भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 4.4

4.4.1

न्यायसुधा:
प्रतीकालम्बनेभ्यो ऽन्ये व्योप्तोपासका अप्रतीकालम्बनाः ।
प्रथमतस्तं विष्णुमाप्यापि परान्तकाले ।
तस्माद्विष्णोस्तं ब्रह्माणमाप्य हरिं गता भवन्तीति ।
॥ इति श्रीमत्पूणर्प्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपादवाक्यार्थविवृतौ चतुर्थाध्याये ऽ(र्चिःप्रभृति)स्मिन्गमनचरणः पर्यवसितः ॥
॥ इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः ॥
अध्यय 4, पद 4
*12,366*
॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य चतुर्थः पादः ॥
पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तिरेवाह- अतिक्रमेति ॥
अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे

4.4.2

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।
विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः

4.4.9

न्यायसुधा:
अन्यपक्षे पूर्वपक्षेषु ।
सुनिर्णयः सिद्धान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ।
*12,367*
॥ ओं अत एव चानन्याधिपतिः ओं ॥
इदं (एतत्) सूत्रं कश्चिद्वयाख्याति ।
अत एव चावन्ध्यसङ्कल्पत्वा(देवान)दन्यानधिपतिर्विद्वान्भवति ।
नास्यान्यो ऽधिपतिर्भवतीत्यर्थ इति ।
तदिदमसदिति भावेनाह- अनन्येति ॥
अत एव चानन्याधिपतिः

4.4.3

अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय
न्यायसुधा:
इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्या ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय ।
नतु सर्वथा अधिपतिनिवारणाय ।
कुतः ।
अनन्यपदप्रयोगात् ।
अन्यथापतिरित्यक्ष्यत् ।
*12,368*
इतश्चैवमेवेत्याह- पतिमिति ॥
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः

4.4.4

न्यायसुधा:
यत् यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य वाक्"उतामृतत्वस्येशानःऽ; इति श्रुतिरिति यावत् ।
विष्णुमेषां मुक्तानां पतिमाह ।
ततो ऽप्युक्त एव सूत्रार्थो नापर इति ।
*12,369*
अनुमानेनाप्येतमर्थं समर्थयते- एते ऽपीति ॥
एते ऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात्

4.4.5

न्यायसुधा:
अपि चेति प्रमाणसमुच्चये ।
एते मुक्ताः ।
अन्यो ऽधिपतिर्येषां ते ऽन्याधिपतयः ।
तेषां भावो ऽन्याधिपतित्वं तेन युक्ताः ।
विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च ।
तुशब्दो विशेषार्थः ।
परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम् ।
स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति ।
यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्युक्त)मित्यनुमैव चेह मुक्तेष्वभीष्यस्याधिपतिसाहित्यस्य सिद्धयै भवतीति ।
कथम् ।
व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः ।
मुक्ता अधिपतिरहिता मुक्तत्वादवन्ध्यसङ्कल्पत्वादीश्वरवदित्यनुमानप्रतिरोध इति चेन्न ।
मूलप्रकृतावनैकान्त्यात् ।
विपक्षे बाधकाभावाच्च ।
तदिदमुक्तं निश्चयादिति ।
*12,370*
न केवलं मुक्तानां भगवानधिपतिः किं त्वन्ये ऽपि यथासम्भवं भवन्तीत्याशयवानाह- मुक्तेति ॥
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम्
*12,370f.*
न्यायसुधा:
ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च ते ऽवराश्च मुक्तस्वकीयावरास्तान्नियन्तृतास्ति ।
अमुक्तान्प्रति यन्तृता सर्वथा नास्ति ।
यथाऽह सूत्रकारः"विकारवतिर् चऽ; इति ।
मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् ।
अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ।
*12,371*
कुत एतदित्यत आह- अनेनेति ॥
अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति

4.4.6

फलं श्रुतिर्ज्ञानत आह ...
न्यायसुधा:
अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथामुनाऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्ये ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाह- हीति ॥
अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् ।
अनेन"अथ य एवं विद्वान्ऽ; इत्याद्यां"सो ऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चऽ; इति श्रुतिमुपादत्ते ।
नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह- मुक्ताविति ॥
... मुक्तावेतच्च सर्वाशुभनाशलिङ्गात्
न्यायसुधा:
एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव ।
"उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ; इति सर्वपापक्षयलिङ्गात् ।
नहि मुक्तेरितत्रैतत्सम्भवति ।
प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् ।
*12,373*
यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह- लोकेति ॥
लोकाधिपत्यं च विधातुरेव सर्वात्मना ...
न्यायसुधा:
सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव ।
अन्येषां यथायोग्यमिति भावः ।
स्वकीयेत्युक्तमनुसन्धेयम् ।
अत्र प्रमाणमाह- इत्याहेति ॥
*12,374*
... इत्याह तुरश्रुतिश्च
न्यायसुधा:
सा चान्यत्र द्रष्टव्या ।
चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः ।
श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह- सर्व इति ॥
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति

4.4.7

न्यायसुधा:
"स वेद ब्रह्म, सर्वे ऽस्मै देवा बलिमावहन्तिऽ; इति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः ।
इतो ऽप्येवमित्याह- नेति ॥
पूजका अपि हि देवा मुक्ता एव ।
अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् ।
तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् ।
एतच्च व्याहतम् ।
तत एव न (स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् ।
अत उक्त एव श्रुत्यर्थः ।
*12,375*
स्यादेतत् ।
तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः ।
तस्य चात्र लोकाप्तिरेवोच्यते ।
नतु (मुक्त)स्वकीयावरयन्तृतेत्यत आह- लोक इति ॥
लोका इतीहापि तु लोकिनां वचो ...
न्यायसुधा:
इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् ।
न केवलमाप्ता मुक्तः ।
लोकपदमपि लोकिविषयमित्यपिशब्दः ।
तुशब्दो वृत्तिविशेषद्योतकः ।
यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दो ऽपि लोकस्थेषु पुरुषेष्विति ।
अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव ।
लाक्षिणिकप्रयोगप्रयोजनं वाच्यमित्यत आह- लोक इति ॥
... लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव ...
न्यायसुधा:
हिशब्दः प्रसिद्धौ ।
प्रयोजनानुसन्धानेन विनेत्येवशब्दः ।
रवः शब्दः ।
प्रजासु प्रजाविषये ।
रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।
अथवा किं लक्षणया ।
यतो वाचक एव लोकशब्दो जनानामिति भावेनाह- लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः ।
प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह- तदिति ॥
... तन्मानिनो लोकपदेन चोक्ताः
न्यायसुधा:
लोकाभिमानिनः ।
अभिमान्यधिकरणन्यायेनेति भावः ।
*12,376*
अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते ।
न तावतापीष्यसिद्धिः ।
मुक्तविषयतायां प्रमाणाभावात् ।
आप्तिरेव चेहोच्यते नतु तन्नियमनमित्यत आह- तद्गा इति ॥
*12,377*
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः

4.4.8

न्यायसुधा:
तुशब्दो ऽवधारणे ।
इह ये चामुष्मादित्यस्यां श्रौतौ तद्गाः परावरलोकगताः मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः ।
ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति ।
यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् ।
तथापि दार्ढ्याय श्रुत्युदाहरणम् ।
एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति ।
अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ।
*12,378*
प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह- अलोकेति ॥
अलोकशब्देन विमुक्तिभाजो वाच्याः ...
न्यायसुधा:
लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः ।
ततः किं प्रकृत इत्यत आह- पदमिति ॥
... पदं तादृगपीह युक्तम्
न्यायसुधा:
इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृगलोक इत्यपि पदं छेत्तुं युक्तम् ।
लोकालोकशब्दयोः संहिताया(यां)ः समानरूपत्वादिति भावः ।
योगवृत्त्यापि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह- लोकेति ॥
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे
न्यायसुधा:
यतः सर्वे ऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धास्ततो ऽपि लोकाभिधाः ।
लोकतेः पचाद्यचि कृते रूपमेतत् ।
दर्शनं प्रकाश इति च नार्थान्तरम् ।
*12,379*
यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् ।
ते हि उत्तमाः ।
नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह- ब्रह्मैवेति ॥
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च

4.4.9

न्यायसुधा:
तथाच नानुपपत्तिरिति ॥
*12,380*
एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलाकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति- नचेति ॥
नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं ...
न्यायसुधा:
इह श्रुतौ ।
लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् ।
कुत इत्यत आह- रवीति ॥
... रविबिम्बतो हरौ ।
उक्तं पृथक् तच्च पुरैव यस्माद् ...
न्यायसुधा:
चशब्देन चक्षुर्गते चेति समुच्चिनोति ।
यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् ।
आदित्यगतं प्रकृत्य"स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ये मनुष्यकामानां चऽ; इति ।
तस्मान्नेति ।
एतदुक्तं भवति ।
न समस्तलोकाधिपत्यं विदुषो युज्यते ।
तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति ।
*12,381*
भगवद्धर्मो ऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् ।
तत्किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति ।
उत विद्वांसमवान्तरेश्वरं करोतीति ।
अथ विद्वांस्तादात्म्यं प्राप्नोतीति ।
नाद्यः ।
भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् ।
किं चैकस्मै विदुषे दत्तस्वाधिपत्यो मगवानन्यस्मै (विदुषे) किं दद्यात् ।
सर्वपापक्षयलिङ्गविरोधाच्च ।
अत एव न द्वितीयः ।
हिरण्यगर्भे तद्युज्यत इति चेन्न ।
पाप्म(प)शब्देन प्रकृत्देर्बन्धस्य विवक्षितत्वात् ।
अत एवोक्तं सर्वाशुभेति ।
"तस्योदिति नामऽ; इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं क्रियते"स एष सर्वेभ्यः पाप्मभ्य उदितेऽ; इति ।
तत्रोदितत्वमेवोच्छब्दाथर्ः ।
कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम् ।
नच तत्पापमेवेति नियामकमस्ति ।
अतः सर्वमप्यशुभं तत्र विवक्षितम् ।
तदेव च विदुषः फलमुच्यते ।
तृतीयं निराकरोति- भेद इति ॥
... भेदो ऽमुनेत्यादि च सम्यगुक्तः

4.4.10

न्यायसुधा:
विदुषः ।
परमेश्वरादिति शेषः ।
आदिपदेनानेनेत्यस्य ग्रहणम् ।
क्रियाविशेषणं चैतत् ।
भेदश्चेति सम्बन्धः ।
सम्यगिति ।
स्पष्टम् ।
नहि तदात्मा तत्प्रसादात्तद्धर्मा भवति ।
*12,383*
भवेदेतद्यद्यमुनानेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेव ।
नचैवम् ।
किं नाम ।
अमुना रूपेणामुष्य तादात्म्यं प्राप्येति ।
नचैवं सति भेदोक्तिरस्तीत्यत आह- त्वप्रत्ययमिति ॥
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः
न्यायसुधा:
चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य ।
तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् ।
अतिहाय प्रवृत्तायामिह श्रुतौ ।
भवे(देवं प)दयं परस्यस्याभिलाषः श्रुतिस्तु न तथा वक्ति ।
यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदंतयेति भाववाची प्रत्ययः स्यात् ।
यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् ।
तदा प्रतीमो ऽयमर्थः श्रुत्यभिप्रेत इति ।
नचैतदस्तीति ।
*12,384*
ननु भावप्रधाना निर्देशा बहुलमुपलभ्यते ।
ततो विनापि प्रत्ययेन सो ऽर्थो भविष्यति ।
सोपस्कराणि च वाक्यानि भवन्ति ।
ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते ।
को दोष इति चेन्न ।
निश्चिते हि वाक्यार्थे तदुपपद्यते ।
नच तन्निश्चायकमत्रास्तीत्याशयवान्दोषान्तरमाह- भवतीति ॥
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः

4.4.11

न्यायसुधा:
यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् ।
तर्ह्यत्रैतदर्थप्रतिपादने ऽयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् ।
नतु सो ऽमुनैवेत्यादिकम् ।
तादात्म्यप्राप्तौ तद्धर्मर्(म्य)स्य स्वतः सिद्धत्वात् ।
अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् ।
नहि कश्चिदल्पीयसा प्रयत्नेन सिद्धत्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः सद्भि)नो महद्भिराद्रियते ।
किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा ।
आद्ये न विदुषस्तत्तादात्म्यमस्ति ।
परेणा(प्य)नभ्युपगतत्वात्(मात्) ।
न द्वितीयः ।
निर्गुणस्याऽदित्यादिपरिच्छेदानुपपत्तेः ।
ऐश्वर्यासम्भवाच्च ।
नच तद्भूयंगतस्य सर्वलोकाधिपत्यं भवतीति ।
*12,386*
अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह- अत इति ॥
अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात् समासते

4.4.12

न्यायसुधा:
जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते ।
जगद्वयापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् ।
अतो न तद्विरोध इत्येतदप्यनेन सूचयति ।
अन्यथा स्वावरमुक्तनिमका एवेत्यवक्ष्यत् ।
तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः ।
आत्मीयं नतु परमेश्वरम् ।
अजात् परमेश्वरात्तमविहायेत्यर्थः ।
तत्प्रसादादिति वा ।
॥ इति श्रीमन्न्यायसुधायां अनन्याधिपतित्वाधिकरणम् ॥
*12,388*
एवंपरिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसावर्ज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति- नम इति ॥
नमो नमो ऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रे ऽनुपाधिप्रियसद्गुणात्मने

4.4.13

न्यायसुधा:
अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय, भक्ते मय्यनुकम्पादनुक्रोशात् ।
अत एव ताच्छीलिकस्य तृनः प्रयोगः ।
सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः ।
*12,390*
यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतः तदाविष्कुर्वन्नाह- यस्येति ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे

4.4.14

न्यायसुधा:
यस्य वायोर्देवस्य वेदवचने बळित्थेत्यादावलं दिव्यान्यद्भुतानि त्रीणि रूपाण्युदितानि ।
अमुना वायुनायं केशवे विषये ग्रन्थः कृत इत्यन्वयः ।
*12,391*
कीदृशं तस्य मूलरूपं कथंभूतानि च तानि त्रीणि रूपाणीत्यत उक्तम्- बडित्यादि ॥
यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च ।
दृशेरौणशदिको ऽतच्प्रत्ययः ।
अनेन वायुशब्दो निरुक्तः ।
वशब्दो बलवाची ।
अयतिः गत्यर्थः ।
गत्यर्थाश्चावगत्यर्थाः ।
तत उण् ।
वश्चासौ आयुश्चेति वायुरिति ।
किञ्च भर्गो भरणगमनयोः कर्तृ ।
हुभृञ् भरणे, गमॢ गतौ, आभ्यामसुन्प्रत्ययो डिच्च ।
इदमपि वायुशब्दव्याख्यानम् ।
वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् ।
अनेकार्थत्वाद्धातूनां वातिर्भरणे ऽपि वर्तते ।
अपि च महत् श्रेष्ठम् ।
वयः श्रेष्ठत्व इत्यस्मादुण् ।
न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव ।
यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्ते ऽनेनेति ।
एरजित्यच् ।
यस्य द्वितीयं वपुः पृक्षः ।
पृच्छब्दः पृतनावाची प्रसिद्धः ।
तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतो ऽनुपसर्गे क इति कः ।
उपपदतकारलोपश्छान्दसः ।
पुंलिङ्गं(ङ्गः) च श्रुत्यनुसारेण ।
असुन्वा प्रत्ययः ।
किदित नपुंसकमेवेदम् ।
रिपुपृतनाक्षयकारीत्यर्थः ।
*12,392*
यस्य तृतीयं वपुः एतन्मध्वः ।
मधुशब्दः सुखवाची ।
"मधुत द्यौरस्तु नः पिताऽ; इति प्रयोगात् ।
वशब्दः शास्त्रापरपर्यायतीर्थवाची ।
वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति कः ।
सुखसाधनं तीर्थमस्येति ।
स्वरित्यत्रेवोकारलोपः ।
*12,399*
भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति- निःशेषमिति ॥
निःशेषदोषरहितकल्याणाखिलसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम्

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc