भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 5

5.1

% प्.697
तृतीयो ऽध्यायः प्रथमाह्निकम्।
********************** न्य्स्भ्_3,1.1 **********************
परीक्षितानि प्रमाणानि, प्रमेयम् इदानीं परीक्ष्यते। तच् चात्मादीत्य् आत्मा विविच्यते, किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रम् आत्मा आहोस्वित् तद्वयतिरिक्त इति ।
% प्.698
कुतः संशयः व्यपदेश्योभयथा सिद्धेः। क्रियाकरणयोः कर्त्रा सम्बन्धस्याभिधानं व्यपदेशः।
% व्यपदेशः।] प्.709
स द्विविधः, अवयवेन समुदायस्य --- मूलैर् वृक्षस् तिष्ठति, स्तम्भैः प्रासादो ध्रियत इति। अन्येनान्यस्य व्यपदेशः --- परशुना वृश्चति, प्रदीपेन पश्यति। अस्ति चायं व्यपदेशः चक्षुषा पश्यति मनसा विजानाति बुद्ध्या विचारयति शरीरेण सुखदुःखम् अनुभवतीति । तत्र नावधार्यते किम् अवयवेन समुदायस्य देहादिसङ्घातस्य, अथान्येनान्यस्य तद्व्यतिरिक्तस्य वेति॥
% प्.710
अन्येनायम् अनयस्य व्यपदेशः। कस्मात्?
न्य्स्_3,1.1: दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् ॥
दर्शनेन कश्चिद् अर्थो गृहीतः स्पर्शनेनापि सो ऽर्थो गृह्यते --- यम् अहम् अद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति, यं चास्पार्क्षं स्पर्शनेन तं चक्षुषा पश्यामीति। एकविषयौ चेमौ प्रत्ययाव् एककर्तृकौ प्रतिसन्धीयेते,
% चेमौ प्रत्ययाव् ...] प्.711
न च सङ्घातकर्तृकौ, नेन्द्रियेणैककर्तृकौ। तद् यो ऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्ताव् अन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसन्दधाति सो ऽर्थान्तरभूत आत्मा।
% यो ऽसौ चक्षुषा ...] प्.712
कथं पुनर् नेन्द्रियेणैककर्तृकौ? इन्द्रियं खलु स्वस्वविषयग्रहणम् अनन्यकर्तृकं प्रतिसन्धातुम् अर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणम् इति। कथं न सङ्घातकर्तृकौ? एकः खल्व् अयं भिन्ननिमित्तौ स्वात्मकर्तृकौ पर्ययौ प्रतिसंहितौ वेदयते न सङ्घातः। कस्मात्? अनिवृत्तं हि सङ्घाते प्रत्येकं विषयान्तरग्रहणस्याप्रतिसन्धानम् इन्द्रियान्तरेणेवेति

5.2

********************** न्य्स्भ्_3,1.2 **********************
न्य्स्_3,1.2: न विषयव्यवस्थानात् ॥
न देहादिसङ्घाताद् अन्यश् चेतनः। कस्मात्? विषयव्यवस्थानात्। व्यवस्थितविषयाणीन्द्रियाणि, चक्षुष्य् असति रूपं न गृह्यते सति च गृह्यते। यच् च यस्मिन्न् असति न भवति सति भवति तस्य तद् इति विज्ञायते।
% भवति सति भवति ...] प्.713
तस्माद् रूपग्रहणं चक्षुषः, चक्षू रूपं पश्यति। एवं घ्राणादिष्व् अपीति। तानीन्द्रियाणीमानि स्वस्वविषयग्रहणाच् चेतनानि इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावात्। एवं सति किम् अन्येन चेतनेन?
सन्धिग्धत्वाद् अहेतुः --- यो ऽयम् इन्द्रियाणां भावाभावयोर् विषयग्रहणस्य तथाभावः, स किं चेतनत्वात्, आहोस्विच् चेतनोपकरणानां ग्रहणनिमित्तत्वाद् इति सन्दिह्यते। चेतनोपकरणत्वे ऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुम् अर्हति

5.3

********************** न्य्स्भ्_3,1.3 **********************
यच् चोक्तं विषयव्यवस्थानद् इति ---
% प्.714
न्य्स्_3,1.3: तद्व्यवस्थानाद् एवात्मसद्भावाद् अप्रतिषेधः ॥
यदि खल्व् एकम् इन्द्रियम् अव्यवस्थितविषयं सर्वज्ञं सर्वविषयग्राहि चेतनं स्यात् कस् ततो ऽन्यं चेतनम् अनुमातुं शक्नुयात्? यस्मात् तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्यो ऽन्यश् चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितम् अतीतो ऽनुमीयते। तत्रेदम् अभिज्ञानम् अप्रत्याख्येयं चेतनवृत्तम् उदाह्रियते। रूपदर्शी खल्व् अयं रसं गन्धं वा पूर्वगृईतम् अनुमिनोति। गन्धप्रतिसंवेदी च रूपरसाव् अनुमिनोति। एवं विषयशेषे ऽपि वाच्यम्। रूपं दृष्ट्वा (एमेन्द्.; दृष्टा, एद्.) गन्धं जिघ्रति, घ्रात्वा च गन्धं रूपं पश्यति। तद् एवम् अनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणम् अनन्यकर्तृकं प्रतिसन्धत्ते,
% सर्वविषयग्रहणम् ...] प्.715
प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश् च नानाविषयान् स्वात्मकर्तृकान् प्रतिसन्धाय वेदयते, सर्वविषयं च शास्त्रं प्रतिपद्यते, अर्थम् अविषयभूतं श्रोत्रस्य क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावेन प्रतिसन्धाय शब्दार्थव्यवस्थां च बुध्यमानो ऽनेकविषयम् अर्थजातम् अग्रहणीयम् एकैकेनेन्द्रियेण गृह्णाति। सेयं सर्वज्ञस्य ज्ञेयाव्यवस्थानुपदं न शक्या परिक्रमितुम्। आकृतिमात्रं तूदाहृतम्। तत्र यद् उक्तम् इन्द्रियचैतन्ये सति किम् अनेय चेतनेन तद् अयुक्तं भवति

5.4

********************** न्य्स्भ्_3,1.4 **********************
% प्.716
इतश् च देहादिव्यतिरिक्त आत्मा, न देहादिसङ्घातमात्रम्
न्य्स्_3,1.4: शरीरदाहे पातकाभावात् ॥
शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो गृह्यते। प्राणिभूतं शरीरं दहतः प्राणिहिंसाकृतपापं पातकम् इत्य् उच्यते; तस्याभावः, तत्फलेन कर्तुर् असम्बन्धात्, अकर्तुश् च सम्बन्धात्। शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्व् अन्यः सङ्घात उत्पद्यते अन्यो निरुध्यते,
% निरुध्यते,] प्.717
उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं बाधते देहादिसङ्घातस्यान्यत्वाधिष्ठानत्वात्। अन्यत्वाधिष्ठानो ह्य् असौ प्रख्यायत इति। एवं च सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति नासौ हिंसाफलेन सम्बध्यते, यश् च सम्बध्यते न तेन हिंसा कृता। तद् एवं सत्त्वभेदे कृतहानम् अकृताभ्यागमः प्रसज्यते। सति च सत्त्वोत्पादे सत्त्वनिरोधे चाकर्मनिमित्तः सत्त्वसर्सर्गः प्राप्नोति, तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात्। तद् यदि देहादिसङ्घातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्, अनिष्टं चैतत्। तस्माद् देहादिसङ्घातव्यतिरिक्त आत्मा नित्य इति

5.5

********************** न्य्स्भ्_3,1.5 **********************
% प्.720
न्य्स्_3,1.5: तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वात् ॥
यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दग्धुः।
% न भवेद् दग्धुः।] प्.721
कस्मात्? नित्यत्वाद् आत्मनः; न जातु कश्चिन् नित्यं हिंसितुम् अर्हति। अथ हिंस्यते, नित्यत्वम् अस्य न भवति। सेयम् एकस्मिन् पक्षे हिंसा निष्फला अन्यस्मिंस् त्व् अनुपपन्नेति

5.6

********************** न्य्स्भ्_3,1.6 **********************
% प्.724
न्य्स्_3,1.6: न, कार्याश्रयकर्तृवधात् ॥
न ब्रूमो नित्यस्य सत्त्वस्य बधो हिंसा, अपि त्व् अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणाम् उपघातः पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा वधो हिंसेति। कार्यं तु सुखदुःखसंवेदनं तस्यायतनम् अधिष्ठानम् आश्रयः शरीरम्,
% तस्यायतनम् अधिष्ठानम् ...] प्.725
कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश् च कर्तृणाम् इन्द्रियाणां बधो हिंसा, न नित्यस्यात्मनः। तत्र यद् उक्तम् --- ``तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वाद्ऽऽ इत्य् एतद् अयुक्तम्। यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानम् अकृताभ्यागमश् चेति दोषः। एतावच् चैतत् स्यात् --- सत्त्वोच्छेदो वा हिंसा, अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा; न कल्पान्तरम् अस्ति। सत्त्वोच्छेदश् च प्रतिषिद्धः, तत्र किम् अन्यत्? शेषं यथाभूतम् इति।
अथ वा कार्याश्रयकर्तृवधाद् इति, कार्याश्रयो देहेन्द्रियबुद्धिसङ्घातः, नित्यस्यात्मनस् तत्र सुखदुःखप्रतिसंवेदनम्, तस्याधिष्ठानम् आश्रयः तदायतनं तद् भवति न ततो ऽन्यद् इति स एव कर्ता। तन्निमित्ता हि सुखदुःखसंवेदनस्य निवृत्तिः न तम् अन्तरेणेति। तस्य वध उपघातः पीडा प्रमापणम् वा हिंसा न नित्यत्वेनात्मोच्छेदः। तत्र यद् उक्तम् --- ``तदभावः सात्मकप्रदाहे ऽपि तन्नित्यत्वात्ऽऽ एतन् नेति

5.7

********************** न्य्स्भ्_3,1.7 **********************
% प्.726
इतश् च देहादिव्यतिरिक्त आत्मा ---
न्य्स्_3,1.7: सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥
पूर्वपरयोर् विज्ञानयोर् एकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् --- तम् एवैतर्हि पश्यामि यम् अज्ञासिषम् स एवायम् अर्थ इति सव्येन चक्षुषा दृष्टस्येतरेणापि चक्षुषा प्रत्यभिज्ञानाद् यम् अद्राक्षं तम् एवैतर्हि पश्यामीति।
% यम् अद्राक्षं ...] प्.727
इन्द्रियचैतन्ये तु नान्यदृष्टम् अन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः। अस्ति त्व् इदं प्रत्यभिज्ञनम् तस्माद् इन्द्रियव्यतिरिक्तश् चेतनः

5.8

********************** न्य्स्भ्_3,1.8 **********************
% प्.728
न्य्स्_3,1.8: नैकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् ॥
एकम् इदं चक्षुर् मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतो मध्यव्यवहितस्य दीर्घस्येव

5.9

********************** न्य्स्भ्_3,1.9 **********************
% प्.729
न्य्स्_3,1.9: एकविनाशे द्वितीयाविनाशान् नैकत्वम् ॥
एकस्मिन्न् उपहते चोद्धृते वा चक्षुषि द्वितीयम् अवतिष्ठते चक्षुःविषयग्रहणलिङ्गम्, तस्माद् एकस्य व्यवधानानुपपत्तिः

5.10

********************** न्य्स्भ्_3,1.10 **********************
न्य्स्_3,1.10: अवयवनाशे ऽप्य् अवयव्युपलब्धेर् अहेतुः ॥
एकविनाशे द्वितीयाविनाशाद् इत्य् अहेतुः। कस्मात्? वृक्षस्य हि कासुचिच् छाखासु छिन्नासूपलभ्यते एव वृक्षः

5.11

********************** न्य्स्भ्_3,1.11 **********************
% प्.730
न्य्स्_3,1.11: दृष्टान्तविरोधाद् अप्रतिषेधः ॥
न कारणद्रव्यस्य विभागे कार्यद्रव्यम् अवतिष्टते नित्यत्वप्रसङ्गात्। बहुष्व् अवयविषु यस्य कारणानि विभक्तानि तस्य विनाशः, येषां कारणान्य् अविभक्तानि तानि अवतिष्ठन्ते।
अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः। मृतस्य हि शिरःकपाले द्वाव् अवटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतद् एकस्मिन् नासास्थिव्यवहिते सम्भवति।
अथ वा एकविनाशस्यानियमाद् द्वाव् इमाव् अर्थौ, तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नव् इति।
% अनुमीयेते विभिन्नव् इति।] प्.731
अवपीडनाच् चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते; तच् चैकत्वे विरुध्यते; अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानम् इति। तस्माद् एकस्य व्यवधानानुपपत्तिः

5.12

********************** न्य्स्भ्_3,1.12 **********************
अनुमीयते चायं देहादिसङ्घातव्यतिरिक्तश् चेतन इति ---
% प्.732
न्य्स्_3,1.12: इन्द्रियान्तरविकारात् ॥
कस्यचिद् अम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केनचिद् इन्द्रियेण गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारः रसानुस्मृतौ रसगर्धिवर्तितो दन्तोदकसंप्लवभूतो गृह्यते। तस्येन्द्रियचैतन्ये ऽनुपपत्तिः, नान्यदृष्टम् अन्यः स्मरति

5.13

********************** न्य्स्भ्_3,1.13 **********************
% प्.733
न्य्स्_3,1.13: न स्मृतेः स्मर्तव्यविषयत्वात् ॥
स्मृतिर् नाम धर्मो निमित्ताद् उत्पद्यते, तस्याः स्मर्तव्यो विषयः, तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति

5.14

********************** न्य्स्भ्_3,1.14 **********************
न्य्स्_3,1.14: तदात्मगुणसद्भावाद् अप्रतिषेधः ॥
तस्या आत्मगुणत्वे सति सद्भावाद् अप्रतिषेध आत्मनः। यदि स्मृतिर् आत्मगुणः, एवं सति स्मृतिर् उपपद्यते नान्यद् दृष्टम् अन्यः समरतीति। इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानाम् अप्रतिसन्धानम्, प्रतिसन्धाने वा विषयव्यवस्थानुपपत्तिः। एकस् तु चेतनो ऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टम् अर्थम् स्मरतीति एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् स्मृतेर् आत्मगुणत्वे सति सद्भावः विपर्यये चानुपपत्तिः।
% -प्रतिसन्धानात् स्मृतेर् ...] प्.734
स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः। आत्मलिङ्गम् उदाहरणमात्रम् इन्द्रियान्तरविकार इति।
अपरिसङ्ख्यानाश् च स्मृतिविषयस्य --- अपरिसङ्घ्याय च स्मृतिविषयम् इदम् उच्यते ``न स्मृतेः स्मर्तव्यविषयत्वाद्ऽऽ इति। येयं स्मृतिर् अगृह्यमाणे ऽर्थे अज्ञासिषम् अहम् अमुम् अर्थम् इति, एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातो ऽर्थो विषयो नार्थमात्रम्, ज्ञातवान् अहम् अमुम् अर्थम्,
% प्.735
असव् अर्थो मया ज्ञतः, अस्मिन्न् अर्थे मम ज्ञानम् अभूद् इति चतुर्विधम् एतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम्। सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते। अथ प्रत्यक्षे ऽर्थे या स्मृतिस् तया त्रीणि ज्ञानानि एकस्मिन्न् अर्थे प्रतिसन्धीयन्ते समानकर्तृकाणि, न नानाकर्तृकाणि नाकर्तृकाणि। किं तर्हि? एककर्तृकाणि। अद्राक्षम् अमुम् अर्थं यम् एवैतर्हि पश्यामि। अद्राक्षम् इति दर्शनं दर्शनसंविच् च, न खल्व् असंविदिते स्वे दर्शने स्याद् एतद् अद्रक्षम् इति। ते खल्व् एते द्वे ज्ञाने, यम् एवैतर्हि पश्यामीति तृतीयं ज्ञानम्, एवम् एको ऽर्थस् त्रिभिर् ज्ञानैर् युज्यमानो नाकर्तृको न नानाकर्तृकः किं तर्हि?
% -स् त्रिभिर् ज्ञानैर् ...] प्.736
एककर्तृक इति। सो ऽयं स्मृतिविषयो ऽपरिसङ्ख्यायमानो विद्यमानः प्रज्ञातो ऽर्थः प्रतिषिध्यते --- नास्त्य् आत्मा स्मृतेः स्मर्तव्यविषयत्वाद् इति। न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयम् वा इदं खलु ज्ञानप्रतिसन्धानवत् स्मृतिप्रतिसन्धानम् एकस्य सर्वविषयत्वात्। एको ऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसन्धत्ते अमुम् अर्थं ज्ञास्यामि अमुम् अर्थम् विजानाम्य् अमुम् अर्थम् अज्ञासिषम् अमुम् अर्थं जिज्ञासमानश् चिरम् अज्ञात्वाध्यवस्यत्य् अज्ञासिषम् इति। एवं स्मृतिम् अपि त्रिकालविशिष्टां सुष्मूर्षाविशिष्टां च प्रतिसन्धत्ते। संस्कारसन्ततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास् तिरोभवन्ति। स नास्त्य् एको ऽपि संस्कारो यस् त्रिकालविशिष्टं ज्ञानं स्मृतिं चानुभवेत्। न चानुभवम् अन्तरेण ज्ञानस्य स्मृतेश् च प्रतिसन्धानम् अहं ममेति चोत्पद्यते देहान्तरवत्। अतो ऽनुमीयते अस्त्य् एकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्धं स्मृतिप्रबन्धं च प्रतिसन्धत्त इति, यस्य देहान्तरेषु वृत्तेर् अभावान् न प्रतिसन्धानं भवतीति

5.15

********************** न्य्स्भ्_3,1.15 **********************
% प्.737
न्य्स्_3,1.15: नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥
न देहादिसङ्घातव्यतिरिक्त आत्मा। कस्मात्? आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ---``दर्शनस्पर्शनाभ्याम् एकार्थग्रहणाद्ऽऽ इत्य् एवमादीनाम् आत्मप्रतिपादकानां हेतूनां मनसि सम्भवो यतः, मनो हि सर्वविषयम् इति। तस्मान् न शरीरेन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त आत्मेति

5.16

********************** न्य्स्भ्_3,1.16 **********************
न्य्स्_3,1.16: ज्ञातुर् ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥
ज्ञातुः खलु ज्ञानसाधनान्य् उपपद्यन्ते --- चक्षुषा पश्यति घ्राणेन जिघ्रति स्पर्शनेन स्पृशति, एवं मन्तुः सर्वविषयस्य मतिसाधनम् अन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यत इति। एवं सति ज्ञातर्य् आत्मसंज्ञा न मृष्यते मनःसंज्ञाभ्यनुज्ञायते। मनसि च मनःसंज्ञा न मृष्यते मतिसाधनं त्व् अभ्यनुज्ञायते। तद् इदं संज्ञाभेदमात्रं नार्थे विवाद इति।
% प्.738
प्रत्याख्याने वा सर्वेन्द्रियविलोपप्रसङः। अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते नास्तीति, एवं रूपादिविषयग्रहणसाधनान्य् अपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यत इति

5.17

********************** न्य्स्भ्_3,1.17 **********************
न्य्स्_3,1.17: नियमश् च निरनुमानः ॥
यो ऽयम् नियम इष्यते, रूपादिग्रहणसाधनान्य् अस्य सन्ति, मतिसाधनं सर्वविषयं नास्तीति, अयं नियमो निरनुमानः। नात्रानुमानम् अस्ति येन नियमं प्रतिपद्यामह इति।
रूपादिभ्यश् च विषयान्तरं सुखादयस् तदुपलब्धौ करणान्तरसद्भावः। यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणम् एवं चक्षुर् घ्राणाभ्यां रसो न गृह्यत इति करणान्तरं रसनम्। एवं शेषेष्व् अपि। तथा चक्षुरादिभिः सुखादयो न गृह्यन्त इति करणान्तरेण भवितव्यम्।
% कारणान्तरेण भवितव्यम्।] प्.739
तच् च ज्ञानायौगपद्यलिङ्गम्। यच् च सुखाद्युपलब्धौ करणं तच् च ज्ञानायौगओअद्यलिङ्गं तस्येन्द्रियम् इन्द्रियं प्रति सन्निधेर् असन्निधेः च न युगपज् ज्ञानान्य् उत्पद्यन्त इति। तत्र यद् उक्तम् ``आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्ऽऽ इति तद् अयुक्तम्

5.18

********************** न्य्स्भ्_3,1.18 **********************
% प्.740
किं पुनर् अयं देहादिसङ्घाताद् अन्यो नित्यः उतानित्य इति। कुतः संशयः? उभयथा दृष्टत्वात् संशयः। विद्यमानम् उभयथा भवति नित्यम् अनित्यं च। प्रतिपादिते च आत्मसद्भावे संशयानिवृत्तिर् इति।
% प्.741
आत्मसद्भावहेतुभिर् एवास्य प्राग् देहभेदाद् अवस्थानं सिद्धम् ऊर्द्ध्वम् अपि देहभेदाद् अवतिष्ठते। कुतः?
न्य्स्_3,1.18: पूर्वाभ्यस्तस्मृत्यनुबन्धाज् जातस्य हर्षभयशोकसम्प्रतिपत्तेः ॥
जातः खल्व् अयं कुमारको ऽस्मिन् जन्मन्य् अगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान्। ते च स्मृत्यनुबन्धाद् उत्पद्यन्ते नान्यथा। स्मृत्यनुबन्धश् च पूर्वाभ्यासम् अन्तरेण न भवति। पूर्वाभ्यासश् च पूर्वजन्मनि सति, नान्यथेति सिध्यत्य् एतत् अवतिष्ठते ऽयम् ऊर्ध्वं शरीरभेदाद् इति

5.19

********************** न्य्स्भ्_3,1.19 **********************
% प्.743
न्य्स्_3,1.19: पद्मादिषु प्रबोधसम्मीलनविकारवत् तत्विकारः ॥
यथा पद्मादिष्व् अनित्येषु प्रबोधः सम्मीलनं विकारो भवति एवम् अनित्यस्यात्मनो हर्षभयशोकसम्प्रतिपत्तिर् विकारः स्यात्।
हेत्वभावाद् अयुक्तम् --- अनेन हेतुना पद्मादिषु प्रबोधसम्मीलनविकारवद् अनित्यस्यात्मनो हर्षादिसम्प्रतिपत्तिर् इति नात्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुर् न वैधर्म्याद् अस्ति हेत्वभावात् असम्बद्धार्थकम् अपार्थकम् उच्यत इति।
% प्.744
दृष्टान्ताच् च हर्षादिनिमित्तस्यानिवृत्तिः --- या चेयम् आसेवितेषु विषयेषु हर्षादिसम्प्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मनं गृह्यते सेयं पद्मादिसम्मीलनदृष्टान्तेन न निवर्तते। यथा चेयं न निवर्त्तते तथा जातस्यापीति। क्रियाजातौ च पर्णविभागसंयोगौ प्रबोधसम्मीलने, क्रियाहेतुश् च क्रियानुमेयः। एवं च सति किं दृष्टान्तेन प्रतिषिध्यते

5.20

********************** न्य्स्भ्_3,1.20 **********************
अथ निर्निमित्तः पद्मादिषु प्रबोधसम्मीलनविकार इति मतम् एवम् आत्मनो ऽपि हर्षादिसम्प्रतिपत्तिर् इति। तच् च ---
न्य्स्_3,1.20: नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥
उष्णादिषु सत्सु भावाद् असत्स्व् अभावात् तन्निमित्ताः पञ्चभूतानुग्रहेण निवृत्तानां पद्मादीनां प्रबोधसम्मीलनविकारा इति न निर्निमित्ताः। एवं हर्षादयो ऽपि विकारा निमित्तद् भवितुम् अर्हन्ति न निमित्तम् अन्तरेण।
% निमित्तद् भवितुम् अर्हन्ति ...] प्.745
न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धान् निमित्तम् अस्तीति। न चोत्पत्तितिरोधकारणानुमानम् आत्मनो दृष्टान्तात्, न हर्षादीनां निमित्तम् अन्तरेणोत्पत्तिः, नोष्णादिवन् निमित्तान्तरोपादानं हर्षादीनाम्, तस्माद् अयुक्तम् एतत्

5.21

********************** न्य्स्भ्_3,1.21 **********************
इतश् च नित्य आत्मा ---
न्य्स्_3,1.21: प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥
जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते। स च नान्तरेणाहाराभ्यासम्। कया युक्त्या? दृश्यते हि शरीरिणां क्षुधा पीड्यमानानाम् आहाराभ्यासकृतात् स्मरणानुबन्धाद् आहाराभिलाषः। न च पूर्वशरीराभ्यासम् अन्तरेणासौ जातमात्रस्योपपद्यते।
% जातमात्रस्योपपद्यते।] प्.746
तेनानुमीयते भूतपूर्वं शरीरं यत्रानेनाहारो ऽभ्यस्त इति। स खल्व् अयम् आत्मा पूर्वशरीरात् प्रेत्य शरीरान्तरम् आपन्नः क्षुत्पीडितः पूर्वाभ्यस्तम् आहारम् अनुस्मरन् स्तन्यम् अभिलषति। तस्मान् न देहभेदाद् आत्मा भिद्यते भवत्य् एवोर्द्ध्वं देहभेदाद् इति

5.22

********************** न्य्स्भ्_3,1.22 **********************
न्य्स्_3,1.22: अयसो ऽयस्कान्ताभिगमनवत् तदुपसर्पणम् ॥
यथा खल्व् अयो ऽभ्यासम् अन्तरेणायस्कान्तम् उपसर्पति, एवम् आहाराभ्यासम् अन्तरेण बालः स्तन्यम् अभिलषति

5.23

********************** न्य्स्भ्_3,1.23 **********************
% प्.747
किम् इदम् अयसो ऽयस्कान्ताभिसर्पणं निर्निमित्तम् अथ निमित्ताद् इति? निर्निमित्तं तावत् ---
न्य्स्_3,1.23: नान्यत्र प्रवृत्त्यभावात् ॥
यदि निर्निमित्तम्, लोष्टादयो ऽप्य् अयस्कान्तम् उपसर्पेयुः। न जातु नियमे कारणम् अस्तीति। अथ निमित्तात्, तत् केनोपलभ्यते इति। क्रियालिङ्गः क्रियाहेतुः, क्रियानियमलिङ्गश् च क्रियाहेतुनियमः, तेनान्यत्र प्रवृत्त्यभावः, बालस्यापि नियतम् उपसर्पणक्रियोपलभ्यते। न च स्तन्याभिलाषलिङ्गम् अन्यद् आहाराभ्यासकृतात् स्मरणाउबन्धात्। निमित्तं दृष्टान्तेनोपपाद्यते,
% दृष्टान्तेनोपपाद्यते,] प्.748
न चासति निमित्ते कस्यचिद् उत्पत्तिः। न च दृष्टान्तो दृष्टम् अभिलाषहेतुं बाधते। तस्माद् अयसो ऽयस्कान्ताभिगमनम् अदृष्टान्त इति।
अयसः खल्व् अपि नान्यत्र प्रवृत्तिर् भवति, न जात्व् अयो लोष्टम् उपसर्पति, किंकृइतो ऽस्य नियम इति? यदि कारणनियमात्, स च क्रियानियमलिङ्गः। एवं बालस्यापि नियतविषयो ऽभिलाषः कारणनियमाद् भवितुम् अर्हति। तच् च कारणम् अभ्यस्तस्मरणम् अन्यद् वेति दृष्टेन विशिष्यते। दृष्टो हि शरीरिणाम् अभस्तस्मरणाद् आहाराभिलाष इति

5.24

********************** न्य्स्भ्_3,1.24 **********************
इतश् च नित्य आत्मा। कस्मात्? ---
न्य्स्_3,1.24: वीतरागजन्मादर्शनात् ॥
सरागो जायत इत्य् अर्थाद् आपद्यते। अयं जायमानो रागानुभद्धो जायते, रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः, पूर्वानुभवश् च विषयाणाम् अन्यस्मिन् जन्मनि शरीरम् अन्तरेण नोपपद्यते।
% शरीरम् अन्तरेण नोपपद्यते।] प्.749
सो ऽयम् आत्मा पूर्वशरीरानुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते, तथा चायं द्वयोर् जन्मनोः प्रतिसन्धिः। एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरस्य पूर्वतमेनेत्यादिनानादिश् चेतनस्य शरीरयोगः, अनादिश् च रागानुबन्ध इति सिद्धं नित्यत्वम् इति

5.25

********************** न्य्स्भ्_3,1.25 **********************
% प्.750
कथं पुनर् ज्ञायते पूर्वानुभूतविषयानुचिन्तनजनितो जातस्य रागः, न पुनः ---
न्य्स्_3,1.25: सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ॥
अथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिद् उत्पद्यते। अत्रायम् उदितानुवादो निदर्शनार्थः

5.26

********************** न्य्स्भ्_3,1.26 **********************
न्य्स्_3,1.26: न, सङ्कल्पनिमित्तत्वाद् रागादीनाम् ॥
न खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिर् आत्मनो रागस्य च। कस्मात्? सङ्कल्पनिमित्तत्वाद् रागादीनाम्। अयं खलु प्राणिनां विषयान् आसेवमानानां सङ्कल्पजनितो रागो गृह्यते, सङ्कल्पश् च पूर्वानुभूतविषयानुचिन्तनयोनिः। तेनानुमीयते जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति। आत्मोत्पादाधिकरणात् तु रागोत्पत्तिर् भवन्ती सङ्कल्पाद् अन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्। न चात्मोत्पादः सिद्धो नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति।
% नापि सङ्कल्पाद् अन्यद् रागकारणम् अस्ति।] प्.751
तस्माद् अयुक्तं सगुणद्रव्योत्पत्तिवत् तयोर् उत्पत्तिर् इति।
अथापि सङ्कल्पाद् अन्यद् रागकारणं धर्माधर्मलक्षणम् अदृष्टम् उपादीयते, तथापि पूर्वशरीरयोगो ऽप्रत्याख्येयः। तत्र हि तस्य निर्वृत्तिः नास्मिन् जन्मनि।
तन्मयत्वाद् राग इति। विषयाभ्यासः खल्व् अयं भावनाहेतुः तन्मयत्वम् उच्यते इति। जातिविशेषाच् च रागविशेष इति। कर्म खल्व् इदं जातिविशेषनिर्वर्तकं तादर्थ्यात् ताच्छब्द्यं विज्ञायते। तस्माद् अनुपपन्नं सङ्कल्पाद् अन्यद् रागकारणम् इति

5.27

********************** न्य्स्भ्_3,1.27 **********************
% प्.752
अनादिश् चेतनस्य शरीरयोग इत्य् उक्तम्, स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानम्। तत् परीक्ष्यते --- किं घ्राणादिवद् एकप्रकृतिकम् उत नानाप्रकृतीति। कुतः संशयः? विप्रतिपत्तेः संशयः। पृथिव्यादीनि भूतानि सङ्ख्याविकल्पेन शरीरप्रकृतिर् इति प्रतिजानत इति। किं तत्र तत्त्वम्?
% प्.753
न्य्स्_3,1.27: पार्थिवं गुणान्तरोपलब्धेः ॥
तत्र मानुषं पार्थिवम्। कस्मात्? गुणान्तरोपलब्धेः। गन्धवती पृथिवी गन्धवच् च शरीरम्। अबादीनाम् अगन्धत्वात् तत्प्रकृत्यगन्धं स्यात्। न त्व् इदम् अबादिभिर् असम्पृक्तया पृथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्य् अतः पञ्चानां भूतानां संयोगे सति शरीरं भवति। भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति। आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्व् अपि भूतसंयोगः पुरुषार्थतन्त्र इति। स्थाल्यादिद्रव्यनिष्पत्ताव् अपि निःसंशयो नाबादिसंयोगम् अन्तरेन निष्पत्तिर् इति

5.31

********************** न्य्स्भ्_3,1.28-30 **********************
% प्.754
न्य्स्_3,1.28: पार्थिवाप्यतैजसं तदगुणोपलब्धेः ॥
न्य्स्_3,1.29: निःश्वासोच्छ्वासोपलब्धेश् चातुर्भौतिकम् ॥
न्य्स्_3,1.30: गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ॥
त इमे सन्दिग्धा हेतव इत्य् उपेक्षितवान् सूत्रकारः। कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिर् असति च संयोगाप्रतिषेधात् सन्निहितानाम् इति, यथा स्थाल्याम् उदकतेजोवाय्वाकाशानाम् इति। तद् इदम् अनेकभूतप्रकृति शरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,
% -म् अरूपम् अस्पर्शं च प्रकृत्यनुविधानात् स्यात्,] प्.755
न त्व् इदम् इत्थम्भूतम्। तस्मात् ``पार्थिवं गुणान्तरोपलब्धेःऽऽ॥28-29-30॥
********************** न्य्स्भ्_3,1.31 **********************
% प्.756
न्य्स्_3,1.31: श्रुतिप्रामाण्याच् च ॥
``सूर्यं ते चक्षुर्गच्छताद्ऽऽ इत्य् अत्र मन्त्रे ``पृथिवीं ते शरीरम्ऽऽ इति श्रूयते। तद् इदं प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति।
% प्रक्र्तौ विकारस्य प्रलयाभिधानम् इति।] प्.757
``सूर्यं ते चक्षुः स्पृणोमिऽऽ इत्य् अत्र मन्त्रान्तरे ``पृथिवीं ते शरीरं स्पृणोमीतिऽऽ श्रूयते। सेयं कारणाद् विकारस्य स्पृतिर् अभिधीयत इति। स्थाल्यादिषु च तुल्यजातीयानाम् एककार्यारम्भदर्शनाद् भिन्नजातीयानाम् एककार्यारम्भानुपपत्तिः

5.32

********************** न्य्स्भ्_3,1.32 **********************
अथेदानीम् इन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते --- किम् आव्यक्तिकान्य् आहोस्विद् भौतिकानीति।
% -नीति।] प्.758
कुतः संशयः? ---
न्य्स्_3,1.32: कृष्णसारे सत्य् उपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥
कृष्णसारं भौतिकम्, तस्मिन्न् अनुपहते रूपोपलब्धिः उपहते चानुपलब्धिर् इति। व्यतिरिच्य कृष्णसारम् अवस्थितस्य विषयस्य उपलम्भो न कृष्णसारप्राप्तस्य। न चाप्राप्यकारित्वम् इन्द्रियाणाम्, तद् इदम् अभौतिकत्वे विभुत्वात् सम्भवति। एवम् उभयधर्मोपलब्धेः संशयः

5.32

% -पलब्धेः संशयः

5.33

] प्.759
********************** न्य्स्भ्_3,1.33 **********************
% प्.760
अभौतिकानीत्य् आह। कस्मात्?
न्य्स्_3,1.33: महदणुग्रहणात् ॥
महद् इति महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि। अण्व् इति अणुतरम् अणुतमं च गृह्यते यथा न्यग्रोधधानादि। तदुभयम् उपलभ्यमानं चक्षुषो भौतिकत्वं बाधते। भौतिकं हि यावत् तावद् एव व्याप्नोति। अभौतिकं तु विभुत्वात् सर्वव्यापकम् इति

5.34

********************** न्य्स्भ्_3,1.34 **********************
% प्.762
न महदणुग्रहणमात्राद् अभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम्। इदं खलु ---
न्य्स्_3,1.34: रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ॥
तयोर् महदण्वोर् ग्रहणं चक्षूरश्मेर् अर्थस्य च सन्निकर्षविशेषाद् भवति यथा प्रदीपरश्मेर् अर्थस्य चेति।
% -र् अर्थस्य चेति।] प्.763
रश्म्यर्थसन्निकर्षश् चावरणलिङ्गः। चाक्षुषो हि रश्मिः कुड्यादिभिर् आवृतम् अर्थं न प्रकाशयति यथा प्रदीपरश्मिर् इति

5.35

********************** न्य्स्भ्_3,1.35 **********************
% प्.764
आवरणानुमेयत्वे सतीदम् आह ---
न्य्स्_3,1.35: तदनुपलब्धेर् अहेतुः ॥
रूपस्पर्शवद् धि तेजः, महत्त्वाद् अनेकद्रव्यवत्त्वाद् रूपवत्त्वाच् चोपलब्धिर् इति प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर् यदि स्याद् इति

