भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र (टीका सहित) · अध्याय 3

3.1

इति वात्स्यायनीये न्यायाभाष्ये द्वितीयाध्यायस्याद्यम् आह्निकम्।
% प्.572
********************** न्य्स्भ्_2,2.1 **********************
अथ द्वितीयाध्यायस्य द्वितीयम् आह्निकम्
अयथार्थः प्रमाणोद्देश इति मत्वाह---
न्य्स्_2,2.1: न चतुष्ट्वम् ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥
न चत्वार्य् एव प्रमाणानि। किं तर्हि? ऐतिह्यम् अर्थापत्तिः सम्भवो ऽभाव इत्य् एतान्य् अपि प्रमाणानि,
% प्रमाणानि,] प्.573
तानि कस्मान् नोक्तानि। इतिहोचुर् इत्य् अनिर्दिष्टप्रवक्तृकम् प्रवादपारम्पर्यम् ऐतिह्यम्। अर्थाद् आपत्तिर् अर्थापत्तिः। आपत्तिः प्राप्तिः प्रसङ्गः। यत्राभिधीयमाने ऽर्थे यो ऽन्यो ऽर्थः प्रसज्यते सो ऽर्थापत्तिः। यथा मेघेष्व् असत्सु वृष्टिर् न भवतीति।
% भवतीति] प्.574
किम् अत्र प्रसज्यते? सत्सु भवतीति। सम्भवो नामाविनाभाविनो ऽर्थस्य सत्ताग्रहणाद् अन्यस्य सत्ताग्रहणम्। यथा द्रोणस्य सत्ताग्रहणाद् आढकस्य सत्ताग्रहणम्, आडकस्य सत्ताग्रहणात् प्रस्थस्येति। अभावो विरोध्य् अभूतं भूतस्य, अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्, विधारके हि वाय्वभ्रसंयोगे गुरुत्वाद् अपां पतनकर्म न भवतीति

3.2

********************** न्य्स्भ्_2,2.2 **********************
% प्.575
सत्यम् एतानि प्रमाणानि, न तु प्रमाणान्तराणि। प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते। सो ऽयम्---
न्य्स्_2,2.2: शब्द ऐतिह्यानर्थान्तरभावाद् अनुमाने ऽर्थापत्तिसम्भवाभावानर्थान्तरभावाच् चाप्रतिषेधः ॥
अनुपपन्नः प्रतिषेधः। कथम्? ``आप्तोपदेशः शब्दःऽऽ इति। न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते; सो ऽयं भेदः सामान्यात् संगृह्यत इति। प्रत्यक्षेणाप्रत्यक्षस्य सम्बद्धस्य प्रतिपत्तिर् अनुमानम्।
% सम्बद्धस्य प्रतिपत्तिर् अनुमानम्।] प्.576
तथा चार्थापत्तिसम्भवाभावः। वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद् ग्रहणम् अर्थापत्तिर् अनुमानम् एव। अविनाभाववृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,
% वृत्त्या च सम्बद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवः,] प्.577
तद् अप्य् अनुमानम् एव। अस्मिन् सतीदं नोपपद्यत इति विरोधित्वे प्रसिद्धे कार्यानुपपत्त्या कारणस्य प्रतिबन्धकम् अनुमीयते। सो ऽयं यथार्थ एव प्रमाणोद्देश इति

3.3

********************** न्य्स्भ्_2,2.3 **********************
% प्.578
सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणीत्य् उक्तम्, अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते। तथा हीयम्---
न्य्स्_2,2.3: अर्थापत्तिर् अप्रमाणम् अनैकान्तिकत्वात् ॥
असत्सु मेघेषु वृष्टिर् न भवतीति सत्सु भवतीत्य् एतद् अर्थाद् आपद्यते, सत्स्व् अपि चैकदा न भवति। सेयम् अर्थापत्तिर् अप्रमाणम् इति

3.5

********************** न्य्स्भ्_2,2.4 **********************
% प्.579
नानैकान्तिकत्वम् अर्थापत्तेः---
न्य्स्_2,2.4: अनर्थापत्ताव् अर्थापत्त्यभिमानात् ॥
असति कारणे कार्यं नोत्पद्यत इति वाक्यात् प्रत्यनीकभूतो ऽर्थः सति कारणे कार्यम् उत्पद्यत इत्य् अर्थाद् आपद्यते। अभावस्य हि भावः प्रत्यनीक इति। सो ऽयं कार्योत्पादः सति कारणे ऽर्थाद् आपद्यमानो न कारणस्य सत्तां व्यभिचरति। न खल्व् असति कारणे कार्यम् उत्पद्यते तस्मान् नानैकान्तिकी।
यत् तु सति कारणे निमित्तप्रतिबन्दात् कार्यं नोत्पद्यत इति कारणधर्मो ऽसौ न त्व् अर्थापत्तेः प्रमेयम्। किं तर्ह्य् अस्याः प्रमेयम्? सति कारणे कार्यम् उत्पद्यत इति यो ऽसौ कार्योत्पादः कारणस्य सत्तां न व्यभिचतति तद् अस्याः प्रमेयम्। एवं तु सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति।
% सत्य् अनर्थापत्ताव् अर्थापत्त्यभिमानं कृत्वा प्रतिषेध उच्यत इति।] प्.580
********************** न्य्स्भ्_2,2.5 **********************
न्य्स्_2,2.5: प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् ॥
अर्थापत्तिर् न प्रमाणम् अनैकान्तिकत्वाद् इति वाक्यं प्रतिषेधः। तेनानेनार्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवम् अनैकान्तिको भवति। अनैकान्तिकत्वाद् अप्रमाणेनानेन न कश्चिद् अर्थः प्रतिषिध्यत इति

3.6

********************** न्य्स्भ्_2,2.6 **********************
% प्.581
अथ मन्यसे नियतविषयेष्व् अर्थेषु स्वविषये व्यभिचारो भवति, न च प्रतिषेधस्य सद्भावो विषयः? एवं तर्हि---
न्य्स्_2,2.6: तत्प्रामाण्ये वा नार्थापत्त्यप्रामाण्यम् ॥
अर्थापत्तेर् अपि कार्योत्पादेन कारणसत्ताया अव्यभिचारो विषयः। न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वम् इति

3.7

********************** न्य्स्भ्_2,2.7 **********************
% प्.582
अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते। कथम् इति?
न्य्स्_2,2.7: नाभावप्रामाण्यं प्रमेयासिद्धेः ॥
अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्याद् उच्यते नाभावप्रामाण्यं प्रमेयासिद्धेर् इति

3.8

********************** न्य्स्भ्_2,2.8 **********************
% प्.583
अथायम् अर्थबहुत्वाद् अर्थैकदेश उदाह्रियते---
न्य्स्_2,2.8: लक्षितेष्व् अलक्षणलक्षितत्वाद् अलक्षितानां तत्प्रमेयसिद्धेः ॥
% प्.584
तस्याभावस्य सिध्यति प्रमेयम्। कथम्? लक्षितेषु वासःसु अनुपादेयेष्व् उपादेयानाम् अलक्षितानाम् अलक्षणलक्षितत्वाद् लक्षणाभावेन लक्षितत्वाद् इति। उभयसन्निधाव् अलक्षितानि वासांस्य् आनयेति प्रयुक्तो येषु वासःसु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते, प्रतिपद्य चानयति, प्रतिपत्तिहेतुश् च प्रमाणम् इति

3.9

********************** न्य्स्भ्_2,2.9 **********************
न्य्स्_2,2.9: असत्य् अर्थे नाभाव इति चेन् नान्यलक्षणोपपत्तेः ॥
यत्र भूत्वा किञ्चिन् न भवति तत्र तस्याभाव उपपद्यते। न चालक्षितेषु वासःसु लक्षितानि भूत्वा न भवन्ति, तस्मात् तेषु लक्षणाभावो ऽनुपपन्न इति।
%ऽनुपपन्न इति] प्.585
नान्यलक्षणोपपत्तेः---यथायम् अन्येषु वासःसु लक्षणानाम् उपपत्तिं पश्यति नैवम् अलक्षितेषु। सो ऽयं लक्षणाभावं पश्यन्न् अभावेनार्थं प्रतिपद्यत इति

3.10

********************** न्य्स्भ्_2,2.10 **********************
% प्.586
न्य्स्_2,2.10: तत्सिद्धेर् अलक्षितेष्व् अहेतुः ॥
तेषु वासःसु लक्षितेषु सिद्धिर् विध्यमानता येषां भवति न तेषाम् अभावो लक्षणानाम्। यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषाम् अलक्षितेष्व् अभाव इत्य् अहेतुः। यानि खलु भवन्ति तेषाम् अभावो व्याहत इति

3.11

********************** न्य्स्भ्_2,2.11 **********************
न्य्स्_2,2.11: न लक्षणावस्थितापेक्षसिद्धेः ॥
न ब्रूमो यानि लक्षणानि भवन्ति तेषाम् अभाव इति, किन् तु केषुचिल् लक्षणान्य् अवस्थितानि अनवस्थितानि केषुचित्, अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति

3.12

********************** न्य्स्भ्_2,2.12 **********************
% प्.587
न्य्स्_2,2.12: प्राग् उत्पत्तेर् अभावोपपत्तेश् च ॥
अभावद्वैतं खलु भवति प्राक् चोत्पत्तेर् अविद्यमानता, उत्पन्नस्य चात्मनो हानाद् अविद्यमानता। तत्रालक्षितेषु वासःसु प्राग् उत्पत्तेर् अविद्यमानतालक्षणो लक्षणानाम् अभावो नेतर इति

3.13

********************** न्य्स्भ्_2,2.13 **********************
% प्.588
``आप्तोपदेशः शब्दःऽऽ इति प्रमाणभावे विशेषणं ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते। तस्मिन् सामन्येन विचारः---किं नित्यो ऽथानित्य इति।
विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः। आकाशगुणः शब्दओ विभुर् नित्यो ऽभिव्यक्तिधर्मक इत्य् एके।
% प्.589
गन्धादिसहवृत्तिर् द्रव्येषु सन्निविष्टो गन्धादिवद् अवस्थितो ऽभिव्यक्तिधर्मक इत्य् अपरे।
आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवद् इत्य् अपरे।
महाभूतसंक्षोभजः शब्दो ऽनाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्य् अन्ये। अतः संशयः किम् अत्र तत्त्वम् इति॥
% प्.594
अनित्यः शब्द इत्य् उत्तरम्। कथम्?---
न्य्स्_2,2.13: आधिमत्त्वाद् ऐन्द्रियकत्वात् कृतकवद् उपचाराच् च ॥
आदिर् योनिः कारणम् आदीयते अस्माद् इति। कारणवद् अनित्यं दृष्टम्। संयोगविभागजश् च शब्दः कारणवत्त्वाद् अनित्य इति। का पुनर् इयम् अर्थदेशना कारणवत्त्वाद् इति? उत्पत्तिधर्मकत्वात्; अनित्यः शब्द इति---भूत्वा न भवति विनाशधर्मक इति।
सांशयिकम् एतत्---किम् उत्पत्तिकारणं संयोगविभागौ शब्दस्य, आहोस्विद् अभिव्यक्तिकारणम् इत्य् अत आह---ऐन्द्रियकत्वात्। इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः।
किम् अयं व्यञ्जकेन समानदेशो ऽभिव्यज्यते रूपादिवत् अथ संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यत इति? संयोगनिवृत्तौ शब्दग्रहणात् न व्यञ्जकेन समानदेशस्य ग्रहणम्---दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते। न च व्यञ्जकाभावे व्यङ्ग्यग्रहणं भवति,
% च वय्ञ्जकाभावे व्यङ्ग्यग्रहणं भवति,] प्.596
तस्मान् न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच् छब्दाच् छब्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणम् इति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणम् इति।
% प्.600
इतश् च शब्द उत्पद्यते नाभिव्यज्यते---कृतकवद् उपचारात्। तीव्रं मन्दम् इति कृतकम् उपचर्यते, तीव्रं सुखं मन्दं सुखं तीव्रं दुःखं मन्दं दुःखम् इति, उपचर्यते च तीव्रः शब्दो मन्दः शब्द इति।
% प्.603
व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवद् इति चेद् न अभिभवोपपत्तेः---संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच् च न, एवम् अभिभवोपपत्तेः---तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः। न च शब्दग्रहणम् अभिभावकम्, शब्दश् च न भिद्यते, शब्दे तु भिद्यमाने युक्तो ऽभिभवः। तस्माद् उत्पद्यते शब्दो नाभिव्यज्यत इति।
% प्.604
अभिभवानुपपत्तिश् च व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात्---व्यञ्जकेन समानदेशे ऽभिव्यज्यते शब्द इत्य् एतस्मिन् पक्षे नोपपद्यते ऽभिभवः। न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति।
% प्.605
अप्राप्ते ऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः---अथ मन्येत असत्याम् प्राप्ताव् अभिभवो भवतीति, एवं सति यथा भेरीशब्दः कञ्चित् तन्त्रीस्वनम् अभिभवति एवम् अन्तिकस्थोपादानम् इव दवीयःस्थो पादानान् अपि तन्त्रीस्वनान् अभिभवेद् अप्राप्तेर् अविशेषात्। तत्र क्वचिद् एव भेर्यां प्रणादितायां सर्वलोकेषु समानकालास् तन्त्रीस्वना न श्रूयेरन् इति। नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच् छब्दस्य तीव्रेण मन्दस्याभिभवो युक्त इति।
% मन्दस्याभिभवो युक्त इति।] प्.606
कः पुनर् अयम् अभिभवो नाम? ग्राह्यसमानजातीयग्रहणकृतम् अग्रहणम् अभिभवः; यथोल्काप्रकाशस्य ग्रहणार्हस्यादित्यप्रकाशेनेति

3.14

********************** न्य्स्भ्_2,2.14 **********************
% प्.607
न्य्स्_2,2.14: न घटाभावसामान्यनित्यत्वान् नित्येष्व् अप्य् अनित्यवद् उपचाराच् च ॥
न खलु आदिमत्त्वाद् अनित्यः शब्दः। कस्मात्? व्यभिचारात्। आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम्। कथम् आदिमान्? कारणविभागेभ्यो हि घटो न भवति। कथम् अस्य नित्यत्वम्? यो ऽसौ कारणविभागेभ्यो न भवति न तस्याभावो भावेन कदाचिन् निवर्त्यत इति। यद् अप्य् ऐन्द्रियकत्वात्, तद् अपि व्यभिचरति, ऐन्द्रियकं च सामान्यं नित्यं चेति। यद् अपि कृतकवद् उपचाराद् इति, एतद् अपि व्यभिचरति; नित्येष्व् अनित्यवद् उपचारो दृष्टः---तथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेशः एवम् आकाशस्य प्रदेशः आत्मनः प्रदेश इति भवतीति

3.17

********************** न्य्स्भ्_2,2.15 **********************
% प्.608
न्य्स्_2,2.15: तत्त्वभाक्तयोर् नानात्वस्य विभागाद् अव्यभिचारः ॥
नित्यम् इत्य् अत्र किं तावत् तत्त्वम्? अर्थान्तरस्यानुत्पत्तिधर्मकस्यात्महानानुपपत्तिर् नित्यत्वम्, तच् चाभावे नोपपद्यते। भाक्तं तु भवति यत् तत्रात्मानम् अहासीद् यद् भूत्वा न भवति न जातु तत् पुनर् भवति, तत्र नित्य इव नित्यो घटाभाव इत्य् अयं पदार्थ इति। तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्यं किंचिन् नित्यं दृश्यत इत्य् अव्यभिचारः॥
********************** न्य्स्भ्_2,2.16 **********************
% प्.609
यद् अपि सामान्यनित्यत्वाद् इतीन्द्रियप्रत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति---
न्य्स्_2,2.16: सन्तानानुमानविशेषणात् ॥
नित्येष्व् अव्यभिचार इति प्रकृतम्। नेन्द्रियग्रहणसामर्थ्याच् छब्दस्यानित्यत्वम्। किं तर्हि इन्द्रियप्रत्यासत्तिग्राह्यत्वात् सन्तानानुमानं तेनानित्यत्वम् इति ॥
********************** न्य्स्भ्_2,2.17 **********************
यद् अपि नित्येष्व् अप्य् अनित्यवद् उपचाराद् इति। न---
न्य्स्_2,2.17: कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ॥
नित्येष्व् अप्य् अव्यभिचार इति। एवम् आकाशप्रदेशः आत्मप्रदेश इति नात्राकाशात्मनोः कारणद्रव्यम् अभिधीयते यथा कृतकस्य। कथं ह्य् अविद्यमानम् अभिधीयते,
अविद्यमानता च प्रमाणतो ऽनुपलब्धेः। किं तर्हि तत्राभिधीयते? संयोगस्याव्याप्यवृत्तित्वम्---परिच्छिन्नेन द्रव्येनाकाशस्य संयोगो नाकाशं व्याप्नोति अव्याप्य वर्तत इति, तद् अस्य् कृतकेन द्रव्येण सामान्यम्। न ह्य् आमलकयोः संयोग आश्रयं व्याप्नोति। सामान्यकृता च भक्तिर् आकाशस्य प्रदेश इति। अनेनात्मप्रदेशो व्याख्यातः। संयोगवच् च शब्दबुद्ध्यादीनाम् अव्याप्यवृत्तित्वम् इति। परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति।
% प्.613
कस्मात् पुनः सूत्रकारस्यास्मिन्न् अर्थे सूत्रं न श्रूयत इति? शीलम् इदं भव्गवतः सूत्रकारस्य बहुष्व् अधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुम् अर्हतीति मन्यते। शास्त्रसिद्धान्तस् तु न्यायसमाख्यातम् अनुमतं बहुशाखम् अनुमानम् इति

3.18

********************** न्य्स्भ्_2,2.18 **********************
% प्.614
अथापि खल्व् इदम् अस्ति इदं नास्तीति कुत एतत् प्रतिपत्तव्यम् इति? प्रमाणत उपलब्धेर् अनुपलब्धेश् चेति। अविद्यमानस् तर्हि शब्दः---
न्य्स्_2,2.18: प्राग् उच्चारणाद् अनुपलब्धेर् आवरणाद्यनुपलब्धेश् च ॥
प्राग् उच्चारणान् नास्ति शब्दः। कस्मात्? अनुपलब्धेः। ``सतो नुपलब्धिर् आवरणादिभ्यःऽऽ एतन् नोपपद्यते। कस्मात्? आवरणादीनाम् अनुपलब्धिकारणानाम् अग्रहणात्---अनेनावृतः शब्दो नोपलभ्यत असन्निकृष्टश् चेन्द्रियव्यवधानाद् इत्य् एवमादि अनुपलब्धिकारणं न गृह्यत इति सो ऽयम् अनुच्चारितो नास्तीति। उच्चारणम् अस्य व्यञ्जकं तदभावाद् प्राग् उच्चारणाद् अनुपलब्धिर् इति। किम् इदम् उच्चारणं नामेति? विवक्षाजनितेन प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,
% प्रयत्नेन कोष्ठ्यस्य वायोः प्रेरितस्य कण्ठताल्वादिप्रतिघातः,] प्.615
यथास्थानं प्रतिघाताद् वर्णाभिव्यक्तिर् इति। संयोगविशेषो वै प्रतिघातः, प्रतिषिद्धं च संयोगस्य व्यञ्जकत्वम्, तस्मान् न व्यञ्जकाभावाद् अग्रहणम्, अपि त्व् अभावाद् एवेति। सो ऽयम् उच्चार्यमाणः श्रूयते श्रूयमाणश् चाभूत्वा भवतीति अनुमीयते। ऊर्ध्वं चोच्चारणान् न श्रूयते स भूत्वा न भवति अभावान् न श्रूयत इति। कथम्? आवरणाद्यनुपलब्धेर् इत्य् उक्तम्। तस्माद् उत्पत्तितिरोभावधर्मकः शब्द इति

3.16

********************** न्य्स्भ्_2,2.19 **********************
एवं च सति तत्त्वं पांशुभिर् इवावकिरन्न् इदम् आह---
न्य्स्_2,2.19: तदनुपलब्धेर् अनुपलम्भाद् आवरणोपपत्तिः ॥
यद्य् अनुपलम्भाद् आवरणं नास्ति, आवरणानुपलब्धिर् अपि तर्ह्य् अनुपलम्भात् नास्तीति तस्या अभावाद् अप्रतिषिद्धम् आवरणम् इति। कथं पुनर् जानीते भवान् नावरणानुपलब्धिर् उपलभ्यत इति?
% इति] प्.616
किम् अत्र ज्ञेयं प्रत्यात्मवेदनीयत्वात् समानम्---अयं खल्व् आवरणम् अनुपलम्भमानः प्रत्यात्मम् एव संवेदयते नावरणम् उपलभ इति, यथा कुड्येनावृतस्यावरणम् उपलभमानः प्रत्यात्मम् एव संवेदयते। सेयम् आवरणोपलब्धिवद् आवरणानुपलब्धिर् अपि संवेद्यैवेति। एवं च सत्य् अपहृतविषयम् उत्तरवाक्यम् अस्तीति

3.20

********************** न्य्स्भ्_2,2.20 **********************
% प्.617
अभ्यनुज्ञावादेन तूच्यते जातिवादिना---
न्य्स्_2,2.20: अनुपलम्भाद् अप्य् अनुपलब्धिसद्भावान् नावरणानुपपत्तिर् अनुपलम्भात् ॥
यथानुपलम्भमानाप्य् आवरणानुपलब्धिर् अस्ति एवम् अनुपलभ्यमानम् अप्य् आवरणम् अस्तीति यद्य् अभ्यनुजानाति भवान् अनुपलभ्यमानावरणानुपलब्धिर् अस्तीति अभ्यनुज्ञाय च वदति नास्त्य् आवरणम् अनुपलम्भाद् इति, एतस्मिन्न् अप्य् अभ्यनुज्ञावादे प्रतिपत्तिनियमो नोपपद्यत इति

3.21

********************** न्य्स्भ्_2,2.21 **********************
% प्.618
न्य्स्_2,2.21: अनुपलम्भात्मकत्वाद् अनुपलब्धेर् अहेतुः ॥
यद् उपलभ्यते तद् अस्ति, यन् नोपलभ्यते तन् नास्ति, इत्य् अनुपलम्भात्मकम् असद् इति व्यवस्थितम्। उपलब्ध्यभावश् चानुपलब्धिर् इति सेयम् अभावत्वान् नोपलभ्यते। सच् च खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति।
% खल्व् आवरणं तस्योपलब्ध्या भवितव्यं न चोपलभ्यते तस्मान् नास्तीति।] प्.619
तत्र यद् उक्तं नावरणानुपपत्तिर् अनुपलम्भाद् इत्य् अयुक्तम् इति

3.22

********************** न्य्स्भ्_2,2.22 **********************
अथ शब्दस्य नित्यत्वं प्रतिजानानः कस्माद् धेतोः प्रतिजानीते---
% प्.620
न्य्स्_2,2.22: अस्पर्शत्वात् ॥
अस्पर्शम् आकाशं नित्यं दृष्टम् इति तथा च शब्द इति

3.24

********************** न्य्स्भ्_2,2.23 **********************
सो ऽयम् उभयतः सव्यभिचारः---स्पर्शवांश् चाणुर् नित्यः, अस्पर्शं च कर्मानित्यं दृष्टम्।
अस्पर्शत्वाद् इत्य् एतस्य साध्यसाधर्म्येणोदाहरणम्---
न्य्स्_2,2.23: न कर्मानित्यत्वात् ॥
साध्यवैधर्म्येणोदाहरणम्---
********************** न्य्स्भ्_2,2.24 **********************
न्य्स्_2,2.24: नाणुनित्यत्वात् ॥
उभयस्मिन्न् उदाहरणे व्यभिचाराण् न हेतुः

3.25

********************** न्य्स्भ्_2,2.25 **********************
% प्.621
अयं तर्हि हेतुः---
न्य्स्_2,2.25: सम्प्रदानात् ॥
सम्प्रदीयमानम् अवस्थितं दृष्टम्, सम्प्रदीयते च शब्द आचर्येणान्तेवासने, तस्माद् अवस्थित इति

3.26

********************** न्य्स्भ्_2,2.26 **********************
न्य्स्_2,2.26: तदन्तरालानुपलब्धेर् अहेतुः ॥
येन सम्प्रदीयते यस्मै च, तयोर् अन्तराले ऽवस्थानम् अस्य केन लिङ्गेनोपलभ्यते। सम्प्रदीयमानो ऽह्य् अवस्थितः सम्प्रदातुर् अपैति सम्प्रदानं च प्राप्नोतीत्य् अवर्जनीयम् एतत्

3.27

********************** न्य्स्भ्_2,2.27 **********************
% प्.622
न्य्स्_2,2.27: अध्यापनाद् अप्रतिषेधः ॥
अध्ययनं लिङ्गम्, असति सम्प्रदाने ऽध्यापनं न स्याद् इति

3.28

********************** न्य्स्भ्_2,2.28 **********************
न्य्स्_2,2.28: उभयोः पक्षयोर् अन्यतरस्याध्यापनाद् अप्रतिषेधः ॥
समानम् अध्यापनम् उभयोः पक्षयोः संशयानिवृत्तेः, किम् आचार्यस्थः शब्दो ऽन्तेवासिनम् आपद्यते तद् अध्यापनम्,
% म् आपद्यते तद् अध्यापनम्,] प्.623
आहोस्विन् नृत्योपदेशवद् गृहीतस्यानुकरणम् अध्यापनम् इति। एवम् अध्यापनम् अलिङ्गं सम्प्रदानस्येति

3.29

********************** न्य्स्भ्_2,2.29 **********************
अयं तर्हि हेतुः---
न्य्स्_2,2.29: अभ्यासात् ॥
अभ्यस्यमानम् अवस्थितं दृष्टम्।
पञ्चकृत्वः पश्यतीति रूपम् अवस्थितं पुनः पुनर् दृश्यते। भवति च शब्दे ऽभ्यासः---दशक्ट्त्वो ऽधीतो ऽनुवाको विंशतिकृत्वो ऽधीत इति। तस्माद् अवस्थितस्य पुनः पुनर् उच्चारणम् अभ्यास इति

3.30

********************** न्य्स्भ्_2,2.30 **********************
% प्.624
न्य्स्_2,2.30: नान्यत्वे ऽप्य् अभ्यासस्योपचारात् ॥
अनवस्थाने ऽप्य् अभ्यासस्याभिधानं भवति द्विर् नृत्यतु भवान् त्रिर् नृत्यतु भवान् इति, द्विर् अनृत्यत् त्रिर् अनृत्यद् द्विर् अग्निहोत्रं जुहोति द्विर् भुङ्क्ते

3.31

********************** न्य्स्भ्_2,2.31 **********************
एवं व्यभिचारात् प्रतिषिद्धहेताव् अन्यशब्दस्य प्रयोगः प्रतिषिध्यते---
न्य्स्_2,2.31: अन्यद् अन्यस्माद् अनन्यत्वाद् अनन्यद् इत्य् अन्यताभावः ॥
यद् इदम् अन्यद् इति मन्यसे तत् स्वार्थेनानन्यत्वाद् अन्यन् न भवति, एवम् अन्यताया अभावः। तत्र यद् उक्तम् अन्यत्वे ऽप्य् अभ्यासोपचाराद् इति एतद् अयुक्तम् इति

3.32

********************** न्य्स्भ्_2,2.32 **********************
% प्.625
शब्दप्रयोगं प्रतिषेधतः शब्दान्तरप्रयोगः प्रतिषिध्यते---
न्य्स्_2,2.32: तदभावे नास्त्य् अनन्यता तयोर् इतरेतरापेक्षसिद्धेः ॥
अन्यस्माद् अनन्यताम् उपपादयति भवान्, उपपाद्य चान्यत् प्रत्याचष्टे अनन्यद् इति च शब्दम् अनुजानाति, प्रयुङ्क्ते चानन्यद् इत्य् एतत् समासपदम्, अन्यशद्बो ऽयं प्रतिषेधेन सह समस्यते। यदि चात्रोत्तरं पदं नास्ति कस्यायं प्रतिषेधेन सह समासः? तस्मात् तयोर् अन्यानन्यशब्दयोर् इतरो ऽनन्यशब्द इतरम् अन्यशब्दम् अपेक्षमाणः सिध्यतीति तत्र यद् उक्तम् अन्यताया अभाव इति एतद् अयुक्तम् इति

3.33

********************** न्य्स्भ्_2,2.33 **********************
% प्.627
अस्तु तर्हीदानीं शब्दस्य नित्यत्वम्---
न्य्स्_2,2.33: विनाशकारणानुपलब्धेः ॥
यद् अनित्यं तस्य विनाशः कारणाद् भवति यथा लोष्टस्य कारणद्रव्यविभागात्। शब्दश् चेद् अनित्यस् तस्य विनाशो यस्मात् कारणाद् भवति तद् उपलभ्येत, न चोपलभ्यते तस्मान् नित्य इति

3.34

********************** न्य्स्भ्_2,2.34 **********************
% प्.628
न्य्स्_2,2.34: अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ॥
यथा विनाशकारणानुपलब्धेर् अविनाशप्रसङ्ग एवम् अश्रवणकारणानुपलब्धेः सततं श्रवणप्रसङ्गः। व्यञ्जकाभावाद् अश्रवणम् इति चेत्? प्रतिषिद्धं व्यञ्जकम्। अथ विद्यमानस्य निर्निमित्तम् अश्रवनम् इति विद्यमानस्य निर्निमित्तो विनाश इति। समानश् च दृष्टविरोधो निमित्तम् अन्तरेण विनाशे चाश्रवणे चेति

3.35

********************** न्य्स्भ्_2,2.35 **********************
न्य्स्_2,2.35: उपलभ्यमाने चानुपलभ्देर् असत्त्वाद् अनपदेशः ॥
अनुमानाच् चोपलभ्यमाने शब्दस्य विनाशकारणे विनाशकारणानुपलब्धेर् असत्त्वाद् इत्य् अनपदेशः, यथा यस्माद् विषाणी तस्माद् अश्व इति। किम् अनुमानम् इति चेत्? सन्तानोपपत्तिः। उपपादितः शब्दसन्तानः संयोगविभागजाच् छब्दाच् छब्दान्तरं ततो ऽन्तत् ततो ऽप्य् अन्यद् इति। तत्र कार्यः शब्दः कारणशब्दं निरुणद्धि प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः।
% प्रतिघातिद्रव्यसंयोगस् त्व् अन्त्यस्य शब्दस्य निरोधकः।] प्.629
दृष्टं हि तिरःप्रतिकुड्यम् अन्तिकस्थेनाप्य् अश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्य् असति व्यवधाने इति।
% प्.630
घण्टायाम् अभिहन्यमानायां तारस् तारतरो मन्दो मन्दतर इति श्रुतिभेदान् नानाशब्दसन्तानो ऽविच्छेदेन श्रूयते। तत्र नित्ये शब्दे घण्टास्थम् अन्यगतं वावस्थितं सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,
% सन्तानवृत्ति वाभिव्यक्तिकारणं वाच्यम्,] प्.631
येन श्रुतिसन्तानो भवतीति शब्दभेदे वासति श्रुतिभेद उपपादयितव्य इति। अनित्ये तु शब्दे घण्टास्थं सन्तानवृत्ति संयोगसहकारि निमित्तान्तरं संस्कारभूतं पटु मन्दम् अनुवर्तते तस्तानुवृत्त्या शब्दसन्तानानुवृत्तिः, पटुमन्दभावाच् च तीव्रमन्दता शब्दस्य, तत्कृतश् च श्रुतिभेद इति

3.36

********************** न्य्स्भ्_2,2.36 **********************
% प्.633
न वै निमित्तान्तरं संस्कार उपलभ्यते। अनुपलब्धेर् नास्तीति?
न्य्स्_2,2.36: पाणिनिमित्तप्रश्लेषाच् छब्दाभावे नानुपलब्धिः ॥
पाणिकर्मणा पाणिघण्टाप्रश्लेषो भवति तस्मिंश् च सति शब्दसन्तानो नोत्पद्यते अतः श्रवणानुपपत्तिः।
% अतः श्रवणानुपपत्तिः।] प्.634
तत्र प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणद्धीत्य् अनुमीयते; तस्य च निरोधाच् छब्दसन्तानो नोत्पद्यते। अनुत्पत्तौ श्रुतिविच्छेदो यथा प्रतिघातिद्रव्यसंयोगाद् इषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति। कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः। कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति। तस्मान् निमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिर् इति

3.37

********************** न्य्स्भ्_2,2.37 **********************
% प्.635
न्य्स्_2,2.37: विनाशकारणानुपलब्धेश् चावस्थाने तन्नित्यत्वप्रसङ्गः ॥
यदि यस्य विनाशकारणं नोपलभ्यते तद् अवतिष्ठते, अवस्थानाच् च तस्य नित्यत्वं प्रसज्यते; एवं यानि खल्व् इमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतम्, न तेषां विनाशकारणं भवतोपपाद्यते, अनुपपादनाद् अवस्थानम् अवस्थानात् तेषां नित्यत्वं प्रसज्यत इति। अथ नैवम्, न तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान् नित्यत्वम् इति

3.38

********************** न्य्स्भ्_2,2.38 **********************
कम्पसमानाश्रयस्यानुनादस्य पाणिप्रश्लेषात् कम्पवत् कारणोपरमाद् अभावः। वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्याद् इति---
% प्.636
न्य्स्_2,2.38: अस्पर्शत्वाद् अप्रतिषेधः ॥
यद् इदं नाकाशगुणः शब्द इति प्रतिषिध्यते अयम् अनुपपन्नः प्रतिषेधः, अस्पर्शत्वाच् छब्दाश्रयस्य। रूपादिसमानदेशस्याग्रहणे शब्दसन्तानोपपत्तेर् अस्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न कम्पसमानाश्रय इति

3.39

********************** न्य्स्भ्_2,2.39 **********************
% प्.637
प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते। कथम्?---
न्य्स्_2,2.39: विभक्त्यन्तरोपपत्तेश् च समासे ॥
सन्तानोपपत्तेश् चेति चार्थः। तद् व्याख्यातम्। यदि रूपादयः शब्दाश् च प्रतिद्रव्यं समस्ताः समुदिताः समुदितास् तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस् तस्य तथा जातीयस्यैव ग्रहणेन भवितव्यं शब्दे रूपादिवत्। तत्र यो ऽयं विभाग एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः श्रूयन्ते यच् च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास् तीव्रमन्दधर्मतया भिन्नाः श्रूयन्ते तद् उभयं नोपपद्यते, नानाभूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति।
% भूतानाम् उत्पद्यमानानाम् अयं धर्मो नैकस्य व्यज्यमानस्येति।] प्.638
अस्ति चायं विभागो विभागान्तरं च, तेन विभागोपपत्तेर् मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति

3.40

********************** न्य्स्भ्_2,2.40 **********************
द्विविधश् चायं शब्दो वर्णात्मको ध्वनिमात्रश् च। तत्र वर्णात्मनि तावत्---
न्य्स्_2,2.40: विकारादेशोपदेशात् संशयः ॥
दध्य् अत्रेति केचित् इकार इत्वं हित्वा यत्वम् आपद्यत इति विकारं मन्यन्ते। केचिद् इकारस्य प्रयोगे विषयकृते यद् इकारः स्थानं जहाति तत्र यकारस्य प्रयोगं ब्रुवते। संहितायां विषये इकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति उभयम् इदम् उपदिश्यते। तत्र न ज्ञायते किं तत्त्वम् इति।
% प्.639
आदेशोपदेशस् तत्त्वम्। विकारोपदेशे ह्य् अन्वयस्याग्रहणाद् विकाराननुमानम्---सत्य् अन्वये किञ्चिन् निवर्तते किञ्चिद् उपजायत इति शक्येत विकारो ऽनुमातुम्। न चान्वयो गृह्यते तस्माद् विकारो नास्तीति।
भिन्नकरणयोश् च वर्णयोर् अप्रयोगे प्रयोगोपपत्तिः---विवृतकरण इकार ईषत्स्पृष्टकरणो यकारः, ताव् इमौ पृथक्करणाख्येन प्रयत्नेनोच्चारणीयौ, तयोर् एकस्याप्रयोगे ऽन्यस्य प्रयोग उपपन्न इति।
अविकारे चाविशेषः। यत्रेमाव् इकारयकारौ न विकारभूतौ---यतते, यच्छति, प्रायंस्त, इति, इकार इदम् इति च, यत्र च विकारभूतौ इष्ट्या दध्य् आहरेति, उभयत्र प्रयोक्तुर् अविशेषो यत्नः श्रोतुश् च श्रुतिर् इत्य् आदेशोपपत्तिः।
% प्.640
प्रयुज्यमानाग्रहणाच् च। न खल्व् इकारः प्रयुज्यमानो यकारताम् आपद्यमानो गृह्यते। किं तर्हि? इकारस्य प्रयोगे यकारः प्रयुज्यते, तस्माद् अविकार इति।
अविकारे च न शब्दान्वाख्यानलोपः। न विक्रियन्ते वर्णा इति। न चैतस्मिन् पक्षे शब्दान्वाख्यानस्यासम्भवे येन वर्णविकारं प्रतिपद्येमहीति।
न खल्व् वर्णस्य वर्णान्तरं कार्यम्, न हि इकाराद् यकार उत्पद्यते यकाराद् वा इकारः। पृथक्स्थानप्रयत्नोत्पाद्या हीमे वर्णाः तेषाम् अन्योन्यस्य स्थाने प्रयुज्यत इति युक्तम्। एतावच् चैतत् परिणामो वा विकारः स्यात् कार्यकारणभावो वा। उभयं च नास्ति तस्मात् न सन्ति वर्णविकाराः।
वर्णसमुदायविकारानुपपत्तिवच् च वर्णविकारानुपपत्तिः---``अस्तेर् भूःऽऽ ``ब्रुवो वचिर्ऽऽ इति यथा वर्णसमुदायस्य धातुलक्षणस्य क्वचिद् विषये वर्णान्तरसमुदायो न परिणामो न कार्यं शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णानतरम् इति

3.41

********************** न्य्स्भ्_2,2.41 **********************
% प्.641
इतश् च न सन्ति वर्णविकाराः---
न्य्स्_2,2.41: प्रकृतिविवृद्धौ विकारविवृद्धिः ॥
प्रकृत्यनुविधानं विकारेषु दृष्टम्, यकारे ह्रस्वदीर्घानुविधानं नास्ति येन विकारत्वम् अनुमीयत इति

3.42

********************** न्य्स्भ्_2,2.42 **********************
% प्.642
न्य्स्_2,2.42: न्यूनसमाधिकोपलब्धेर् विकाराणाम् अहेतुः ॥
द्रव्यविकारा न्यूनाः समाः अधिकाश् च गृह्यन्ते। तद्वद् अयं विकारो न्यूनः स्याद् इति

3.43

********************** न्य्स्भ्_2,2.43 **********************
न्य्स्_2,2.43: द्विविधस्यापि हेतोर् अभावाद् असाधनं दृष्टान्तः ॥
अत्र नोदाहरणसाधर्म्याद् धेतुर् अस्ति न वैधर्म्यात्। अनुपसंहृतश् च हेतुना दृष्टान्तो न साधक इति।
प्रतिदृष्टान्ते चानियमः प्रसज्येत। यथानुडुहः स्थाने ऽश्वो वोढुं नियुक्तो न तद्विकारो भवति एवम् इवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति। न चात्र नियमहेतुर् अस्ति---दृष्टान्तः साधको न प्रतिदृष्टान्त इति

3.44

********************** न्य्स्भ्_2,2.44 **********************
% प्.643
द्रव्यविकारोदाहरणं च---
न्य्स्_2,2.44: नातुल्यप्रकृतीनां विकारविकल्पात् ॥
अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते विकाराश् च प्रकृतीर् अनुविधीयन्ते। न त्व् इवर्णम् अनुविधीयते यकारः। तस्माद् अनुदाहरणं द्रव्यविकार इति

3.45

********************** न्य्स्भ्_2,2.45 **********************
% प्.644
न्य्स्_2,2.45: द्रव्यविकारवैषम्यवद् वर्णविकारविकल्पः ॥
यथा द्रव्यभावेन तुल्यायाः प्रकृतेर् विकारवैषम्यम्, एवं वर्णाभावेन तुल्यायाः प्रकृतेर् विकारविकल्प इति

3.46

********************** न्य्स्भ्_2,2.46 **********************
न्य्स्_2,2.46: न विकारधर्मानुपपत्तेः ॥
अयं विकारधर्मा द्रव्यसामान्ये, यदात्मकं द्रव्यं मृद् वा सुवर्णं वा तस्यात्मनो ऽन्वये पूर्वो व्यूहो निवर्तते, व्यूहान्तरं चोपजायते; तं विकारम् आचष्टे। न वर्णसामान्ये कश्चिच् छब्दात्मा ऽन्वयी य इत्थं जहाति यत्वं चापद्यते। तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहो ऽश्वो विकारो विकारधर्मानुपपत्तेः, एवम् इवर्णस्य न यकारो विकारो विकारधर्मानुपपत्तेर् इति

3.47

********************** न्य्स्भ्_2,2.47 **********************
% प्.645
इतश् च न सन्ति वर्णविकाराः---
न्य्स्_2,2.47: विकारप्राप्तानाम् अपुनरापत्तेः ॥
अनुपपन्ना पुनरापत्तिः। कथम्? पुनरापत्तेर् अननुमानाद् इति। इकारो यकारत्वम् आपन्नः पुनर् इकारो भवति, न पुनर् इकारस्य स्थाने यकारस्य प्रयोगो ऽप्रयोगश् चेत्य् अत्रानुमानं नास्ति

3.48

********************** न्य्स्भ्_2,2.48 **********************
अननुमानाद् इति न। इदं ह्य् अनुमानम्---
न्य्स्_2,2.48: सुवर्णादीनां पुनरापत्तेर् अहेतुः ॥
सुवर्णं कुण्डलत्वं हित्वा रुचकत्वम् आपद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वम् आपद्यते, एवम् इकारो ऽपि यकारत्वम् आपन्नः पुनर् इकारो भवतीति

3.49

********************** न्य्स्भ्_2,2.49 **********************
% प्.646
व्यभिचाराद् अननुमानम् यथा पयो दधिभावम् आपन्नं पुनः न पयो भवति किम् एवं वर्णानां न पुनरापत्तिः, अथ सुवर्णवत् पुनरापत्तिर् इति सुवर्णोदाहरणोपपत्तिश् च---
न्य्स्_2,2.49: न तद्विकाराणां सुवर्णभावाव्यतिरेकात् ॥
अवस्थितं सुवर्णं हीयमानेन धर्मेण उपजायमानेन च धर्मि भवति, नैवं कश्चिच् छब्दात्मा हीयमानेन इत्वेनोपजायमानेन यत्वेन धर्मी गृह्यते, तस्मात् सुवर्णोदाहरणं नोपपद्यत इति॥
% प्.647
वर्णत्वाव्यतिरेकाद् वर्णविकाराणाम् अप्रतिषेधः। वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वम् इति।
सामान्यवतो धर्मयोगो न सामान्यस्य। कुण्डलरुचकौ सुवर्णस्य धर्मौ न सुवर्णत्वस्य, एवम् इकारयकारौ कस्य वर्णात्मनो धर्मौ? वर्णत्वं सामान्यं न तस्येमौ धर्मौ भवितुम् अर्हति। न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिस् तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिर् इति

3.50

********************** न्य्स्भ्_2,2.50 **********************
इतश् च वर्णविकारानुपपत्तिः---
न्य्स्_2,2.50: नित्यत्वे ऽविकाराद् अनित्यत्वे चानवस्थानात् ॥
नित्या वर्णा इत्य् एतस्मिन् पक्षे इकारयकारौ वर्णौ इत्य् उभयोर् नित्यत्वाद् विकारानुपपत्तिः, नित्यत्वे ऽविनाशित्वात् कः कस्य विकार इति। अथानित्या वर्णा इति पक्षः,
% पक्षः] प्.648
एवम् अप्य् अनवस्थानं वर्णानाम्। किम् इदम् अनवस्थानं वर्णानाम्? उत्पद्य निरोधः। उत्पद्य निरुद्धे इकारे यकार उत्पद्यते यकारे चोत्पद्य निरुद्धे इकार उत्पद्यत इति कः कस्य विकारः? तद् एतद् अवगृह्य सन्धाने सन्धाय चावग्रहे वेदितव्यम् इति

3.51

********************** न्य्स्भ्_2,2.51 **********************
नित्यपक्षे तु तावत् समाधिः---
न्य्स्_2,2.51: नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पाच् च वर्णविकाराणाम् अप्रतिषेधः ॥
नित्या वर्णा न विकल्पन्त इति विप्रतिषेधः। यथा नित्यत्वे सति किञ्चिद् अतीन्द्रियं किञ्चिद् इन्द्रियग्राह्यम्, इन्द्रियग्राह्याश् च वर्णाः, एवं नित्यत्वे सति किञ्चिन् न विक्रियते, वर्णास् तु विक्रियन्त इति।
% प्.649
विरोधाद् अहेतुस् तद्धर्मविकल्पः। नित्यं नोपजायते नापैत्य् अनुपजनापायधर्मकं नित्यम् अनित्यं पुनर् उपजनापाययुक्तम्, न चान्तरेणोपजनापायौ विकारः सम्भवति। तद् यदि वर्णा विक्रियन्ते, नित्यत्वम् एषां निवर्तते। अथ नित्याः, विकारधर्मत्वम् एषां निवर्तते। सो ऽयं विरुद्धो हेत्वाभासो धर्मविकल्प इति

3.52

********************** न्य्स्भ्_2,2.52 **********************
अनित्यपक्षे समाधिः---
न्य्स्_2,2.52: अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोत्पत्तिः ॥
यथानवस्थायिनां वर्णानां श्रवणं भवत्य् एवम् एषां विकारो भवति।
असम्बन्धाद् असमर्था अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद् असमर्था या गृह्यमाणा वर्णविकारम् अनुमापयेद् इति। तत्र यादृग् इदं यथा गन्धगुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति।
% गुणा पृथिव्य् एवं शब्दसुखादिगुणापीति, तादृग् एतद् भवतीति।] प्.650
न च वर्णोपलब्धिर् वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका। यो ऽयम् इवर्णनिवृत्तौ यकारस्य प्रयोगो यद्य् अयं वर्णोपलब्ध्या निवर्तते तदा तत्रोपलभ्यमाना इवर्णो यत्वम् आपद्यते इति गृह्येत। तस्माद् वर्णोपलब्धिर् अहेतुर् वर्णविकारस्येति

3.53

********************** न्य्स्भ्_2,2.53 **********************
न्य्स्_2,2.53: विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश् चाप्रतिषेधः ॥
तद्धर्मविकल्पाद् इति न युक्तः प्रतिषेधः। न खल्व् विकारधर्मकं किञ्चिन् नित्यम् उपलभ्यत इति वर्णोपलब्धिवद् इति न युक्तः प्रतिषेधः। अवग्रहे हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति।
% प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्य् अत्रेति।] प्.651
चिरनिवृत्ते चायम् इवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते, कारणाभावात् कार्याभाव इति अनुयोगः प्रसज्यत इति

3.54

********************** न्य्स्भ्_2,2.54 **********************
इतश् च वर्णविकारानुपपत्तिः---
न्य्स्_2,2.54: प्रकृत्यनियमात् ॥
इकारस्थाने यकारः श्रूयते यकारस्थाने खल्व् इकारो विधीयते विध्यतीति। तद् यदि स्यात् प्रकृतिविकारभावा वर्णानाम्, तस्य प्रकृतिनियमः स्यात्। दृष्टो विकारधर्मित्वे प्रकृतिनियम इति

3.55

********************** न्य्स्भ्_2,2.55 **********************
% प्.652
न्य्स्_2,2.55: अनियमे नियमान् नानियमः ॥
यो ऽयं प्रकृतेर् अनियम उक्तः स नियतो यथाविषयं व्यवस्थितो नियतत्वान् नियम इति भवति, एवं सत्य् अनियमो नास्ति, तत्र यद् उक्तं प्रकृत्यनियमाद् इति, एतद् अयुक्तम् इति

3.56

********************** न्य्स्भ्_2,2.56 **********************
न्य्स्_2,2.56: नियमानियमविरोधाद् अनियमे नियमाच् चाप्रतिषेधः ॥
नियम इत्य् अत्रार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः। अनुज्ञातनिषिद्धयोश् च व्याघाताद् अनर्थान्तरत्वं न भवति। अनियमश् च नियतत्वात् नियमो न भवतीति नात्रार्थस्य तथाभावः प्रतिषिध्यते। किं तर्हि? तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वान् नियमशब्द एवोपपद्यते। सो ऽयं नियमाद् अनियमे प्रतिषेधो न भवतीति

3.57

********************** न्य्स्भ्_2,2.57 **********************
% प्.653
न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद् वा। किं तर्हि?
न्य्स्_2,2.57: गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेशेभ्यस् तु विकारोपपत्तेर् वर्णविकाराः ॥
स्थान्यादेशभावाद् अप्रयोगो विकारशब्दार्थः, स भिद्यते। गुणान्तरापत्तिः उदात्तस्यानुदात्त इत्य् एवमादिः। उपमर्दो नाम एकरूपनिवृत्तौ रूपान्तरोपजनः। ह्रासो दीर्घस्य ह्रस्वः। वृद्धिर् ह्रस्वस्य दीर्घः, तयोर् वा प्लुतः। लेशो लाघवम्, स्त इत्य् अस्तेर् विकारः। श्लेष आगमः, प्रकृतेः प्रत्ययस्य वा। एत एव विशेषा विकारा इति। एत एवादेशाः, एते चेद् विकारा उपपद्यन्ते तर्हि वर्णविकारा इति

3.58

********************** न्य्स्भ्_2,2.58 **********************
% प्.654
न्य्स्_2,2.58: ते विभक्त्यन्ताः पदम् ॥
% प्.656
यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति। विभक्तिर् द्वयी---नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्।
% प्.654
न्य्स्_2,2.58: ते विभक्त्यन्ताः पदम् ॥
% प्.656
यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति। विभक्तिर् द्वयी --- नामिक्य् आख्यातिकी च, ब्राह्मणः पचतीत्य् उदाहरणम्।
% प्.657
उपसर्गनिपातास् तर्हि न पदसंज्ञाः लक्षणान्तरं वाच्यम् इति; शिष्यते च खलु नामिक्या विभक्तेर् अव्ययाल् लोपः तयोः पदसंज्ञार्थम् इति

3.60

********************** न्य्स्भ्_2,2.59 **********************
% प्.658
पदेनार्थसम्प्रत्यय इति प्रयोजनम्, नामपदं चाधिकृत्य परीक्षा, गौर् इति पदं खल्व् इदम् उदाहरणं तदर्थे ---
% प्.659
न्य्स्_2,2.59: व्यक्त्याकृतिजातिसन्निधाव् उपचारात् संशयः ॥
अविनाभाववृत्तिः सन्निधिः। अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौर् इति प्रयुज्यते, तत्र न ज्ञायते किम् अन्यतमः पदार्थः उतैतत् सर्वम् इति॥
********************** न्य्स्भ्_2,2.60 **********************
% प्.660
शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम्। तस्मात् ---
न्य्स्_2,2.60: याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्ताव् उपचाराद् व्यक्तिः ॥
व्यक्तिः पदार्थः। कस्मात्? याशब्दप्रभृतीनां व्यक्ताव् उपचारात्। उपचारः प्रयोगः। या गौस् तिष्ठति या गौर् निषण्णेइति, नेदं वाक्यं जातेर् अभिधायकम् अभेदात्, भेदात् तु द्रव्याभिधायकम्।
% द्रव्याभिधायकम्।] प्.661
गवां समूह इति भेदाद् द्रव्याभिधानं न जातेर् अभेदात्। वैद्याय गां ददतीति द्रव्यस्य त्यागो न जातेर् अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेएश् च। परिग्रहः स्वत्वेनाभिसम्बन्धः, कौण्डिन्यस्य गौर् ब्राह्मणस्य गौर् इति; द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेद इत्य् उपपन्नम्, अभिन्ना तु जातिर् इति। सङ्ख्या --- दश गावो विंशतिर् गाव इति भिन्नं द्रव्यं सङ्ख्यायते, न जातिर् अभेदाद् इति। वृद्धिः कारणवतो द्रव्यस्यावयवोपचयः अवर्धत गौर् इति; निरवयवा तु जातिर् इति। एतेनापचयो व्याख्यातः। वर्णः --- शुक्ला गौः कपिला गौर् इति; द्रव्यस्य गुणयोगो न सामान्यस्य। समासः --- गोहितं गोसुखम् इति, द्रव्यस्य सुखादियोगो न जातेर् इति। अनुबन्धः --- सरूपप्रजननसन्तानो गौर् गां जनयतीति, तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं न जातौ विपर्ययाद् इति। द्रव्यं व्यक्तिर् इति हि नार्थान्तरम्

3.61

********************** न्य्स्भ्_2,2.61 **********************
% प्.662
अस्य प्रतिषेधः ---
न्य्स्_2,2.61: न तदनवस्थानात् ॥
न व्यक्तिः पदार्थः। कस्मात्? अनवस्थानात्। याशब्दप्रभृतिभिर् यो विशेष्यते स गोशब्दार्थो या गौस् तिष्ठति या गौर् निषण्णेति, न द्रव्यमात्रम् अविशिष्टं जात्या विनाभिधीयते। किं तर्हि? जातिविशिष्टम्। तस्मान् न व्यक्तिः पदार्थः । एवं समूहादिषु द्रष्टव्यम्

3.62

********************** न्य्स्भ्_2,2.62 **********************
यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्ताव् उपचार इति? निमित्ताद् अतद्भावे ऽपि तदुपचारः। दृश्यते खलु ---
% प्.663
न्य्स्_2,2.62: सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजसक्तु चन्दनगङ्गाशाटकान्नपुरुषेष्व् अतद्भावे ऽपि तदुपचारः ॥
अतद्भावे ऽपि तदुपचार इति अतच्छब्दस्य तेन शब्देनाभिधानम् इति। सहचरणाद् --- यष्टिकां भोजयेति, यष्तिकासहचरितो ब्राह्मणो ऽभिधीयत इति।
% प्.664
स्थानात् --- मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते। तादर्थ्यात् --- कटार्थेषु वीरणेषु व्युह्यमानेषु कटं करोतीति भवति। वृतात् --- यमो राजा कुबेरो राजेति तद्वद्वर्तत इति। मानात् --- आढकेन मिताः सक्तवः आढकसक्तव इति। धारणात् --- तुलायां धृतं चन्दनं तुलाचन्दनम् इति। सामीप्यात् --- गङ्गायां गावश् चरन्तीति देशो ऽभिधीयते सन्निकृष्टः। योगात् --- कृष्णेन रागेण युक्तः शाटकः कृष्ण इत्य् अभिधीयते। साधनात् --- अन्नं प्राणा इति। आधिपत्यात् --- अयं पुरुषः कुलम् अयं गोत्रम् इति। तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ प्रय्ज्यत इति

3.63

********************** न्य्स्भ्_2,2.63 **********************
% प्.665
यदि गौर् इत्य् अस्य पदस्य न व्यक्तिर् अर्थः, अस्तु तर्हि ---
न्य्स्_2,2.63: आकृतिस् तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥
आकृतिः पदार्थः। कस्मात्? तदपेक्षत्वात् सत्त्वव्यवस्थानिसिद्धेः। सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः, तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यत्य् अयम् गौर् अयं अश्व इति, नागृह्यमाणायाम्। यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दो ऽभिधातुम् अर्हति सो ऽस्यार्थ इति

3.64

********************** न्य्स्भ्_2,2.64 **********************
तद् उपपद्यते यस्य जात्या योगस् तद् अत्र जातिविशिष्टम् अभिधीयते गौर् इति।न
% प्.666
चावयवव्यूहस्य जात्या योगः। कस्य तर्हि? नियतावयवव्यूहस्य द्रव्यस्य।तस्मान् नाकृतिः पदार्थः।
अस्तु तर्हि जातिः पदार्थः ---
न्य्स्_2,2.64: व्यक्त्याकृतियुक्ते ऽप्य् अप्रस्ङ्गात् प्रोक्षादीनां मृदगवके जातिः ॥
जातिः पदार्थः। कस्मात्? व्यक्त्याकृतियुक्ते ऽपि मृद्गवके प्रोक्षणादीनाम् अप्रसङ्गाद् इति। गां प्रोक्षय गाम् आनय गां देहीति नैतानि मृद्गवके प्रयुज्यन्ते। कस्मात्? जातेर् अभावात्।
% -र् अभावात्।] प्.667
अस्ति हि तत्र व्यक्तिः अस्त्य् आकृतिः यदभावात् तत्रासम्प्रत्ययः स पदार्थ इति

3.65

********************** न्य्स्भ्_2,2.65 **********************
% प्.670
न्य्स्_2,2.65: नाकृतिव्यक्त्यपेक्षत्वाज् जात्यभिव्यक्तेः ॥
जातेर् अभिव्यक्तिर् आकृतिव्यक्ती अपेक्षते, नागृह्यमाणायाम् आकृतौ व्यक्तौ च जातिमात्रं शुद्धं गृह्यते; तस्मान् न जातिः पदार्थ इति

3.66

********************** न्य्स्भ्_2,2.66 **********************
न वै पदार्थेन न भवितुं शक्यम्, कः खल्व् इदानीं पदार्थ इति?
न्य्स्_2,2.66: व्यक्त्याकृतिजातयस् तु पदार्थः ॥
% प्.671
तुशब्दो विशेषणार्थः। किं विशिष्यते? प्रधानाङ्गभावस्यानियमेन पदार्थत्वम् इति। यदा हि भेदविवक्षा विशेषगतिश् च तदा व्यक्तिः प्रधानम् अङ्गं तु जात्याकृती। यदा तु भेदो ऽविवक्षितः सामान्यगतिश् च, तदा जातिः प्रधानम् अङ्गं तु व्यक्त्याकृती। तद् एतद् बहुलं प्रयोगेषु। आकृतेस् तु प्रधानभाव उत्प्रेक्षितव्यः

3.67

********************** न्य्स्भ्_2,2.67 **********************
% प्.689
कथं पुनर् ज्ञायते नाना व्यक्त्याकृतिजातय इति? लक्षणभेदात्। तत्र तावत् ---
न्य्स्_2,2.67: व्यक्तिर् गुणविशेषाश्रयो मूर्तिः ॥
% प्.690
व्यज्यत इति व्यक्तिर् इन्द्रियग्राह्येति न सर्वं द्रव्यं व्यक्तिः। यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यं मूर्तिः मूर्च्छितावयवत्वाद् इति

3.68

********************** न्य्स्भ्_2,2.68 **********************
% प्.691
न्य्स्_2,2.68: आकृतिर् जातिलिङ्गाख्या ॥
यया जातिर् जातिलिङ्गानि च प्रख्यायन्ते ताम् आकृतिं विद्यात्। सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहाद् इति।
% सत्त्वावयवानां ... इति।] प्.692
नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्, शिरसा पादेन गाम् अनुमिन्वन्ति। नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति। अनाकृतिव्यङ्ग्यायां जातौ मृत्सुवर्णं रजतम् इत्य् एवमादिष्व् आकृतिर् निवर्तते जहाति पदार्थत्वम् इति

3.69

********************** न्य्स्भ्_2,2.69 **********************
% प्.693
न्य्स्_2,2.69: समानप्रसवात्मिका जातिः ॥
या समानं बुद्धिं प्रसूते भिन्नेष्व् अधिकरणेषु, यया बहूनीतेरेतरतो न व्यावर्तन्ते यो ऽर्थो ऽनेकत्र प्रत्ययानुवृत्तिनिमित्तं तत् सामान्यम्। यच् च केषाञ्चिद् अभेदं कुतश्चिद् भेदं करोति तत् सामान्यविशेषो जातिर् इति

मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc