भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसुधा · अध्याय 4.3

4.3.1

न्यायसुधा:
देवादीनां देहलयरूपा विमुक्तिरुक्तेति ।
॥ इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये ऽत्रोत्क्रमणचरणः पर्यवसितः ॥
अध्यय 4, पद 3
*12,362*
मार्गो गम्यं चास्मिन्पाद उच्यत इति भाष्यम् ।
तत्प्राक् प्रसङ्गाद्विवृतमपीहावरप्राप्तौ विशेषतो विवृणोति- उत्क्रान्तेति ॥
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितम् ...
न्यायसुधा:
ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः ।
गम्यमपि तेषामेवेति प्रतीतिनिरासायोक्तम्- विमुक्तेति ॥
ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम् ।
इदमुभयमेतत्पादोदितम् ।
अत्राधिकरणेषु पूर्वपक्षयुक्तिः सिद्धान्तयुक्तीश्चाह- सुक्रमेति ॥
... सुक्रमविक्रमौ च
*12,363*
न्यायसुधा:
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः

4.3.15

विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः ... ॥ मनुव्_4,3.2अ-च् ॥
न्यायसुधा:
अन्यमतस्येति जातावेकवचनम् ।
सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः ॥
ओं अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ओं ॥
विमुक्तगम्यं प्रतिपादयितुमिदं सूत्रम् ।
तद्भाष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन्प्रतीकशब्दार्थं तावदाह- प्रतीकमिति ॥
*12,364*
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च

4.3.2

... प्रतीकं देहादिकं ...
न्यायसुधा:
आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् ।
यद्यपि सूत्रे ऽप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिद्धम् ।
तथाप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह- तद्गतमिति ॥
... तद्गतमेव ये नराः

4.3.3

उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्य् ... ॥ मनुव्_4,3.3अ-च् ॥
न्यायसुधा:
प्रतीकगतमेव विष्णुम् ।
ते प्रतीकालम्बनाः ।
पुरतः प्राक् प्रलयकालात् ।
अस्मात् ब्रह्मणः ।
मतिं भगवज्ज्ञानविशेषम् ।
प्राप्स्यन्ति प्रलये ।
इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति- अत इति ॥
... अतो ऽन्ये ऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते

मूल पाठ: Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc