस्ह्ताहेतुर् इति विज्ञायते। परिपच्यमानो हि प्रत्यात्मनियतः कर्माशयो यस्मिन्न् आत्मनि वर्तते तस्यैवोपभोगायतनं शरीरम् उत्पाद्य व्यवस्थापयति। तद् एवं ``शरीरोत्पत्तिनिमित्तवत् संयोगनिमित्तं कर्मऽऽ इति विज्ञायते। प्रत्यात्मव्यवस्थानं तु शरीरस्यात्मना संयोगं प्रचक्ष्मह इति
********************** न्य्स्भ्_3,2.67 **********************
% प्.907
न्य्स्_3,2.67: एतेनानियमः प्रत्युक्तः ॥
यो .यम् अकर्मनिमित्ते शरीरसर्गे सत्य् अनियम इत्य् उच्यते, अयं ``शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्मऽऽ इति अनेन प्रत्युक्तः।
% -निमित्तवत् संयोगोत्पत्तिनिमित्तं ... प्रत्युक्तः।] प्.908
कस् तावद् अयं नियमः? यथैकस्यात्मनः शरीरं तथा सर्वेषाम् इति नियमः। अन्यस्यान्यथान्यस्यान्यथेत्य् अनियमो भेदो व्यावृत्तिर् विशेष इति।
% -त्य् अनियमो भेदो व्यावृत्तिर् विशेष इति।] प्.909
दृष्टा च जन्मव्यावृत्तिर् उच्चाभिजनो निकृष्टाभिजन इति, प्रशस्तं निन्दतम् इति, व्याधिबहुलम् अरोगम् इति, समग्रं विकलम् इति, पीडाबहुलं सुखबहुलम् इति, पुरुषातिशयलक्षणोपपन्नं विपरीतम् इति, प्रशस्तलक्षणं निन्दितलक्षणम् इति, पट्विन्द्रियं मृड्विन्द्रियम् इति। सूक्ष्मश् च भेदो ऽपरिमेयः। सो ऽयम् जन्मभेदः प्रत्यात्मनियतात् कर्मभेदाद् उपपद्यते, असति कर्मभेदे प्रत्यात्मनियते निरतिशयत्वाद् आत्मनां समानत्वाच् च पृथिव्यादीनां पृथिव्यादिगतस्य नियमहेतोर् अह्बावात् सर्वं सर्वात्मनां प्रसज्येत, न त्व् इदम् इत्थम्भूतं जन्म। तस्मान् नाकर्मनित्ता शरीरोत्पत्तिर् इति।
उपपन्नश् च तद्वियोगः कर्मक्षयोपपत्तेः। कर्मनिमित्ते शरीरसर्गे तेन शरीरेणात्मनो वियोग उपपन्नः। कस्मात्? कर्मक्षयोपपत्तेः। उपपद्यते खलु कर्मक्षयः सम्यग्दर्शनात् प्रक्षीणे मोहे वीतरागः पुनर्भवहेतुकर्म कायवाङ्मनोभिर् न करोतीत्य् उत्तरस्यानुपचयः पूर्वोपचितस्य विपाकप्रतिसंवेदनात् प्रक्षयः। एवं प्रसवहेतोर् अभावात् पतिरे ऽस्मिन् शरीरे पुनः शरीरान्तरानुपपत्तेर् अप्रतिसन्धिः। अकर्मनिमित्ते तु शरीरसर्गे भूतक्षयानुपपत्तेस् तद्वियोगानुपपत्तिर् इति
********************** न्य्स्भ्_3,2.68 **********************
% प्.910
न्य्स्_3,2.68: तद् अदृष्टकारितम् इति चेत् पुनस् तत्प्रसङ्गो ऽपवर्गे ॥
अदर्शनं खल्व् अदृष्टम् इत्य् उच्यत अदृष्टकारिता भूतेभ्यः शरीरोत्पत्तिः। न जात्व् अनुत्पन्ने शरीरे द्रष्टा निरायतनो दृश्यं पश्यति। तच् चास्य दृश्यं द्विविधं विषयश् च नानात्वं चाव्यक्तात्मनः, तदर्थः शरीरसर्गः। तस्मिन्न् अवसिते चरितार्थानि भूतानि न शरीरम् उत्पादयन्तीत्य् उपपन्नः शरीरवियोग इत्य् एवं चेन् मन्यसे, ``पुनस् तत् प्रसङ्गो ऽपवर्गेऽऽ --- पुनः शरीरोत्पत्तिः प्रसज्यत इति। या चानुत्पन्ने शरीरे दर्शनानुत्पत्तिर् अदर्शनाभिमता या चापवर्गे शरीरनिवृत्तौ दर्शनानुत्पत्तिर् अदर्शनभूता नैतयोर् अदर्शनयोः क्वचिद् विशेष इत्य् अदर्शनस्यानिवृत्तेर् अपवर्गे पुनः शरीरोत्पत्तिप्रसङ्ग इति।
% प्.910
चरितार्थता विशेष इति चेत् न करणाकरणयोर् आरम्भदर्शनात्। चरितार्थानि भूतानि दर्शनावसानान् न शरीरान्तरम् आरभन्त इत्य् अयं विशेष एवं चेद् उच्यते; न, करणाकरणयोर् आरम्भदर्शनात् --- चरितार्थानां भूतानां विषयोपलब्धिकरणात् पुनः पुनः शरीरारम्भो दृश्यते प्रकृतिपुरुषयोर् नानात्वदर्शनस्याकरणान् निरर्थकः शरीरारम्भः पुनः पुनर् दृश्यते। तस्माद् अकर्मनिमित्तायां भूतसृष्टौ न दर्शनार्था शरीरोत्पत्तिर् युक्ता, युक्ता तु कर्मनिमित्ते सर्गे दर्शनार्था शरीरोत्पत्तिः। कर्मविपाकसंवेदनं दर्शनम् इति।
% प्.911
तद् अदृष्टकारितम् इति चेत्? कस्यचिद् दर्शनम् अदृष्टं नाम परमाणूनां गुणविशेषः क्रियाहेतुस् तेन प्रेरिताः परमाणवः सम्मूर्च्छिताः शरीरम् उत्पादयन्तीति तन् मनः समाविशति स्वगुणेनादृष्टेन प्रेरितं समनस्के शरीरे द्रष्टुर् उपलब्धिर् भवतीति।
एतस्मिन् वै दर्शने गुणानुच्छेदात् पुनस् तत्प्रसङ्गो ऽपवर्गे। अपवर्गे शरीरोत्पत्तिः परमाणुगुणस्यादृष्टस्यानुच्छेद्यत्वाद् इति
********************** न्य्स्भ्_3,2.69 **********************
% प्.914
न्य्स्_3,2.69: मनःकर्मनिमित्तत्वाच् च संयोगाव्युच्छेदः ॥
मनोगुणेनादृष्टेन समावेशिते मनसि संयोगव्युच्छेदो न स्यात्, तच् च किंकृतं शरीराद् अपसर्पणं मनस इति? कर्माशयक्षये तु कर्माशयान्तराद् विपच्यमानाद् अपसर्पणोपपत्तिर् इति। अदृष्टाद् एवापसर्पणम् इति चेत् --- यो ऽदृष्टः शरीरोपसर्पणहेतुः स एवापसर्पणहेतुर् अपीति? न, एकस्य जीवनप्रायणहेतुत्वानुपपत्तेः --- एवं च सत्य् एकम् अदृष्टं जीवनप्रायणयोर् हेतुर् इति प्राप्तम्, नैतद् उपपद्यते
********************** न्य्स्भ्_3,2.70 **********************
% प्.915
न्य्स्_3,2.70: नित्यत्वप्रसङ्गश् च प्रायणानुपपत्तेः ॥
विपाकसंवेदनात् कर्माशयक्षये शरीरपातः प्रायणम्, कर्माशयान्तराच् च पुनर्जन्म। भूतमात्रात् तु कर्मनिरपेक्षाच् छरीरोत्पत्तौ कस्य क्षयाच् छरीरपातः प्रायणम् इति? प्रायणानुपपत्तेः खलु वै नित्यत्वप्रसङ्गं विद्मः। यादृच्छिके तु प्रायणे प्रायणभेदानुपपत्तिर् इति
********************** न्य्स्भ्_3,2.71**********************
% प्.916
पुनस् तत्प्रसङ्गो ऽपवर्ग इत्य् एतत् समाधित्सुर् आह ---
न्य्स्_3,2.71: अणुश्यामतानित्यत्ववद् एतत् स्यात् ॥
यथाणोः श्यामता नित्या अग्निसंयोगेन प्रतिषिद्धा न पुनर् उत्पद्यत एवम् अदृष्टकारितं शरीरम् अपवर्गे पुनर् नोत्पद्यत इति
********************** न्य्स्भ्_3,2.72 **********************
न्य्स्_3,2.72: नाकृताभ्यागमप्रसङ्गात् ॥
नायम् अस्ति दृष्टान्तः। कस्मात्? अकृताभ्यागमप्रसङ्गात्। अकृतं प्रमाणतो ऽनुपपन्नम्, तस्याभ्यागमो ऽभ्युपपत्तिर् व्यवसायः, एतच्छ्रद्दधानेन प्रमाणतो णुपपन्नं मन्तव्यम्। तस्मान् नायं दृष्टान्तो न प्रत्यक्षं न चानुमानं किंचिद् उच्यत इति। तद् इदं दृष्टान्तस्य साध्यसमत्वम् अभिधीयत इति।
अथ वा नाकृताभ्यागमप्रसङ्गात्। अणुश्यामतादृष्टान्तेनाकर्मनिमित्तां शरीरोत्पत्तिं समादधानस्याकृताभ्यागमप्रसङ्गः। अकृते सुखदुःखहेतौ कर्मणि पुरुषस्य सुखं दुःखम् अभ्यागच्छतीति प्रसज्येत। ओम् इति ब्रुवतः प्रत्यक्षानुमानागमविरोधः।
% प्.917
प्रत्यक्षविरोधस् तावत् --- भिन्नम् इदं सुखदुःखं प्रत्यात्मवेदनीयत्वात् प्रत्यक्षं सर्वशरीरिणाम्। को भेदः? तीव्रं मन्दं चिरम् आशु नानाप्रकारम् एकप्रकारम् इत्य् एवम् आदिर् विशेषः। न चास्ति प्रत्यात्मनियतः सुखदुःखहेतुविशेषः, न चासति हेतुविशेषे फलविशेषो दृश्यते। कर्मनिमित्ते तु सुखदुःखयोगे कर्मणां तीव्रमन्दतोपपत्तेः कर्मसञ्चयानां चोत्कर्षापकर्षभावात् नानाविधैकविधभावाच् च कर्मणां सुखदुःखभेदोपपत्तिः। सो ऽयं हेतुभेदाभावाद् दृष्टः सुखदुःखभेदो न स्याद् इति प्रत्यक्षविरोधः।
तथानुमानविरोधः --- दृष्टं हि पुरुषगुणव्यवस्थानात् सुखदुःखव्यवस्थानम्। यः खलु चेतनावान् साधननिर्वर्तनीयं सुखं बुद्ध्वा तद् ईप्सन् साधनावाप्तये प्रयतते स सुखेन युज्यते न विपरीतः। यश् च साधननिर्वर्तनीयं दुःखं बुद्ध्वा तज् जिहासुः साधनपरिवर्जनाय यतते स च दुःखेन त्यज्यते न विपरीतः। अस्ति चेदं यत्नम् अन्तरेण चेतनानां सुखदुःखव्यवस्थानं तेनापि चेतनगुणान्तरव्यवस्थाकृतेन भवितव्यम् इत्य् अनुमानम्।
% -मानम्।] प्.918
तद् एतद् अकर्मनिमित्ते सुखदुःखयोगे विरुध्यत इति। तच् च गुणान्तरम् असंवेद्यत्वाद् अदृष्टं विपाककालानियमाच् चाव्यवस्थितम्। बुद्ध्यादयस् तु संवेद्याश् चापवर्गिणश् चेति।
अथागमविरोधः --- बहु खल्व् इदम् आर्षम् ऋषीणाम् उपदेशजातम् अनुष्ठानपरिवर्जनाश्रयम्, उपदेशफलं च शरीरिणां वर्णाश्रमविभागेणानुष्ठानलक्षणा प्रवृत्तिः, परिवर्जनलक्षणा निवृत्तिः। तच् चोभयम् एतस्यां दृष्टौ ``नास्ति कर्म सुचरितं दुश्चरितं वा? कर्मनिमित्तः पुरुषाणां सुखदुःखयोगःऽऽ इति विरुध्यते। सेयं पापिष्ठानां मिथ्यादृष्टिः --- अकर्मनिमित्ता शरीरसृष्टिर् अकर्मनिमित्तः सुखदुःखयोग इति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0