5.36

********************** न्य्स्भ्_3,1.36 **********************
न्य्स्_3,1.36: नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः ॥
सन्निकर्षप्रतिषेधार्थेनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर् या प्रत्यक्षतो ऽनुपलब्धिर् नासाव् अभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य प्र्थिव्याश् चाधोभागस्य

5.37

********************** न्य्स्भ्_3,1.37 **********************
% प्.765
न्य्स्_3,1.37: द्रव्यगुणधर्मभेदाच् चोपलब्धिनियमः ॥
भिन्नः खल्व् अयं द्रव्यधर्मो गुणधर्मश् च, महदनेकद्रव्यवच् च विषक्तावयवम् आप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस् तु शीतो गृह्यते। तस्य द्रव्यस्यानुबन्धाद् हेमन्तशिशिरौ कल्प्येते तथाविधम् एव च तैजसं द्रव्यम् अनुद्भूतरूपं सह रूपेण नोपलभ्यते,
% कल्प्येते तथाविधम् ... नोपलभ्यते,] प्.766
स्पर्शस् त्व् अस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते

5.38

********************** न्य्स्भ्_3,1.38 **********************
यत्र त्व् एषा भवति ---
न्य्स्_3,1.38: अनेकद्रव्यसमवायाद् रूपविशेषाच् च रूपोपलब्धिः ॥
तत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते। रूपविशेषस् तु यद्भावात् क्वचिद् रूपोपलब्धिः यदभावाच् च द्रव्यस्य क्वचिद् अनुपलब्धिः स रूपधर्मो ऽयम् उद्भव समाख्यात इति। अनुद्भूतरूपश् चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति।
% इति।] प्.767
दृष्टश् च तेजसो धर्मभेदः, उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथा आदित्यरश्मयः। उद्भूतरूपम् अनुद्भूतस्पर्शं च प्रत्यक्षं यथा प्रदीपरश्मयः। उद्भूतस्पर्शम् अनुद्भूतरूपम् अप्रत्यक्षं यथाबादिसंयुक्तं तेजः। अनुद्भूतरूपस्पर्शो ऽप्रत्यक्षश् चाक्षुषो रश्मिर् इति

5.39

********************** न्य्स्भ्_3,1.39 **********************
न्य्स्_3,1.39: कर्मकारितश् चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥
यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश् च कल्प्यते तथेन्द्रियाणि व्यूढानि, विषयप्राप्त्यर्थश् च रश्मेश् चाक्षुषस्य व्यूहः। रूपस्पर्शानभिव्यक्तिश् च व्यवहारप्रकॢप्त्यर्था, द्रव्यविशेषे च प्रतीघाताद् आवरणोपपत्तिर् व्यवहारार्था। सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः। कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थम् इति।
% प्.768
अव्यभिचाराच् च प्रतीघातो भौतिकधर्मः। यश् चात्वरणोपलम्भाद् इन्द्रियस्य द्रव्यविशेषे प्रतिघातः स भौतिकधर्मो न भूतानि व्यभिचरति, नाबौतिकं प्रतिघातधर्मकं दृष्टम् इति। अप्रतिघातस् तु व्यभिचारी भौतिकाभौतिकयोः समानत्वाद् इति।
यद् अपि मन्येत प्रतिघाताद् भौतिकानीन्द्रियाणि, अप्रतिघाताद् अभौतिकानीति प्राप्तम्? दृष्टश् चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः। तन् न युक्तम्। कस्मात्? यस्माद् भौतिकम् अपि न प्रतिहन्यते, काचाभ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसो ऽप्रतिघातः

5.40

********************** न्य्स्भ्_3,1.40 **********************
% प्.769
उपपद्यते च अनुपलब्धिः कारणभेदात् ---
न्य्स्_3,1.40: मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः ॥
यथा ``अनेकद्रव्येण समवायाद् रूपविशेषाच् चोपलब्धिर्ऽऽ इति सत्य् उपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपकभ्यते आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच् चोपलभिर् इति सत्य् उपलब्धिकारणे चाक्षुषो रश्मिर् नोपलभ्यते निमित्तान्तरतः॥ तच् च व्याख्यातम् अनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतो ऽनुपलब्धिर् इति

5.41

********************** न्य्स्भ्_3,1.41 **********************
अत्यन्तानुपलब्धिश् चाभावकारणम्। यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभवान् नोपलभ्यत इति, तस्यैतत् स्यात्?
% प्.770
न्य्स्_3,1.41: न, रात्राव् अप्य् अनुपलब्धेः ॥
अप्य् अनुमानतो ऽनुपलब्धेर् इति। एवम् अत्यन्तानुपलब्धेर् लोष्टप्रकाशो नास्ति, न त्व् एवं चक्षुषो रश्मिर् इति

5.42

********************** न्य्स्भ्_3,1.42 **********************
उपपन्नरूपा चेयम् ---
न्य्स्_3,1.42: बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेर् अनभिव्यक्तितो ऽनुपलब्धिः ॥
बाह्येन प्रकाशेनानुगृहीतं चक्षुः विषयग्राहकं तदभावे ऽनुपलब्धिः। सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषा ऽग्रहणं रूपस्यानुद्भूतत्वात्,
% प्रकाशानुग्रहे ...] प्.771
सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर् दृष्टा। तत्र यद् उक्तं ``तदनुपलब्धेर् अहेतुर्ऽऽ इति एतद् अयुक्तम्

5.43

********************** न्य्स्भ्_3,1.43 **********************
कस्मात् पुनर् अभिभवो ऽनुपलब्धिकारणं चाक्षुषस्य रश्मेर् नोच्यत इति?
न्य्स्_3,1.43: अभिव्यक्तौ चाभिभवात् ॥
बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः। यद् रूपम् अभिव्यक्तम् उद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयो ऽभिभवः, विपर्यये ऽभिभवाभावात्। अनुद्भूतरूपत्वाच् चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच् चोपलभ्यमानं नाभिभूयत इति।
% -नुपलभ्यमानं] प्.772
एवम् उपपन्नम् अस्ति चाक्षुषो रश्मिर् इति

5.44

********************** न्य्स्भ्_3,1.44 **********************
% प्.773
न्य्स्_3,1.44: नक्तञ्चरनयनरश्मिदर्शनाच् च ॥
दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम्, तेन शेषस्यानुमानम् इति। जातिभेदवद् इन्द्रियभेद इति चेत्? धर्मभेदमात्रं चानुपपन्नम् आवरणस्य प्रातिप्रतिषेधार्थस्य दर्शनाद् इति

5.45

********************** न्य्स्भ्_3,1.45 **********************
% प्.774
इन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वानुपपत्तिः। कस्मात्?
न्य्स्_3,1.45: अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥
तृणादि सर्पद् द्रव्यं काचे अभ्रपटले वा प्रतिहतं दृष्त्ऽम्, अव्यवहितेन सन्निकृष्यते व्याहन्यते वै प्राप्तिर् व्यवधानेनेति। यदि च रश्म्यर्थसन्निकर्षो ग्रहणहेतुः स्यात् न व्यवहितस्य सन्निकर्ष इत्य् अग्रहणं स्यात्। अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धिः सा ज्ञापयति अप्राप्यकारीणीन्द्रियाणि अत एवाभौतिकानि, प्राप्यकारित्वं हि भौतिकधर्म इति

5.46

********************** न्य्स्भ्_3,1.46 **********************
% प्.775
न्य्स्_3,1.46: कुड्यान्तरितानुपलब्धेर् अप्रतिषेधः ॥
अप्राप्यकरित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर् न स्यात्

5.47

********************** न्य्स्भ्_3,1.47 **********************
प्राप्यकारित्वे ऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर् न स्यात्?
न्य्स्_3,1.47: अप्रतीघातात् सन्निकर्षोपपत्तिः ॥
न च काचो ऽभ्रपटलं वा नयनरश्मिं विष्टभ्नाति सो ऽप्रतिहन्यमानः सन्निकृष्यत इति

5.48

********************** न्य्स्भ्_3,1.48 **********************
% प्.776
यश् च मन्यते न भौतिकस्याप्रतिघात इति तन् न ---
न्य्स्_3,1.48: आदित्यरश्मेः स्फटिकान्तरिते ऽपि दाह्ये .विघातात् ॥
आदित्यरश्मेर् अविघातात् स्फटिकान्तरिते ऽप्य् अविघातात्, दाह्ये ऽविघातात्। अविघाताद् इति च पदाभिसम्बन्धाद् वाक्यभेद इति। प्रतिवाक्यं चार्थभेद इति। आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते, अविघातात् कुम्भस्थम् उदकं तपति। प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणं तेन च शीतस्पर्शाभिभव इति। स्फटिकान्तरिते ऽपि प्रकाशनीये प्रदीपरश्मीनाम् अप्रतिघातः, अप्रतिघातात् प्राप्तस्य ग्रहणम् इति। भर्जनकपालादिस्थं च द्रव्यम् आग्नेयेन तेजसा दह्यते तत्राविघातात् प्राप्तिः, प्राप्तौ तु दाहो नाप्राप्यकारि तेज इति।
% प्.777
अविघाताद् इति च केवलं पदम् उपादीयते, को ऽयम् अविघातो नाम? अव्युह्यमानावयवेन व्यवधायेन द्रव्येण सर्वतो द्रव्यस्याविष्ठ्म्भः क्रियाहेतोर् अप्रतिबन्धः प्राप्तेर् अप्रतिषेध इति। दृष्टं हि कलशनिषक्तानाम् अपां बहिः शीतस्पर्शस्य ग्रहणम्। न चेन्द्रियेणासन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः। दृष्टौ च प्रस्पन्दपरिस्रवौ। तत्र काचाभ्रपटलादिभिर् नयनरश्मेर् अप्रतिघाताद् विभिद्यार्थेन सह सन्निकर्षाद् उपपन्नं ग्रहणम् इति

5.49

********************** न्य्स्भ्_3,1.49 **********************
% प्.778
न्य्स्_3,1.49: नेतरेतरधर्मप्रसङ्गात् ॥
काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातः, कुड्यादिवद् वा काचाभ्रपटलादिभिः प्रतिघात इति प्रसज्यते, नियमे कारणं वाच्यम् इति

5.50

********************** न्य्स्भ्_3,1.50 **********************
न्य्स्_3,1.50: आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत् तदुपलब्धिः ॥
आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मो नियमदर्शनात्, प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम्। यथा आदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यम् आदर्शरूपानुग्रहात् तन्निमित्तं भवति,
% -कर्षे सति ...] प्.779
आदर्शरूपोपघाते तदभावात्, कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति एवं काचाभ्रपटलादिभिर् अविघातश् चक्षूरश्मेः कुड्यादिभिश् च प्रतिघातो द्रव्यस्वभावनियमाद् इति

5.51

********************** न्य्स्भ्_3,1.51 **********************
न्य्स्_3,1.51: दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः ॥
प्रमाणस्य तत्त्वविषयत्वात्। न खलु भोः परीक्षमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुम् एवं भवतेति,
% नियोक्तुम् एवं भवतेति,] प्.780
नापि प्रतिषेद्धुम् एवं न भवतेति। न हीदम् उपपद्यते रूपवद् गन्धो ऽपि चाक्षुषो भवत्व् इति, गन्धवद् वा रूपं चाक्षुषं मा भूद् इति, अग्निप्रतिपत्तिवत् धूमेनोदकप्रतिपत्तिर् अपि भवत्व् इति, उदकाप्रतिपत्तिवद् वा धूमेनाग्निप्रतिपत्तिर् अपि मा भूद् इति। किं कारणम्? यथा खल्व् अर्था भवन्ति य एषां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति। तथाभूतविषयकं हि प्रमाणम् इति। इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद् वा कुड्यादिभिर् अप्रतिघातो भवतु कुड्यादिवद् वा काचाभ्रपटलादिभिर् अप्रतिघातो मा भूद् इति। न, दृष्टानुमिताः खल्व् इमे द्रव्यधर्माः, प्रतिघाताप्रतिघातयोर् ह्य् उपलब्धी व्यवस्थापिके। व्यवहितानुपलब्ध्यानुमीयते कुड्यादिभिः प्रतिघातः, व्यवहितोपलब्ध्यानुमीयते काचाभ्रपटलादिभिर् अप्रतिघात इति

5.52

********************** न्य्स्भ्_3,1.52 **********************
% प्.781
अथापि खल्व् एकम् इदम् इन्द्रियं बहूनीन्द्रियाणि वा? कुतः संशयः?
न्य्स्_3,1.52: स्थानान्यत्वे नानात्वाद् अवयविनानास्थानत्वाच् च संशयः ॥
बहूनि द्रव्याणि नानास्थानानि दृश्यन्ते, नानास्थानश् च सन्न् एको ऽवयवी चेति। तेनेन्द्रियेषु भिन्नस्थानेषु संशय इति

5.53

********************** न्य्स्भ्_3,1.53 **********************
% प्.783
एकम् इन्द्रियम् ---
न्य्स्_3,1.53: त्वग् अव्यतिरेकात् ॥
त्वग् एकम् इन्द्रियम् इत्य् आह। कस्मात्? अव्यतिरेकात्। न त्वचा किञ्चिद् इन्द्रियाधिष्ठानं न प्राप्तम्, न चासत्यां त्वचि किञ्चिद् विषयग्रहणं भवति, यया सत्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वग् एकम् इन्द्रियम् इति।
नेन्द्रियान्तरार्थानुपलब्धेः। स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः। न स्पर्शग्राहकात् इन्द्रियाद् इन्द्रियान्तरम् अस्तीति स्पर्शवद् अन्धादिभिर् गृह्येरन् रूपादयः, न च गृह्यन्ते तस्मान् नैकम् इन्द्रियं त्वग् इति।
% प्.784
त्वगवयवविशेषेण धूमोपलब्धिवत् तदुपलब्धिः। यथा त्वचो ऽवयवविशेषः कश्चिच् चक्षुषि सन्निकृष्टो धूमस्पर्शं गृह्णाति नान्यः, एवं त्वचो ऽवयवविशेषा रूपादिग्राहकास् तेषाम् उपघाताद् अन्धादिभिर् न गृह्यन्ते रूपादय इति। व्याहतत्वाद् अहेतुः। त्वगव्यतिरेकाद् एकम् इन्द्रियम् इत्य् उक्त्वा ``त्वग् अवयवविशेषेण धूमोपलब्धिवद् रूपाद्युपलब्धिर्ऽऽ इत्य् उच्यते। एवं च सति नानाभूतानि विषयग्राहकाणि विषयव्यवस्थानात् तद्भावे विषयग्रहणस्य भावात् तदुपघाते चाभावात्, तथा च पूर्वो वाद उत्तरेण वादेण व्याहन्यत इति।
सन्दिग्धश् चाव्यतिरेकः। पृथिव्यादिभिर् अपि भूतैर् इन्द्रियाधिष्ठानानि व्याप्तानि, न च तेष्व् असत्सु विषयग्रहणं भवतीति। तस्मान् न त्वग् अन्यद् वा सर्वविषयम् एकम् इन्द्रियम् इति

5.54

********************** न्य्स्भ्_3,1.54 **********************
% प्.785
न्य्स्_3,1.54: न युगपदर्थानुपलब्धेः ॥
आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्टम् इति, आत्मेन्द्रियमनोर्थसन्निकर्षेभ्यो युगपद् ग्रहणानि स्युः। न च युगपद् रूपादयो गृह्यन्ते तस्मान् नैकम् इन्द्रियं सर्वविषयम् अस्तीति। असाहचर्याच् च विषयग्रहणानां नैकम् इन्द्रियं सर्वविषयकम्, साहचर्ये हि विषयग्रहणानाम् अन्धाद्यनुपपत्तिर् इति

5.55

********************** न्य्स्भ्_3,1.55 **********************
% प्.786
न्य्स्_3,1.55: विप्रतिषेधाच् च न त्वग् एका ॥
न खलु त्वग् एकम् इन्द्रियं व्याघातात् --- त्वचा रूपाण्य् अप्राप्तानि गृह्यन्त इत्य् अप्राप्यकारित्वे स्पर्शादिष्व् अप्य् एवं प्रसङ्गः। स्पर्शादीनां च प्राप्तानां ग्रहणाद् रूपादीनां प्राप्तानां ग्रहणम् इति प्राप्तम्।
% प्.787
प्राप्याप्राप्यकारित्वम् इति चेत्? आवरणानुपपत्तेर् विषयमात्रस्य ग्रहणम्। अथापि मन्येत प्राप्ताः स्पर्शादयस् त्वचा गृह्यन्ते रूपाणि त्व् अप्राप्तानीति? एवं सति नास्त्य् आवरणम्, आवरणानुपपत्तेश् च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्यवहितस्य चेति। दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर् न स्यात्। अप्राप्तं त्वचा गृह्यते रूपम् इति दूरे रूपस्याग्रहणम् अन्तिके च ग्रहणम् इत्य् एतन् न स्याद् इति

5.56

********************** न्य्स्भ्_3,1.56 **********************
प्रतिषेधाच् च नानात्वसिद्धौ स्थापनाहेतुर् अप्य् उपादीयते ---
न्य्स्_3,1.56: इन्द्रियार्थपञ्चत्वात् ॥
अर्थः प्रयोजनम्, तत् पञ्चविधम् इन्द्रियाणाम्, स्पर्शनेनेन्द्रियेण स्पर्शग्रहणे सति न तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते।
% तेनैव रूपं गृह्यत इति रूपग्रहणप्रयोजनं चक्षुर् अनुमीयते।] प्.788
स्पर्शरूपग्रहणे च ताभ्याम् एव न गन्धो गृह्यत इति गन्धग्रहणप्रयोजनं घ्राणम् अनुमीयते। त्रयाणां ग्रहणे न तैर् एव रसो गृह्यत इति रसग्रहणप्रयोजनं रसनम् अनुमीयते। न च चतुर्णां ग्रहणे तैर् एव शब्दः श्रूयत इति शब्दग्रहणप्रयोजनं श्रोत्रम् अनुमीयते। एवम् इन्द्रियप्रयोजनस्यानितरेतरसाधनसाध्यत्वात् पञ्चैवेन्द्रियाणि

5.57

********************** न्य्स्भ्_3,1.57 **********************
% प्.789
न्य्स्_3,1.57: न, तदर्थबहुत्वात् ॥
न खल्व् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति सिध्यति। कस्मात्? तेषाम् अर्थानां बहुत्वात्। बहवः खल्व् इमे इन्द्रियार्थाः, स्पर्शास् तावत् शीतोष्नानुष्णाशीता इति। रूपाणि शुक्लहरितादीनि। गन्धा इष्टानिष्टोपेक्षणीयाः। रसाः कटुकादयः, शब्दा वर्णात्मानो ध्वनिमात्राश् च भिन्नाः। तद् यस्येन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणि तस्येन्द्रियार्थबहुत्वाद् बहूनि इन्द्रियाणि प्रसज्यन्त इति

5.58

********************** न्य्स्भ्_3,1.58 **********************
न्य्स्_3,1.58: गन्धत्वाद्यव्यतिरेकाद् गन्धादीनाम् अप्रतिषेधः ॥
गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्थानां गन्धादीनां यानि गन्धादिग्रहणानि तान्य् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणि न प्रयोजयन्ति। अर्थसमूहो ऽनुमानमुक्तो नार्थैकदेशः।
% -मुक्तो नार्थैकदेशः।] प्.790
अर्थैकदेशं चाश्रित्य विषयपञ्चत्वमात्रं भवान् प्रतिषेधति तस्माद् अयुक्तो ऽयं प्रतिषेध इति।
कथं पुनर् गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था गन्धादय इति? स्पर्शः खल्व् अयं त्रिविधः शीत उष्णो ऽनुष्णाशीतश् च स्पर्शत्वेन स्वसामान्येन संगृहीतः। गृह्यमाणे च शीतस्पर्शे नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं प्रयोजयति स्पर्शभेदानाम् एकसाधनसाध्यत्वाद् येनैव शीतस्पर्शो गृह्यते तेनैवेतराव् अपीति। एवं गन्धत्वेन गन्धानाम्, रूपत्वेन रूपाणाम्, रसत्वेन रसानाम्, शब्दत्वेन शब्दानाम् इति। गन्धादिग्रहणानि पुनर् असमानसाधनसाध्यत्वाद् ग्राहकान्तराणां प्रयोजकानि। तस्माद् उपपन्नम् इन्द्रियार्थपञ्चत्वात् पञ्चेन्द्रियाणीति

5.59

********************** न्य्स्भ्_3,1.59 **********************
यदि सामान्यं सङ्ग्राहकम्, प्राप्तम् इन्द्रियाणाम् ---
न्य्स्_3,1.59: विषयत्वाव्यतिरेकाद् एकत्वम् ॥
विषयत्वेन हि सामान्येन गन्धादयः सङ्गृहीता इति

5.60

********************** न्य्स्भ्_3,1.60 **********************
% प्.791
न्य्स्_3,1.60: न, बुद्धिलक्षणाधिष्ठानगत्याकृतिज्ञातिपञ्चत्वेभ्यः ॥
न खलु विषयत्वेन सामान्येन कृतव्यवस्था विषया ग्राहकान्तरनिरपेक्षा एकसाधनग्राह्या अनुमीयन्ते, अनुमीयन्ते च पञ्च गन्धादयो गन्धत्वादिभिः स्वसामान्यैः कृतव्यवस्था इन्द्रियान्तरग्राह्याः, तस्माद् असम्बद्धम् एतत्। अयम् एव चार्थो ऽनूद्यते बुद्धिलक्षणपञ्चत्वाद् इति।
बुद्धय एव लक्षणानि विषयग्रहणलिङ्गत्वात् इन्द्रियाणाम्, तद् एतत् ``इन्द्रियार्थपञ्चत्वात्ऽऽ इत्य् एतस्मिन् सूत्रे कृतभाष्यम् इति। तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि।
% प्.792
अधिष्ठानान्य् अपि खलु पञ्चेन्द्रियाणाम्, सर्वशरीराधिष्ठानं स्पर्शनं स्पर्शग्रहणलिङ्गम्, कृष्णसाराधिष्ठानं चक्षुः बहिर्निःसृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं घ्राणम्, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्, गन्धरसरूपस्पर्शशब्दग्रहणलिङ्गत्वाद् इति।
गतिभेदाद् अपीन्द्रियभेदः। कृष्णसारोपनिबद्धं चक्षुर् बहिर्निःसृत्य रूपाधिकरणानि द्रव्याणि प्राप्नोति। स्पर्शनादीनि त्व् इन्द्रियाणि विषया एवाश्रयोपसर्पणात् प्रत्यासीदन्ति। सन्तानवृत्त्या शब्दस्य श्रोत्रप्रत्यासत्तिर् इति।
आकृतिः खलु परिमाणम् इयत्ता सा पञ्चधा। स्वस्थानमात्राणि घ्राणरसनस्पर्शनानि विषयग्रहणेनानुमेयानि। चक्षुः कृष्णसाराश्रयं बहिर्निःसृतं विषयव्यापि। श्रोत्रं नान्यद् आकाशात्, तच् च विभु शब्दमात्रानुभवानुमेयं पुरुषसंस्कारोपग्रहणाच् चाधिष्ठाननियमेन शब्दस्य व्यञ्जकम् इति।
% प्.793
जातिर् इति योनिं प्रचक्षते। पञ्च खल्व् इन्द्रिययोनयः पृथिव्यादीनि भूतानि, तस्मात् प्रकृतिपञ्चत्वाद् अपि पञ्चेन्द्रियाणीति सिद्धम्

5.61

********************** न्य्स्भ्_3,1.61 **********************
कथं पुनर् ज्ञायते भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति?
न्य्स्_3,1.61: भूतगुणविशेषोपलब्धेस् तादात्म्यम् ॥
दृष्टो हि वाय्वादीनां भूतानां गुणविशेषाभिव्यक्तिनियमः। वायुः स्पर्शव्यञ्जकः, आपो रसव्यञ्जिकाः, तेजो रूपव्यञ्जकम्, पार्थिवं किञ्चिद् द्रव्यं कस्यचिद् द्रव्यस्य गन्धव्यञ्जकम्। अस्ति चायम् इन्द्रियाणां भूतगुणविशेषोपलब्धिनियमः तेन भूतगुणविशेषोपलब्धेर् मन्यामहे भूतप्रकृतीनीन्द्रियाणि नाव्यक्तप्रकृतीनीति

5.64

********************** न्य्स्भ्_3,1.62 **********************
% प्.795
गन्धादयः पृथिव्यादिगुणा इत्य् उद्दिष्टम् उद्देशश् च पृथिव्यादीनाम् एकगुणत्वे चानेकगुणत्वे च समान इत्य् अत आह ---
न्य्स्_3,1.62: गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ॥
********************** न्य्स्भ्_3,1.63 **********************
न्य्स्_3,1.63: अप्तेजोवायूनां पूर्वं पूर्वम् अपोह्याकाशस्योत्तरः ॥
स्पर्शपर्यन्तानाम् इति विभक्तिविपरिणामः। आकाशस्योत्तरः शब्दः स्पर्शपर्यन्तेभ्य इति।
% इति।] प्.796
कथं तर्हि तरब्निर्देशः? स्वतन्त्रविनियोगसामर्थ्यात्। तेनोत्तरशब्दस्य परार्थाभिधानं विज्ञायते। उद्देशसूत्रे हि स्पर्शपर्यन्तेभ्यः परः शब्द इति। तन्त्रं वा स्पर्शस्य विवक्षितत्वात् --- स्पर्शपर्यन्तेषु नियुक्तेषु यो ऽन्यस् तदुत्तरः शब्द इति॥62-63॥
********************** न्य्स्भ्_3,1.64 **********************
% प्.797
न्य्स्_3,1.64: न सर्वगुणानुपलब्धेः ॥
नायं गुणनियोगः साधुः। कस्मात्? यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्वे उपलभ्यन्ते। पार्थिवेन हि घ्राणेन स्पर्शपर्यन्ता न गृह्यन्ते गन्ध एव एको गृह्यते एवं शेषेष्व् अपीति

5.65

********************** न्य्स्भ्_3,1.65 **********************
कथं तर्हीमे गुणा विनियोक्तव्या इति?
न्य्स्_3,1.65: एकैकश्येनोत्तरोत्तरगुणसद्भावाद् उत्तरोत्तराणां तदनुपलब्धिः ॥
गन्धादीनाम् एकैको यथाक्रमं पृथिव्यादीनाम् एकैकस्य गुणः, अतः ``तदनुपलब्धिःऽऽ तेषां तयोः तस्य चानुपलब्धिः ---
% तेषां तयोः तस्य चानुपलब्धिः ---] प्.798
घ्राणेन रसरूपस्पर्शानां रसनेन रूपस्पर्शयोः चक्षुषा स्पर्शस्येति।
कथं तर्ह्य् अनेकगुणानि भूतानि गृह्यन्त इति?
संसर्गाच् चानेकगुणग्रहणम्। अबादिसंसर्गाच् च पृथिव्यां रसादयो गृह्यन्ते एवं शेषेष्व् अपीति

5.66

********************** न्य्स्भ्_3,1.66 **********************
% प्.799
नियमस् तर्हि न प्राप्नोति संसर्गस्यानियमात् चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुर् इति। नियमश् चोपपद्यते। कथम्?
न्य्स्_3,1.66: विष्टं ह्य् अपरं परेण ॥
पृथिव्यादीनां पूर्वपूर्वम् उत्तरेणोत्तरेण विष्टम् अतः संसर्गनियम इति। तच् चैतद् भूतसृष्टौ वेदितव्यं नैतर्हीति

5.67

********************** न्य्स्भ्_3,1.67 **********************
% प्.800
न्य्स्_3,1.67: न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥
नेति त्रिसूत्रीं प्रत्याचष्टे। कस्मात्? पार्थिवस्य द्रव्यस्याप्य् अस्य च प्रत्यक्षट्वात्। महत्वानेकद्रव्यत्वाद् रूपाच् चोपलब्धिर् इति तैजसम् एव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवम् आप्यं वा रूपाभावात्। तैजसवत् तु पार्थिवाप्ययोः प्रत्यक्षत्वात् न संसर्गाद् अनेकगुणग्रहणं भूतानाम् इति। भूतान्तररूपकृतं च पार्थिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्यते नियमे वा कारणम् उच्यताम् इति।
% प्.801
रसयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् --- पार्थिवो रसः षड्विधः, आप्यो मधुर एव; न चैतत् संसर्गाद् भव्तितुम् अर्हति। रूपयोर् वा पार्थिवाप्ययोः प्रत्यक्षत्वात् तैजसरूपानुगृहीतयोः, संसर्गे हि व्यञ्जकम् एव रूपं न व्यङ्ग्यम् अस्तीति। एकानेकविधत्वे च पार्थिवाप्ययोः प्रत्यक्षत्वाद् रूपयोः। पार्थिवं हरितलोहितपीताद्यनेकविधं रूपम्, आप्यं तु शुक्लम् अप्रकाशकम्, न चैतद् एकगुणानां संसर्गे सत्य् उपपद्यत इति। उदाहरणमात्रं चैतत्, अतः परं प्रपञ्चः ।
स्पर्शयोर् वा पार्थिवतैजसयोः प्रत्यक्षत्वात्। पार्थिवो ऽनुष्नाशीतः स्पर्शः, उष्णस् तैजसः प्रत्यक्षः, न चैतद् एकगुणानाम् अनुष्णाशीतस्पर्शेन वायुना संसर्गेणोपपद्यत इति।
अथ वा पार्थिवाप्ययोर् द्रव्ययोर् व्य्वस्थितगुणयोः प्रत्यक्षत्वात्। चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणम् आप्यं प्रत्यक्षम्, तेन तत्कारणम् अनुमीयते तथाभूतम् इति। तस्य कार्यं लिङ्गं कारणभावाद् धि कार्यभाव इति। एवं तैजसवायव्ययोर् द्रव्ययोः प्रत्यक्षत्वाद् गुणव्यवस्थायाः तत्कारणे द्रव्ये व्यवस्थानुमानम् इति।
दृष्टश् च विवेकः पार्थिवाप्ययोः प्रत्यक्षत्वात्। पार्थिवं द्रव्यम् अबादिभिर् वियुक्तं प्रत्यक्षतो गृह्यते,
% गृह्यते,] प्.802
आप्यं च पराभ्याम्, तैजसं च वायुना, न चैकैकगुणं गृह्यत इति। निरनुमानं तु ``विष्टं ह्य् अपरं परेणऽऽ इत्य् एतद् इति। नात्र लिङ्गम् अनुमापकं गृह्यत इति येनैतद् एवं प्रतिपद्येमहि।
यच् चोक्तं विष्टं ह्य् अपरं परेणेति भूतसृष्टौ वेदितव्यं न साम्प्रतम् इति नियमकारणाभावाद् अयुक्तम्। दृष्टं च साम्प्रतम् अपरं परेण विष्टम् इति, वायुना च विष्टं तेज इति। विष्टत्वं संयोगः, स च द्वयोः समानः, वायुना च विष्टत्वात् स्पर्शवत् तेजो न तु तेजसा विष्टत्वाद् रूपवान् वायुर् इति नियमकारणं नास्तीति। दृष्टं च तैजसेन स्पर्शेन वायव्यस्य स्पर्शस्याभिभवाद् अग्रहणम् इति, न च तेनैव तस्याभिभव इति

5.68

********************** न्य्स्भ्_3,1.68 **********************
तद् एवं न्यायविरुद्धं प्रवादं प्रतिषिध्य ``न सर्वगुणानुपलब्धेर्ऽऽ इति चोदितं समाधीयते ---
न्य्स्_3,1.68: पूर्वपूर्वगुणोत्कर्षात् तत् तत् प्रधानम् ॥
तस्मान् न सर्वगुणोपलब्धिः, घ्राणादीनां पूर्वं पूर्वं गन्धादेर् गुणस्योत्कर्षात् तत् तत् प्रधानम्। का प्रधानता? विषयग्राहकत्वम्। को गुणोत्कर्षः? अभिव्यक्तौ समर्थत्वम्। यथा बाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणव्यञ्जकत्वं गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपव्यञ्जकत्वम्,
% बाह्यानां ...] प्.803
एवं घ्राण रसनचक्षुषा.ं चतुर्गुणत्रिगुणद्विगुणानां न सर्वगुणग्राहकत्वम्, गन्धरसरूपोत्कर्षात् तु यथाक्रमं गन्धरसरूपग्राहकत्वम्। तस्माद् घ्राणादिभिर् न सर्वेषां गुणानाम् उपलब्धिर् इति।
यस् तु प्रतिजानीते गन्धगुणत्वाद् घ्राणं गन्धस्य ग्राहकम् एवं रसनादिष्व् अपीति, तस्य यथागुणयोगं घ्राणादिभिर् गुणग्रहणं प्रसज्यत इति

5.69

********************** न्य्स्भ्_3,1.69 **********************
% प्.804
किंकृतं पुनर् व्यवस्थानम् --- किञ्चित् पार्थिवम् इन्द्रियं न सर्वाणि, कानिचिद् आप्यतैजसवायव्यानि इन्द्रियाणि न सर्वाणीति?
न्य्स्_3,1.69: तद्व्यवस्थानं तु भूयस्त्वात् ॥
अर्थनिर्वृत्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसर्गः पुरुषसंस्कारकारितो भूयस्त्वम्। दृष्टो हि प्रकर्षे भूयस्त्वशब्दः, यथा प्रकृष्टो विषयो भूयान् इत्य् उच्यते। यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद् विषौषधिमणिप्रभृतीनि द्रव्याणि निर्वर्त्यन्ते, न सर्वं सर्वार्थम्; एवं पृथग्विषयग्रहणसमर्थानि घ्राणादीनि निर्वर्त्यन्ते न सर्वविषयग्रहणसमर्थानीति

5.70

********************** न्य्स्भ्_3,1.70 **********************
% प्.805
स्वगुणान् नोपलभन्त इन्द्रियाणि। कस्माद् इति चेत्?
न्य्स्_3,1.70: सगुणानाम् इन्द्रियभावात् ॥
स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि। केन कारणेनेति चेत्? स्वगुणैः सह घ्राणादीनाम् इन्द्रियभावात्। घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान् न भवति, एवं शेषाणाम् अपि

5.71

********************** न्य्स्भ्_3,1.71 **********************
यदि पुनर् गन्धः सहकारी च स्याद् घ्राणस्य ग्राह्यश् चेत्य् अत आह ---
न्य्स्_3,1.71: तेनैव तस्याग्रहणाच् च ॥
% प्.806
न गुणोपलब्धिर् इन्द्रियाणाम्। यो ब्रूते --- यथा बाह्यं द्रव्यं चक्षुषा (चोर्र्.; चक्षषा, एद्.) गृह्यते तथा तेनैव चक्षुषा तद् एव चक्षुर् गृह्यताम् इति, तादृङ् इदम्; तुल्यो ह्य् उभयत्र प्रतिपत्तिहेत्वभाव इति

5.72

********************** न्य्स्भ्_3,1.72 **********************
न्य्स्_3,1.72: न शब्दगुणोपलब्धेः ॥
स्वगुणान् नोपलभन्त इन्द्रियाणीति एतन् न भवति। उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति

5.73

********************** न्य्स्भ्_3,1.73 **********************
% प्.807
न्य्स्_3,1.73: तदुपलब्धिर् इतरेतरद्रव्यगुणवैधर्म्यात् ॥
न शब्देन गुणेन सगुणम् आकाशम् इन्द्रियं भवति। न शब्दः शब्दस्य व्यञ्जकः, न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षम्, नाप्य् अनुमीयते। अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणम्, शब्दगुणत्वं च आकाशस्येति। परिशेषश् चानुमानं वेदितव्यम्। आत्मा तावत् श्रोता न करणम्, मनसः श्रोत्रत्वे बधिरत्वाभावः, पृथिव्यादीनां घ्राणादिभावे सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्।
% सामर्थ्यम्, श्रोत्रभावे चासामर्थ्यम्।] प्.808
अस्ति चेदं श्रोत्रम् आकाशं च शिष्यते, परिशेषाद् आकाशं श्रोत्रम् इति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc