न्यायसूत्र (टीका सहित) · अध्याय 2
********************** न्य्स्भ्_1,2.1 **********************
इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य प्रथमाह्निकम्।
% प्.335
द्वितीयाह्निकम्
तिस्रः कथा भवन्ति --- वादो जल्पो वितण्डा चेति। तासाम् ---
न्य्स्_1,2.1: प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥
एकाधिकरणस्थौ विरुद्धौ धर्मौ पक्षप्रतिपक्षौ प्रत्यनीकभावात्, अस्त्य् आत्मा नास्त्य् आत्मेति।
% -त्मेति] प्.336
नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा --- नित्य आत्मा अनित्या बुद्धिर् इति। परिग्रहो ऽभ्युपगमव्यवस्था। सो ऽयम् पक्षप्रतिपक्षपरिग्रहो वादः। तस्य विशेषनं प्रमाणतर्कसाधनोपालम्भः, प्रमाणैस् तर्केण च साधनम् उपालम्भश् चास्मिन् क्रियत इति। साधनं स्थापना। उपालम्भः प्रतिषेधः। तौ साधनोपालम्भाव् उभयोर् अपि पक्षयोर् व्यतिषक्ताव् अनुबद्धौ च यावद् एको निवृत्त एकतरो व्यवस्थित इति निवृत्तस्योपालम्भो व्यवस्थितस्य साधनम् इति।
% उभयोर् अपि ... साधनम् इति।] प्.339
जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः। प्रतिषेधे कस्यचिद् अभ्यनुज्ञानार्थं सिद्धान्ताविरुद्ध इति वचनम्।
% सिद्धान्ताविरुद्ध इति वचनम्।] प्.340
``सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धऽऽ इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे। पञ्चावयवोपपन्न इति
% प्.341
``हीनम् अन्यतमेनाप्य् अवयवेन न्यूनम्ऽऽ ``हेतूदाहरणाधिकम् अधिकम्ऽऽ इति चैतयोर् अभ्यनुज्ञानार्थम् इति। अवयवेषु प्रमानतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम्। अन्यथोभाव् अपि पक्षौ स्थापनाप्रवृत्तौ वाद इति स्यात्।
% प्रवृत्तौ वाद इति स्यात्।] प्.342
अन्तरेणापि चावयवसम्बन्धं प्रमाणान्य् अर्थं साधयन्तीति दृष्टम्, तेनापि कल्पेन साधनोपालम्भौ वादे भवत इति ज्ञापयति। ``छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पऽऽ इति वचनाद् विनिग्रहो जल्प इति मा विज्ञायि, छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद् एवेति मा विज्ञायीत्य् एवमर्थं पृथक् प्रमानतर्कग्रहणम् इति
********************** न्य्स्भ्_1,2.2 **********************
% प्.356
न्य्स्_1,2.2: यथोक्तोपपन्नश् छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
यथोक्तोपपन्न इति, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः। छलजातिनिग्रहस्थानसाधनोपालम्भ इति, छलजातिनिग्रहस्थानैः साधनम् उपालम्भश् चास्मिन् क्रियत इति एवंविशेषणो जल्पः।
% प्.358
न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिद् अर्थस्य सम्भवति, प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते --- ``वचनविघातो ऽर्थविकल्पोपपत्त्या छलम्ऽऽ इति ``साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिःऽऽ ``विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम्ऽऽ इति।
% -स्थानम्ऽऽ इति।] प्.359
विशेषलक्षणेष्व् अपि यथास्वम् इति। न चैतद् विजानीयात् प्रतिषेधार्थतयैवार्थं साधयन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्य् एवम् अप्य् उच्यमाने विज्ञायत एतद् इति।
प्रमाणैः साधनोपालम्भयोश् छलजातिनिग्रहस्थानानाम् अङ्गभावः स्वपक्षरक्षणार्थत्वात्। न स्वतन्त्राणां साधनभावः --- यत् तत् प्रमाणैर् अर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानाम् अङ्गभावो रक्षणार्थत्वात्। तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति।
% -विघातेन स्वपक्षं रक्षन्ति।] प्.360
तथा चोक्तं ``तत्त्वाध्यवसायसंरक्षणाथं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत्ऽऽ इति। यश् चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस् तस्य चैतानि प्रयुज्यमानानि प्रतिषेधविघातात् सहकारीणि भवन्ति। तद् एवम् अङ्गीभूतनां छलादीनाम् उपादानं जल्पे, न स्वतन्त्राणां साधनभावः। उपालम्भे तु स्वातन्त्र्यम् अप्य् अस्तीति
********************** न्य्स्भ्_1,2.3 **********************
% प्.361
न्य्स्_1,2.3: स प्रतिपक्षस्थापनाहीनो व्वितण्डा ॥
स जल्पो वितण्डा भवति। किंविशेषणः? प्रतिपक्षस्थापनया हीनः। यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षाव् इत्य् उक्तं तयोर् एकतरं वैतण्डिको न स्थापयतीति प्रपक्षप्रतिषेधेनैव प्रवर्तत इति।
% प्.362
अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा? यद् वै खलु तत् परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्व् असौ साध्यं कञ्चिद् अर्थं प्रतिज्ञाय स्थापयतीति। तस्माद् यथान्यासम् एवास्त्व् इति
********************** न्य्स्भ्_1,2.4 **********************
% प्.363
हेतुलक्षणाभावाद् अहेतवो हेतुसामान्याद् धेतुवद् आभासमानाः। त इमे ---
न्य्स्_1,2.4: सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥
% प्.372
तेषाम् ---
********************** न्य्स्भ्_1,2.5 **********************
% प्.373
न्य्स्_1,2.5: अनैकान्तिकः सव्यभिचारः ॥
व्यभिचार एकत्राव्यवस्थितिः। सहव्यभिचारेण वर्तत इति स्वयभिचारः।
% -चारः] प्.374
निदर्शनम् --- नित्यः शब्दो ऽस्पर्शत्वात्, स्पर्शवान् कुम्भो ऽनित्यो दृष्टः न च तथा स्पर्शवान् शब्दस् तस्माद् अस्पर्शत्वान् नित्यः शब्द इति।
% तथा स्पर्शवान् ...] प्.375
दृष्टान्ते स्पर्शवत्त्वम् अनित्यत्वं च धर्मौ न साध्यसाधनभूतौ गृह्येते स्पर्शवांश् चाणुर् नित्यश् चेति। आत्मादौ च दृष्टान्ते
% दृष्टान्ते] प्.376
``उदाहरणसाधर्म्यात् साध्यसाधनं हेतुःऽऽ इत्य् अस्पर्शत्वाद् इति हेतुर् नित्यत्वं व्यभिचरति, अस्पर्शा बुद्धिर् अनित्या चेति। एवं द्विविधे ऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावाद् अहेतुर् इति।
नित्यत्वम् अप्य् एको ऽन्तो ऽनित्यत्वम् अप्य् एको ण्त एकस्मिन्न् अन्ते विद्यत इति ऐकान्तिकः विपर्ययाद् अनैकान्तिक उभयान्तव्यापकत्वाद् इति
********************** न्य्स्भ्_1,2.6 **********************
% प्.377
न्य्स्_1,2.6: सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः ॥
तं विरुणद्धीति तद्विरोध्य् अभ्युपेतं सिद्धान्तं व्याहन्तीति। यथा सो ऽयं विकारो व्यक्तेर् अपैति नित्यत्वप्रतिषेधात् ---
% व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्] प्.378
न नित्यो विकार उपपद्यत अपेतो ऽपि विकारो ऽस्ति विनाशप्रतिषेधात्। सो ऽयं नित्यत्वप्रतिषेधाद् इति। हेतुर् व्यक्तेर् अपेतो ऽपि विकारो ऽस्तीत्य् अनेन स्वसिद्धान्तेन विरुध्यते। कथम्? व्यक्तिर् आत्मलाभः। अपायः प्रच्युतिः। यद्य् आत्मलाभात् प्रच्युतो विकारो ऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते। यद् व्यक्तेर् अपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वम् इति। नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेर् उपपत्तिः।
% नाम विकारस्यात्मलाभात् ...] प्.379
यद् आत्मलाभात् प्रच्यवते तद् अनित्यं दृष्टम्, यद् अस्ति न तद् आत्मलाभात् प्रच्यवते। अस्तित्वं चात्मलाभात् प्रच्युतिर् इति च विरुद्धाव् एतौ धर्मौ न सह सम्भवत इति। सो ऽयं हेतुर् यं सिद्धान्तम् आश्रित्य प्रवर्तते तम् एव व्याहन्तीति
********************** न्य्स्भ्_1,2.7 **********************
% प्.380
न्य्स्_1,2.7: यस्मात् प्रकरणचिन्ता स निर्णयार्थम् अपदिष्टः प्रकरणसमः ॥
विमर्शाधिष्ठानौ पक्षप्रतिपक्षाव् उभाव् अनवसितौ प्रकरणम्, तस्य चिन्ता विमर्शात् प्रभृति प्राङ् निर्णयाद् यत् समीक्षणम्,
% प्राङ् निर्णयाद् यत् समीक्षणम्,] प्.381
सा जिज्ञासा यत्कृता स निर्णयार्थं प्रयुक्त उभयपक्षसाम्यात् प्रकरणम् अनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते।
प्रज्ञापनं त्व् अनित्यः शब्दो नित्यधर्मानुपलब्धेर् इति, अनुपलभ्यमानन् इत्य् अधर्मकं नित्यं दृष्टम् स्थाल्यादि। नित्यः शब्दो वानित्यधर्मानुपलब्धेः अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टम् आकाशादि।
यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव।
% प्.382
या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश् च सा प्रकरणं प्रवर्तयति। यथा शब्दे नित्यधर्मो नोपलभ्यत एवम् अनित्यधर्मो ऽपि। सेयम् उभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति।
% प्रकरणचिन्तां प्रवर्तयति।] प्.383
कथम्? विपर्यये हि प्रकरणनिवृत्तेः --- यदि नित्यधर्मः शब्दे गृह्येत न स्यात् प्रकरणम्, यदि न स्यात् प्रकरणम्, यदि वानित्यधर्मो गृह्येत एवम् अपि निवर्तेत प्रकरणम्। सो ऽयं हेतुर् उभौ पक्षौ प्रवर्तयन्न् अन्यतरस्य निर्णयाय न प्रकल्पते
********************** न्य्स्भ्_1,2.8 **********************
% प्.384
न्य्स्_1,2.8: साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥
द्रव्यं छायेति साध्यम्, गतिमत्त्वाद् इति हेतुः साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः।
% साध्यसमः।] प्.385
अयम् अप्य् असिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः। साध्यं तावद् एतत् किं पुरुषवच् छायापि गच्छत्य् आहोस्विद् आवरकद्रव्ये संसर्पत्य् आवरणसन्तानाद् असन्निधिसन्तानो ऽयं तेजसो गृह्यत इति।
% -सन्नधिसन्तानो ऽयं तेजसो गृह्यत इति।] प्.386
सर्पता खलु द्रव्येण यो यस् तेजोभाग आव्रियते तस्य तस्यासन्निधिर् एवाविच्छिन्नो गृह्यत इति। आवरणं तु प्राप्तिप्रतिषेधः
********************** न्य्स्भ्_1,2.9 **********************
% प्.388
न्य्स्_1,2.9: कालात्ययापदिष्टः कालातीतः ॥
कालात्ययेन युक्तो यस्यार्थैकदेशो ऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्य् उच्यते। निदर्शनम् --- नित्यः शब्दः संयोगव्यङ्ग्यत्वाद् रूपवत्।
% प्.389
प्राग् ऊर्ध्वं च व्यक्तेर् अवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते, तथा च शब्दो ऽप्य् अवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा, तस्मात् सम्योगव्यङ्ग्यत्वान् नित्यः शब्द इति; अयम् अहेतुः कालात्ययापदेशात्। व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तिर् अत्येति। सति प्रदीपसंयोगे रूपस्य ग्रहणं भवति, न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले। सेयं शब्दस्य व्यक्तिः संयोगकालम् अत्येतीति न संयोगनिर्मिता भवति। कस्मात्? कारणाभावाद् धि कार्याभाव इति। एवम् उदाहरणसाधर्म्यस्याभावाद् असाधनम् अयं हेतुर् हेत्वाभास इति।
% प्.390
अवयवविपर्यासवचनं तु न सूत्रार्थः। कस्मात्?
``यस्य येनार्थसम्बन्धो दूरस्थस्यापि तस्य सः।
अर्थतो ह्य् असमर्थानाम् आनन्तर्यम् अकारणम्॥ऽऽ
इत्य् एतद्वचनाद् विपर्यासेनोक्तो हेतुर् उदाहरणसाधर्म्यात् तथा वैधर्म्यात् साध्यसाधनं हेतुलक्षणं न जहाति। अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति।
``अवयवविपर्यासवचनम् अप्राप्तकालम्ऽऽ इति निग्रहस्थानम् उक्तम्, तद् एवेदं पुनर् उच्यत इति, अतस् तन् न सूत्रार्थः
********************** न्य्स्भ्_1,2.10 **********************
% प्.391
अथ छलम्
न्य्स्_1,2.10 : वचनविघातो ऽर्थविकल्पोपपत्त्या छलम् ॥
न सामान्यलक्षणे छलं शक्यम् उदाहर्तुम्, विभागे तूदाहरणानि
********************** न्य्स्भ्_1,2.11 **********************
% प्.392
विभागश् च ---
न्य्स्_1,2.11 : तत् त्रिविधं वाक्छलं सामान्यच्छलम् उपचारच्छलम् चेति ॥
तेषाम् ---
********************** न्य्स्भ्_1,2.12 **********************
न्य्स्_1,2.12 : अविशेषाभिहिते ऽर्थे वक्तुर् अभिप्रायाद् अर्थान्तरकल्पना वाक्छलम् ॥
नवकम्बलो ऽयं माणवक इति प्रयोगः। अत्र नवः कम्बलो ऽस्येति वक्तुर् अभिप्रायः। विग्रहे तु विशेषः, न समासे। तत्रायं छलवादी वक्तुर् अभिप्रायाद् अविवक्षितम् अन्यम् अर्थं नव कम्बला अस्येति तावद् अभिहितं भवतेति कल्पयति,
% नव कम्बला अस्येति] प्.393
कल्पयित्वा चासम्भवेन प्रतिषेधति एको ऽस्य कम्बलः कुतो नव कम्बला इति।
तद् इदं सामान्यशब्दे वाचि छलं वाक्छलम् इति।
अस्य प्रत्यवस्थानम् --- सामान्यशब्दस्यानेकार्थत्वे ऽन्यतराभिधानकल्पनायां विशेषवचनम्। नवकम्बल इत्य् अनेकार्थाभिधानम्, नवः कम्बलो ऽस्येति नव कम्बला अस्येति; एतस्मिन् प्रयुक्ते येयं कल्पना नव कम्बला अस्येत्य् एतद्भवताभिहितं तच् च न सम्भवतीति, एतस्याम् अन्यतराभिधानकल्पनायां विशेषो वक्तव्यः। यस्माद् विशेषो ऽर्थविशेषेषु विज्ञायते ऽयम् अर्थो ऽनेनाभिहित इति। स च विशेषो नास्ति। तस्मान् मिथ्याभियोगमात्रम् एतद् इति।
प्रसिद्धश् च लोके शब्दार्थसम्बन्धो ऽभिधानाभिधेयनियमनियोगः। अस्याभिधानस्यायम् अर्थो ऽभिधेय इति समानः सामान्यशब्दस्य, विशेषो विशिष्टशब्दस्य। प्रयुक्तपूर्वाश् चेमे शब्दा अर्थे प्रयुज्यन्ते नाप्रयुक्तपूर्वाः। प्रयोगश् चार्थसम्प्रत्ययार्थः। अर्थप्रत्ययाच् च व्यवहार इति।
% इति।] प्.394
तत्रैवम् अर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात् सामान्यशब्दस्य प्रयोगनियमः। अजां ग्रामं नय सर्पिर् आहार ब्राह्मणं भोजयेति सामान्यशब्दाः सन्तो ऽर्थावयवेषु प्रयुज्यन्ते सामार्थ्यत्, यत्रार्थक्रियाचोदना सम्भवति तत्र प्रवर्तन्ते नार्थसामान्ये, क्रियादेशनासम्भवात्। एवम् अयं सामान्यशब्दो नवकम्बल इति यो ऽर्थः सम्भवति नवः कम्बलो ऽस्येति तत्र प्रवर्तते, यस् तु न सम्भवैत् नव कम्बला अस्येति तत्र न प्रवर्तते। सो ऽयम् अनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पत इति
********************** न्य्स्भ्_1,2.13 **********************
% प्.395
न्य्स्_1,2.13 : सम्भवतो ऽर्थस्यातिसामान्ययोगाद् असम्भूतार्थकल्पना सामान्यच्छलम् ॥
अहो खल्व् असौ ब्राह्मणो विद्याचरणसम्पन्न इत्य् उक्ते कश्चिद् आह सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति।
% विद्याचरणसम्पद् इति] प्.396
अस्य वचनस्य विघातो ऽर्थविकल्पोपपत्त्यासम्भूतार्थकल्पनया क्रियते --- यदि ब्राह्मणे विद्याचरंअसम्पत् सम्भवति व्रात्ये ऽपि सम्भवेत्, व्रात्यो ऽपि ब्राह्मणः, सो ऽप्य् अस्तु विद्याचरणसम्पन्न इति। यद् विवक्षितम् अर्थम् आप्नोति चात्येति च तद् अतिसामान्यम्। यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिद् आप्नोति क्वचिद् अत्येति। सामान्यनिमित्तं छलं सामान्यच्छलम् इति।
अस्य च प्रत्यवस्थानम् --- अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य; तद् अत्रासम्भूतार्थकल्पनानुपपत्तिः। यथा सम्भवन्त्य् अस्मिन् क्षेत्रे शालय इति अनिराकृतम् अविवक्षितं च बीजजन्म, प्रवृत्तिविषयस् तु क्षेत्रं प्रशस्यते; सो ऽयं क्षेत्रानुवादः नास्मिन् शालयो विधीयन्त इति; बीजात् तु शालिनिर्वृत्तिः सती न विवक्षिता। एवं सम्भवति ब्राह्मणे विद्याचरणसम्पद् इति सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः। न चात्र हेतुर् विवक्षितः। विषयानुवादस् त्व् अयं प्रशंसार्थत्वाद् वाक्यस्य, सति ब्राह्मणत्वे सम्पद्धेतुः समर्थ इति। विस्ऽयं च प्रशंसता वाक्येन यथाहेतुतः फलनिर्वृत्तिर् न प्रत्याख्यायते। तद् एवं सति वचनविघातो ऽसम्भूतार्थकल्पनया नोपपद्यत इति॥
********************** न्य्स्भ्_1,2.14 **********************
% प्.397
न्य्स्_1,2.14 : धर्मविकल्पनिर्देशे ऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥
अभिधानस्य धर्मो यथार्थप्रयोगः, धर्मविकल्पो ऽन्यत्र दृष्टस्यान्यत्र प्रयोगः, तस्य निर्देशे धर्मविकल्पनिर्देशे। यथा मञ्चाः क्रोशन्तीति अर्थसद्भावेन प्रतिषेधः,
% प्.398
मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति।
का पुनर् अत्रार्थविकल्पोपपत्तिः? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनम्, भक्त्या प्रयोगे प्राधान्येन कल्पनम् उपचारविषयं छलम् उपचारच्छलम्। उपचारो नीतार्थः सहचरणादिनिमित्तेन, अतद्भावे तद्वद् अभिधानम् उपचार इति।
अत्र समाधिः --- प्रसिद्धे प्रयोगे वक्तुर् यथाभिप्रायं शब्दार्थयोर् अभ्यनुज्ञा प्रतिषेधा वा न च्छन्दतः। प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोर् लोकसिद्धः। सिद्धे प्रयोगे यथा वक्तुर् अभिप्रायस् तथा शब्दार्थाव् अनुज्ञेयौ प्रतिषेध्यौ वा न च्छन्दतः। यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते यथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा, न च्छन्दतः। अथ गुणभूतम्, तदा गुणभूतस्य। यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतम् अभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधो ऽसौ भवति न परोपालम्भ इति॥
********************** न्य्स्भ्_1,2.15 **********************
% प्.399
न्य्स्_1,2.15 : वाक्छलम् एवोपचारच्छलं तदविशेषात् ॥
न वाक्छलाद् उपचारच्छलं भिद्यते तस्याप्य् अर्थान्तरकल्पनाया अविशेषात्। इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यत इति॥
********************** न्य्स्भ्_1,2.16 **********************
% प्.400
न्य्स्_1,2.16 : न तदर्थान्तरभावात् ॥
न वाक्छलम् एवोपचारच्छलम्, तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात्। कुतः? अर्थान्तरकल्पनातः। अन्या ह्य् अर्थान्तरकल्पना, अन्यो ऽर्थसद्भावप्रतिषेध इति॥
********************** न्य्स्भ्_1,2.17 **********************
% प्.401
न्य्स्_1,2.17 : अविषेषे वा किञ्चित् साधर्म्याद् एकच्छलप्रसङः ॥
छलस्य द्वित्वम् अभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते किञ्चित् साधर्म्यात्। यथा चायं हेतुस् त्रित्वं प्रतिषेधति तथा द्वित्वम् अप्य् अभ्यनुज्ञातं प्रतिषेधति, विद्यते हि किञ्चित् साधर्म्यं द्वयोर् अपीति। अथ द्वित्वं किञ्चित्साधर्म्यान् न निवर्तते, त्रित्वम् अपि न निवर्त्स्यति॥
********************** न्य्स्भ्_1,2.18 **********************
छललक्षणाद् ऊर्ध्वम् ---
न्य्स्_1,2.18 : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः। स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेध इति।
% साधर्म्यवैधर्म्याभ्यां ...] प्.402
``उदाहरणसाधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणवैधर्म्येण प्रत्यवस्थानम्, ``उदाहरणवैधर्म्यात् साध्यसाधनं हेतुर्ऽऽ इत्य् अस्योदाहरणसाधर्म्येण प्रत्यवस्थानम्, प्रत्यनीकभावात्। जायमानो ऽर्थो जातिर् इति॥
********************** न्य्स्भ्_1,2.19 **********************
% प्.403
न्य्स्_1,2.19 : विप्रतिपत्तिर् अप्रतिपत्तिश् च निग्रहस्थानम् ॥
विपरीता वा कुत्सिता वा प्रतिपत्तिर् विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयं प्राप्नोति। निग्रहस्थानं खलु पराजयप्राप्तिः। अप्रतिपत्तिस् त्व् आरम्भविषये अनारम्भः। परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति। असमासाच् च नैते एव निग्रहस्थाने इति॥
********************** न्य्स्भ्_1,2.20 **********************
% प्.404
किं पुनर् दृष्टान्तवज् जातिनिग्रहस्थानयोर् अभेदो ऽथ सिद्धान्तवद् भेद इत्य् अत आह ---
न्य्स्_1,2.20 : तद्विकल्पाज् जातिनिग्रहस्थानबहुत्वम् ॥
तस्य साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम्, तयोश् च विप्रतिपत्त्यप्रतिपत्त्योर् विकल्पान् निग्रहस्थानबहुत्वम्। नाना कल्पो विकल्पः, विविधो वा कल्पो विकल्पः। तत्र अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणम् इत्य् अप्रतिपत्तिर् निग्रस्थानम्। शेषस् तु विप्रतिपत्तिर् इति।
% प्.405
इमे प्रमाणादयः पदार्था उद्दिष्टाः, यथोद्देशं लक्षिताः, यथालक्षणं परीक्षिष्यन्त इति त्रिविधा चास्य शास्त्रस्य प्रवृत्तिर् वेदितव्येति॥
इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयम् आह्निकम्।
समाप्तश् चायं प्रथमो ऽध्यायः॥
% प्.408
********************** न्य्स्भ्_2,1.1 **********************
अत ऊर्ध्वं प्रमाणादिपरीक्षा। सा च ``विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयःऽऽ इत्य् अग्रे विमर्ष एव परीक्ष्यते ---
न्य्स्_2,1.1 : समानानेकधर्माध्यवसायाद् अन्यतरधर्माध्यवसायाद् वा न संशयः ॥
समानस्य धर्मस्याध्यवसायात् संशयो न धर्ममात्रात्। अथ वा समानम् अनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति।
% -म् उपलभ इति] प्.409
अथ वा समानधर्माध्यवसायाद् अर्थान्तरभूते धर्मिणि संशयो ऽनुपपन्नः, न जातु रूपस्यार्थान्तरभूतस्याध्यवसायाद् अर्थान्तरभूते स्पर्शे संशय इति। अथ वा न अध्यवसायाद् अर्थावधारणाद् अनवधारणज्ञानं संशय उपपद्यते कार्यकारणयोः सारूप्याभावाद् इति। एतेनानेकधर्माध्यवसायाद् इति व्याख्यातम्। अन्यतरधर्माध्य्वसायाच् च संशयो न भवति, ततो ह्य् अन्यतरावधारणम् एवेति॥
********************** न्य्स्भ्_2,1.2 **********************
% प्.411
न्य्स्_2,1.2 : विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च ॥
न विप्रतिपत्तिमात्राद् अव्यवस्थामात्राद् वा संशयः। किं तर्हि? विप्रतिपत्तिम् उपलभमानस्य संशयः। एवम् अव्यवस्थायाम् अपीति। अथ वास्त्य् आत्मेत्य् एके नास्त्य् आत्मेत्य् अपरे मन्यन्त इत्य् उपलब्धेः कथं संशयः स्याद् इति। तथोपलब्धिर् अव्यवस्थिता अनुपलब्धिश् चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यत इति॥
********************** न्य्स्भ्_2,1.3 **********************
न्य्स्_2,1.3 : विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥
यां च विप्रतिपत्तिं भवान् संशयहेतुः मन्यते सा सम्प्रतिपत्तिः, सा हि द्वयोः प्रत्यनीकधर्मविषया। तत्र यदि विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेर् एव संशय इति॥
********************** न्य्स्भ्_2,1.4 **********************
% प्.412
न्य्स्_2,1.4 : अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाः ॥
न संशयः। यदि तावद् इयम् अव्यवस्था आत्मनि एव व्यवस्थिता, व्यवस्थानाद् अव्यवस्था न भवतीत्य् अनुपपन्नः संशयः।
अथ अव्यवस्थात्मनि न व्यवस्थिता, एवम् अतादात्म्याद् अव्यवस्था न भवतीति संशयाभाव इति॥
********************** न्य्स्भ्_2,1.5 **********************
न्य्स्_2,1.5 : तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेः ॥
येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते, तेन खल्व् अत्यन्तसंशयः प्रसज्यते। समानधर्मोपपत्तेर् अनुच्छेदात् संशयानुच्छेदः। न ह्य् अयम् अतद्धर्मा धर्मी विमृश्यमाणो गृह्यते, सततं तु तद्धर्मा भवतीति॥
********************** न्य्स्भ्_2,1.6 **********************
% प्.413
अस्य प्रतिषेधप्रपञ्चस्य सङ्क्षेपेणोद्धारः ---
न्य्स्_2,1.6 : यथोक्ताध्यवसायाद् एव तदविशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥
न संशयानुत्पत्तिः संशयानुच्छेदश् च प्रसज्यते। कथम्? यत् तावत् समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रम् इति, एवम् एतत्। कस्माद् एवं नोच्यत इति? विशेषापेक्ष इति वचनात् तत्सिद्धेः --- विशेषस्यापेक्षा आकङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था, न चोक्तं समानधर्मापेक्ष इति। समाने च धर्मे कथम् आकङ्क्षा न भवेद् यद्य् अयं प्रत्यक्षः स्यात्। एतेन सामर्थ्येन विज्ञायते समानधर्माध्यवसायाद् इति।
उपपत्तिवचनाद् वा --- समानधर्मोपपत्तेर् इत्य् उच्यते न चान्या सद्भावसंवेदनाद् ऋते समानधर्मोपपत्तिर् अस्ति। अनुपलभ्यमानसद्भावो हि समानो धर्मो ऽविद्यमानवद् भवतीति।
विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम् --- यथा लोके धूमेनाग्निर् अनुमीयते इत्य् उक्ते धूमदर्शनेनाग्निर् अनुमीयत इति ज्ञायते। कथम्? दृष्ट्वा हि धूमम् अथाग्निम् अनुमिनोति नादृष्ट्वेति; न च वाक्ये दर्शनशब्दः श्रूयते, अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वम्; तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययस्याभिधानं बोद्धानुजानाति। एवम् इहापि समानधर्मशब्देन समानधर्माध्य्वसायम् आहेति।
% प्.414
यथोहित्वा समानमनयोर् धर्मम् उपलभ इति धर्मधर्मिग्रहणे संशयाभाव इति, पूर्वदृष्टविषयम् एतत्। याव् अहम् अर्थौ पूर्वम् अद्राक्षं तयोः समानं धर्मम् उपलभे विशेषं नोपलभ इति, कथं नु विशेषं पश्येयं येनान्यतरम् अवधारयेयम् इति। न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तत इति।
यच् चोक्तं नार्थान्तराध्यवसायाद् अन्यत्र संशय इति, यो ह्य् अर्थान्तराध्यवसायमात्रं संशयहेतुम् उपाददीत स एवं वाच्य इति।
यत् पुनर् एतत् कार्यकारणयोः सारूप्याभावाद् इति, कारणस्य भावाभावयोः कार्यस्य भावाभावौ कार्यकारणयोः सारूप्यम्।
% भावाभावौ ...] प्.415
यस्योत्पादाद् यद् उत्पद्यते यस्य चानुत्पादाद् यन् नोत्पद्यते तत् कारणं कार्यम् इतरद् इत्य् एतत् सारूप्यम्, अस्ति च संशयकारणे संशये चैतद् इति। एतेनानेकधर्माध्यवसायाद् इति प्रतिषेधः परिहृत इति।
यत् पुनर् एतद् उक्तं ``विप्रतिपत्त्यव्यवस्थाध्यवसायाच् च न संशयऽऽ इति, पृथक्प्रवादयोर् व्याहतम् अर्थम् उपलभे विशेषं च न जानामि नोपलभे येनान्यतरम् अवधारयेयम्,
% -र् व्याहतम् अर्थम् उपलभे ...] प्.416
तत् को ऽत्र विशेषः स्याद् येनैकतरम् अवधारयेयम् इति संशयो विप्रतिपत्तिजनितो ऽयं न शक्यो विप्रतिपत्तिसम्प्रतिपत्तिमात्रेण निवर्तयितुम् इति।एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यम् इति।
यत् पुनर् एतत् विप्रतिपत्तौ च सम्प्रतिपत्तेर् इति, विप्रतिपत्तिशब्दस्य यो ऽर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस् तस्य च समाख्यान्तरेण न निवृत्तिः। समाने ऽधिकरणे व्याहतार्थौ प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश् च विशेषापेक्षः संशयहेतुः। न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुतुवं निवर्तते। तद् इदम् अकृतबुद्धिसम्मोहनम् इति।
यत् पुनः ``अव्यवस्थात्मनि व्यवस्थितत्वाच् चाव्यवस्थायाऽऽ इति, संशयहेतोर् अर्थस्याप्रतिषेधाद् अव्यवस्थाभ्यनुज्ञानाच् च निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था। शब्दान्तरकल्पनाव्यवस्था खल्व् अव्यवस्था न भवत्य् अव्यवस्थात्मनि व्यवस्थितत्वाद् इति।
% -कल्पनाव्यवस्था खल्व् ...] प्.417
नानयोर् उपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर् न भ्वतीति प्रतिषिध्यते यावता चाव्यवस्थात्मनि व्यवस्थिता न तावतात्मानं जहाति, तावता ह्य् अनुज्ञाताव्यवस्था। एवम् इयं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति।
यत् पुनर् एतत् ``तथात्यन्तसंशयस् तद्धर्मसातत्योपपत्तेःऽऽ इति, नायं समानधर्मादिभ्य एव संशयः। किं तर्हि? तद्विषयाध्यवसायाद् विशेषस्मृतिसहिताद् इत्य् अतो नात्यन्तसंशय इति।
अन्यतरधर्माध्यवसायाद् वा न संशय इति, तन् न युक्तम्; विशेषापेक्षो विमर्षः संशय इति वचनात्। विशेषश् चान्यतरधर्मो न तस्मिन्न् अध्य्वसीयमाने विशेषापेक्षा सम्भवतीति॥
********************** न्य्स्भ्_2,1.7 **********************
% प्.418
न्य्स्_2,1.7 : यथ्र संशयस् तत्रैवम् उत्तरोत्तरप्रसङ्गः ॥
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर् वाच्य इति। अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति॥
********************** न्य्स्भ्_2,1.8 **********************
% प्.419
अथ प्रमाणपरीक्षा ---
न्य्स्_2,1.8 : प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः ॥
प्रत्यक्षादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः पूर्वापरसहभावानुपपत्तेर् इत्य् अर्थः॥
********************** न्य्स्भ्_2,1.9 **********************
% प्.420
अस्य सामान्यवचनस्यार्थविभागः ---
न्य्स्_2,1.9 : पूर्वं हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः ॥
गन्धादिविषयं ज्ञानं प्रत्यक्षम्, तद् यदि पूर्वम्, पश्चाद् गन्धादीनां सिद्धिः, नेदं गन्धादिसन्निकर्षाद् उत्पद्यत इति॥
********************** न्य्स्भ्_2,1.10 **********************
न्य्स्_2,1.10 : पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥
असति प्रमाणे केन प्रमीयमाणो ऽर्थः प्रमेयः स्यात् प्रमाणेन खलु प्रमीयमाणो ऽर्थः प्रमेयम् इत्य् एतत् सिध्यति॥
********************** न्य्स्भ्_2,1.11 **********************
% प्.421
न्य्स्_2,1.11 : युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् ॥
यदि प्रमाणं प्रमेयं च युगपद्भवतः, एवम् अपि गन्धादिष्व् इन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपत्सम्भवन्तीति ज्ञानानां प्रत्यक्षनियतत्वात् क्रमवृत्तित्वाभावः। या इमा बुद्धयः क्रमेणार्थेषु वर्त्तन्ते तासां क्रमवृत्तित्वं न सम्भवतीति। व्याघातश् च ``युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति। एतावांश् च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति। तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न सम्भवतीति।
अस्य समाधिः --- उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम्।
% यथाददर्शनं विभागवचनम्] प्.423
कवचिद् उपलब्धिहेतुः, पश्चाद् उपलब्धिविषयः, यथादित्यस्य प्रकाश उत्पद्यमानानाम्। क्वचित् पूर्वम् उपलब्धिविषयः पश्चाद् उपलब्धिहेतुः, यथावस्थितानां प्रदीपः। क्वचिद् उपलब्धिहेतुर् उपलब्धिविषयश् च सह भ्वतः, यथा धूमेनाग्नेर् ग्रहणम् इति। उपलब्धिहेतुश् च प्रमाणं प्रमेयं तूपलब्धिविषयः। एवं प्रमाणप्रमेययोः पूर्वापरसहभावे ऽनियते यथार्थो दृश्यते तथा विभज्य वचनीय इति तत्रैकान्तेन प्रतिषेधानुपपत्तिः, सामान्येन खलु विभज्य प्रतिषेध उक्त इति।
समाख्याहेतोस् त्रैकाल्ययोगात् तथाभूता समाख्या। यत् पुनर् इदं पश्चात् सिद्धाव् असति प्रमाणे प्रमेयं न सिध्यति, प्रमाणेन प्रमीयमाणो ऽर्थः प्रमेयम् इति विज्ञायत इति। प्रमाणम् इत्य् एतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तम्,
% म् इत्य् एतस्याः समाख्याया ...] प्.424
तस्य त्रैकाल्ययोगः। उपलब्धिम् अकार्षीत्, उपलब्धिं करोति, उपलब्धिं करिष्यतीति समाख्याहेतोस् त्रैकाल्ययोगात् समाख्या तथाभूता प्रमितो ऽनेनार्थः प्रमीयते प्रमास्यत इति प्रमाणम्; प्रमितम्, प्रमीयते, प्रमास्यते इति च प्रमेयम्। एवं सति भविष्यत्य् अस्मिन् हेतुत उपलब्धिः, प्रमास्यते ऽयम् अर्थः प्रमेयम् इदम् इत्य् एतत् सर्वं भ्वतीति। त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः। यश् चैवं नाभ्यनुजानीयात् तस्य पाचकम् आनय पक्ष्यति लावकम् आनय लविष्यतीति व्यवहारो नोपपद्यत इति।
``प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेर्ऽऽ इत्य् एवमादि वाक्यं प्रमाणप्रतिषेधः। तत्रायं प्रष्टव्यः, अथानेन प्रतिषेधेन भवता किं क्रियत इति? किं सम्भवो निवर्त्यते अथासम्भवो ज्ञाप्यते इति।
% सम्भवो ज्ञाप्यते] प्.425
तद् यदि सम्भवो निवर्त्यते सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः। अथासम्भवो ज्ञाप्यते, प्रमाणलक्षणं प्राप्तस् तर्हि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वाद् इति॥
********************** न्य्स्भ्_2,1.12 **********************
किं चातः?
न्य्स्_2,1.12 : त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥
अस्य तु विभागः। पूर्वं हि प्रतिषेधसिद्धाव् असति प्रतिषेध्ये किम् अनेन प्रतिषिध्यते पश्चात् सिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधाभावाद् इति। युगपत्सिद्धौ प्रतिषेध्यसिद्ध्यभ्यनुज्ञानाद् अनर्थकः प्रतिषेध इति।
% -ज्ञानाद् अनर्थकः ...] प्.426
प्रतिषेधलक्षणे च वाक्ये ऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वम् इति॥
********************** न्य्स्भ्_2,1.13 **********************
% प्.427
कथम्?
न्य्स्_2,1.13 : सर्वप्रमाणप्रतिषेधाच् च प्रतिषेधानुपपत्तिः ॥
त्रैकाल्यासिद्धेर् इत्य् अस्य हेतोर् यद्य् उदाहरणम् उपादीयते हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यम् इति,
% दर्शयितव्यम् इति,] प्.428
न च तर्हि प्रत्यक्षादीनाम् अप्रामाण्यम्। अथ प्रत्यक्षादीनाम् अप्रामाण्यम्, उपादीयमानम् अप्य् उदाहरणं नार्थं साधयिष्यतीति सो ऽयं सर्वप्रमाणव्याहतो हेतुर् अहेतुः; ``सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धःऽऽ इति। वाक्यार्थो ह्य् अस्य सिद्धान्तः। स च वाक्यार्थः प्रत्यक्षादीनि नार्थं साधयन्तीतीदं चावयवानाम् उपादानम् अर्थस्य साधनायेति। अथ नोपादीयते अप्रदर्शितं हेत्वर्थस्य दृष्टान्तेन साधकत्वम् इति निषेधो नोपपद्यते हेतुत्वासिद्धेर् इति॥
********************** न्य्स्भ्_2,1.14 **********************
% प्.429
न्य्स्_2,1.14 : तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥
प्रतिषेधलक्षणे स्ववाक्ये तेषाम् अवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्ये ऽभ्यनुज्ञायमाने परवाक्ये ऽप्य् अवयवाश्रितानां प्रामाण्यं प्रसज्यते ऽविशेषाद् इति। एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति। विप्रतिषेध इति वीत्य् अयम् उपसर्गः सम्प्रतिपत्त्यर्थे, न व्याघाते ऽर्थाभावाद् इति॥
********************** न्य्स्भ्_2,1.15 **********************
% प्.430
न्य्स्_2,1.15 : त्रैकाल्याप्रतिषेधश् च शब्दाद् आतोद्यसिद्धिवत् तत्सिद्धेः ॥
किम् अर्थं पुनर् इदम् उच्यते? पूर्वोक्तनिबन्धनार्थम्। यत् तावत् पूर्वोक्तम् उपलब्धिहेतोर् उपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम् इति, तद् इतः समुत्थानं यथा विज्ञायेत। अनित्यम् अदर्शी खल्व् अयम् ऋषिर् नियमेन प्रतिषेधं प्रत्याचष्टे --- त्रैकाल्यस्य चायुक्तः प्रतिषेध इति। तत्रैकां विधाम् उदाहरति शब्दाद् आतोद्यसिद्धिवद् इति।
% -द् इति] प्.431
यथा पश्चात् सिद्धेन शब्देन पूर्वसिद्धम् आतोद्यम् अनुमीयते, साध्यं चातोद्यं साधनं च शब्दः, अन्तर्हिते ह्य् आतोद्ये स्वनतो ऽनुमानं भवतीति वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेण आतोद्यविशेषं प्रतिपद्यते; तथा पूर्वसिद्धम् उपलब्धिविषयं पश्चात् सिद्धेनोपलब्धिहेतुना प्रतिपद्यत इति। निदर्शनार्थत्वाच् चास्य शेषयोर् विधयोर् यथोक्तम् उदाहरणं वेदितव्यम् इति।
कस्मात् पुनर् इह तन् नोच्यते? पूर्वोक्तम् उपपाद्यत इति। सर्वथा तावद् अयम् अर्थः प्रकाशयितव्यः, स इह वा प्रकाश्येत तत्र वा, न कश्चिद् विशेष इति॥
********************** न्य्स्भ्_2,1.16 **********************
% प्.432
प्रमाणं प्रमेयम् इति च समाख्या समावेशेन वर्त्तते समाख्यानिमित्तवशात्। समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश् च प्रमेयम् इति। यदा च उपलब्धिविषयः क्वचिद् उपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयम् इति चैको ऽर्थो ऽभिधीयते। अस्यार्थस्यावद्योतनार्थम् इदम् उच्यते ---
% प्.433
न्य्स्_2,1.16 : प्रमेया च तुलाप्रामाण्यवत् ॥
गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्, ज्ञानविषयो गुरु द्रव्यं सुवर्णादि प्रमेयम्। यथा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणम् तुलान्तरं प्रमेयम् इति। एवम् अनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः। आत्मा तावद् उपलब्धिविषयत्वात् प्रमेये परिपठितः, उपलब्धौ स्वातन्त्र्यात् प्रमाता। बुद्धिर् उपलब्धिसाधनत्वात् प्रमाणम्, उपलब्धिविषयत्वात् प्रमेयम्; उभयाभावात् तु प्रमितिः। एवम् अर्थविशेषे समाख्यासमावेशो योज्यः। तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्त्तन्त इति।
% समावेशेन वर्तन्त इति।] प्.434
वृक्षस् तिष्ठतीति स्वस्थितौ स्वातन्त्र्यात् कर्ता। वृक्षं पश्यतीति दर्शनेनाप्तुम् इष्यमाणतमत्वात् कर्म।
% पश्यतीति दर्शनेनाप्तुम् ...] प्.437
वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम्।
% साधकतमत्वात् करणम्।] प्.438
वृक्षायोदकम् आसिञ्चतीति आसिच्यमानेनोदकेन वृक्षम् अभिप्रैतीति सम्प्रदानम्। वृक्षात् पर्णं पततीति ``ध्रुवम् अपाये ऽपादानम्ऽऽ इत्य् अपादानम्। वृक्षे वयांसि सन्तीति ``आधारो ऽधिकरणम्ऽऽ इत्य् अधिकरणम्। एवम् च सति न द्रव्यमात्रं कारकम्, न क्रियामात्रम्। किं तर्हि? क्रियासाधनं क्रियाविशेषयुक्तं कारकम्। यत् क्रियासाधनं स्वतन्त्रम् स कर्ता, न द्रव्यमात्रं न क्रियामात्रम्। क्रियया व्याप्तुम् इष्यमाणतमं कर्म,
% -म् इष्यमाणतमं कर्म,] प्.439
न द्रव्यमात्रं न क्र्यामात्रम्। एवं साधकतमादिष्व् अपि। एवं च कारकान्वाख्यानं यथैव उपपत्तित एवं लक्षणतः। कारकान्वाख्यानम् अपि न द्रव्यमात्रे न क्रियायाम् वा। किं तर्हि? क्रियासाधने क्रियाविशेषयुक्त इति। कारकशब्दश् चायं प्रमाणं प्रमेयम् इति, स च कारकधर्मं न हातुम् अर्हति
********************** न्य्स्भ्_2,1.17 **********************
% प्.440
अस्ति भोः कारकशब्दानां निमित्तवशात् समावेषः। प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतुत्वात्, प्रमेयं चोपलब्धिविषयत्वात्। संवेद्यानि च प्रत्यक्षादीनि प्रमाणानि, प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलभे। प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानम् इति विशेषा गृह्यन्ते। लक्षणतश् च ज्ञाप्यमानानि ज्ञायन्ते विशेषेणेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् इत्य् एवमादिना।
% प्.441
सेयम् उपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः अथान्तरेण प्रमाणान्तरम् असाधनेति? कश् चात्र विशेषः?
न्य्स्_2,1.17 : प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥
यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते, येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरम् अस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति अनवस्थाम् आह तस्याप्य् अन्येन तस्याप्य् अन्येनेति।
% -म् अस्तीति प्रमाणान्तरसद्भावः ...] प्.442
न चानवस्था शक्यानुज्ञातुम् अनुपपत्तेर् इति॥
********************** न्य्स्भ्_2,1.18 **********************
अस्तु तर्हि प्रमाणान्तरम् अन्तरेण निःसाधनेति?---
न्य्स्_2,1.18 : तद्विनिवृत्तेर् वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ॥
यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्त्तने आत्माद्युपलब्धाव् अपि प्रमाणान्तरं निवर्त्स्यत्य् अविशेषात्॥
********************** न्य्स्भ्_2,1.19 **********************
% प्.443
एवं च सर्वप्रमाणविलोप इत्य् अत आह ---
न्य्स्_2,1.19 : न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः ॥
यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्तरेण चक्षुषः सन्निकर्षेण गृह्यते; प्रदीपभावाभावयोर् दर्शनस्य तथाभावाद् दर्शनहेतुर् अनुमीयते, तमसि प्रदीपम् उपाददीथा इत्य् आप्तोपदेशेनापि प्रतिपद्यते; एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिर् एवोपलब्धिः। इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते। अर्थाः प्रत्यक्षतो गृह्यन्ते। इन्द्रियार्थसन्निकर्षास् त्व् आवरणेन लिङ्गेनानुमीयन्ते।
% प्.444
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् आत्ममनसोः संयोगविशेषाद् आत्मसमवयाच् च सुखादिवद् गृह्यते। एवं प्रमाणविशेषो विभज्य वचनीयः। यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुर् इति दृश्यदर्शनव्यवस्थां लभते, एवं प्रमेयं सत् किञ्चिद् अर्थजातम् उपलब्धिहेतुत्वात् प्रमाणप्रमेयव्य्वस्थां लभते। सेयं प्रत्यक्षादिभिर् एव प्रत्यक्षादीनां यथादर्शनम् उपलब्धिर् न प्रमाणान्तरतः, न च प्रमाणम् अन्तरेण निःसाधनेति।
तेनैव तस्याग्रहणम् इति चेत्, न; अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षादीनां प्रत्यक्षादिभिर् एव ग्रहणम् इत्य् अयुक्तम्, अन्येन ह्य् अन्यस्य ग्रहणं दृष्टम् इति। न, अर्थभेदस्य लक्षणसामान्यात् --- प्रत्यक्षलक्षणेनानेको ऽर्थः संगृहीतस् तत्र केनचित् कस्यचिद् ग्रहणम् इत्य् अदोषः। एवम् अनुमानादिष्व् अपीति। यतोद्धृतेनोदकेनाशयस्थस्य ग्रहणम् इति।
% प्.445
ज्ञातृमनसोश् च दर्शनात् --- अहं सुखी अहं दुःखी चेति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते। ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुर् ज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति।
निमित्तभेदो ऽत्रेति चेत् समानम् --- न निमित्तान्तरेण विना ज्ञाता आत्मानं जानीते, न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति समानम् एतत्, प्रत्यक्षाद्भिः प्रत्यक्षादीनां ग्रहंअम् इत्य् अत्राप्य् अर्थभेदो न गृह्यत इति।
प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः --- यदि स्यात् किंचिद् अर्थजातं प्रत्यक्षादीनाम् अविषयः यत् प्रत्यक्षादिभिर् न शक्यं ग्रहीतुम्, तस्य ग्रहणाय प्रमाणान्तरम् उपादीयेत, तत् तु न शक्यं केनचिद् उपपादयितुम् इति। प्रत्यक्षादीनां यथादर्शनम् एवेदं सच् चासच् च सर्वं विषय इति॥
********************** न्य्स्भ्_2,1.20 **********************
% प्.446
न्य्स्_2,1.20 : क्वचिन् निवृत्तिदर्शनाद् अनिवृत्तिदर्शनाच् च क्वचिद् अनेकान्तः ॥
केचित् तु दृष्टान्तम् अपरिगृहीतं हेतुना विशेषहेतुम् अन्तरेण साध्यसाधनायोपाददते; यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशम् अन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरम् अन्तरेण गृह्यत इति। स चायम् ---
यथा चायं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधायोपादीयते। एवं प्रमेयसाधनायाप्य् उपादेयो ऽविशेषहेतुत्वात् --- यथा च स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते,
% -साधायोपादीयते,] प्.447
एवं प्रमाणसाधायाप्य् उपादेयो विशेषहेत्वभावात्, सो ऽयं विशेषहेतुपरिग्रहम् अन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्ष इत्य् अनेकान्तः। एकस्मिंश् च पक्षे दृष्टान्त इत्य् अनेकान्तो विशेषहेत्वभावाद् इति।
% प्.448
विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानाद् अप्रतिषेधः --- विशेषहेतुपरिगृहीतस् तु दृष्टान्त एकस्मिन् पक्षे उपसंह्रियमाणो न शक्यो ऽनुज्ञातुम्। एवं च सत्य् अनेकान्त इत्य् अयं प्रतिषेधो न भवति।
प्रत्यक्षादीनां प्रत्यक्षादिभिर् उपलब्धाव् अनवस्थेति चेद्, न संविद्विषयनिमित्तानाम् उपलब्ध्या व्यवहारोपपत्तेः --- प्रत्यक्षेणार्थम् उपलभे, अनुमानेनार्थम् उपलभे, उपमानेनार्थम् उपलभे, आगमेनार्थम् उपलभे इति, प्रत्यक्षं मे ज्ञानम्, आनुमानिकं मे ज्ञानम्, औपमानिकं मे ज्ञानम्, आगमिकं मे ज्ञानम् इति संविद्विषयं संविन्निमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनस् तत्प्रत्यनीकपरिवर्जनप्रयोजनश् च व्यवहार उपपद्यते, सो ऽयं तावत्य् एव निवर्तते।
% तावत्य् एव निवर्तते] प्.449
न चास्ति व्यवहारान्तरम् अनवस्थासाधनीयं येन प्रत्युक्तानवस्थाम् उपाददीतेति
********************** न्य्स्भ्_2,1.21 **********************
सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते। तत्र ---
न्य्स्_2,1.21: प्रत्यक्षलक्षणानुपपत्तिर् असमग्रवचनात् ॥
आत्ममनःसन्निकर्षो हि कारणान्तरं नोक्तम् इति
********************** न्य्स्भ्_2,1.22 **********************
% प्.450
न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिर् इति ज्ञानोत्पत्तिदर्शनाद् आत्ममनःसन्निकर्षः कारणम्।
% -द् आत्ममनःसन्निकर्षः कारणम्।] प्.451
मनःसन्निकर्षानपेक्षस्य चेन्द्रियार्थसन्निकर्षस्य ज्ञानकारणत्वे युगपद् उत्पद्येरन् बुद्धय इति मनःसन्निकर्षो ऽपि कारणम्। तद् इदं सूत्रं पुरस्तात् कृतभाष्यम्।
न्य्स्_2,1.22: नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः ॥
आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसन्निकर्षाभाववद् इति
********************** न्य्स्भ्_2,1.23 **********************
% प्.452
सति चेन्द्रियार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतः ---
न्य्स्_2,1.23: दिग्देशकालाकाशेष्व् अप्य् एवं प्रसङ्गः ॥
दिगादिषु सत्सु ज्ञानभावात् तान्य् अपि कारणानीति? अकारणभावे ऽपि ज्ञानोत्पत्तिर् दिगादिसन्निधेर् अवर्जनीयत्वात् --- यदाप्य् अकारणं दिगादीनि ज्ञानोत्पत्तौ, तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यम्,
% -दिषु ज्ञानेन भवितव्यम्,] प्.453
न हि दिगादीनां सन्निधिः शक्यः परिवर्जयितुम् इति। तत्र कारणभावे हेतुवचनम्, एतस्माद् धेतोर् दिगादीनि ज्ञानकारणानीति
********************** न्य्स्भ्_2,1.24 **********************
आत्ममनःसन्निकर्षस् तर्ह्य् उपसङ्ख्येय इति। तत्रेदम् उच्यते ---
न्य्स्_2,1.24: ज्ञानलिङ्गत्वाद् आत्मनो नानवरोधः ॥
% प्.454
ज्ञानम् आत्मलिङ्गं तद्गुणत्वात्। न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिर् अस्तीति
********************** न्य्स्भ्_2,1.25 **********************
% प्.455
न्य्स्_2,1.25: तदयौगपद्यलिङ्गत्वाच् च न मनसः ॥
अनवरोध इति वर्त्तते। युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम् इत्य् उच्यमाने सिध्यत्य् एव मनःसन्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारणम् इति
********************** न्य्स्भ्_2,1.26 **********************
% प्.456
न्य्स्_2,1.26: प्रत्यक्षनिमित्तत्वाच् चेन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् ॥
प्रत्यक्षानुमानोपमानशब्दानां निमित्तम् आत्ममनःसन्निकर्षः, प्रत्यक्षस्यैवेन्द्रियार्थसन्निकर्ष इत्य् असमानः, असमानत्वात् तस्य ग्रहणम्
********************** न्य्स्भ्_2,1.27 **********************
% प्.457
न्य्स्_2,1.27: सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् ॥
इन्द्रियार्थसन्निकर्षस्य ग्रहणं नात्ममनसोः सन्निकर्षस्येति। एकदा खल्व् अयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते। यदा तु तीव्रौ ध्वनिस्पर्शौ प्रबोधकारणं भवतस् तदा प्रसुप्तस्येन्द्रियसन्निकर्षनिमित्तं प्रबोधज्ञानम् उत्पद्यते। तत्र न ज्ञातुर् मनसश् च सन्निकर्षस्य प्राधान्यं भवति। किं तर्हि? इन्द्रियार्थयोः सन्निकर्षस्य। न ह्य् आत्मा जिज्ञासमानः प्रयत्नेन मनस् तदा प्रेरयतीति।
एकदा खल्व् अयं विषयान्तरासक्तमनाः सङ्कल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद् विषयान्तरं जानीते। यदा तु खल्व् अस्य निःसङ्कल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाज् ज्ञानम् उत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम्।
% -सन्निकर्षस्य प्राधान्यम्।] प्.458
न ह्य् अत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति। प्राधान्याच् चेन्द्रियार्थसन्निकर्षस्य ग्रहणं कार्यं गुणत्वाद् नात्ममनसोः सन्निकर्षस्येति
********************** न्य्स्भ्_2,1.28 **********************
प्राधान्ये च हेत्वन्तरम् ---
न्य्स्_2,1.28: तैश् चापदेशो ज्ञानविशेषाणाम् ॥
तैर् इन्द्रियैर् अर्थैश् च व्यपदिश्यन्ते ज्ञानविशेषाः। कथम्? घ्राणेन जिघ्रति, चक्षुषा पश्यति, रसनया रसयतीति, घ्राणविज्ञानं चक्षुर्विज्ञानं रसनाविज्ञानं गन्धविज्ञानं रूपविज्ञानं रसविज्ञानम् इति च। इन्द्रियविषयविशेषाच् च पञ्चधा बुद्धिर् भवति। अतः प्राधान्यम् इन्द्रियार्थसन्निकर्षस्येति
********************** न्य्स्भ्_2,1.29 **********************
% प्.451
यद् उक्तम् इन्द्रियार्थसन्निकर्षग्रहणं कार्यम्, नात्ममनसोः सन्निकर्षस्येति, कस्मात्? सुप्तव्यासक्तमनसाम् इन्द्रियार्थयोः सन्निकर्षस्य ज्ञाननिमित्तत्वाद् इति। सो ऽयम् ---
न्य्स्_2,1.29: व्याहतत्वाद् अहेतुः ॥
यदि तावत् क्वचिद् आत्ममनसोः सन्निकर्षस्य ज्ञानकारणत्वं नेष्यते, तदा ``युगपज्ज्ञानानुत्पत्तिर् मनसो लिङ्गम्ऽऽ इति व्याहन्येत। नेदानीं मनसः सन्निकर्षम् इन्द्रियार्थसन्निकर्षो ऽपेक्षते।
% प्.460 -यार्थसन्निकर्षो .पेक्षते।] प्.460
मनःसंयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः। अथ मा भूद् व्याघात इति सर्वविज्ञानानाम् आत्ममनसोः सन्निकर्षः कारणम् इष्यते, तदवस्थम् एवेदं भवति; ज्ञानकारणत्वाद् आत्ममनसोः सन्निकर्षस्य ग्रहणं कार्यम् इति
********************** न्य्स्भ्_2,1.30 **********************
न्य्स्_2,1.30: नार्थविशेषप्राबल्यात् ॥
नास्ति व्याघातः, न ह्य् आत्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति। इन्द्रियार्थसन्निकर्षस्य प्राधान्यम् उपादीयते। अर्थविशेषप्राबल्याद् धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिर् एकदा भवति। अर्थविशेषः कश्चिद् एवेन्द्रियार्थः, तस्य प्राबल्यं तीव्रतापटुते। तच् चार्थविशेषप्राबल्यम् इन्द्रियार्थसन्निकर्षविषयं नात्ममनसोः सन्निकर्षविषयम्, तस्माद् इन्द्रियार्थसन्निकर्षः प्रधानम् इति।
% प्.461
असति प्रणिधाने सङ्कल्पे चासति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानम्, तत्र मनःसंयोगो ऽपि कारणम् इति मनसि क्रियाकारणं वाच्यम् इति।
यथैव ज्ञातुः खल्व् अयम् इच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुणः, एवम् आत्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितम् अस्ति, येन प्रेरितं मन इन्द्रियेण सम्बध्यते। तेन ह्य् अप्रेर्यमाणे मनसि संयोगाभावाज् ज्ञानानुत्पत्तौ सर्वार्थतास्य निवर्त्तते। एषितव्यं चास्य गुणान्तरस्य द्रव्यगुणकर्मकारणत्वम्, अन्यथा हि चतुर्विधानाम् अणूनां भूतसूक्ष्माणां मनसां च ततो ऽन्यस्य क्रियाहेतोर् असम्भवात् शरीरेन्द्रियविषयाणाम् अनुत्पत्तिप्रसङ्गः
********************** न्य्स्भ्_2,1.31 **********************
% प्.462
न्य्स्_2,1.31: प्रत्यक्षम् अनुमानम् एकदेशग्रहणाद् उपलब्धेः ॥
यद् इदम् इन्द्रियार्थसन्निकर्षाद् उत्पद्यते ज्ञानं वृक्ष इति, एतत् किल प्रत्यक्षम्, तत् खल्व् अनुमानम् एव। कस्मात्? एकदेशग्रहणाद् वृक्षस्योपलब्धेः। अर्वाग्भागम् अयं गृहीत्वा वृक्षम् उपलभते। न चैकदेशो वृक्षः। तत्र यथा धूमं गृहीत्वा वह्निम् अनुमिनोति तादृग् एव तद् भवति।
% प्.463
किं पुनर् गृह्यमाणाद् एकदेशाद् अर्थान्तरम् अनुमेयं मन्यसे? अवयवसमूहपक्षे अवयवान्तराणि द्रव्यान्तरोत्पत्तिपक्षे तानि चावववी चेति। अवयवसमूहपक्षे तावद् एकदेशग्रहणाद् वृक्षबुद्धेर् अभावः, नागृह्यमाणम् एकदेशान्तरं वृक्षो गृह्यमाणैकदेशवद् इति।
% प्.464
अथैकदेशग्रहणाद् एकदेशान्तरानुमाने समुदायप्रतिसन्धानात् तत्र वृक्षबुद्धिः? न तर्हि वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति।
% वृक्षबुद्धिर् अनुमानम् एवं सति भवितुम् अर्हतीति।] प्.467
द्रव्यान्तरोत्पत्तिपक्षे नावयव्यनुमेयः, अस्यैकदेशसम्बद्धस्याग्रहणात् ग्रहणे चाविशेषाद् अनुमेयत्वाभावः। तस्माद् वृक्षबुद्धिर् अनुमानं न भवति
********************** न्य्स्भ्_2,1.32 **********************
% प्.468
एकदेशग्रहणम् आश्रित्य प्रत्यक्षस्यानुमानत्वम् उपपाद्यते। तच् च ---
न्य्स्_2,1.32: न, प्रत्यक्षेण यावत् तावद् अप्य् उपलम्भात् ॥
न प्रत्यक्षम् अनुमानम्, कस्मात्? प्रत्यक्षेणैवोपलम्भात्। यत् तदेकदेशग्रहणम् आश्रीयते प्रत्यक्षेणासाव् उपलम्भः। न चोपलम्भो निर्विषयो ऽस्ति। यावच् चार्थजातं तस्य विषयस् तावद् अभ्युपज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति।
किं पुनस् ततो ऽन्यद् अर्थजातम्, अवयवी समुदायो वा? न चैकदेशग्रहणम् अनुमानं भावयितुं शक्यं हेत्वभावाद् इति।
% प्.469
अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गस् तत्पूर्वकत्वात् --- प्रत्यक्षपूर्वकम् अनुमानम्, सम्बद्धाव् अग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नाव् अनुमानं भवति। यच् च सम्बद्धयोर् लिङ्गलिङ्गिनोः प्रत्यक्षम्, यच् च लिङ्गमात्रप्रत्यक्षग्रहणम्, नैतद् अन्तरेण अनुमानस्य प्रवृत्तिर् अस्ति; न त्व् एतद् अनुमानम् इन्द्रियार्थसन्निकर्षजत्वात्। न चानुमेयस्येन्द्रियेण सन्निकर्षाद् अनुमानं भवति। सो ऽय. प्रत्यक्षानुमानयोर् लक्षणभेदो महान् आश्रयितव्य इति।
% प्.470
न चैकदेशोपलब्धिर् अवयविसद्भावात्। न चैकदेशोपलब्धिमात्रम्। किं तर्हि? एकदेशोपलब्धिः तत्सहचरितावयव्युपलब्धिश् च। कस्मात्? अवयविसद्भावात्। अस्ति ह्य् अयम् एकदेशव्यतिरिक्तो ऽवयवी तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्यैकदेशोपलब्धाव् अनुपलब्धिर् अनुपपन्नेति।
अकृत्स्नग्रहणाद् इति चेत्, न कारणतो ऽन्यस्यैकदेशस्याभावात् --- न चावयवाः कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्,
% कृत्स्ना गृह्यन्ते अवयवैर् एवावयवान्तरव्यवधानात्, ] प्.471
नावयवी कृत्स्नो गृह्यत इति, नायं गृह्यम्नाणेष्व् अवयवेषु परिसमाप्त इति, सेयम् एकद्देशोपलब्धिर् अनिवृत्तैवेति।
कृत्स्नम् इति वै खल्व् अशेषतायां सत्यां भवति, अकृत्स्नम् इति शेषे सति, तच् चैतद् अवयवेषु बहुष्व् अस्ति अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणाद् इति। अङ्ग तु भवान् पृष्टो व्याचष्टां गृह्यमाणस्यावयविनः किम् अगृहीतं मन्यते?
% भवान् पृष्टो ... अगृहीतं मन्यते?] प्.472
येनैकदेशोपलब्धिः स्याद् इति। न ह्य् अस्य कारणेभ्यो ऽन्ये एकदेशा भवन्तीति तत्रावयववृत्तं नोपपद्यत इति।
% नोपपद्यत इति।] प्.473
इदं तस्य वृत्तम् --- येषाम् इन्द्रियसन्निकर्षाद् ग्रहणम् अवयवानां तैः सह गृह्यते, येषाम् अवयवानां व्यवधानाद् अग्रहणं तैः सह न गृह्यते। न चैतत्कृतो ऽस्ति भेद इति।
% प्.477
समुदायशेषता वा समुदायो वृक्षः स्यात् तत्प्राप्तिर् वा, उभयथा ग्रहणाभावः। मूलस्कन्धशाखापलाशादीनाम् अशेषता वा समुदायो वृक्ष इति स्यात् प्राप्तिर् वा समुदायिनाम् इति, उभयथा समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यत इति। अवयवैस् तावद् अवयवान्तरस्य व्यवधानाद् अशेषग्रहणं नोपपद्यते। प्राप्तिग्रहणम् अपि नोपपद्यते प्राप्तिमताम् अग्रहणात्। सेयम् एकदेशग्रहणसहचरिता वृक्षवुद्धिर् द्रव्यान्तरोत्पत्तौ कल्पते न समुदयमात्रे इति
********************** न्य्स्भ्_2,1.33 **********************
% प्.478
न्य्स्_2,1.33: साध्यत्वाद् अवयविनि सन्देहः ॥
यद् उक्तम् अवयविसध्बावाद् इति, अयम् अहेतुः साध्यत्वात्। साध्यं तावद् एतत् कारणेभ्यो द्रव्यान्तरम् उत्पद्यत इति, अनुपपादितम् एतत्। एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश् चावयविनि संशय इति
********************** न्य्स्भ्_2,1.34 **********************
% प्.497
न्य्स्_2,1.34: सर्वाग्रहणम् अवयव्यसिद्धेः ॥
यद्य् अवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते। किं तत् सर्वम्? द्रव्यगुणकर्मसामान्यविशेषसमवायाः। कथं कृत्वा? परमाणुसमवस्थानं तावद् दर्शनविषयो न भवत्य् अतीन्द्रियत्वाद् अणूनाम्, द्रव्यान्तरञ् चावयविभूतं दर्शनविषयो नास्ति, दर्शनविषयस्थाश् चेमे द्रव्यादयो गृहन्ते ते निरधिष्ठाना न गृह्येरन्। गृह्यन्ते तु कुम्भो ऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश् चेति, सन्ति चेमे गुणादयो धर्मा इति। तेन सर्वस्य ग्रहणात् पश्यामो ऽस्ति द्रव्यान्तरभूतो .वयवीति
********************** न्य्स्भ्_2,1.35 **********************
% प्.498
न्य्स्_2,1.35: धारणाकर्षणोपपत्तेश् च ॥
अवयव्य् अर्थान्तरभूत इति।
सङ्ग्रहकारिते वै धारणाकर्षणे। संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम्, अपां संयोगाद् आमे कुम्भे, अग्निसंयोगात् पक्वे। यदि त्व् अवयविकारिते अभविष्यतां पांशुराशिप्रभृतिश्व् अप्य् अज्ञास्येताम्। द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्व् अपि नाभाविष्यताम् इति।
% प्.499
अथावयविनं प्रत्याचक्षाणको मा भूत् प्रत्यक्षलोप इत्य् अणुसञ्चयं दर्शनविषयं प्रतिजानानः किम् अनुयोक्तव्य इति। एकम् इदं द्रव्यम् इत्य् एकवुद्धेर् विषयं पर्यनुयोज्यः --- किम् एकबुद्धिर् अभिन्नार्थविषयेति आहोस्वित् भिन्नार्थविषयेति। अभिन्नार्थविषयेति चेत् ---
% चेत् ---] प्.500
अर्थान्तरानुज्ञानाद् अवयवविसिद्धिः। नानार्थविषयेति चेत् --- भिन्नेष्व् एकदर्शनानुपपत्तिः अनेकस्मिन्न् एक इति व्याहता बुद्धिर् न दृश्यत इति
********************** न्य्स्भ्_2,1.36 **********************
न्य्स्_2,1.36: सेनावनवत् ग्रहणम् इति चेन् नातीन्द्रियत्वाद् अणूनाम् ॥
यथा सेनाङ्गेषु वनाङ्गेषु च दूराद् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिः एवम् अणुषु सञ्चितेष्व् अगृह्यमाणपृथक्त्वेष्व् एकम् इदम् इत्य् उपपद्यते बुद्धिर् इति। यथा गृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणम्,
% प्.501
यथा गृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाराज् जातिग्रहणं भवति। यथा गृह्यमाणप्रस्पन्दानां नारात् स्पन्दग्रहणम्, गृह्यमाणे चार्थजाते पृथक्त्वस्याग्रहणाद् एकम् इति भाक्तः प्रत्ययो भवति, न त्व् अणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः, अतीन्द्रियत्वाद् अणूनाम् इति।
% प्.503
इदम् एव च परीक्ष्यते किम् एकप्रत्ययो णुसञ्चयविषय आहोस्वित् नेति, अणुसञ्चय एव सेनावनाङानि। न च परीक्ष्यमाणम् उदाहरणम् इति युक्तं साध्यत्वाद् इति।
दृष्टम् इति चेन् न तद्विषयस्य परीक्षोपपत्तेः। यद् अपि मन्येत दृष्टम् इदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम्, न च दृष्टं शक्यं प्रत्याख्यातुम् इति, तच् च नैवम्, तद्विषयस्य परीक्षोपपत्तेः --- दर्शनविषय एवायं परीक्ष्यते यो ऽयम् एकम् इति प्रत्ययो दृश्यते, स परीक्ष्यते किं द्रव्यान्तरविषयो वा अथाणुसञ्चयविषय इति। अत्र दर्शनम् अन्यतरस्य साधकं न भवति। नानाभावे चाणूनां पृथक्त्वस्याग्रहणाद् अभेदेनैकम् इति ग्रहणम् अतस्मिंस् तद् इति प्रत्ययः, यथा स्थाणौ पुरुष इति। ततः किम्?
% किम्?] प्.504
अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः। स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम्? सो ऽसौ पुरुषे पुरुषप्रत्ययः, तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषो .यम् इति। एवं नानाभूतेष्व् एकम् इति सामान्यग्रहणात् प्रधाने सति भवितुम् अर्हति। प्रधानं च सर्वस्याग्रहणाद् इति नोपपद्यते। तस्माद् अभिन्न एवायम् अभेदप्रत्यय एकम् इति।
% प्.505
इन्द्रियान्तरविषयेष्व् अभेदप्रत्ययः प्रधानम् इति चेद्, न विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था --- श्रोत्रादिविषयेषु शब्दादिष्व् अभिन्नेष्व् एकप्रत्ययः प्रधानम् अनेकस्मिन्न् एकप्रत्ययस्येति। एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते विशेषहेत्वभावात्। अणुषु संशितेष्व् एकप्रत्ययः किम् अतस्मिंस् तद् इति प्रत्ययः स्थाणौ पुरुषप्रत्ययवत्, अथार्थस्य तथाभावात् तस्मिंस् तद् इति प्रत्ययः यथा शब्दस्यैकत्वाद् एकः शब्द इति विशेषहेतुपरिग्रहणम् अन्तरेण दृष्टान्तौ संशयम् आपादयत इति। कुम्भवत्सञ्चयमात्रं गन्धादयो ऽपीत्य् अनुदाहरणं गन्धादय इति।
% -दाहरणं गन्धादय इति।] प्.507
एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययान् अप्य् अनुयोक्तव्यः, तेषु चैवं प्रसङ्ग इति।
एकत्वबुद्धिस् तस्मिंस् तद् इति प्रत्यय इति विशेषहेतुर् महद् इति प्रत्ययेन सामानाधिकरण्यात् --- एकम् इदं महच् चेति एकविषयौ प्रत्ययौ समानाधिकरणौ भवतः तेन विज्ञायते यन् महत् तद् एकम् इति। अणुसमूहातिशयग्रहणं महत्प्रत्यय इति चेत् सो .यम् अमहत्सु अणुषु महत्प्रत्ययो ऽतस्मिंस् तद् इति प्रत्ययो भवतीति। किं चातः? अतस्मिंस् तद् इति प्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिर् इति भवितव्यं महत्य् एव महत्प्रत्ययेनेति।
% प्.508
अणुः शब्दो महान् इति च व्यवसायात् प्रधानसिद्धिर् इति चेत्, न मन्दतीव्रताग्रहणम् इयत्तानवधारणात् --- यथा द्रव्ये अणुः शब्दो ऽल्पो मन्द इत्य् एतस्य ग्रहणं महन् शब्दः पटुस् तीव्र इत्य् एतस्य ग्रहणम्। कस्मात्? इयत्तानवधारणात्। न ह्य् अयं महान् शब्द इति व्यवस्यन्न् इयान् अयम् इत्य् अवधारयति, यथा बदरामलकबिल्वादीनि।
% प्.509
संयुक्ते इमे इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् --- द्वौ समुदायाव् आश्रयः संयोगस्येति चेत् को ऽयं समुदायः? प्राप्तिर् अनेकस्यानेका वा प्राप्तिर् एकस्य समुदाय इति चेत् प्राप्तेर् अग्रहणं प्राप्त्याश्रितायाः। संयुक्ते इमे वस्तुनी इति नात्र द्वे प्राप्ती संयुक्ते गृह्येते।
अनेकसमूहः समुदाय इति चेत्, न द्वित्वेन समानाधिकरणस्य ग्रहणात्। द्वाव् इमौ संयुक्ताव् अर्थाव् इति ग्रहणे सति नानेकसमूहाश्रयः संयोगो गृह्यते। न च द्वयोर् अण्वोर् ग्रहणम् अस्ति। तस्मान् महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानम् इति।
% प्.510
प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरम् इति चेत्, नार्थान्तरहेतुत्वात् संयोगस्य। शब्दरूपादिस्पन्दानां हेतुः संयोगः। न च द्रव्ययोर् गुणान्तरोपजननम् अन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते, तस्माद् गुणान्तरम्। प्रत्ययविषयश् चार्थान्तरं तत्प्रतिषेधो वा, कुण्डली गुरुर् अकुण्डलश् छात्र इति। संयोगबुद्धेश् च यद्य् अर्थान्तरं न विषयः अर्थान्तरप्रतिषेधस् तर्हि विषयः, तत्र प्रतिषिध्यमानवचनम् --- संयुक्ते द्रव्ये इति यद् अर्थान्तरम् अन्यत्र दृष्टम् इह प्रतिषिध्यते तद्वक्तव्यम् इति। द्वयोर् महतोर् आश्रितस्य ग्रहणान् नाण्वाश्रय इति।
% प्.511
जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्, प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः। व्यधिकरणस्यानभिव्यक्तेर् अधिकरणवचनम्। अणुसमवस्थानं विषय इति चेत् प्राप्ताप्राप्तसामर्थ्यवचनम् --- किम् अप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते अथ प्राप्ते इति। अप्राप्ते ग्रहणम् इति चेत् व्यवहितस्याणुसमवस्थानस्याप्य् उपलब्धिप्रसङ्गः, व्यवहिते ऽण्समवस्थाने तदाश्रयो जातिविशेषो गृह्येत। प्राप्ते ग्रहणम् इति चेत्,
% चेत्,] प्.512
मध्यपरभागयोर् अप्राप्ताव् अनभिव्यक्तिः। यावत् प्राप्तं भवति तावत्य् अभिव्यक्तिर् इति चेत्, तावतो ऽधिकरणत्वम् अणुसमवस्थानस्य। यावति प्राप्ते जातिविशेषे गृह्यते तावद् अस्याधिकरणम् इति प्राप्तं भवति। तत्रैकसमुदाये प्रतीयमाने ऽर्थभेदः। एवं च सति यो ऽयम् अणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत, यत्र यत्र ह्य् अणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति। तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति
********************** न्य्स्भ्_2,1.37 **********************
% प्.514
परीक्षितं प्रत्यक्षम्। अनुमानम् इदानीं परीक्ष्यते ---
न्य्स्_2,1.37: रोधोपघातसादृश्येभ्यो व्यभिचाराद् अनुमानम् अप्रमाणम् ॥
अप्रमाणम् इति एकदाप्य् अर्थस्य न प्रतिपादकम् इति। रोधाद् अपि नदी पूर्णा गृह्यते, तदा चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम्। नीडोपघाताद् अपि पिपीलिकाण्डसञ्चारो भवति, तदा च भविष्यति वृष्टिर् इति मिथ्यानुमानम् इति। पुरुषो ऽपि मयूरवाशितम् अनुकरोति तदा ऽपि शब्दसादृश्यान् मिथ्यानुमानं भवति
********************** न्य्स्भ्_2,1.38 **********************
% प्.516
न्य्स्_2,1.38: नैकदेशत्राससादृश्येभ्यो ऽर्थान्तरभावात् ॥
नायम् अनुमानव्यभिचारः, अननुमाने तु खल्व् अयम् अनुमानाभिमानः। कथम्? नाविशिष्टो लिङ्गं भवितुम् अर्हति। पूर्वोदकविशिष्टं खलु वर्षोदकं शीग्रतरत्वं स्रातसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्या उपरि वृष्टो देव इत्य् अनुमिनोति नोदकवृद्धिमात्रेण। पिपीलिकाप्रायस्याण्डसञ्चारे भविष्यति वृष्टिर् इत्य् अनुमीयते न कासाञ्चिद् इति। नेदं मयूरवाशितं तत्सदृशो ऽयं शब्द इति विशेषापरिज्ञानान् मिथ्यानुमानम् इति। यस् तु सदृशाद् विशिष्टाच् छब्दाद् विशिस्टमयूरवाशितं गृह्णाति तस्य विशिष्टो ऽर्थो गृह्यमाणो लिङ्गम्, यथा सर्पादीनाम् इति। सो ऽयम् अनुमातुर् अपराधो नानुमानस्य, यो ऽर्थविशेषेणानुमेयम् अर्थम् अविशिष्टार्थदर्शनेन बुभुत्सत इति
********************** न्य्स्भ्_2,1.39 **********************
% प्.517
त्रिकालविषयम् अनुमानं त्रैकाल्यग्रहणाद् इत्य् उक्तम्। अत च ---
न्य्स्_2,1.39: वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः ॥
वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्वं स पतितो ऽध्वा तत्संयुक्तः कालः पतितकालः, यो ऽधस्तात् स पतितव्यो ऽध्वा, तत्संयुक्तः कालः पतितव्यकालः। नेदानीं तृतीयो ऽध्वा विद्यते यत्र पततीति वर्तमानः कालो गृह्येत। तस्माद् वर्तमानः कालो न विद्यत इति
********************** न्य्स्भ्_2,1.40 **********************
% प्.520
न्य्स्_2,1.40: तयोर् अप्य् अभावो वर्तमानाभावे तदपेक्षत्वात् ॥
नाध्वव्यङ्ग्यः कालः। किं तर्हि? क्रियाव्यङ्ग्यः पततीति। यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः। यदोत्पत्स्यते स पतितव्यकालः।
% प्.521
यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः। यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्योपरमम् उत्पत्स्यमानतां वा प्रतिपद्यते। पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्; अधः पततीति क्रियासम्बद्धम्। सो ऽयं क्रियाद्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालः, तदाश्रयौ चेतरौ कालौ तदहावे न स्याताम् इति
********************** न्य्स्भ्_2,1.41 **********************
% प्.522
अथापि ---
न्य्स्_2,1.41: नातीतानागतयोर् इतरेतरापेक्षा सिद्धिः ॥
यद्य् अतीतानागताव् इतरेतरापेक्षौ सिध्येतां प्रतिपद्येमहि वर्तमानविलोपम्। नातीतापेक्षानागतसिद्धिः नाप्य् अनागतापेक्षातीतसिद्धिः। कया युक्त्या? केन कल्पेनातीतः कथम् अतीतापेक्षानागतसिद्धिः, केन च कल्पेनानागत इति नैतच् छक्यं निर्वक्तुम् अव्याकरणीयम् एतद् वर्तमानलोप इति। यच् च मन्येत ह्रस्वदीर्घयोः स्थलनिम्नयोश् छायातपयोश् च यथेतरेतरापेक्षया सिद्धिर् एवम् अतीतानागतयोर् इति, तन् नोपपद्यते विशेषहेत्वभावात्। दृष्टान्तवत् प्रतिदृष्टान्तो ऽपि प्रसज्यते, यथा रूपस्पर्शौ गन्धरसौ नेतरेतरापेक्षौ सिद्ध्यतः एवम् अतीतानागताव् इति नेतरेतरापेक्षा कस्यचित् सिद्धिर् इति।
% सिद्ध्यतः एवम् ... सिद्धिर् इति।] प्.523
यस्माद् एकाभावे ण्यतराभावाद् उभयाभावः --- यद्य् एकस्यान्यतरापेक्षा सिद्धिर् अन्यतरस्येदानीं किम् अपेक्षा? यद्य् अन्यतरस्यैकापेक्षा सिद्धिर् एकस्येदानीं किम् अपेक्षा? एवम् एकस्याभावे अन्यतरन् न सिध्यतीत्य् उभयाभावः प्रसज्यते
********************** न्य्स्भ्_2,1.42 **********************
अर्थसद्भावव्यङ्ग्यश् चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति। यस्य चायं नास्ति, तस्य ---
न्य्स्_2,1.42: वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः ॥
प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजम्, न चाविद्यमानम् असद् इन्द्रियेण सन्निकृष्यते। नचायं विद्यमानं सत् किञ्चिद् अनुजानाति। प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोर् अनुपपत्तिः। सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति
********************** न्य्स्भ्_2,1.43 **********************
% प्.524
उभयथा च वर्तमानः कालो गृह्यते क्वचिद् अर्थसद्भावव्यङ्ग्यः यथास्ति द्रव्यम् इति। क्वचित् क्रियासन्तानव्यङ्ग्यः यथा पचति छिनत्तीति। नानाविधा चैकार्था क्रिया क्रियासन्तानः क्रियाभ्यासश् च। नानाविधा चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनम् एधोऽपसर्पणम् अग्न्यभिज्वालनं दर्वीघट्टनं मण्डस्रावणम् अधोऽवतारणम् इति।
छिनत्तीति क्रियाभ्यास उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीत्य् उच्यते।
% प्.525
यच् चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणम्, तस्मिन् क्रियमाणे ---
न्य्स्_2,1.43: कृतताकर्तव्यतोपपत्तेस् तूभयथा ग्रहणम् ॥
क्रियासन्तानो णारब्धश् चिकीर्षितो .आगतः कालः पक्ष्यतीति। प्रयोजनावसानः क्रियासन्तानोपरमः अतीतः कालः अपाक्षीद् इति।
% क्रियासन्तानोपरमः अतीतः कालः अपाकृईद् इति।] प्.526
आरब्धक्रियासन्तानो वर्तमानः कालः पचतीति। तत्र या उपरता सा कृतता। या चिकीर्षिता सा कर्तव्यता। या विद्यमाना सा क्रियमाणता। तद् एवं क्रियासन्तानस्थस् त्रैकाल्यसमाहारः पचति पच्यत इति वर्तमानग्रहणेन गृह्यते, क्रियासन्तानस्य ह्य् अत्राविच्छेदो ऽभिधीयते नारम्भो नोपरम इति। सो ऽयम् उभयथा वर्तमानो गृह्यते अपवृक्तो व्यपवृक्तश् चातीतानागताभ्याम्। स्थितिव्यङ्ग्यः --- विद्यते द्रव्यम् इति। क्रियासन्तानाविच्छेदाभिधायी च त्रैकाल्यान्वितः --- पचति छिनत्तीति। अन्यश् च प्रत्यासत्तिप्रभृतेर् अर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषु उत्प्रेक्षितव्यः। तस्माद् अस्ति वर्तमानः काल इति
********************** न्य्स्भ्_2,1.44 **********************
% प्.527
न्य्स्_2,1.44: अत्यन्तप्रायैकदेशसाधर्म्याद् उपमानसिद्धिः ॥
अत्यन्तसाधर्म्याद् उपमानं न सिध्यति। न चैवं भवति यथा गौर् एवं गौर् इति।
% गौर् इति] प्.528
प्रायःसाधर्म्याद् उपमानं न सिध्यति, न हि भवति यथानड्वान् एवं महिष इति। एकदेशसाधर्म्याद् उपमानं न सिध्यति, न हि सर्वेण सर्वम् उपमीयत इति
********************** न्य्स्भ्_2,1.45 **********************
न्य्स्_2,1.45: प्रसिद्धसाधर्म्याद् उपमानसिद्धेर् यथोक्तदोषानुपपत्तिः ॥
न साधर्म्यस्य कृत्स्नप्रायाल्पभावम् आश्रित्योपमानं प्रवर्तते। किं तर्हि?
% प्.529
प्रसिद्धसाधर्म्यात् साध्यसाधनभावम् आश्रित्य प्रवर्तते। यत्र चैतद् अस्ति न तत्रोपमानं प्रतिषेद्धुं शक्यम्। तस्माद् यथोक्तदोषो नोपपद्यत इति
********************** न्य्स्भ्_2,1.46 **********************
अस्तु तर्ह्य् उपमानम् अनुमानम् ---
न्य्स्_2,1.46: प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥
यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्नेर् ग्रहणम् अनुमानम्, एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणम् इति नेदम् अनुमानाद् विशिष्यते
********************** न्य्स्भ्_2,1.47 **********************
% प्.530
विशिष्यत इत्य् आह। कया युक्त्या?
न्य्स्_2,1.47: नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः ॥
यदा ह्य् अयम् उपयुक्तोपमानो गोदर्शी गवयसमानम् अर्थं पश्यति तदायं गवय इत्य् अस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते न चैवम् अनुमानम् इति। परार्थं चोपमानम् --- यस्य ह्य् उपमानम् अप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति परार्थम् उपमानम् इति चेत्; न,
% प्.531
स्वयम् अध्यवसायात् --- भवति च भोः स्वयम् अध्यवसायः यथा गौर् एवं गवय इति। नाध्यवसायः प्रतिषिध्यते उपमानं तु तन् न भवति ``प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्ऽऽ। न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभाअवो विद्यत इति
********************** न्य्स्भ्_2,1.48 **********************
अथापि ---
न्य्स्_2,1.48: तथेत्य् उपसंहाराद् उपमानसिद्धेर् नाविशेषः ॥
तथेति समानधर्मोपसंहाराद् उपमानं सिध्यति नानुमानम्। अयं चानयोर् विशेष इति
********************** न्य्स्भ्_2,1.49 **********************
% प्.534
न्य्स्_2,1.49: शब्दो ऽनुमानम् अर्थस्यानुपलब्धेर् अनुमेयत्वात् ॥
शब्दो ऽनुमानम्, न प्रमाणान्तरम्। कस्मात्? शब्दार्थस्यानुमेयत्वात्। कथम् अनुमेयत्वम्? प्रत्यक्षतो ऽनुपलब्धेः। यथानुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चान् मीयत इति अनुमानम्। एवं मितेन शब्देन पश्चान् मीयते अर्थो ऽनुपलभ्यमान इत्य् अनुमानं शब्दः॥
********************** न्य्स्भ्_2,1.50 **********************
इतश् चानुमानं शब्दः।
न्य्स्_2,1.50: उपलब्धेर् अद्विप्रवृत्तित्वात् ॥
प्रमाणान्तरभावे द्विप्रवृत्तिर् उपलब्धिः, अन्यथा ह्य् उपलब्धिर् अनुमाने अन्यथोपमाने तद् व्याख्यातम्। शब्दानुमानयोस् तूपलब्धिर् अद्विप्रवृत्तिः यथानुमाने तथा शब्दे ऽपि। विशेषाभावाद् अनुमानं शब्द इति॥
********************** न्य्स्भ्_2,1.51 **********************
% प्.535
न्य्स्_2,1.51: सम्बन्धाच् च ॥
शब्दो ऽनुमानम् इति वर्तते। सम्बद्धयोश् च शब्दार्थयोः सम्बन्धप्रसिद्धौ शब्दोपलब्धेर् अर्थग्रहणं यथा सम्बद्धयोर् लिङ्गलिङिनोः सम्बन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणम् इति॥
********************** न्य्स्भ्_2,1.52 **********************
% प्.536
यत् तावद् अर्थस्यानुमेयत्वाद् इति तन् न---
न्य्स्_2,1.52: आप्तोपदेशसामर्थ्याच् छब्दाद् अर्थसम्प्रत्ययः ॥
स्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसन्निवेश इत्य् एवमादेर् अप्रत्यक्षस्यार्थस्य च शब्दमात्रात् प्रत्ययः, किं तर्हि? आप्तैर् अयम् उक्ताः शब्द इत्य् अतः सम्प्रत्ययः विपर्ययेण सम्प्रत्ययाभावात्; न त्व् एवम् अनुमानम् इति।
% प्.538
यत् पुनर् उपलब्धेर् अद्विप्रवृत्तित्वाद् इति, अयम् एव शब्दानुमानयोर् उपलब्धेः प्रवृत्तिभेदः; तत्र विशेषे सत्य् अहेतुर् विशेषाभावाद् इति।
% प्.539
यत् पुनर् इदं सम्बन्धाच् चेति, अस्ति च शब्दार्थयोः सम्बन्धो ऽनुज्ञातः, अस्ति च प्रतिषिद्धः। अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः, प्राप्तिलक्षणस् तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः। कस्मात्? प्रमाणतो ऽनुपलब्धेः---प्रत्यक्षतस् तावच् छब्दार्थप्राप्तेर् नोपलब्धिर् अतीन्द्रियत्वात्। येनेन्द्रियेण गृह्यते शब्दस् तस्य विषयभावम् अतिवृत्तो ऽर्थो न गृह्यते। अस्ति चातीन्द्रियविषयभूतो ऽप्य् अर्थः समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिर् गृह्यत इति॥
********************** न्य्स्भ्_2,1.53 **********************
% प्.540
न्य्स्_2,1.53: पूरणप्रदाहपाटनानुपलब्धेश् च सम्बन्धाभावः ॥
प्राप्तिलक्षणे च गृह्यमाणे सम्बन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात्, अर्थान्तिके वा शब्दः स्यात्, उभयं वोभयत्र। अथ खल्व् उभयम्?
स्थानकरणाभावाद् इति चार्थः। न चायम् अनुमानतो ऽप्य् उपलभ्यते शब्दान्तिके ऽर्थ इति। एतस्मिन् पक्षे ऽप्य् आस्यस्थानकरणोच्चारणीयः शब्दस् तदन्तिके ऽर्थ इत्य् अन्नाग्न्यसिशब्दोच्चारणे पूरणपाहपाटनानि गृह्येरन्, न च गृह्यन्ते; अग्रहणात् नानुमेयः प्राप्तिलक्षणः सम्बन्धः।
% प्.541
अर्थान्तिके शब्द इति स्थानकरणासम्भवाद् अनुच्चारणम्---स्थानं कण्ठादयः, करणं प्रयत्नविशेषः, तस्यार्थान्तिके ऽनुपपत्तिर् इति। उभयप्रतिषेधाच् च नोभयम्। तस्मान् न शब्देनार्थः प्राप्त इति॥
********************** न्य्स्भ्_2,1.54 **********************
% प्.542
न्य्स्_2,1.54: शब्दार्थव्यवस्थानाद् अप्रतिषेधः ॥
शब्दाद् अर्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयत अस्ति शब्दार्थसम्बन्धो व्यवस्थाकारणम्। असम्बन्धे हि शब्दमात्राद् अर्थमात्रे प्रत्ययप्रसङ्गः। तस्माद् अप्रतिषेधः सम्बन्धस्येति॥
********************** न्य्स्भ्_2,1.55 **********************
% प्.543
अत्र समाधिः---
न्य्स्_2,1.55: न सामायिकत्वाच् छब्दार्थसम्प्रत्ययस्य ॥
न सम्बन्धकारितं शब्दार्थव्यवस्थानम्। किं तर्हि? समयकारितम्। यत् तद् अवोचाम अस्येदम् इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषो ऽनुज्ञातः शब्दार्थयोः सम्बन्ध इति समयं तम् अवोचाम इति। कः पुनर् अयं समयः? अस्य शब्दस्येदम् अर्थजातम् अभिधेयम् इत्य् अभिधानाभिधेयनियमनियोगः। तस्मिन्न् उपयुक्ते शब्दाद् अर्थसम्प्रत्ययो भवति। विपर्यये हि शब्दश्रवण ऽपि प्रत्ययाभावः। सम्बन्धवादिनो ऽपि चायम् अवर्जनीय इति।
% प्.544
प्रयुज्यमानग्रहणाच् च समयोपयोगो लौकिकानाम्। समयपरिपालनार्थं चेदं पदलक्षणाया वाचान्वाख्यानं व्याकरणम् वाक्यलक्षणाया वाचो ऽर्थलक्षणम्,
% लक्षणाया ... ऽर्थलक्षणम्,] प्.545
पदसमूहो वाक्यम् अर्थपरिसमाप्राव् इति। तद् एवं प्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थतुषो ऽपि अनुमानहेतुर् न भवतीति
********************** न्य्स्भ्_2,1.56 **********************
% प्.446(546)
न्य्स्_2,1.56: जातिविशेषे चानियमात् ॥
सामायिकः शब्दाद् अर्थसम्प्रत्ययो न स्वाभाविकः। ऋष्यार्यम्लेच्छानां यथाकामं शब्दविनियोगो ऽर्थप्रत्यायनाय प्रवर्तते। स्वाभाविके हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्याद् यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषे व्यभिचरतीति
********************** न्य्स्भ्_2,1.57 **********************
% प्.547
पुत्रकामेष्टिहवनाभ्यासेषु---
न्य्स्_2,1.57: तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः ॥
तस्येति शब्दविशेषम् एवाधिकुरुते भगवान् ऋषिः। शब्दस्य प्रमाणत्वं न सम्भवति। कस्मात्? अनृतदोषात्---पुत्रकमेष्टौ ``पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति; नेष्टौ संस्थितायां पुत्रजन्म दृश्यते। दृष्टार्थस्य वाक्यस्यानृतत्वाद् अदृष्टार्थम् अपि वाक्यम् ``अग्निहोत्रं जुहुयात् स्वर्गकामऽऽ इत्याद्य् अनृतम् इति ज्ञायते।
% प्.548
विहितव्याघातदोषाच् च, हवने ``उदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यम्ऽऽ इति विधाय विहितं व्याहन्ति---``श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोति, शबलो ऽस्याहुतिम् अभ्यवहरति यो ऽनुदिते जुहोति श्यावशबलौ वास्याहुतिम् अभ्यवहरतो यः समयाध्युषिते जुहोतिऽऽ। व्याघाताच् चान्यतरन् मिथ्येति।
% प्.549
पुनरुक्तदोषाच् च, अभ्यासे देश्यमाने ``त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इति पुनरुक्तदोषो भवति। पुनरुक्तं च प्रमत्तवाक्यम् इति। तस्माद् अप्रमाणं शब्दो ऽनृतव्याघातपुनरुक्तदोषेभ्य इति
********************** न्य्स्भ्_2,1.58 **********************
% प्.550
न्य्स्_2,1.58: न कर्मकर्तृसाधनवैगुण्यात् ॥
नानृतदोषः पुत्रकामेष्टिऔ। कस्मात्? कर्मकर्तृसाधनवैगुण्यात्। इष्ट्या पितरौ संयुज्यमानौ पुत्रं जनयत इति। इष्टेः करणं साधनम्, पितरौ कर्तारौ, संयोगः कर्म, त्रयाणां गुणयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः। इष्ट्याश्रयं तावद् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश् च।
% प्.551
साधनवैगुण्यं हविर् असंकृतम् उपहतम् इति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति, दक्षिणा दुरागता हीना निन्दिता चेति। अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासम्प्रयोगः, कर्तृवैगुण्यं योनिव्यापदो बीजोपघातश् चेति। साधनवैगुण्यम् इष्टाव् अभिहितम्। लोके च ``अग्निकामो दारुणी मथ्नीयात्ऽऽ इति विधिवाक्यम्, तत्र कर्मवैगुण्यं मिथ्याभिमन्थनम्, कर्तृवैगुण्यं प्रज्ञाप्रयत्नतः प्रमादः, साधनवैगुण्यम् आर्द्रं सुषिरं दाविति, तत्र फलं न निष्पद्यत इति नानृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्। न चेदं लौकिकाद् भिद्यते ``पुत्रकामः पुत्रेष्ट्या यजेतऽऽ इति
********************** न्य्स्भ्_2,1.59 **********************
% प्.553
न्य्स्_2,1.59: अभ्युपेत्य कालभेदे दोषवचनात् ॥
न व्याघातो हवन इत्य् अनुवर्तते। यो ऽभ्युपगतं हवनकालं भिनत्ति ततो ऽन्यत्र जुहोति तत्रायम् अभ्युपगतकालभेदे दोष उच्यते ``श्यावो ऽस्याहुतिम् अभ्यवहरति य उदिते जुहोतिऽऽ। तद् इदं विधिभ्रेषे निन्दावचनम् इति
********************** न्य्स्भ्_2,1.60 **********************
% प्.554
न्य्स्_2,1.60: अनुवादोपपत्तेश् च ॥
पुनरुक्तदोषो ऽभ्यासे नेति प्रकृतम्।
अनर्थको ऽभ्यासः पुनरुक्तम्, अर्थवान् अभ्यासो ऽनुवादः। यो ऽयम् अभ्यासः ``त्रिः प्रथमाम् अन्वाह त्रिर् उत्तमाम्ऽऽ इत्य् अनुवाद उपपद्यते अर्थवत्त्वात्। त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामिधेनीनां भवति।
% दशत्वं सामिधेनीनां भवति।] प्.555
तथा च मन्त्राभिवादः ``इदम् अहं भ्रातृव्यं पञ्चदशावरेण वाग्वज्रेणावबोधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मऽऽ इति पञ्चदश सामिधेनीर् वज्रमन्त्रो ऽभिवदति तद् अभ्यासम् अन्तरेण न स्याद् इति
********************** न्य्स्भ्_2,1.61 **********************
% प्.556
न्य्स्_2,1.61: वाक्यविभागस्य चार्थग्रहणात् ॥
प्रमाणं शब्दो यथा लोके
********************** न्य्स्भ्_2,1.62 **********************
विभागश् च ब्राह्मणवाक्यानां त्रिविधः---
न्य्स्_2,1.62: विध्यर्थवादानुवादवचनविनियोगात् ॥
त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि---विधिवचनान्य् अर्थवादवचनानि अनुवादवचनानीति
********************** न्य्स्भ्_2,1.63 **********************
% प्.557
तत्र---
न्य्स्_2,1.63: विधिर् विधायकः ॥
यद् वाक्यं विधायकं चोदकं स विधिः। विधिस् तु नियोगो ऽनुज्ञा वा। यथा ``अग्निहोत्रं जुहुयात् स्वर्गकामःऽऽ इत्यादि
********************** न्य्स्भ्_2,1.64 **********************
% प्.559
न्य्स्_2,1.64: स्तुतिर् निन्दा परकृतिः पुराकल्प इत्य् अर्थवादः ॥
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्था, स्तूयमानं श्रद्दधीतेति, प्रवर्तिका च, फलश्रवणात् प्रवर्तते---``सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्तेनाप्नोति सर्वं जयतिऽऽ इति एवमादि। अनिष्टफलवादो निन्दा वर्जनार्था निन्दितं न समाचरेद् इति
% प्.560
स एष वाव प्रथमो यज्ञो यज्ञानां यज् जोतिष्टोमो य एतेनादिष्ट्वान्यन यजते गर्त्तपत्यम् एव तज् जीयते वा प्रमीयते वा इत्य् एवमादिः।
अन्यकर्तृकस्य व्याहतस्य विधेर् वादः परकृतिः ``हुत्वा वपाम् एवाग्रे ऽभिघारयन्ति अथ पृषद् आज्यं तदुह चरकाध्वर्यवः पृषदाज्यम् एवाग्रे ऽभिधारयन्ति अग्नेः प्राणाः पृषदाज्यस्तोमम् इत्य् एवम् अभिदधतिऽऽ इत्य् एवमादि।
ऐतिह्यसमाचरितो विधिः पुराकल्प इति। ``तस्माद् वा एतेन ब्राह्मणा बहिष् पवमानं सामस्तोमम स्तोषन् योने यज्ञं प्रतनवामहे इत्य् एवमादि।
कथं पुराकृतिपुराकल्पाव् अर्थवादाव् इति? स्तुतिनिन्दावाक्येनाभिसम्बन्धाद् विध्याश्रयस्य कस्यचिद् अर्थस्य द्योतनाद् अर्थवाद इति
********************** न्य्स्भ्_2,1.65 **********************
% प्.561
न्य्स्_2,1.65: विधिविहितस्यानुवचनम् अनुवादः ॥
विध्यनुवचनं चानुवादो विहितानुवचनं च। पूर्वः शब्दानुवादो ऽपरो ऽर्थानुवादः। यथा पुनरुक्तं द्विविधम् एवम् अनुवादो ऽपि। किमर्थं पुनर् विहितम् अनूद्यते? अधिकारार्थम्; विहितम् अधिकृत्य स्तुतिर् बोध्यते निन्दा वा, विधिशेषो वाभिधीयते।
% प्.562
विहितानन्तरार्थो ऽपि चानुवादा भवति। एवम् अन्यद् अप्य् उत्प्रेक्षणीयम्।
लोके ऽपि च विधिर् अर्थवादो ऽनुवाद इति च त्रिविधं वाक्यम्। ओदनं पचेद् इति विधिवाक्यम्। अर्थवादवाक्यम्---आयुर्वर्चो बलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्। अनुवादः---पचतु पचतु भवान् इत्य् अभ्यासः, क्षिप्रं पच्यताम् इति वा; अङ्ग पच्यताम् इत्य् अध्येषणार्थम्, पच्यताम् एवेति चावधारणार्थम्।
यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवम् वेदवाक्यानाम् अपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुम् अर्हतीति
********************** न्य्स्भ्_2,1.66 **********************
% प्.563
न्य्स्_2,1.66: नानुवादपुनरुक्तयोर् विशेषः शब्दाभ्यासोपपत्तेः ॥
पुनरुक्तम् असाधु साधुर् अनुवाद इति अयं विशेषो नोपपद्यते। कस्मात्? उभयत्र हि प्रतीतार्थः शब्दो ऽभ्यस्यते चरितार्थस्य शब्दस्याभ्यासाद् उभयम् असाध्व् इति
********************** न्य्स्भ्_2,1.67 **********************
न्य्स्_2,1.67: शीघ्रतरगमनोपदेशवद् अभ्यासान् नाविशेषः ॥
नानुवादपुनरुक्तयोर् अविशेषः। कस्मात्? अर्थवतो ऽभ्यासस्यानुवादभावात्। अर्थवान् अभ्यासो ऽनुवादः, शीघ्रतरगमनोपदेशवत्। शीघ्रं शीघ्रं गम्यताम् इति क्रियातिशयो ऽभ्यासेनैवोच्यते।
%शयो ऽभ्यासेनैवोच्यते।] प्.564
उदाहरणार्थं चेदम्। एवम् अन्यो ऽप्य् अभ्यासः पचति पचतीति क्रियानुपरमः। ग्रामो ग्रामो रमनीय इति व्याप्तिः। परि परि त्रिगर्तेभ्यो वृष्टो देव इति परिवर्जनम्। अध्य् अधि कुड्यं निषण्णम् इति सामीप्यम्। तिक्तं तिक्तम् इति प्रकारः। एवम् अनुवादस्य स्तुतिनिन्दाशेषविधिष्व् अधिकारार्थता विहितानन्तरार्थता चेति
********************** न्य्स्भ्_2,1.68 **********************
किं पुनः प्रतिषेधहेतूद्धाराद् एव शब्दस्य प्रमाणत्वं सिध्यति? न, अतश् च---
% प्.565
न्य्स्_2,1.68: मन्त्रायुर्वेदप्रामाण्यवच् च तत्प्रामाण्यम् आप्तप्रामाण्यात् ॥
किं पुनर् आयुर्वेदस्य प्रामाण्यम्? यत् तद् आयुर्वेदेनोपदिश्यते इदं कृत्वेष्टम् अधिगच्छति, इदं वर्जयित्वानिष्टं जहाति, तस्यानुष्ठीयमानस्य तथाभावः सत्यार्थताविपर्ययः। मन्त्रपदानां च विषयभूताशनिप्रतिषेधार्थानां प्रयोगे ऽर्थस्य तथाभाव एतत्प्रामाण्यम्। किंकृतम् एतत्? आप्तप्रामाण्यकृतम्। किं पुनर् आप्तानां प्रामाण्यम्? साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति।
% यथाभूतार्थचिख्यापयिषेति।] प्.566
आप्ताः खलु साक्षात्कृतधर्माणः इदं हातव्यम् इदम् अस्य हानिहेतुर् इदम् अस्याधिगन्तव्यम् इदम् अस्याधिगमहेतुः इति भूतान्य् अनुकम्पन्ते। तेषां खलु वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति।%वै प्राणभृतां स्वयम् अनवबुध्यमानानां नान्यद् उपदेशाद् अवबोधकारणम् अस्ति।] प्.567
न चानवबोधे समीहा वर्जनं वा, न वाकृत्वा स्वस्तिभावः, नाप्य् अस्यान्य उपकारको ऽप्य् अस्ति। हन्त वयम् एभ्यो यथादर्शनं यथाभूतम् उपदिश्यामः त इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्त्य् अधिगन्तव्यम् एवाधिगमिष्यन्तीति। एवम् आप्तोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतो ऽनुष्ठीयमानो ऽर्थस्य साधको भवति; एवम् आप्तोपदेशः प्रमाणम्। एवम् आप्ताः प्रमाणम्।
दृष्टार्थेनाप्तोपदेशेनायुर्वेदेनादृष्टार्थो वेदभागो ऽनुमातव्यः प्रमाणम् इत्य् आप्तप्रामाण्यस्य हेतोः समानत्वाद् इति। अस्यापि चैकदेशो ``ग्रामकामो यजेतऽऽ इत्य् एवमादिर् दृष्टार्थः, तेनानुमातव्यम् इति।
लोके च भूयान् उपदेशाश्रयो व्यवहारः। लौकिकस्याप्य् उपदेष्टुर् उपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,
% ज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम्,] प्.568
तत्परिग्रहाद् आप्तोपदेशः प्रमाणम् इति।
द्रष्टृप्रवक्तृसामान्याच् चानुमानम्। य एवाप्ता वेदार्थानां द्रष्टारः प्रवक्तारश् च त एवायुर्वेदप्रभृतीनाम् इत्य् आयुर्वेदप्रामाण्यवद् वेदप्रामाण्यम् अनुमातव्यम् इति।
नित्यत्वाद् वेदवाक्यानां प्रमाणत्वे तत्प्रामाण्यम् आप्तप्रामाण्याद् इत्य् अयुक्तम्। शब्दस्य वाचकत्वाद् अर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वाद्। नित्यत्वे हि सर्वस्य सर्वेण वचनाच् छब्दार्थव्यवस्थानुपपत्तिः। नानित्यत्वे वाचकत्वम् इति चेद् न, लौकिकेष्व् अदर्शनात्। ते ऽपि नित्या इति चेत् न, अनाप्तोपदेशाद् अर्थविसंवादो ऽनुपपन्नः। नित्यत्वाद् धि शब्दः प्रमाणम् इति।
%शब्दः प्रमाणम् इति।] प्.569
अनित्यः स इति चेत्? अविशेषवचनम्। अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यम् इति। यथायोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यं नित्यत्वात् प्रामाण्यानुपपत्तिः। यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति, न नित्यत्वात्। मन्वन्तरयुगान्तन्तरेषु चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,
% चातीतानागतेषु सम्प्रदायाभ्यासप्रयोगाविच्छेदो वेदानां नित्यत्वम्,] प्.570
आप्तप्रामाण्याच् च प्रामाण्यम्; लौकिकेषु शब्देषु चैतत् समानम् इति
मूल पाठ: Nyāyasūtra with Vātsyāyana's Nyāyabhāṣya · Edition: Taranatha Nyaya-Tarkatirtha Calcutta : Metropolitan Printing & Publ. 1936-1944 (Calcutta Sanskrit Series, 18 & 19) · Data entry Indology Student Team, University of Tokyo · GRETIL (Göttingen) · CC BY-NC-SA 4.0