न्यायपरिशुद्धि, भूमिका · भाग 2140
व्युत्पत्त्यवगतं पुन्धीदोषतोस्य विपर्ययः" ॥
इत्यादिना ॥
नन्वभिहितान्वयद्योतकान्यपि वाक्यानि विद्यन्ते ।
वेदार्थसंग्रहे तावत् "एवं बोधकानां पदसंघातानां संसर्गविशेष बोधनेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः" इत्याद्युक्तम् ।
तथा तत्रैव "प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषणगर्भत्वात्, अनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य" इति ।
भाष्येपि "शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यं, पदवाक्यरूपेण प्रवृत्तेः ।
प्रकृतिप्रत्यययोगेन हि पदत्वम्; प्रकृतिप्रत्ययोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् ।
पदभेदश्चार्थभेदनिबन्धनः ।
पदसंघातरूपस्य वाक्यस्यानेकपदार्थसंसर्गाविशेषाभिधायित्वेन" इत्याद्युक्तम् ।
एवं व्युत्पत्तिनिरूपणे वेदार्थसंग्रहे "सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणमत्यन्तसुकरम्" इत्युपक्रम्य, "अपवरके दण्डः स्थितः" इति वाक्ये यादृच्छिकव्युत्पत्तिप्रकारमुपपाद्य, "तथा बालः ऽतातोयम्, अन्बैषाऽ इत्यादिना बुद्धिपूर्वव्युत्पादनेन तत्तत्पदानां तत्तत्पदार्थेष्वेव बोधकत्वशक्तिग्रहणमुपपाद्य, पुनरपि "अस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षितः" इत्यादि चोक्त्वा, "एवमेव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषाणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानाति" इत्याद्युक्तम् ॥
भाष्येपि प्रथमसूत्रपूर्वपक्षनिराकरणे--- "एवं किल लौकिकाः शब्दार्थसंबन्धमवधारयन्ति---मातापितृप्रभृतिभिः अम्बातातमातुलादीन्" इत्यादिना पदव्युत्पत्तिः पूर्वमुपपादिता ।
तत्र च "तेषु तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धनः इति निश्चिन्वन्ति" इत्याद्युक्तम् ।
पुनश्च "व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थः इति पूर्ववृद्धैः शिक्षिताः" इत्यादि ।
यदिनामान्विताभिधानमभिमतं; तदा कथमिव पदमात्रे व्युत्पत्तिः स्यात् ।
यदि च सा स्यात्, कथमन्वितमभिधेयम्, व्युत्पत्तिवैपरीत्यप्रसङ्गात् ।
तस्मान्नान्विताभिधानमेव सिद्धान्त इति निर्णेतुं शक्यम्, इति केचित् ॥
न्या. प. श. 6 अन्ये तु "बोधकानाम्" इत्यादिवाक्यमन्विते संसर्गविशेषसिद्धेरुपपद्यते ।
पदवाक्यभेदाभिधानमपि तत्तद्विशेषवैशिष्ट्यप्रदर्शनमात्रार्थं, पराभ्युपगमद्योतनार्थं वा ।
प्रत्येकपदव्युत्पत्त्यभिधानमप्यन्वितार्थबोधनोपयुक्तासाधारणद्वारप्रकाशनमात्रम् ।
पदार्थं स्मारयित्वैव हि पदानि वक्यार्थं बोधयन्तीत्युक्तन् ।
स्मृतेश्च स्वानुभूतिमूलत्वान्न शक्त्यन्तरकॢप्तिः ।
व्याख्यातं च भाष्यादिकमन्वितपरतया विवरणे श्रीराममिश्रैः ।
तथा षडर्थसंक्षेपेपि--- "शब्दश्च स्वतः शक्यमन्विततया बोधयति, असंभ्घवेर्थान्तरम्, इति हि व्युत्पत्तिः---" इत्याद्युक्तम् ।
अतोन्विताभिधानं सिद्धान्तः इति ।
एवमन्विताभिधानसामर्थ्याद्विशिष्टप्रतिपत्त्यन्यथानुपपत्तेश्च पदानामपि विशिष्टाभिधायित्वं सिद्धम् ॥
न्या. प. श. 7 अत एव विशिष्टार्थाभिधायित्वेपि विशेषणमत्रे शक्तिः इत्यपि निरस्तम्; अभिधायित्वातिरिक्तशक्त्यन्तराभावात् ।
अपर्यवसानवचनमपि विशिष्टबोधनशक्तस्य विशेषणमात्रे स्थातुमशक्तत्वात् ।
विशिष्टानुप्रविष्टं हि विशेषणं परेपरञ्जकवेषमेवेति तादृगाकारो विशेष्यग्रहणमन्तरेण दुर्ग्रहः ।
तावता च तदर्थं विशेष्यग्रहणमिति व्यर्थं वचः ।
यथाप्रतीति व्यवस्थापनस्यैव युक्तत्वात् ॥
किं च--- गवादिशब्दाभिहितगोत्वाद्यर्थस्वभावतः ।
व्यक्तिधीर्यदि तद्वत् स्यात् निष्कर्षकपदेष्वपि ।
गवादिशब्दा जात्यादीन् परतन्त्रान् प्रचक्षते ।
तेनाश्रयप्रतीतिश्चेत् तन्नः सिद्धः समीहितम् ।
परं कथमविज्ञाप्य पारतन्त्र्यस्य बोधनम् ।
विज्ञाप्य यदि शब्दस्य तत्र शक्तिर्न किं भवेत् ।
परस्य परतन्त्रेण तथा बुद्धेन बोधनम् ।
तद्बुद्ध्या परतन्त्रस्य बोधनेन्योन्यसंश्रयः ।
परधीनिरपेक्षं चेत् पारतन्त्र्यं प्रतीयते ।
न तेन परबुद्धिः स्यान्निष्कृष्टप्रतिपत्तिवत् ।
पारतन्त्र्यं स्वरूपं चेत् तुल्यं निष्कर्षकेपि तत् ।
अधिकं धर्मिनिष्ठत्वादन्यन्नोपलभामहे ।
पदान्तरपरामर्शनिरपेक्षप्रतीतिके ।
निरूढलक्षणावादाः पर्यायावृत्तिगोचराः ।
व्यक्तेर्गौरित्यनिष्कर्षान्निष्कर्षे त्वाद्यपेक्षणात् ।
निष्कर्षकेष्वदृष्टेश्च न जात्या व्यक्तिलक्षणा ।
आकृतावेव यः शक्तिं शब्दानामभिमन्यते ।
सत्तायामेव किं तेन सर्वेषां नाभ्युपेयते ।
अतो गवादिशब्देभ्यो विशिष्टविषया मतिः ।
शब्दशक्तिप्रसूतेति बलादभ्युपगम्यताम् ॥
न्या. प. श. 8 यत्तु "न लोकव्युत्पत्तिहनिः, तत्रैव शक्तेः" इति षडर्थसंक्षेपे श्रीराममिश्रैरुक्तम्, तदपि तत्र शक्त्यभावप्रतिक्षेपपरम् ।
असमाप्तधीस्तु वेदान्ताश्रुतेर्भ्रमः ।
आपातव्युत्पत्त्या श्रुतेस्तत्पूर्तिरित्यनन्तरमभिधानात् ।
यच्चात्मसिद्धौ "यथा गवादिपदशक्तिरेकबुद्धिसिद्धेपि सामान्यविशेषात्मके वस्तुनि सामान्यांशेन संबध्यते" इति ।
तदपि पराभ्युपगतोदाहरणमन्यार्थम् ।
यथेति परसंप्रतिपन्ननिदर्शनात् ।
गुणवाचिन्यपि पदे जातिशब्दोक्तनीतितः ।
अपृथक्सिद्धवाचित्वान्न युक्ता गुणिलक्षणा ।
स्वरलिङ्गविशेषोत्थमन्त्रलोपे न संस्क्रिया ।
विशिष्टवाचकत्वं तु तदाथत्तं न मन्महे ॥
न्या. प. श. 9 अतो निष्कर्षकशब्दातिरिक्तानामपृथक्सिद्धविशेषणवाचिनां विशेष्यपर्यवसानव्युत्पत्तेः शरीरवाचिनां देवादिशब्दानामपि यथाप्रयोगं शरीरिपर्यवसानं सिद्धम् ।
अत एवचात्मपृथिव्यादिशब्दानामीश्वरपर्यन्तता ।
तेन "सर्वंस्वत्विदं ब्रह्म" "ज्योतींषि विष्णुः" "अयमात्माब्रह्य" "तत्त्वमसि"इत्यादिसामानाधिकरण्यं तत्तत्प्रकारकब्रह्मपरम् ।
नामरूपव्याकरणं च तदनुप्रवेशात् ।
अत एव च तस्य सर्वशब्दवाच्यत्वमपि श्रूयतेथ्; तदेव च व्यज्यते "तदनुप्रविश्य सच्च त्यच्चाभवत्" इति ।
स्मर्यते च--- "सर्वं समाप्नोषि ततोसि सर्वः" इति ।
सूत्रितं च--- "चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्" इति ।
उक्तं च वरदविष्णुमिश्रैः--- "स्वर्गकामशब्देन काम्यमानस्वर्गः पुरुषोभिधीयते ।
न हीश्वरोवाप्तसमस्तकामः स्वर्गं कामयते, तस्यात्यल्पसुखत्वात् ।
अतो वाच्यैकदेशे जीवे लक्षणा, गङ्गाशब्दस्य तीर इव" इति ।
यद्वा स्वर्गकामादिशब्दानामपि जीवादिमात्रेपि मुख्यत्वमेव, प्रवृत्तिनिमित्तापरित्यागात् ।
अत एव हि भाक्तपदस्य भक्त्या व्यपदेशार्थत्वमपि भाष्यकारैरुक्तम् ।
विशिष्टवेषस्य शक्तिविषयत्वात् तत्त्योगे कथं न लक्षणेति चेत्, अपरित्यक्तप्रवृत्तिनिमित्तस्य व्युत्पत्त्यनुप्रविष्टमात्रबोधनं मुख्यता, तदभावकृत उपचार इति व्यवस्थानात् ॥
न्या. प. श. 10 ननु "तत्त्वमसि" इत्यत्र त्वमिति श्वेतकेतुमात्रनिर्देशे तदसीति सामानाधिकरण्यायोगः ।
श्वेतकेतुशरीरकेश्वरनिर्देशे तदाभिमुख्येनोपदेशायोगः ।
तदुद्देशेन त्वमर्थविधानं चासिशब्दानन्वयादिना दूरनिरस्तम् ।
प्राप्तार्थतया निगमनरूपत्वेपिपव विशेषणविशेष्यभेदो निष्कर्षणीयः ।
एवम् "अहं ब्रह्मास्मि" इत्यादिव्यपदेशोपि दुर्निर्वहः ।
"जीवेनात्मना" इत्यत्राप्यात्मशब्देन जीवात्माद्यभिधानं षाष्यकारवचनविरुद्धम्, जीवेन मयेत्यादिव्यपदेशात् ।
परमात्माभिधाने तु तृतीयानुपपत्तिः, "व्याकरवाणि" इत्यभिहितत्वात् ।
क्रियाभेदेपि कृत्वादेरुत्तरक्रियैकरस्यात् कर्त्रन्तरायुक्तिः, समानकर्तृकत्वविरोधात् ।
करणत्वविवक्षया कर्तरि तृतीयायां मुख्यत्वहानिः ।
अतश्चारेणानुप्रविश्य परबलं संकलयानीतिवज्जीवस्यवै प्रविशतिकर्तृत्वम्; परस्तु व्याकरणमात्रकर्ता ।
तावता तु शब्दानां न तत्पर्यन्तत्वसिद्धिः इति ॥
न्या. प. श. 11 अत्रोच्यते संबुद्धिस्तावदत्र आत्मविद्योपदेशेन श्वेतकेतुमात्रपर्यवसितेति नासंबोध्यसंबोधनम् ।
वचनव्यक्तिश्च तदसीत्येव ।
तत्र कार्यकारणभावेन, शरीरात्मभावेन वा सामानाधिकरण्यनिर्वाहः ।
उभयत्र त्वंशब्दस्यापि तच्छब्दाभिहितद्रव्यपर्यवसानं सिद्धम् ॥
धर्मान्तरविशेष्यस्य धर्मान्तरविशेष्यतः ।
स्वस्मादभेदस्तादात्म्यं स्यादुपादानदेहिनोः ॥
अतस्त्वच्छरीरकं ब्रह्मेति विवक्षायां सत्यां त्वं तदिति निर्देशमात्रमुपपन्नम् ।
मध्यमपुरुषश्च त्वंशब्दप्रयोगनिबन्धनः, "युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः" इति विधानात् ।
अतः सोपि त्वंशब्दपर्यवसानविषयपर्यवसितः ।
यद्वा तत् त्वमसीत्येवान्वयोस्तु ।
न चोद्देश्यानुगुणा तिङ्विभक्तिरिति नियमः, उपादेयानुगुणलिङ्गवचनादिनिर्देशवदत्रापि विरोधाभावात् ।
प्रयुञ्जते च पतञ्जलिप्रभृतय उपादेयानुगुणामपि तिङ्विभक्तिम्--- "स पुनरावृत्तः सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवतः" इत्यादिषु ।
एतेन "अहं ब्रह्मास्मि" इत्यादिकमपि निर्व्यूढम् ।
"जीवेनात्माना" इत्यत्राप्यनेन न्यायेन स्वशब्दपर्यायेणात्मशब्देन जीवशब्दस्य सामानाधिकरण्यं तावत् सिद्धम् ।
तृतीयानुपपत्तिस्तु स्वरूपतादात्म्यपक्षे पृथक्त्वपक्षे च समाना ।
अथांशभेदादिना विभज्य करणत्वादिविवक्षया कथञ्चिन्निर्वाहः, तथा विशिष्टाकारादिभेदविवक्षया विभज्यात्रापि निर्वाहमनुमन्येथाः ।
अतः श्रुत्यादिवाक्येषु विरुद्धार्थानुबन्धिनः ।
सामानाधिकरण्यस्य न स्वरूपैक्यनिष्ठता ॥
कार्यत्वादपृथक्सिद्धेराविशादनुकारतः ।
अस्तिसृष्ट्युपकारादेः सामानाधिकरण्यधीः ॥
न च त्वद्दृष्टः पुरुषः स्थाणुरितिवत् "पुरुष एवेदं सर्वम्" "तत्त्वमसि" इत्यादौ बाधार्थं सामानाधिकरण्यमिति वाच्यम्, मुख्यवृत्तिसंभवे तदयोगात्, प्रपञ्चसत्यत्वादेश्चाबाधितप्रत्यक्षादिबलसिद्धत्वात् ।
चिदंशसामानाधिकरण्यं तु न बाधसहम्, त्वयापि तत्सत्यत्वाभ्युपगमात् ।
स्वरूपैक्यविधाने च विरुद्धधर्मप्रतिरोधात्, तत्परित्यागे पदयोरनतिरिक्तार्थतया पर्यायपदसामानाधिकरण्यप्रसङ्गात्, द्वाराभावेन मुख्यवृत्तिबाधापत्तेः, गत्यन्तरे च संभवति तदयोगात्, स्वरूपमात्रनिर्देशे च पदान्तरवैयर्थ्यात्, स्वरूपभेदस्य च बहुप्रमाणसिद्धत्वात् ॥
न्या. प. श. 12 "सत्यं ज्ञानम्---" इत्यादिलक्षणवाक्यमपि सत्यत्वादिविशिष्टैकविषयम्, तथैव सामानाधिकरण्यव्युत्पत्तेः ।
न चात्र विशेषणभेदाद्विविशेष्यभेदाप्रसङ्गः, विरुद्धविशेषणाभावात्; न हि घटपटादिष्विव विरोधः ।
यथा च प्रत्यक्षे नीलत्वोत्पलत्वादेरविरोधो दर्शनबलात्, तथात्रापि ।
न च सत्यत्वज्ञानत्वादेर्वैयधिकरण्यनियमो दृष्टः, येन विरोधः स्यात् ।
विशेष्यैक्यपरे तु सामानाधिकरण्ये विशेषणानां विशेषणविशेष्ययोश्च मिथो भेदो गुण एव ।
न च विशेष्यैक्यवद्विशेषणविशेष्यैक्यप्रसक्तिः, विशेषणानामैक्यप्रसक्तिर्वा, लक्षणाविरोधादिदोषात्, अतथाव्युत्पत्तेश्च ।
नापि विशिष्टे विशिष्टान्तरविधानाद्विशेषणानां मिथः समवायादिदोषः, युगपदनेकविशिष्टैकाभिधानात्, अनूद्य विधानेष्वपि यथा व्युत्पत्ति धर्मप्रधानत्वाच्च ॥
न्या. प. श. 13 न च विशेषणं सर्वं विशेषणान्तरासहम्, विरोधिमात्रविरोधित्वात्, अन्यथा प्रत्यक्षविरोधात् साध्यसाधकधर्मादिविशिष्टविषयानुमानाद्यनुदयप्रसङ्गात्, एवन्त्वादिदं विशिष्टबोधकं न भवतीत्यादि व्यवहारस्यापि विलोपः स्यात् ।
न च शब्दने प्रतिपादने तथा, अविशेषात्, प्रत्यक्षादिवच्छब्देनापि यथावस्तु बोधनीयत्वात् ।
विशेषणमात्रपरत्वं तु नाभ्युपगतमेव, येन विशिष्टैक्यासिद्धिः स्यात् ।
यस्य तु विशेष्यमात्रपरत्वं, तस्य पर्यायतुल्यत्वात् पदान्तरवैयर्थ्यलक्षणभङ्गलक्षणादिदोषः, प्रवृत्तिनिमित्तानां विशेषणानां त्यागात्, विशेष्यमात्रस्य च द्वाररहितस्यालक्ष्यत्वात् ।
इतरव्यावृत्तीनां तूपलक्षणत्वे स्वरूपत्वे च पदान्तरवैयर्थ्यादिदोषः स एव ॥
न्या. प. श. 14 एवं तासां विशेषणत्वे पक्षान्तरवद्विशिष्टभेदादिदोषस्त्वदुक्त आपतेत्, न चेन्नान्यत्रापि ।
त्यक्तप्रवृत्तिनिमित्तस्य तद्विरोधिव्यावृत्त्यभिलाषस्त्वालोकमपहाय तिमिरनिराकरणवाञ्छा ।
विप्रतिपन्नं वाक्यमखण्डपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदत्तः इति वाक्यवत्, यद्वा लक्षणवाक्यत्वात्, प्रकृष्टप्रकाशश्चन्द्रः इत्यादिवत् इति चेन्न, दृष्टान्तासिद्धेः, तत्तेदन्ताविशिष्टस्यैव देवदत्तस्य सोयमिति प्रतीतेः ।
युगपत् तयोर्व्याघात इति चेन्न, यौगपद्यस्यानभिधानात्, अनाक्षेपाच्च ।
युगपत् प्रतिपत्तिस्तु न दोषः, अन्यथा प्रत्यभिज्ञाभङ्गे क्षणभङ्गनैरात्म्यापलापादिवादा विजयेरन् ।
तथाप्यतीतत्ववर्तमानत्वे कथमेकस्य ? इति चेत्, स्वप्रध्वंसकाले हि स्वयमतीतः स्यात्, न चासौ प्रध्वस्तः, वर्तमानत्वोपलंभात्; अतीतोपाधिविशेषसंबन्धितया हि तत्त्वम्, न त्वतीततया ।
कथमेकं पूर्वमपरं च ? इति चेन्न, प्रतिबन्ध्युपाधिभेदेनोभयोपपत्तेः, अन्यथा क्षणस्यापि पूर्वापरमध्यवर्तिनः क्षोदप्रसङ्गात्; न हि तस्य पूर्वस्मादपि पूर्वत्वमेव, उत्तरस्मादप्युत्तरत्वमेव वा ।
क्षुद्यतां क्षणोपीति चेन्न, सर्वापह्नवप्रसङ्गात्, इति ।
तिष्ठत्त्वेतत्; द्वितीयोपि दृष्टान्तो विशिष्टपर एव, अन्यथा व्यावृत्तप्रतीत्यनुदयप्रसङ्गात्, प्रकृष्टत्वादिविशेषणवैयर्थ्याच्च ।
एवं श्रुतिबाधोप्यनुमानयोर्वक्तव्यः, पर्यायतुल्यत्वादिप्रसङ्गलक्षणप्रतिकूलतर्कश्च ।
तथा विप्रतिपन्नं वाक्यं विशिष्टपरम्, आकाङ्क्षायुक्तवाक्यत्वात्, व्यधिकरणवाक्यवत्, इति बाधकमनुमानमपि, प्रतिपत्त्यनुरोधात् दृष्टान्तसिद्धेश्चास्य बलीयस्त्वम् ।
भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति शाब्दैरेवोक्तम् ।
तत्र भिन्नप्रवृत्तिनिमित्तानामिति पर्यायव्यावृत्तिः ।
एकस्मिन्निति व्यधिकरणानां घटः पटैत्याद्यनन्वितानां च व्यवच्छेदार्थम् ।
शब्दानाम् अर्थे इति च व्यक्त्यर्थमेव, अर्थे इति विशेष्यस्य प्रधानतया वाच्यत्वसूचनार्थं वा ।
तेन व्यधिकरणवाक्येष्वेकप्रधानार्थे वृत्तिसंभवेपिव तस्य विशेष्यतवभावाद् व्यवच्छेद्यता ।
विशेष्यबोधनव्यापारो वृत्तिः प्रवृत्तिरिति च सामान्यतो विशेषतश्चात्रोच्यते ।
प्रकृष्टा हि वृत्तिः प्रवृत्तिः ।
प्रकर्षश्चात्र विशेष्यविषयतया ।
तत्र यदुपाधिका विशेष्ये शब्दवृत्तिः, तत् प्रवृत्तिनिमित्तम् ।
भिन्नविशेषणद्वारेणैकविशेष्याभिधानं सामानाधिकरण्यमित्युक्तं भवति ॥
न्या. प. श. 15 ननु पौरुषेयं सर्वमन्वितार्थमिति प्रतिपादितम्, तन्नोपपद्यते, गुणवद्वक्तृप्रणीतस्यैव वाक्यस्य तथात्वदर्शनात्, इति चेन्न, स्वतः प्रामाण्यात्, स्वरसतो हि सर्वं ज्ञानसबाधितव्यवहारजनकं दृश्यते ।
भेदाग्रहादिविशेषोपाधिकं हि क्वचिद् बाध्यव्यवहारहेतुत्वम् ।
ततः स्वाभाविकमपि प्रामाण्यं प्रतिबन्धकेन दोषेण क्वचिदपह्नुतम्; यथाग्नेरौष्ण्यम् ।
तत्र तदंशापेक्षया प्रामाण्यमेव ।
गुणास्तु संभावितदोषस्थले दोषनिराकरणौपयिकाः, प्रमाण्यस्य तैर्व्याप्त्यभावात्, नित्यसर्वज्ञवादिनां प्रमाणभूते तज्ज्ञाने व्यभिचारात् ।
अप्रामाण्यस्य तु दोषाधीनत्वमव्यभिचरितान्वयव्यतिरेकसिद्धम् ।
अवस्तुनोप्रामाण्यस्य कथं हेतुसाध्यत्वमिति चेन्न, संशयत्वविपर्ययत्वादिरूपस्य तस्यावस्तुत्वाभावात्, भावान्तरातिरिक्तस्य चाभावस्यास्माभिरनभ्युपगमात्, अभ्युपगमेपि प्रध्वंसस्य मुद्गरादिसाध्यत्वदृष्टेः ।
तद्वत् प्रमापि सम्यङ्मिथ्याबोधसाधारणादतिरिक्तसहिता जायते, कार्यत्वे सति तद्विशेषत्वात्, अप्रमावत्; प्रामाण्यं परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वात्, अप्रामाण्यवत्, इति चेत्, तत्र प्रथमे कृत्स्नप्रमापक्षीकारे हेतोः स्वमते भागासिद्धिर्ः, इश्वरप्रमाया नित्यत्वाभ्युपगमात् ।
अनीश्वरप्रमापक्षीकारे यावदीश्वरसिद्धि व्यर्थं विशेषणम् ।
रिश्वरानुमानसमनन्तरं प्रयोगः इति चेन्न, तस्य शास्त्रयोन्यधिकरणन्यायेनानुमातुमशक्यत्वात् ।
तर्हि विशेषणं न प्रयोक्ष्यामहे इति चेन्न, स्वाभिमतेश्वरप्रमयानैकान्त्यात् ।
अनभ्युपगतेश्वरैः सौगतादिभिरेवं प्रयोगे कः परिहारः इति चेन्न, श्रुतिसिद्धनित्यप्रमासमर्थनेन बाधस्यानैकान्तिकस्य वा वक्तुं शक्यत्वात् ।
श्रुतिसिद्धनित्यप्रमाव्यवच्छेदेन कार्यत्वविशेषणं सफलं स्यात् हि चेत्, तर्हि श्रुत्या तत्सिद्धिः श्रुतिप्रामाण्यनिर्णयमन्तरेण कथं स्यात् ? ।
तत्प्रामाण्यं च नित्यनिर्देषतयाभ्युपगम्यते चेत्, कथं तत्र परतः प्रामाण्येत्पत्तिः ? वक्तृगुणाधीनं वाक्यानां प्रामाण्यमिति हि वः सिद्धान्तः ।
निर्देषतैव गुणः, इति तदधीनतया तत्र परतः प्रामाण्यमिति चेन्न, प्रतिबन्धकाभावस्य परैः कारणत्वानभ्युपगमात् ।
अभ्युपगमे च तावन्मात्रधीनत्वेपि वेदापौरुषेयत्वनित्यत्वादेरविरोधात्; वेदपौरुषेयत्वादिसिद्ध्यर्थं हि वः परतः प्रामाण्यसमर्थनारम्भः ।
तदपौरुषेयत्वादिसिद्ध्यर्थमेव चास्माभिः स्वतः प्रामाण्यं प्रतिपाद्यते ।
अथाप्तोक्ततया वेदप्रामाण्यादीश्वरसिद्धौ तत्प्रमाव्यवच्छेदाय विशेषणमितीष्यते, तदपि न, परतः प्रामाण्ये निर्णीते वदेस्याप्तमूलप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिः, तत्प्रमाव्यवच्छेदाय विशेषणम्, सविशेषणश्वासौ हेतुः परतः प्रामाण्यं साधयेत्, इति चक्रकाश्रयप्रसङ्गार्त् ।
इश्वरानुमानान्यथासिद्धिपरिहाराय परतः प्रामाण्यं न्यायकुसुमाञ्जलौ समर्थ्यते ।
तत्रैव च कार्यत्वविशेषणं प्रयुज्यते ।
न चासिद्धिव्यवच्छेदाय विशेषणं युक्तम्; सिद्धत्वे तु परतः प्रामाण्यसमर्थनस्य न तदर्थतेति दुस्तरता ।
तथापि शब्दप्रामाण्यं वक्तृगुणाधीनमिति चेन्न, विशेषकाभावात्, दोषसंभावनास्थले च तदपेक्षणात्, वेदस्य चनिर्देषत्वात् ।
दोषाभावाधीनत्वे परतः प्रामाण्यं सिद्धमिति चेन्न, तदधीनत्वाभावात्, तस्य विरोधनिवृत्तिमात्ररूपत्वात् ।
अस्तु वा तदधीनत्वम्, तथापि वेदे तु न दोषः ।
गुणमन्तरेण दोषाभावो न घटत इति चेत्, अनुष्णाशीतस्पर्शवदुभयनिवृत्तेरपि दर्शनात्, उपपत्तेश्च ।
भावान्तराभाववादिनो दोषाभावोपि गुण एवेति चेन्न, स्वाभावान्तरेण तन्निर्वाहात् ।
न हि तस्यापि शीताभाव उष्ण एव, अनुष्णाशीते तदसिद्धेः ।
उभयसंग्रहणेन हि शीताभावत्वम् ।
तद्वदत्रापि सगुणेष्वाप्तवाक्येषु वक्तृगुणरहितेषु वेदवाक्येषु च दोषाभावः समानः ॥
न्या. प. श. 16 ननु शब्दानां स्वतः प्रामाण्ये बुद्धादिवाक्यमपि स्वतः प्रमाणं स्यात् ।
न स्यात्, स्वतस्त्वस्योत्सर्गरूपत्वात्, विरोधिविशेषे च तस्याननुप्रवेशात् ।
उक्तं चागमप्रामाण्ये--- "नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः ।
सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥
वक्तुराशयदोषेण केषु चित्तदपोद्यते ।
अङ्गुल्यग्रे हि मातङ्गयूथमित्येवमादिषु" ॥
इति ।
किञ्च, नित्ये हेतुगुणापेक्षा वेदे नास्तीशबुद्धिवत् ।
हेत्वभावान्न दोषश्चेदूवक्त्रभावादिहापि नः ॥
अकारणं यथा ज्ञानं प्रमात्वमधिगच्छति ।
अकारणं तथा वाक्यं स्वतः प्रमितिकारणम् ॥
यदि हेतुगुणाभावादप्रामाण्यं प्रसज्यते ।
तदेश्वरप्रमायामप्यनिवार्यमिदं तव ॥
न्या. प. श. 17 अथैव ब्रूषे---कारणगुणदोषयोरभावे तत्प्रयोज्ययोः प्रामाण्याप्रामाण्ययोर्द्वयोरप्यसंभवाद्रश्यन्तरायोगाच्च निःस्वभावत्वं वेदशब्दजन्यज्ञानानां स्यादिति; इदमपि तुल्यमीश्वरज्ञाने ।
हेतुनिवृत्तिस्तत्कार्यं प्रामाण्यं निवर्तयेत्, न तु नित्यमिति चेत्, अप्रामाण्यहेतुनिवृत्तिरपि तथैव ।
अतो विरुद्धस्वभावयोगः उभयपरित्यागान्निःस्वभावैतव वा स्यात् ।
एवमनीश्वरवादिनां सौगतादीनां शुद्धसंवित्सन्तानादिष्वधिपतिसहकार्यादिकारणतद्गुणादेरसंभवात् स्वारसिकस्वात्मगोचरप्रामाण्यस्य चाभ्युपगमात् समाश्चर्चाः ।
यद्यपि पूर्वप्रत्ययस्यकारणत्वमिष्टम्, तथापि तस्यापवर्गदशास्थस्य गुणदोषादिरूपसमस्तसंस्कारप्रत्यर्थितया न तज्जन्यस्य गुणहेतुतेति ।
यच्च, प्रामाण्यं परतो ज्ञायते, इति प्रयुक्तम्, तत्र ज्ञानान्तरेण ज्ञानान्तरस्वभाववेदनाभ्युपगमात् सिद्धसाधनता ।
परत एवेति विवक्षायामीदृशं ज्ञानं प्रमेति लक्षणतः सर्वप्रमासङ्ग्राहिणि ज्ञाने पारमेश्वरे च विज्ञाने तदसंभवः; न हि ताभ्यां स्वप्रमात्वं न गृहीतम्, लक्षणाव्याप्तिकिञ्चिज्ज्ञत्वादिप्रसङ्गात् ।
अतोन्यत्र परत एवेति नियम इति चेत्, तदपि न, तद्दृष्टान्तेनैव प्रतिप्रयोक्तुं शक्यत्वात्-विगीतं प्रामाण्यं स्वाधारेण ज्ञायते, प्रामाण्यरूपत्वात्, रिश्वरज्ञानादिप्रामाण्यवत् इति ।
कथं तर्हि इदं प्रमाणमप्रमाणं वेति संशयावकाशः ? इति चेन्न, विशेषतो गृह्यमाणेष्वपि संशयोत्पत्तिदर्शनात् ।
भवति मुहुः शुक्तिकारजतमोहादन्धीकृतधियः कलधौतेपि तथोपलभ्यमाने यथोपलम्भमिदं रजतमेव वा पूर्ववच्छुक्तिरजतं वेति पुरतः ।
तथात्रापि गृह्यमाणेपि प्रामाण्ये किमिदं प्रमाणमेव सत् प्रमाणतयोपलम्भते ? उत, बाधात् पूर्वभ्रमवदप्रमाणं सत् ? इति संशयो युक्तः ।
तथापि सन्देहसहेन किं स्वतोग्रहणेन ? निश्चयस्तु पराधीन एवेति चेत्, किमस्मदपेक्षया ग्रहणमग्रहणं वा नियन्तुं शक्यम् ? सिद्धो हि ग्रहणप्रकारः परीक्षकैरनुसरणीयः ।
सिद्धिरेव स्वतः कथमिति चेत्, इत्थम्---ज्ञानं स्वालम्बनं प्रकाशयत् स्वयमपि ज्ञानान्तरनिरपेक्षं प्रकाशते, इति तावत् सर्ववेदान्तिसंमतम् ।
अस्वयंप्रकाशवादेपि स्वग्राहिणानुव्यवसायेन प्रकाशमानो व्यवसायस्तावदसंशयात्मैव दृश्यते ॥
न्या. प. श. 18 स्मृत्यप्रामाण्यवादेप्यपूर्वार्थगोचरतया स्मृतिविलक्षणश्चाविपर्ययात्मा चाबाधात्मा च, वाधादेः पूर्वं तत्प्रसङ्गाभावात् ।
ततश्च यद्विषयतयायं व्यवसायः प्रथमं प्रतिभातः, तद्विषयतयैव परस्परपरिक्षोदात् पश्चादपि ।
अतो यत् तद्विषयत्वलक्षणं प्रामाण्यं पश्चात् तेनैव व्यवस्थाप्यते, तदादावेव गृहीतमिति स्वतः प्रामाण्यग्रहः ॥
न्या. प. श. 19 नन्वेवं संशयत्वादिलक्षणमप्रामाण्यमपि स्वयंप्रकाशेनानुव्यवसायेन वा प्रथममवे ग्रहीतुं शक्यम्; तथापि विपर्ययत्वलक्षणं न तथा, गृह्यमाणवैपरीत्यस्य स्वेन स्वग्राहिणा वा प्रथममग्रहणात्, तस्मिन्नंशे च वैदिकानामविवादात्, तत्रेममंशमादायैव चान्ततः पस्वतः प्रामाण्यसमर्थनप्रवृत्तेः, तत्र दोषाभावादेवादावप्रामाण्यानुत्पत्तेः ।
तत एव चाप्रामाण्यप्रमित्यसंभवात्, स्वत एव च प्रामाण्यप्रमितेरबाधाच्च इत्युच्यते, इति ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ शब्दाध्याये प्रथममाह्निकम्
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
द्वितीयमाह्निककम् ।
न्या. प. श. 20 अथ पौरुषेयापौरुषेयविभाग एवानुपपन्नः, सर्वस्यापि वाक्यस्य पौरुषेयत्वे वाक्यत्वादिलिङ्गसद्भावात्---सर्वज्ञप्रणीता वेदाः, वेदत्वात्, इति व्यतिरेकिसंभवात्; "मन्त्रकृद्भ्यः" "तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः" "ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् ।
यजुस्तस्मादजायत" इत्यादिश्रवणात्, "प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते" इत्यादिस्मृतेश्च;"अधिकृत्य कृते ग्रन्थे" इति पाणिनिस्मृतिसिद्धार्थकाठककालापकादिसमाख्याविशेषयोगात्; कादाचित्ककथाविशेषसंदृष्टेः, अनित्ययोगात्, तत्पूर्वोत्तरकालयोस्तदनन्वयापत्तेः, शब्दस्य भूतगुणस्य नश्वरत्वात्, इति चेत्, तन्न, वाक्यत्वानुमानस्य विपक्षे बाधकाभावात् ।
अकारणकार्योत्पत्तिप्रसङ्गः, इति चेन्न, कार्यत्वस्यैव साध्यमानत्वात्, अकारणत्वमात्रस्यापाद्यमान स्येष्टत्वात् ।
क्रमविशेषेणानुच्चार्यमाणानां वर्णानां कथं पदत्वं वाक्यत्वं वेति चेन्न, परकृतप्रबन्धपाठवदकर्तृभिरुच्चारणेपि तत्सिद्धेः ।
आदिममुच्चारणं कर्त्रभावे कथं स्यादिति चेन्न, आदिमत्त्वस्यैवासिद्धेः, दर्शनानुगुण्येन अद्यत्ववदेव सर्वदा परतन्त्रोच्चारणस्यैवाभ्युपगन्तुमुचितत्वात्, ततश्च सर्वदोच्चारयितृपुरुषापेक्षत्वेपि पूर्वपूर्वाधीतप्रकारस्यानुसरणादनादित्वसिद्धेः ।
अपौरुषेयत्वे घुणक्षताक्षरवदूबोधकत्वेप्यभिप्रायविरहादर्थपरत्वं न स्यादिति चेन्न, प्रतिपन्ने निर्बाधे चार्थे प्रधाने बोधकत्वस्यैव तात्पर्यरूपत्वात्, प्राधान्यादेर्लौकिकवाक्यवदाख्यातादिस्वभावादेव सिद्धेः, अस्मदिष्टे च सेश्वरमीमांसापक्षे नित्येश्वराभिप्रायसंभवात् ।
स्वयमेव ह्याह--- "श्रुतिः स्मृतिर्ममैवाज्ञा" इति ।
तथा भाष्यम्--- "स्वशासनावबोधि शास्त्रमिति नित्यं श्रुत्यैव नियुङ्क्ते परः" इति ।
नित्यापि सा तदाज्ञा ।
गीतादिरपि श्रुत्यर्थोपदेशरूपतया प्रवर्तते ।
साक्षात्तु श्रुतिस्तदादोशः ।
तदनुविधानाच्च स्मृतिरपि ।
अज्ञातकर्तृकत्वे गन्धर्वभाषितादिवदाप्तकर्तृकत्वनिश्चयाभावादप्रामाण्यशङ्का स्यादिति चेन्न, दोषाभावनिश्चयादेव तन्निवृत्तेः ।
अनाप्तकर्तृकत्वशङ्कायां कथं दोषाभावनिश्चयः ? इति चेन्न, महाजनपरिग्रहादेवानाप्तकर्तृकशङ्कोन्मूलनात् ।
बाह्यागमपरिग्रहवत् किं नस्यात् ? इति चेन्न, बहुजनपरिग्रहादिमात्रस्य महाजनपरिग्रहत्वेनाविवक्षितत्वात्, तत्परिप्रहविशेषस्यैव विवक्षितत्वाच्च ।
तयोः को वा विशेषः ? इति चेन्न, हेतुदर्शनादर्शनाभ्यां विशेषात् ।
अनन्यगतिकैः स्वैररसिकैः सुखजीविकार्थिभिः कुहकवञ्चितैर्वा तत्परिग्रहः, इह तु न तथा, तद्वैपरीत्यस्य सुप्रसिद्धत्वात्, इति ॥
न्या. प. श. 21 अपि च बाह्यागमप्रतिबन्दिः किं वदेप्रामाण्यमाप्तप्रामाण्यनिबन्धनमितीच्छद्भिर्वैशेषिकादिभिरुच्यते ? उत सौगताद्यागमप्रामाण्यमिच्छद्भिः ? अथ वा परित्यक्ताशेषपारलौकिकागमैर्लोकायतिकैः ? इति ।
नाद्यः, रिश्वरकृतत्वेपि वेदस्यैवंविधपरिग्रहविशेषमन्तरेणाद्यतनरेबाह्यागमेभ्यो (?) विवेकस्याशक्यत्वात्, सर्वज्ञप्रणीतत्वाद्यभिमानस्य तदनुमानप्रक्रियायाश्च सर्वत्र दुर्वारत्वात् ।
न द्वितीयः, अभ्युपगतप्रामाण्ये स्वागमेपि प्रसङ्गात् ।
दृष्टफलसंवादस्य विसंवादान्यथासिद्धेश्च सर्वत्र समचर्चत्वात्, अस्मदुक्तस्य निरुपाधिकपरिग्रहस्य स्वमते दुर्वचत्वात् ।
अत एव न तृतीयः, प्रामाण्यस्य परोक्षप्रामाण्यस्य वाक्यप्रामाण्यस्य च स्थापितत्वेन वैदिकवाक्ये ह्यौत्सर्गिके प्रामाण्ये प्राप्ते निरुपाधिकप्रेक्षावदनन्तपुरुषपरिग्रहादेवानाप्तकर्तृकत्वशङ्कोन्मूलने च वक्तृदोषशङ्कानुत्थानात्, वचसि चस्वतः काचादिवद्दोषादर्शनात् ।
आप्तकर्तृकत्वाभावेप्यौत्सर्गिकं प्रामाण्यमनपोदितम्, इति ॥
न्या. प. श. 22 अत एव हि प्रेक्षावन्तरश्चोदितेषु बहुवित्तव्ययायाससाध्येषु निशङ्कं प्रवर्तन्ते, प्रतिषिद्धेषु च सुखतरेष्वपि विषसंसृष्टान्नभोजनादिवन्निवर्तन्ते ।
प्रयोगश्च---पारलौकिकी महाजनप्रवृत्तिः सफला, प्रेक्षावत्प्रवृत्तित्वात्, कृष्यादिप्रवृत्तिवत्; न ह्यनन्तैःप्रेक्षावद्भिरविसंवादेनाफलमनुष्ठीयते इति शङ्कितुं शक्यम् ।
दुःखरूफलदर्शनेन सिद्धसाधनतेति चेन्न, अनभिप्रेतोपालम्भात्, प्रवृत्तिदुःखादधिकपुरुषार्थपर्यवसानस्य सिषाधयिषितत्वात् ।
तथापि लाभपूजाख्यातिरूपदृष्टप्रयोजनेनैव सार्थतेति चेत्, तदप्यसत्, अतदुद्देशेन तेषां प्रवृत्तिदर्शनात्, तदुद्देशेन प्रवृत्तेश्च डाम्भिकत्वेन शास्त्रैस्तन्निष्ठैश्च विगर्हणात् ।
ये च तदुद्देशेन प्रवर्तन्ते, तेप्यतदुद्देशेन प्रवृत्तानामनुकुर्वाणा एव ख्यात्यादि प्राप्नुवन्ति, अन्यथा ख्यातिलाभपूजादेर्निर्निमित्तत्वप्रसङ्गात् ।
न हि यत्किञ्चिदनेन कृतमिति मत्वा कश्चित् कृच्छ्रसंपादितान् धनादीन् ददाति, पूजयति, गुणान्वा आरोप्य स्तौति; अपि तु कुतश्चित् प्रमाणात् सिद्धं प्रशस्ताचरणमभिमत्यैव ।
समरसामर्थ्यादिमूललाभ जादिकमप्यन्ततोर्थशास्त्रादिमूलप्रशस्तप्रवृत्तिप्रसूतम् ।
अतः सन्मर्यादाप्रवृत्तान् दानमानादिभिरभ्यर्चयन्तोष्पदृष्टबुद्ध्यैव प्रवर्तन्ते ।
जनरञ्जनार्थमेव दानादि, जनो दातरि मानयितरि च रज्यते, "जनानुरागप्रभवाश्च संपदः" इति प्रसिद्धेः, इति चेन्न, प्रत्युपकाराद्यनर्हप्रव्रजिततपस्विजडान्धबधिरदीनानाथादिषु दानमानादिभिरनुरञ्जितेष्वपि तन्मूलदृष्टसंपत्प्रसङ्गाभावात्; अत एव हि नीतिनर्मसचिवेष्वेव तदर्थदानादिव्यवस्थापनम् ।
प्रतारणपटुभिर्वैन्दिकैः प्रतारितास्तान् पूजयन्तीति चेन्न ।
किं ते स्वात्मानमपि प्रतारयन्ति? ये नाम समस्तभोगाविमुखा यावज्जीवमात्मानं परिक्लेशयन्ति; यैश्च पटुप्रज्ञाः सर्वे लोकाः प्रतारिताः, ते कथं लोकोत्तरप्रज्ञेन त्वया प्रतारका इत्युन्नीताः ।
अन्धपरम्पराकल्पस्तर्ह्ययमनुष्ठानप्रवाहः इति चेन्न, प्रमाणस्वरूपफलयोरबाधस्य च प्रत्यक्षत्वात् धर्मबुद्ध्यैव च निरुपाधिकपरिग्रहस्य त्वदुक्त्यैव सिद्धः ।
अनादिनिधनेस्मिन्नाम्नायमूले अनुष्ठाने प्रवहति प्रक्रियान्तरमाश्रित्य प्रतारकैरीश्वरैरर्वाचीनैश्च प्रतिच्छन्दप्रवर्तना श्रुतिस्मृतिसिद्धा युक्तिमती चेत्येषा दिक् ॥
न्या. प. श. 23 वेदानित्यत्वानुमानानां प्रतिप्रयोगाश्च---पर्वापरकल्पाः एतद्वेदसन्दर्भपाठवन्तः, कल्पत्वात्, अद्यतनकल्पवत् ।
ऐश्वरं वेदप्रवर्तनमप्रच्युतप्राचीनसन्दर्भम्, आप्तकर्तृकवेदप्रवर्तनरूपत्वात्, अद्यतननिपुणोपाध्यायवेदप्रवर्तनवत्; न चाश्रयाद्यसिद्धिः, पौरुषेयत्वेपि प्रामाण्यमिच्छतस्तत एव तत्सिद्धेः ।
अप्रामाण्यमिच्छतोपि महाजनपरिग्रहान्यथानुपपत्त्यैव प्रामाण्यं प्रसाध्य तत एव तत्साधनात् ।
न चास्ति वेदप्रवर्तनस्य सारस्वतपाठेनानैकान्त्यम्, तथैव तत्प्रवाहस्य तत्तच्छाखाप्रणयनवदनादित्वात्, मन्त्रब्राह्मणादिवाक्यस्वरूपवैयाकुलीविरहाच्चेति ।
एवंविपक्षे बाधकाभावादेव केवलव्यतिरेक्यपि निरस्तः, अनुमानाध्याये तस्य सामान्यतो दूषितत्वाच्च ।
त्वन्मतेप्यायुर्वेदादिसपक्षसद्भावेन तस्यासाधारण्यम्; नहि तेभ्यो व्यावृत्तमपौरुषेयत्वादिलक्षणं वेदत्वं त्वयाभ्युपगम्यते ।
वेदशब्दप्रयोगविषयतामात्रेण तेषामपि पक्षीकारे स्वेच्छागृहीतरूपस्येश्वरस्य तत्तदवतारसंव्यवहारा वेदव्यतिरिक्ताः सन्ति सपक्षाः ।
न च ते त्वयापि नेष्यन्ते, वेदतया वा स्वीक्रियन्ते, गीतादिषु भगवदुक्त्यंशानां श्रीविष्णुस्मृतिप्रभृतीनां च वेदत्वानभ्युपगमात् ।
धर्मशास्त्रतयैव हि वैष्णवस्मृत्यादिप्रसिद्धिः ।
अवक्तृकसन्दर्भा वेदाः, वेदत्वात्, यः सकर्तृकसन्दर्भः, नासौ वेदः, इति प्रतिहेतुश्च सिद्धः ।
अप्रसिद्धविशेषणत्वादिचोद्यं त्विह न त्वया स्मर्तव्यम् ।
सन्दर्भः कथमववतृकः स्यादिति चेन्न, वर्णक्रमनियममात्रविशेषस्य सन्दर्भशब्देन ग्रहणात्,तस्य च प्रागुक्तनयेन यथापूर्वप्रवर्तनमात्रेणापि व्यवस्थानात् ।
माभूदवीतहेतुः ।
वीतस्तु स्यात् विगीतं वाक्यं सर्वज्ञप्रणीतं, प्रमाणत्वे सत्यलौकिकार्थविषयवाक्यत्वात्, "न त्वेवाहं जातु नासम्" इत्यादिवाक्यवत्, इति चेन्न, वेदार्थविषयैः कल्पसूत्रकारादिवाक्यैरस्मदादिवाक्यैरेव वानैकान्त्यात् ।
अतीवकर्तृकत्वे सतीति विशेषयिष्यामः इति चेन्न, तथापि यथापूर्वप्रणयनमात्रेणापि तत्प्रणीतत्वसिद्धौ सिद्धसाधनात् ।
यथापूर्वमेव हि विश्वमीश्वरः सृजति; यथा अधीमहे--- "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इति ।
एवं तर्हितुल्ययोगक्षेमतया वेदवज्जगतोप्यकर्तृकत्वं प्रसक्तमिति चेन्न, यथापूर्वं घटादिनिर्माणे कुलालकुविन्दादेः कर्तृत्वसिद्धेः; हन्त ! वेदस्य एवं स्यादिति चेत्, हन्त ! स्यादेव ।
न हि कल्पान्तरवर्णव्यक्तिसमुदायमेवेदानीन्तनवेदराशिं ब्रूमः, अपि तु तादृक्क्रमयोगितामात्रम् ।
सर्वत्र वाक्येषु यथेष्टक्रमकल्पने पुरुषस्य स्वातन्त्र्योक्तिः, न पुनर्यथापुरोच्चारणे, इति काव्यादिष्वपि प्रसिद्धम् ।
यदि त्वया अयथापुरप्रणीतत्वं साध्येत, तत्र यथापुरप्रणयने कमिव दोषामालक्ष्यैवं विशेषयसि ? मन्त्रादिषु क्रमभङ्गानुपपत्तिश्च कल्पान्तरेपि तच्छक्त्यनपायादेव, तथात्वेपि वा यथापूर्वोच्चारणेपि तदनपायात्, अन्यथा कल्पनागौरवात्, इति ॥
न्या. प. श. 24 तथापि सर्गप्रलयसंभवात् संप्रदायविच्छेदे सर्ववेदोच्छेदात् पश्चादीश्वरस्तत्स्रष्टा स्यात् ।
न स्यात्, तथापि प्राचीनवेदसाक्षात्कारिणस्तस्य तत्प्रवर्तनमात्रौचित्यात्, शक्तस्यापि तज्जातीयवेदान्तरकल्पने गौरवात्, शक्तावपि सिद्धोपजीवनस्यास्मदादिषु दृष्टेः, एषामेव च मन्त्राणां कल्पान्तरेपि मन्त्रत्वाविरोधात् ।
एवं मन्त्रनित्यत्वे च तुल्यन्यायतया ब्राह्मणनित्यत्वस्यापि दुस्त्यजत्वात्, तद्दृष्टान्तेन वा तन्नित्यत्वसाधनात् ।
सारस्वतपाठादावपि मन्त्रादिस्वरूपभेदाभावस्योक्तत्वात् ।
"या ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
" "वाचाविरूपनित्यया""पूर्वे पूर्वेभ्यो वच एतदूचुः" "अजान् ह वै प्रश्नींस्तपस्यमानात् ब्रह्म स्वयं भ्यभ्यानर् षत् त ऋषयोभवन् तदृषीणामृषित्वम्" "अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा" "व्यस्य वेदं सनातनम्" इत्यादिभिरीश्वरस्याप्यनीश्वरवद्वेदप्रवर्तनमात्रसिद्धेः कुतश्च सर्गप्रलयसिद्धिः ? विश्वसन्ततिरत्यन्तमुच्छिद्यते, सन्ततित्वात्, प्रदीपसन्ततिवत् ।
विश्वसन्तानोयं दृश्यसन्तानहीनैः समवायिभिरारब्धः, सन्तानत्वात्, आरणेयाग्निसन्तानवत् ।
वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात्, प्रदीपपरमाणुवत् ।
पर्वता अपि चूर्णीभविष्यन्ति, अवयवित्वात्, घटवत् ।
समुद्रा अपि शोषमुपयास्यन्ति, जलाशयत्वात्, पल्वलवत् इत्याद्यनुमानतः, इति चेन्न, केषां चिन्नित्यसंसारपक्षे प्रथमस्य हेतोस्तथा तत्प्रतिपादकैरागमैरंशतो बाधः, तद्वहिष्कारे च अनैकान्तः; सर्वेषां च श्रुतिशतसिद्धैर्नित्यविभूतिनिष्ठैरीश्वरनित्यविग्रहादिभिस्तैस्तैरनेकान्तः ।
न च तत्पक्षीकारः, बाधासिद्ध्योरन्यतरापातात् ।
प्रतिप्रयोगाश्च---गणितविशेषादिसिद्धद्विपारार्धसंख्यापूर्वोत्तरकालो न लोकशून्यः, कालत्वात्, अद्यतनकालवत्, इत्यादयः स्वयमूह्याः ॥
न्या. प. श. 25 विपक्षे बाधकं न सम्यग्दृश्यते ।
यच्चागमानुग्रह एषां बलमित्यभिमतम्, तदागमप्रमाणत्वोपजीवनम्, तथा चागमत एव प्रलयादिसिद्धिः ।
ततश्चागमादेवागमनित्यत्वं सिद्धम् ।
उक्तं च प्रज्ञापरित्राणे--- "वेदतः पौरुषेयत्वशङ्का वेदे न शाम्यति ।
हेत्वन्तरसमुद्भूता हेत्वन्तरनिवारिता" ॥
इति ।
सर्गादौ वेदपरिग्रहप्रकारश्चैवमुपपादितः--- "व्यवहारिजनाभावाद्गिरां व्युत्पत्त्यसंभवात् ।
वेदार्थो नैव शक्येत बोद्धुं तस्येति चेन्न तत् ॥
बहवः संभवन्त्येव शब्दार्थव्यवहारिणः ।
मुक्ताद्या रिशितुर्यद्वा बहुरूपपरिग्रहात् ॥
प्राच्यविज्ञानसंस्कारानुवृत्त्या वास्य वेधसः ।
सर्वशब्दार्थविज्ञानं सुप्तोत्थितवदुद्भवेत् ॥
न गर्भवासस्तेषां न वयोवस्थादयोपि च ।
सर्वविज्ञानसंपन्नाः सृष्टास्त इति वेदधीः ॥
ऽयो ब्रह्मणऽमिति श्रत्या सृष्ट्वा ब्रह्माणमीश्वरः ।
अस्मै वेदानदत्तेति प्रतीतिर्न उदेति हि ॥
शब्दार्थवेदिने वेदप्रदानं सार्थकं भवेत् ।
अन्यथा व्यर्थमित्यर्थापत्त्या शब्दार्थवेदिता" ॥
इति ॥
न्या. प. श. 26 सूत्रकाण्डमन्त्रकृत्त्वजन्मादिवाक्यानामपि प्रथमद्रष्टृत्वस्मर्तृत्वसंप्रदायप्रवर्तनादिभिरेव निर्वाहः ।
इदमप्यागमानुरोधादेव सिद्धम् ।
"स्वयंभ्वभ्यानर्षत्" इत्यादि हि श्रूयते ।
प्रजापतिनियोगाच्च तदाहितमहिमानो महर्षयोनधीतानेव वेदभागान् पश्यन्ति ।
तन्न्नियोगश्च तत्तदृषिकत्वेनानुसन्धानादेः कर्मौपयिकत्वात् ।
तेषामपि प्रवाहानादित्वान्नानित्यसंयोगादिदोषः ।
"यद्वै किञ्च मनुरवदत्" इत्यादौ प्रवाहानादित्वं परैरुक्तम्; तदुपाख्यानान्तरादिष्वपि तुल्यम् ।
उक्तं च भगवता व्यासेन--- "युगान्तेन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा" ॥
इति ॥
इतिहासोत्र तत्तद्वृत्तान्तः ।
उक्तं च तेनैव धर्मशास्त्रेपि--- "धर्ममूलं वेदमाहुर्ग्रन्थराशिमकृत्रिमम् ।
तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम्" ॥
इति ।
शाखाप्रणयनं च द्वापरान्ते भाविपुरुषशक्तिपरिक्षयाद्वेदवृक्षैकदेशोद्धरणम् ।
एतेन समाख्या निर्व्यूढा, प्रवचनविषयत्वात् ॥
इदं च सर्वं प्रसाधितं प्रज्ञापरित्राणे--- "यादृक्प्रभावाः श्रूयन्ते ऋष्याद्या वेदराशिषु ।
तादृशा एव सृज्यन्ते वेदान् दृष्ट्वा स्वयंभुवा ॥
अतस्तेभ्यः पुरा वेदसत्त्वाद् वेदस्य नित्यता ।
अनधीत्यैव वेदानामाविर्भावयितृत्वतः ॥
तपसा प्राप्पय संस्कारात् तत्सूक्तत्वादिसंभवः ।
तपःप्रभावान्मत्राणामृषिदर्शनसंस्कृतेः ॥
शक्तिराधीयते काचिद्यथास्माकमधीतितः ।
अर्थावबोधकत्वं तु शब्दशक्त्यान्यशब्दवत् ॥
ऋषिदर्शनतोधीतेपरपि शक्त्यन्तरोद्भवः ।
अपूर्वकार्यनिष्पत्तावुपकुर्यादिदं ततः ॥
काठकादिसमाख्याया निमित्तं चेदमेव वा ।
प्रकृष्टं वा प्रवचनं तत्सिद्धा वेदनित्यता" ॥
इति ॥
न्या. प. श. 27 वर्णानित्यत्वं क्रमानित्यता वा नाभिमतवेदनित्यत्वविरोधि ।
न च वर्णनित्यत्वं वेदनित्यत्वहेतुः, काव्यादिष्वपि तुल्यत्वात् ।
शब्दाधिकरणं चानुपयुक्तवर्णानित्यत्वपरं नानुमन्यामहे ।
शारीरकदेवतानधिकरणे च--- "शब्द इति चेन्न, अतः प्रभवात् प्रत्यक्षानुमानाभ्याम् ।
अत एव च नित्यत्वम् ।
समाननामरूपत्वाच्च, आवृत्तावप्यविरोधो दर्शनात्, स्मृतेश्च" इति सूत्रैरिदं सर्वं समर्थितम् ॥
न्या. प. श. 28 वेदार्थसङ्गहे तु---वेदाः प्रमाणं चेत्, विध्यर्थवादमन्त्रागतं सर्वमपूर्वमर्थजातं यथावस्थितमेव बोधयन्ति ।
प्रामाण्यं च वेदानाम् ऽऔत्पत्तिकस्तु शब्दस्यार्त्थेन संबन्धःऽ इत्युक्तम्" इति मन्त्रार्थवादयोरपि याथार्थ्यं प्रक्रम्य, शब्दशक्तेरसाङ्केतिकत्वम्, तत एव शब्दानुमानविवेकः पौरुषेयापौरुषेयादिविभागादिकं च व्यक्तं प्रदर्शितम् ।
तथाहि---यथा अग्निजलादीनामौष्ण्यादिशक्तियोगः स्वाभाविकः; यथा चक्षुरादीनामिन्द्रियाणां बुद्धिजनकत्वशक्तिः स्वाभाविकी, तथा शब्दस्यापि बोधकत्वशक्तिः स्वाभाविकी ।
न च हस्तचेष्टादिवत् सङ्केतमूलं शब्दस्य बोधकत्वमिति वक्तुं युक्तम्, अवनाद्यनुसन्धानाविच्छेदेपि सङ्केतयितृपुरुषाज्ञानात् ।
यानि सङ्केतमूलानि, तानि सर्वाणि साक्षाद्वा परम्परया वा विज्ञायन्ते ।
न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम्; तेषु साक्षाद्वा परम्परयां वा संकेतो ज्ञायते ।
गवादिशब्दानां तु अनाद्यमुसन्धानाविच्छेदेपि संकेताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी ।
अग्न्यादीनामौष्ण्यादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्चशब्दस्यापि बोधकत्वशक्तिरवश्याश्रयणीया ॥
न्या. प. श. 29 ननु च इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं चेत्, संबन्धग्रहं बोधकत्वाय किमित्यपेक्षते ?; लिङ्गवदित्युच्यते; यथा ज्ञातसंबन्धनियमं धूमादि अग्न्यादिबुद्धिजनकम्, तथा ज्ञातसंबन्धनियमः शब्दोप्यर्थविशेषबुद्धिजनकः ।
एवं तर्हि शब्दोप्यर्थविशेषस्य लिङ्गमित्यनुमानमेव स्यात्; मैवम्; शब्दार्थयोः संबन्धो बोध्यबोधकभाव एव ।
धूमादीनां तु संबन्धान्तरमिति, तस्य संबन्धस्य ज्ञापनद्वारेण बुद्धिजनकत्वमिति विशेषः ।
एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदेपि संङ्केताज्ञानात् बोधकत्ववं शक्तिरेवेति निश्चीयते ॥
एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकः, ते पौरुषेयाः शब्दाः इत्युच्यन्ते ।
यत्र तूच्चारणक्रमः पूर्वपूर्वोच्चारणक्रमजनितसंस्कारपूर्वकः सर्वदा, अपौरुषेयास्ते वेदाः इत्युच्यन्ते ।
एतदेव वेदानामपौरुषेयत्वं नित्यत्वं च, यत् पूर्वोच्चारणक्रमजनितसंस्कारेण क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् ।
तेनानुपूर्वीविशेषेण तमेव संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदेन भिन्नाः अनन्तशाखा वर्तन्त इति ॥
न्या. प. श. 30 अत्राङ्गिरसानुक्तिरथर्वानुप्रवेशविवक्षया ।
एवं त्रिवेदीव्यपदेशेपि विवक्षाभेदो ग्राह्यः ।
सर्वोप्यसौ पुनर्मन्त्रार्थवादादिरूपेण त्रिविधः ।
तत्र प्रामाणिकमन्त्रव्यवहारविषयो मन्त्रः ।
स चानुष्ठेयार्थप्रकाशनादिनोपकारोति ।
न चेदमेव तल्लक्षणम्, "वसन्ताय" इत्येवमाद्यव्याप्तेः ।
"वसन्ताय कपिञ्जलानालभन्ते" इत्यादयस्तु मन्त्रा अपि विधिपरा एव मीमांसिताः ।
सकिल मन्त्रः क्रियमाणानुवादिस्तोत्रशस्त्रजप्यादिभेदभिन्नः ।
पैशाचमागधादितत्तद्भाषामन्त्राणां फलप्रदत्वे तत्तद्बीजजात्यादिकं निदानम् ।
श्रद्धेयदेवतानामाङ्कमात्रं तु न तदक्षरशक्तिप्रतिबन्धकम्; क्षिप्रक्षुद्रफलप्रकाशनेन विप्रलम्भार्थं तथैवेश्वरादिभिः सृष्टम् ।
गरुडादिनामाङ्कभाषामन्त्रेषु तु तत्तद्देवतास्मृत्युपकारकत्वमप्यस्ति ।
एतेन मन्त्रव्याकरणं निर्व्यूढम् ।
ये तु सप्तकोटयो महामन्त्राः इत्याप्तशास्त्रप्रतिष्ठिताः, ते तु प्रणवयोगायोगादिभिर्वैदिकाः तान्त्रिकाः इति विभज्यन्ते ।
तत्र शूद्राधिकारत्वसिध्यर्थं तान्त्रिकपरिभाषा; न पुनरवैदिकतया, श्रौतस्मार्तादिभेदव्यपदेशवत् प्रमाणसिद्धत्वाविशेषात् ।
सर्वेषां च मन्त्राणां सद्वारकमद्वारकं च परमात्मैव प्रतिपाद्यः फलप्रदश्च ।
सद्वारकेषु तावत् विनियोगभेदाद् बहुधाब्रह्मणि पर्यवसानम् ।
तत्तद्देवशरीरत्वात् तत्तदंशतया स्थितेः ।
ऐन्द्षादिन्यायतश्चैषां सर्वेषामीश्वरे स्थितिः ॥
न्या. प. श. 31 विध्यधीनप्रवृत्त्युत्तम्भकवाक्यविशेषो ह्यर्थवादः ।
सो ऽपि प्रत्यक्षाद्यविरुद्धे स्वार्थे प्रमाणम्, स्वतः प्रामाण्यस्यानपायात् ।
यत्र विरोधधीः, तत्राप्यविरुद्धार्थोपचारेण तत्प्रामाण्यम् ।
स च क्वाचिद् विध्येकवाक्यतया प्रमाणीभवतीत्यर्थवादाधिकरणादिषु स्थापितम् ।
स्वतः प्रयोजनभूतार्थविशेषविषयस्तु स्वतन्त्रतयापि प्रामाण्यं प्राप्नोतीति समन्वयसूत्रसिद्धम् ।
तत्प्राप्त्यभिलाषे तु तदुपायवाक्यप्रवृत्तिः ।
स चतुर्धा---निन्दाप्रशंसापरकृतिपुराकल्पभेदात् ।
निषेधादिशेषभूतो निषेध्यादिदोषवादोत्र निन्दा ।
विध्यादिशेषभूतो विधेयादिगुणवादः प्रशंसा ।
एकानुबन्धी कथाविशेषः परकृतिः ।
अनेकानुबन्धी तु पुराकल्पः ॥
न्या. प. श. 32 हितानुशासनरूपं वाक्यमिह विधिः ।
स च बहुविधः--- नित्यनैमित्तिककाम्यसंवलितविधिनिषेधादिभेदात् ।
नियमपरिसंख्ये अपि विधिभेदावेव ।
तत्रैवं विवेकः--- अप्राप्तस्य विधौ प्राप्तिर्नियमे प्राप्तपूरणम् ।
बाधस्तु परिसंख्यायां प्राप्तस्यैवैकदेशतः ॥
न्या. प. श. 33 अथात्र को नाम लिङादिप्रत्ययार्थः ? न तावदपूर्वम्, तस्मिन् प्रमाणान्तरागोचरे व्युत्पत्त्ययोगात्, तद्गोचरत्वे तु अपूर्वत्वव्याघातात्, लिङादिबोधिते व्युत्पत्तावितरेतराश्रयप्रसङ्गात् ।
विमर्शतः सिद्धिः स्यादिति चेन्न, विमर्शस्य स्मृत्यनुभवातिरिक्तस्यानम्युपगमात्, क्रियाकार्येव्युत्पन्नस्य चान्वयायोग्यतायामपि लक्षणादिभिरेव निर्बाह्यत्वात्, अभिधानान्यथाकरणायोगात्, प्रथमव्युत्पत्तेरपि सर्वत्र कार्य एवेति नियमाभावात् ।
तथा---गामानयेत्यादिप्रयोजकवृद्धवाक्यश्रवणसमनन्तरं गवानयने प्रवृत्तं पुरुषमालोक्य पार्श्वस्थो व्युत्पित्सुश्चेतनप्रवृत्तेः कार्यताबुद्धिपूर्वकत्वात् प्रयोज्यवृद्धकार्यताबुद्धेश्च कारणान्तरादर्शनात् यदनन्तरं यत् दृश्यते तत्तस्य कारणमिति प्रयोजकवृद्धवाक्यमेव प्रयोज्यवृद्धकार्यताबुद्धेः कारणमित्यध्यवस्यति ।
तथा कस्यचित् ऽपुत्रस्ते जातःऽ इति केनचिदुक्ते प्रतिपन्नपुत्रोत्पत्तेस्तस्य प्रियत्वं च ज्ञायते ।
व्युत्पित्सुः पुत्रजन्मवाक्यश्राविणः पुरुषस्य मुखविकासमालोक्य तस्य प्रियार्थप्रतिप्रत्तिनिमित्तत्वानुमानात् तत्प्रतीतेश्च कारणान्तरादर्शनात् पुत्रजनमवाक्यमेव कारणं कल्पयति ।
न च पुत्रजन्मनः प्रियत्वं बालेनाज्ञातमिति वाच्यम्, प्रज्ञातपुत्रजन्मनस्तस्य प्रौढस्य भाषान्तरवत् प्रथमव्युत्पत्तावेवं संभवात्, नोदाहरणमादरणीयमिति च न्यायविदः ॥
न्या. प. श. 34 ततश्च ये बालानां प्रियत्वेन संप्रतिपन्ना भक्ष्यभोज्यादयः, तद्दर्शी व्युत्पित्सुस्तत्संपत्तिश्राविणः पुरुषस्य मुखविकासदर्शनादिप्रक्रियया व्युत्पद्यत इति किं नोपपद्यते ? प्रियान्तरस्मृत्यादिभिरपि मुखे विकासः संभवतीति चेत्, तथैव स्वयं तदधीनप्रयोजनान्तरस्मरणादिनापि गवानयनकर्तव्यताबोधः संभवेत् ।
आसत्ति विशेषवशादनेकप्रयोगानुगतेश्च व्यवस्थेति चेत्, तुल्यम् ।
तथापि तत्तत्प्रियानुबन्धिसुलग्नजन्मसुखप्रसवस्वादुवाक्त्वादिहर्षहेत्वर्थान्तरसंभावनया विशेषो दुर्निश्चयः इति चेन्न, गवानयनेपि वत्ससंयोजनक्षीरसंपादनादिकर्तव्यताबोधकेपि वाक्ये तदर्थगवानयनसंभवाद् गामानमेत्यादिवाक्यं गवानयनकर्तव्यतैकबोधकमिति कथं निश्चिनुयात् ? अन्वयव्यतिरेकमहिमवशाद् दृष्टानुग्रहाच्चेति चेत्, तुल्यम् ।
तदेवं पुत्रजन्मवाक्योदाहरणसमीकारस्य मन्दमतीनां दुरारोहत्वात् तदुपेक्षणेन स्पष्टतरव्युत्पत्तिप्रकारो यादृच्छिको बुद्धिपूर्वश्च भाष्यकारैर्दर्शितः; तदत्र लिख्यते--- "एवं किल बालाः शब्दार्थसंबन्धमवधारयन्ति; मातापितृप्रभृतिभिरम्बातातमातुलादीन् शशिपशुनरमृगपक्षिसरीसृपादींश्च एनमवेहि, इमं चावधारय, इत्यभिप्रायेणाङ्गुल्या निर्दिश्य निर्दिश्य तैस्तैः शब्दैस्तेषु तेषु बहुशः शिक्षिताः शनैः शनैस्तैरेव शब्दैस्तेषु तेष्वर्थेषु स्वात्मनां बुध्द्युत्पत्तिं दृष्ट्वा शब्दार्थयोः संबन्धान्तरादर्शनात् सङ्केतयितृपुरुषाज्ञानाच्च तेष्वर्थेषु तेषां शब्दानां प्रयोगो बोधकत्वनिबन्धन इति निश्चिन्वन्ति ।
पुनश्च व्युत्पन्नेतरशब्देष्वस्य शब्दस्यायमर्थ इति पूर्ववृद्धैः शिक्षिताः सर्वशब्दानामर्थमवगम्य परप्रत्यायनाय तत्तदर्थावबोधि वाक्यजातं प्रयुञ्जते ।
प्रकारान्तरेणापि शब्दार्थसंबन्धावधारणं सुशकम्---केनचित् पुरुषेण हस्तचेष्टादिना ऽपिता ते सुखमास्ते, इति देवदत्ताय ज्ञापयऽ" इति प्रेषितः कश्चित् तज्ज्ञापने प्रवऋत्तः ऽपिता ते सुखमास्तेऽ इति शब्दं प्रयुङ्क्ते; पार्श्वस्थोन्यो व्युत्पित्सुर्मूकवच्चेष्टाविशेषज्ञः तज्ज्ञापने प्रवृत्तमिमं ज्ञात्वानुगतः तज्ज्ञापनाय प्रयुक्तमिमं शब्दं श्रुत्वा, अयं शब्दस्तदर्थबुद्धिहेतुरिति निश्चिनोतीति कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः" इति ॥
न्या. प. श 35 अत्र पिता ते सुखमास्त इति वाक्यस्य स्थाने अपवरके दण्डः स्थितः इत्युदाहरणान्तरमात्रमन्यत्रोक्तम् ।
अतः सिद्धासिद्धेप्याद्यव्युत्पत्तिः ।
भवतु वा प्रथमव्युत्पत्तिः कार्य एव, तथापि प्रयोगान्वयव्यतिरेकवशादेव शब्दशक्तिर्विवेचनीया ।
प्रयुज्यन्ते च सिद्धपरा एवाविवक्षितकर्तव्यैः शब्दाः; यथा--- कोसौ राजा ? कौरवः ।
कौतुकमात्रादेव ह्यत्र प्रश्नः, प्रतिवचनं च तदनुविधाय्येव ।
अतो यथा पदानां प्रातिस्विकी शक्तिः सिद्धे कार्येपीति यथासंभवं निष्कृष्यते, तथा तात्पर्यमपि, यथायोगमेव व्युत्पत्त्युपायत्वेपि च कार्यस्य सर्वशब्दतात्पर्यविषयत्वायुक्तेः ।
कार्यवाक्येपि प्रवर्तकत्वादिलक्षणं च प्राधान्यमपूर्वस्य मृग्यम्, सुखदुःखाभावाभ्यामतिरिक्तस्य स्वतः स्वस्मिन् प्रवर्तकत्वायोगात्, व्युत्पत्तिदशायामप्यसुखरूपस्यानयनादेरन्यशेषतयैव प्रवृत्तिशेषत्वावगमात् ।
अतः सुखे दुःखनिवृत्तौ वा साक्षात् कार्यत्वबोधः; तदर्थतया तत्साधने ।
अपेक्षितत्वेन च साधनवत् साधनसाधनेपि कार्यताबोधोपपत्तिः ।
न च सुखादित्वमपूर्वस्य; न च तत्साधनतया तत्प्रवर्तकत्वमभ्युपगतम् ।
अभ्युपगमेपि लौकिकसेव्यप्रीत्येव देवताप्रीत्यैव श्रुत्यादिसिद्धया कालान्तरभाविफलसिद्धौलिङ्वाच्यतया स्वरूपेण वा तत्कल्पनायोगात्, रात्रिसत्रादिनयाच्च ।
प्रतिष्ठादेशविशेषशतयातनासाधनत्वघृताञ्जनच्छागादिपरिग्रहवत् विध्यपेक्षितं प्रतीतं च देवताप्रीत्यात्मकमेवापूर्वं लिङ्वाच्यतया स्वरूपेण वा द्वारमुपकल्प्यताम्; किमन्येन ? ॥
न्या. प. श. 36 यच्च जल्पन्त्यर्धलोकायतिकाः--- "विग्रहो हविरादानं युगपत् कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते" ॥
इति, तदपि जैमिनिहृदयानभिज्ञतानिबन्धनम्; न हि स्वतः प्रमाणाम्नायस्मृतिपुराणादिसिद्धाः साधकबाधकप्रमाणागोचराः देवताविग्रहादयो हातुं युक्ताः ।
न चायोग्येष्वनुपलम्भमात्रेण बाधः शङक्यः, अतिप्रसङ्गित्वात्, साक्षाल्लोकायतिकवादप्रसङ्गात् ।
स्तुत्या विधिशेषभूतेष्वप्यर्थवादेषु तदर्थतयैव स्वार्थमभिदधानेषु न वाक्यभेदादिदोषः ।
स्तुत्यादिपरत्वेपि न मुख्यार्थबाधः, स्वार्थबाधकाभावो स्वार्थप्रहाणायोगात्; न च सर्वा स्तुतिरयथार्था; न चासता गुणेन कथितेन स्तुतिसिद्धिः ।
यत्र तु मुख्यार्थबाधः, तत्राप्यैपचारिकं किञ्चिदालम्बनमभिप्रेतम्; अन्यथा विडम्बनमात्रमेव स्यात् ।
न चोपच्छन्दनमात्रता, तज्ज्ञाने पुंसः प्रवृत्त्यनुपकारात्, निरूपकस्य च तदज्ञानायोगात्, अन्यथा भ्रान्तिमूलप्रवृत्तित्वप्रसङ्गात्; समन्वयाधिकरणनयाच्च सिद्धैकपराः सन्ति भागाः ।
तदनुधाविनश्चेतिहासपुराणादयः ॥
न्या. प. श. 37 नन्वर्थवादाधिकरणे "विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" इति सर्वेषामर्थवादानां विध्येकवाक्यत्वमुक्तम्; समन्वयसूत्रे तु कथं तद्विरुद्धोक्तिः ? मैवम्; अर्थवादाप्रामाण्यपूर्वपक्षप्रतिक्षेपाय विध्येकवाक्यतया प्रामाण्यं संभवतीत्येतावन्मात्रमर्थवादाधिकरणे स्थापितम् ।
विध्येकवाक्यत्वे ब्रह्मस्वरूपतात्पर्याभावपूर्वपक्षस्तु अपवरकनिधिसद्भावादिवाक्यवत् स्वतःप्रयोजनभूतार्थविषयवाक्यानां भिन्नवाक्यतयापि प्रामाण्यमुपपाद्य समन्वयसूत्रे प्रतिक्षिप्यत इति विरोधाभावात् ।
अपि चौत्सर्गिङ्कमापवादिकञ्च तं तमर्थं प्रतिपादयत्सु वाक्येषु विषयव्यवस्थया विरोधशमनं व्याकरणादिष्वपि दृष्टमिति ।
अत एव ब्राह्मणशेषा अर्थवादा इत्यार्षमपि वाक्यमौत्सर्गिकविषयमवगन्तव्यम् ।
या तु शब्दभावनैव लिङाद्यर्थ इति कौमारिलकुसृतिः, सा तु प्रतीतिविंसवादादिप्रतिहता; न हि विधिवाक्यश्रावी पुरुषः, लिङादि स्वव्यापारमभिधत्ते, अतो मया प्रवर्तितव्यमिति मन्यते ।
न च यागादिस्वरूपे लिङादिव्यापारे च केनचिद् वाक्येन समुच्चित्य प्रतिपादितेपि कश्चित् प्रवर्तमानो दृश्यते ।
लिङादेश्च ज्ञायमानत्वलक्षणव्यापारमात्राच्छक्तिलक्षणव्यापाराद्वा प्रवर्तकत्वे व्युत्पत्तेः प्रागपि ततः प्रवृत्तिप्रसङ्गः; व्युत्पत्तेरपि सहकारित्वे तत्सापेक्षाया निर्विषयायास्तस्या असंभवात् तद्विषयो वाच्यः ।
न च स्वव्यापारे लिङादिः क्वचिद् व्युत्पन्नः ।
सर्वेषामपि शब्दानां स्वव्यापारातिरिक्त एव ह्यर्थे व्युत्पत्ति ।
ये चाभिधादयः शब्दाः, तेपि न शृङ्गग्राहिकया स्वव्यापारमभिदधति; अपि तु शब्दमात्रव्यापारे तत्प्रवृत्तेः सामान्योपाधिक्रोडीकारेण स्वव्यापारस्यापि निवेशः; अत एवाभिधादिशब्दाभिधेयस्य निमित्तस्य च सामान्यतः प्रतिपन्नत्वाद् व्युत्पत्त्युपपत्तिः ।
लिङादेस्तु स्वव्यापारे प्रतीते तत्र व्युत्पत्तिः स्यात्; तत्प्रतीतिर्व्युत्पन्नेन चेत्, अन्योन्याश्रयः; अव्युत्पन्नेन चेत्, अतिप्रसङ्गः, इति ।
न चेष्टसाधनत्वमात्रं लिङादिबोध्यम्, ऽतवेष्ट साधनमिदम्, अतेः कुरुऽ इति सहप्रयोगदर्शनात् ।
न चादरादिनिबन्धना पुनरुक्तिरियम्, प्रतीतेरतथात्वात्, हेतुसाध्यनिर्देशायोगाच्च ।
ऽकर्तव्यमिदम्, अतः कुरु इत्यपि दृश्यते, इति चेन्न, ब्राह्मणस्य कर्तव्यमिदम्, अतस्तवापि कर्तव्यमितिवत् सामन्यविशेषादिविवक्षाया अविरोधात्, अत्यन्तैकार्थविवक्षायां तु तत्रापि प्रयोगायोगात् ।
अत एव आप्तस्य वक्तुरिच्छामात्रं लिङाद्यर्थः, इति प्रत्युक्तम्; आप्तस्येष्टमिदम्, अता ममेदं कार्यम् इति प्रवर्तमानपुरुषाभिलापविशेषदर्शनात् ।
न च लिङार्थत्वादेव निमन्त्रणादिवद् विधिरपि वक्त्रभिप्रायमात्रमिति वाच्यम्, संभावनादिभिर्विशेषविहितैश्चानैकान्त्यात्; एकशब्दवाच्यतामात्रेणैकत्वे चानेकार्थशब्दभङ्गप्रसङ्गे दृष्टान्तोपि न सिध्येत् ।
यद्यपि परमते ह्युदयनोक्ता निषेधानुपपत्तिः, तथापि न सास्मत्पक्षमवगाहते, कर्तव्यताया विध्यर्थत्वे न कर्तव्य इति नञन्वयाविरोधात्; कर्तृव्यापारसाध्यत्वमेव च कर्तव्यत्वम्; तथाहि वेदार्थसङ्गहे "लिङादेः कोयमर्थः परिगृहीतः"ऽ इति प्रश्नपूर्वकं प्रत्युक्तम्--- "यज देवपूजायाम्, इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोभिदधतीति न किञ्चिदनुपपन्नम्, कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः; भूतवर्तमानतादिमन्ये वदन्ति, लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति" इति ।
भाष्ये चाद्यसूत्रे---"अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते, धात्वर्थस्य च यागादेरग्न्यादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात् परमपुरुषात् फलसिद्धिश्चेति ऽफलमत उपपत्तेःऽ इति प्रतिपादयिष्यते" इति ।
अत्र कर्तृव्यापारसाध्यतामात्रमिति निष्कृष्टार्थप्रदर्शनायोक्तम्; प्रतिपत्तिप्रकारस्तु यजेतेत्यादौ स्वव्यापारसाध्ययागादिविशिष्टः इति कर्तृप्राधान्येनैव ।
यथोक्तं दीपे कर्त्रधिकरणै--- "यजेत, उपासीत, इति हि कर्तरि लकारः, अतः कर्तारमेव बोधयति शास्त्रम्" इति ।
उक्तं च वेदार्थसंग्रहेपि-- "स्वर्गकामो यजेत, इत्येवमादिषु लकारवाच्यकर्तृविशेषसमर्पकाणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पकत्वं शब्दानुशासनाविरुद्धम्" इति ।
यद्यपि दीपग्रन्थः पुंसः कर्तृत्वं श्रुतिसिद्धमित्यत्रैव तत्परः, तथापि धात्वर्थसाध्यतापरलिङादिष्वपि कर्तप्रधानतया वृत्तिं प्रदर्श्य सांरव्यान् प्रतिक्षिपतीति तादर्थ्यात् तत्रापि तत्परत्वमेव ग्राह्यम् ।
पचतीत्यादौ पाकं करोतीत्यादिनिपुणव्याक्रियाश्च कृतिकर्मतयैव धात्वर्थस्यान्वयं व्यञ्जयन्ति ॥
न्या. प. श. 38 श्रीगीताभाष्ये चैतद् व्यञ्जितम्--- ऽयुध्यस्वऽ इत्यत्र ऽयुद्धाख्यं कर्मारभस्वऽ इति व्याख्यानात् ।
व्याकरणात् करणतया च धात्वर्थस्यान्वये कथं क्रियाविशेषणस्य कर्मविभक्त्यन्तता ? न हि विशेष्येण विशेषणं भावयेदित्यन्वेति, फलस्यापूर्वस्य वा भवद्भिर्भाव्यत्वाभ्युपगमात्; वर्तमानव्यपदेशादिषु च साध्यान्तराभावेपि न विशेषणमात्रं साध्यम्, न च प्रथमान्तं कियाविशेषणम्; करणपक्षेपि धात्वर्थेनानन्वयप्रसङ्गात्, अनन्वितविशेषणताद्यनुपपत्तेः ।
न चाकर्मविभक्त्यन्तेन धातुना कर्मविभक्त्यन्तस्य कथं सामानाधिकरण्यमिति वाच्यम्, करणविभक्त्यन्तेनाप्यसामानाधिकरण्यप्रसङ्गात्, न च प्रपवतीयमाने कर्मत्वेनान्वये कश्चिद्दोषो दृश्यते, प्रियङ्गुकामः कृषिं कुर्यादितिवत् स्वर्गकामो यागं कुर्यादिति वाक्यार्थेपि विरोधाभावात्, तद्वदेवार्थतस्तस्य तदुपायत्वसिद्धेः केनेति करणाकाङ्क्षाया अपि शमनात् ।
नामधेयगततृतीयान्वयोपि नावश्यं सामानाधिकरण्येन, तत्तन्नामकैः कर्मविशेषैः देवतापूजां कुर्यादित्येवंपरत्वेपि स्वरसान्वयात्, सामान्यविशेषरूपेण व्यधिकरणनिर्देशोपपत्तेः ।
चाटुवादेन राजानं प्रीणयेदितिवाद् यागं कुरुष्वेत्यादौ न कृञर्थस्यापि साध्यत्वप्रसङ्गः, तस्यैव कर्तृव्यापाररूपत्वे तत्साध्यत्वायोगात्, प्रकृतिप्रत्ययोरन्यतरस्य कृतावुदासीनत्वात्, एकः, द्वौ, बहवः, इत्यादिवत् ।
तत्रापि यदा कर्मतां विवक्षति, तदापि कर्तृव्यापारान्तरमभिप्रेत्य वा, भेदोपचारेण वा निर्वाहः; यथा---उदकाहरणक्रियां करोतीत्यादौ ।
न च तावतानवस्था, प्रतीत्यनारोहेण व्यवहारस्य पर्यवसितत्वात् ।
अग्निहोत्रं जुहोतीत्यादिप्रयोगश्चास्मत्पक्षानुकूलः ।
अतः, किं, केन, कथमिति भवत्प्रोक्तवत्, किमर्थं, किं, केन, कथमित्याकाङ्क्षाचतुष्टये स्वर्गादिना किमर्थमित्याकाङ्क्षापूरणम्, देवतां प्रीणयेदिति किमित्याकाङ्क्षानशान्तिः, ज्योतिष्टोमेनेत्यादिनामधेयादिभिः केनेत्याकाङ्क्षा पूर्यते, कथमित्याकाङ्क्षापूरणं तु भवतामस्माकं च तुल्यमेवेति शाब्दोयं पन्थाः ।
अतस्तत्तदधिकारिणः स्वसाध्यधात्वर्थविशिष्टताबोधिनि यजेतेत्यादौ तत्तद्धात्वर्थानुष्ठाने फलम् अननुष्ठाने प्रत्यवायश्च सर्वप्रशासितुः सङ्कल्पाद् भवतीत्यपि वाक्यादवगतम् ।
अवान्तरदेवताबुद्धिवृत्तिविशेषस्तु सद्वारकयजते श्राद्धभोजिपुरुषप्रीत्यादिवदानुषङ्गिकः, अन्यथा कल्पान्तरादिषु प्रलीनप्राचीनदेवतागणेषु पूर्वकल्पानुष्ठितकर्मफलानुत्पत्तिप्रसङ्गात् ।
अत एव ह्येकस्यैव श्रुतिराज्ञा; अन्येषां चाराधकत्ववदाराध्यत्वमपि तदायत्तमिति ।
नारायणार्यैस्त्वेवमुक्तम्--- "आप्तस्य हितकामस्य नियोगं केचिदूचिरे ।
भाष्यकारोपि भगवानेतदेवान्वमन्यत" ॥
इति ॥
अत्र च "स्वशासनावबोधि शास्त्रं च प्रदिश्य" इति भाष्यमभिसंहितम् ।
इदं च विधिनिषेधानुवर्तनातिवर्तनप्रयुक्तनिग्रहानुग्रहवचनबलात् सिद्धम् ।
"श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही मद्भक्तोपि न वैष्णवः" ॥
इति ॥
ऽविधिः प्रेरणम्ऽ इति च व्याकारि वैयाकरणैः ।
प्रेरणं च शासनमेव ।
तत्त्वरत्नाकरकारैश्चैवमुक्तम्--- "क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुर- प्रसादो वा कर्तुः फलद इति रङ्गेश कुदृशः ।
त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥
" नित्यनैमित्तिकादिविधिभेदेषु च प्रशासितुरभिप्रायविशेषाः व्यञ्जिताः--- "आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः सोनुज्ञा शठचित्तशास्त्रवशतोपायोभिचारश्रुतिः ।
सर्वा यस्य समस्तशासितुरहो श्रीरङ्गराजस्य ते रक्षाकूतनिवेदिनी श्रुतिरपि त्वन्नित्यशास्तिस्ततः" ॥
इति ।
अपि च वेदार्थसङ्गहेप्युपात्तं द्रविडभाष्यम्--- "स्वशासनानुवर्तिनो ज्ञात्वा कारुण्यात् स्वभावाच्छ्रद्धयैत् विद्वान् कर्मदक्षः" इति ।
अनन्तरं चायमेवार्थो भगवद्गीतायामपि दर्शितः--- "ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥
इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्दन् पुनरपि स्वज्ञानुपालनमकुर्वतामासुरप्रकृत्यन्तर्भावमभिधायाधमा गतिश्चोक्तेतिर् इदृश एव विधिशब्दार्थो वेदान्तिभिः स्वीकृतः" इति ।
परेपि केचिदन्ववादिषुः ।
अतो मूलस्कन्धीकृतनियोगं धात्वर्थस्य कर्तृव्यापारसाध्यत्वं वा निर्विषयप्रेरणासंभवात् तत्साध्यत्वपर्यन्तं प्रेषणमेव वा लिङाद्यसाधारणार्थः, इति स्थिते "विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्" इति समभिव्याहृतनिमन्त्रणादिसमानयोगक्षेमतया विधिशब्दार्थतया व्याकृतस्य प्रेषणस्यैव लिङादिशब्दवाच्यत्वं युक्तमिति ।
अन्यथापि प्रेषणमन्तर्गतमेवेत्यपरे ॥
न्या. प. श. 39 इदं च विधिवाक्यानामीश्वरशासनात्मकत्वं जैमिनिनापि सूचितमेव--- "चोदनालक्षणोर्थो धर्मः" इति ।
चोदनाशब्दो हि चोदकं कञ्चित् पुरुषं सूचयति ।
अहृदयादपि शाबरोदाहरणादिदं व्यज्यते--- "आचार्यचोदितः करोमीति हि दृश्यते" इति ॥
न्या. प. श. 40 एवं चोदनाशब्दसूचितश्च पुरुषः स्ववाक्येन प्रागेव विशेषतो दर्शितः ।
अपिच औत्पत्तिकसूत्रे "तस्य ज्ञानमुपदेशः" इत्यसूत्रयत् ।
उपदेशोपि हि उपदेष्टारमाक्षिपति ।
"तत्प्रमाणं बादरायणस्य" इति सूत्रखण्डे च स्वस्य स्वाचार्यभूतबादरायणसमानाभिप्रायत्वं व्यञ्जितम् ।
स च बादरायणो जैमिनिं स्वशिष्यमभ्युपगतेश्वरादितत्त्वं "साक्षादप्यविरोधं जैमिनिः" इत्यादिषु बहुषु सूत्रेष्वदर्शयत् ।
प्रतिक्षेपस्तु क्वाचित्कः अन्यपरोक्त्यापातप्रतीतार्थमन्दमतिमोहनिरासार्थो वा क्षुद्रप्रमादमात्रस्याप्युद्धारार्थो वेति न प्रधानविरोधकल्पनलिङ्गम् ।
अर्थवादाधिकरणे च "विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः" इति प्रेरणरूपविधिप्रतिपादकलिङाद्यवयवद्वारा समुदायभूतं विध्युद्देशवाक्यं लक्षयित्वा तदेकवाक्यत्वमर्थवादानां वदन् कृत्स्नस्य वेदस्येश्वराज्ञारूपविधिप्रतिपादकत्वं तद्वाक्यकण्ठोक्तमसूचयत् ।
एवमन्यत्रापि भाव्यम् ॥
न्या. प. श. 41 एवं श्रुतिस्तावदीश्वराज्ञा, तदनुविधानात् स्मृतिरपि ।
ब्राह्मणमन्त्रार्थवादमया ह्यनन्ता वेदाः सङ्कीर्णा विकीर्णाः क्वचित् कदाचिदुत्सन्नाश्च ।
तत्र कृत्स्नवेदिनो मन्वादयस्तत्तद्देशकालविशेषेष्वकृत्स्नवेदिनां तत्त्वानुष्ठानविप्लवप्रशमनाय स्वानुभूतान् वेदार्थान् यथावन्निबध्नन्ति; अतस्तन्मूलोनादिवाचामर्थनिर्णयः ।
श्रुतिस्मृतिविरोधे तु स्मृत्या मूलान्तरानुमानादनुष्ठानविकल्पं केचिदाहुः ।
सर्वेषां गुणत्रयवतामाप्ततमत्वेपि क्वाचित्कभ्रमसंभवाच्छ्रुत्या स्मृतिबाधः, इत्यपरे ।
तत्त्वविषनये तु विरोधे बाध एव, आन्यपर्यंवा, वस्तुनि विकल्पासंभवात् ।
स्मृतिद्वयविरोधे तु परिग्रहतारतम्यादिभिर्व्यवस्था ।
न च क्वचित् स्मृतीनामप्रामाण्ये सर्वत्रानाश्वासः, बाधकादर्शनात्, कारणदोषकॢप्तेश्च नियतलिङ्गाभावात्, संवादभूयस्त्वादिभिः परिग्रहान्यथानुपपत्त्या च श्रुतेरेव मूलत्वकल्पनोपपत्तेः; अन्यथा पौरुषेयवाक्यस्य सर्वस्याप्रामाण्यप्रसङ्गे विलीनमागमेन ।
न चैतन्नानिष्टमिति वक्तुं शक्यम्, पित्राद्याप्तवाक्यं प्रमाणीकृत्य चावार्कस्य प्रवृत्तिदर्शनात् ।
न च क्वाचित्कसंवादमात्रेण बाह्यागमेष्वपि विस्रम्भावकाशः, प्रत्यक्षश्रुतिविरोधभूयस्त्वेन वैदिकपरिग्रहाभावेन वेदबाह्यत्वप्रसिद्ध्या वेदप्रतिक्षेपाच्च वेदाख्यमूलकल्पनस्याशक्यत्वात् ।
न चालौकिकं प्रत्यक्षादिमूलत्वसंभवः ।
योगजसाक्षात्कारमूलत्वकॢप्तिरपि वेदाविरुद्धस्थले स्यात्; न च तत्रापि निश्चयः, विपरीतोपलम्भस्यापि संभवादिति ।
ततश्च वेदमूलाः स्मृतयस्निविधाः---धर्मशास्त्रेतिहासपुराणभेदात् ।
तत्राद्ययोरदूरविप्रकर्षादेकविद्यास्थाननिवेशः ।
अत्र चाधिकृतानधिकृतविभागेन बलाबलनियतिराभासाह्निके दर्शिता; पुराणेष्वपि सात्त्विकराजसादिविभागश्च ॥
न्या. प. श. 42 यानिपुनः सांख्ययोगपाशुपतपञ्चरात्राणि, तान्यपि धर्मशास्त्रभेदा एव;परिशुद्धात्मचिन्तनरूपज्ञानयोगप्रदर्शनाधिकृतं शास्त्रं सांख्यम्; समाधिपर्यन्तकर्मयोगनिष्ठं शास्त्रं योगः; प्रतिबुद्धेतरविषयपशुपतिभजनप्रतिपादकं पाशुपतम्; प्रतिबुद्धविषयभगवदनन्यभजनोपदेशप्रवृत्तं तु शास्त्रं पञ्चरात्रम् ।
एतानि च क्वचित् क्वचिदंशे परस्परोपजीवीनि ।
परस्परविरोधे तु वेदानुसारेण बलाबलव्यवस्था, वेदविरुद्धे त्वंशे बाधः ।
प्रमादस्यानीश्वरेषु सर्वेषु संभवात् ।
विप्रलम्भस्य तु असुरादिव्यामोहनोद्यते साक्षादीश्वरे ऽपि; यथोक्तं भगवतैव--- "त्वं हि रुद्रप महाबाहो मोहशास्त्राणि कारय ।
अल्पायासं दर्शयित्वा फलं शीघ्रं प्रदर्शय ॥
अहं मोहं करिष्यामि यो मनं मोहयिष्यति ।
" इति ॥
अतो यत् सांख्यर् इश्वरानधिष्ठितप्रधानादिप्रतिपादनम्, यच्चेश्वरमभ्युपगम्य केवलनिमित्तकारणत्वप्रतिफलनकल्पैश्वर्यवर्णनं योगे, यच्च पाशुपते परावरतत्त्वव्यत्ययवेदविरुद्धाचारादिकल्पनम्, तत् सर्वं व्यपोह्य शिष्टे ःंशे प्रामाण्यं ग्राह्यम् ।
न चैतत् तुषतण्डुलविभागवदल्पज्ञैः शक्यम् ।
अतो हि शारीरके त्रयाणां निरासः ।
पञ्चरात्रं तु कृत्स्नं श्रुतिवत् स्मृतिवद्वा प्रमाणम्, प्रत्यक्षश्रुत्यादिविरोधाभावात् ।
महाभारते च आप्ततम मानवधर्मशास्त्रस्यापि तन्मूलत्वोक्तेरत्यादरेण व्यासदिपरिग्रहविशेषादीश्वरदयामूलत्वेन च कारणदोषप्रसङ्गाभावात् ।
"वेदान्तेषु यथासारं संगृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम्" ॥
इति च तत्रैव व्यक्तेः ।
वेदप्रामाण्याङ्गीकारतदर्थोक्तिभूयस्त्वतद्वैशद्यहेतुत्ववचनसाधुपरित्राणार्थत्वसत्त्वोत्तरनारदादिश्रोतृकत्वादिनिबन्धनस्पष्टप्रामाण्यत्वात् ।
न च विप्रलम्भार्थं तथा निबन्धः, अन्यत्रापि प्रसङ्गात्;"अधीता भगवन् वेदाः" इत्यादेर्दुर्ग्रहत्वमात्रतात्पर्येण वेदनिन्दादिरूपत्वाभावात् ।
निन्दारूपत्वेप्युदितहोमनिन्दावन्निन्दितेतरप्रशंसनप्रवृत्तेः ।
"सङ्कर्षणो नाम जीवो जायत" इत्यादेस्त्ववतारादिगोचरत्वस्य तत्रैव सिद्धेः ।
शरीरके च--- "उत्पत्त्यसंभवात्""न च कर्तुः करणम्" इति सूत्रद्वयेन पूर्वपक्षं कृत्वा "विज्ञानादिभावे वा तदप्रतिषेधः" "विप्रतिषेधाच्च" इति तत्प्रामाण्यप्रतिषेधः परिहृतः ।
तथा निर्मूलत्वासत्परिग्रहसत्परिग्रहाभाववौदिकसंस्कारवर्जनावैदिकसंस्कारविधानविद्यास्थानपरिगणनाभावक्षुद्रविद्याबाहुल्यादिमन्दशङ्कानां भगवद्यामुनमुनिभिः परिहारः प्रपञ्चितः इति नेह प्रतन्यते ॥
न्या. प. श. 43 एवं साक्षादीश्वरदयामूलत्वान्मन्वादिनिबन्धनेभ्योस्यातिरेकः ।
तेषां श्रुतिविरोधे सति बाध्यत्वमपि संभवेत् ।
गुणत्रयवश्यतया कादाचित्कभ्रमादिसंभवात् ।
स्मृत्यादीनां हि श्रुतिमूलतयैव प्रामाण्यमिति भाष्येप्युक्तं "तदुपर्यपि" इत्यधिकरणे-- "सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मंशास्त्रेतिहासपुराणेषु" इति ॥
न्या. प. श. 44 तत एव चैषां विप्रकीर्णशाखामूलत्वं सिद्धान्तः, इत्यपि सूचितम् ।
क्वचित् कदाचित् केषाञ्चिच्छाखाविशेषाणामुच्छेदः; ते च पुनर्व्यासादिभिः क्वचित् कदाचित् प्रवर्त्यन्ते, इत्येतावता उच्छिन्नशाखामूलत्वमस्तु ।
उक्तं च भगवता आपस्तम्बेन--- "तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते" इति ।
मन्वादिवचनप्रामाण्यं न्यायमन्तरेणापि श्रुत्यैव सिद्धम्--- "यद्वै किञ्च मनुरवदत् तद्भेषजम्" इत्यादिभिः ।
एवं शिष्टाचारस्यापि--- "यथा ते तत्र वर्तेरन्, तथा त्रत्र वर्तर्थोः" "यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि" इत्यादिभिः ।
स्मृतिश्च--- "स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनाम्" इत्यादि ।
श्रुत्यैव धर्मनिर्णये संभवति किं धर्मशास्त्रेण ? इत्याशङ्क्याह मरीचिः --- "दुर्बोधा वौदिकाः शब्दाः प्रकीर्णत्वाच्च ये खिलाः ।
तज्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः" ॥
इति सत्यपि धर्मशास्त्रे गृह्यापेक्षां दर्शयति देवलः--- "मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारो गृह्यकाराः स्वमन्त्रतः" ॥
इति ।
अतो धर्मशास्त्रगृह्यादिसापेक्षत्वं वेदार्थनिर्णयस्य ।
विरोधे च यथायोगं बलाबलव्यवस्था सिद्धा ।
भगवद्धर्मशास्त्रस्य तु पञ्चरात्रस्य श्रुत्यादिविरोधे षोडशिग्रहणादेरिव देशकालाधिकार्यवस्थाविशेषविषयतया विकल्प एव, श्रुतेरिवास्यापि दोषसंभावनाविरहादिसिद्धेः ।
आहुश्चैवमभियुक्ताः--- "वेदे कर्त्राद्यभावात्" इत्यारभ्य, "तस्मात् सांख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात्" ॥
इति ।
अन्यत्र च--- उपनिषदि तु बह्व्यां व्यावघोष्यामदोष- प्रतिहतगुणराशिर्घुष्यते तार्क्ष्यकेतुः ।
श्रुतिरपि तदुपज्ञैः पञ्चरात्रैर्विकल्पं न लभत इति सूक्तं भाष्यकृद्यामुनार्यैः" ॥
इति ।
तदेतत् यामुनाचार्यैरागमप्रामाण्ये संभावितसमस्तपूर्वपक्षयुक्तिनिराकरणेन ।
प्रपञ्चितम् ।
तदनुसारेणैव भाष्यकारैः श्रीपाञ्चरात्राधिकरणं व्याख्यातम् ।
"श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
" इत्यादि वचनं तु त्रय्यन्तमूलतया एकायनश्रुतिमूलतया च योज्यम् ।
न चात्र वेदत्वे सन्देग्धव्यम्, "यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
महतो वेदवृक्षस्य मूलभूतो महानयम् ॥
स्कन्धभूता ऋगाद्यास्ते शाखाभूतास्तथा मुने ।
" इत्यादिवचनात् ।
तथा ऋग्वेदपाठे पठितम्--- "व्रतमेतत् सुदुश्चरम्" इति संवादप्रदर्शनात्, वेदशाखाव्यासदशायां निरुक्तशाखाया अपि गणितत्वात्, भगवच्छास्त्रसारभूतसात्त्वतपौष्करादिषु रहस्याम्नायविधाने "एकायनीयशाखोक्तैर्मन्त्रैः परमपावनैः ।
" इत्यादिभिः तच्छ्रुतित्प्रतिपादनात् ।
अत्र भगवद्यामुनमुनिभिरेवोक्तो ग्रन्थो लिख्यते--- "यदप्युक्तम्--- ऽगर्भाधानादिदाहान्तसंस्कारान्तरसेवनात् भागवतानाम ब्राह्मण्यम्ऽ इति, तत्राप्यज्ञानमेवापराध्यति, न पुनरायुष्मतो दोषः; यत एते वंशपरम्परया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते, ये पुनः सावित्र्यनुवचनप्रभृति त्रयीधर्मात्यागेन एकायनश्रुतिविहितानेव चत्वारिंशत्संस्कारान् कुर्वते, तेपि स्वशाखागृह्योक्तधर्मं यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते, अन्येषामपि परस्परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात्; सर्वत्र हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समयाचारा उपलभ्यन्ते ।
यद्यपि सर्वशाखाप्रत्ययमेकं कर्म, तथापि न परस्परविलक्षणाधिकारिसम्बद्धा धर्माः क्वचित्, समुच्चीयन्ते ।
विलक्षणास्त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यस्त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्येकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्मणाः, इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननुष्ठानमब्राह्मण्यमापादयति ।
यथा च एकायनशाखाया अपौरुषेयत्वम्, तथा काश्मीरागमप्रामण्यं एव प्रपञ्चितमिति नेह प्रस्तूयते ।
प्रकृतानां तु भागवतानां सावित्र्यनुवचनादित्रयीसम्बन्धस्य स्फुटतरमु पलब्धिर्न तत्त्यागनिमित्तव्रात्यत्वादिसन्देहं सहते" इति ॥
न्या. प. श. 45 चतुर्विधं चेदं पञ्चरात्रम्--- आगमसिद्धान्तः, दिव्यसिद्धान्तः, तन्त्रसिद्धान्तः, तत्रान्तरसिद्धान्तश्चेति ।
चतुर्विधं चेदं वेदमूलभूतांशस्य उपबृंहणम्; तदभिप्रायेण ह्युक्तं महाभारते--- "महतो वेदवृक्षस्य मूलभूतो महानयम् ।
" इत्यादि ।
चतुर्णां चैषां लक्षणादिकं श्रीपौष्करादिषु भगवतैव दर्शितम् ।
यच्च तेषु चतुर्षु साधारण्यासाधारण्यार्चोपसंहार्यानुपसंहार्यादिकं वक्तव्यम्, तत् सर्वं श्रीपाञ्चरात्ररक्षासिद्धान्तव्यवस्थायां सर्वपरामर्शेन साधितमस्माभिरिति तत्रैव तद्विस्तरः सात्त्वतधर्मगोप्तुरनन्यैरनुसन्धेय इति नात्र प्रब्रूमः ।
एवं स्थिते केचिद् बाह्लीकप्रायाः आगमबाह्याः श्रीमद्वैखानसप्रामाण्ये विशेरते ।
तत्र तावत् कल्पसूत्रं नाप्रमाणम्, इतरवदेव कल्पसूत्रत्वात्, तत्कर्तुश्च कल्पसूत्रकारत्वप्रसिद्धेः, वेदाविरुद्धत्वात्, वैदिकमन्त्रैरेव सकलधर्मविधानात्, सूत्रान्तराणामपि कुण्डसन्निवेशलक्षणादिषु क्वचित् क्वचित् तदुपजीवनात्, वर्णाश्रमधर्माणामनुकूलं नारायणपरत्वप्रतिपादनादेरपि सत्त्वमूलत्वेन प्रामाण्यैकहेतुत्वात्, "हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेष्वपि ।
ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु" ॥
इत्यादिना शौनकादिभिरपि तथैव विधानात्, वंशपरम्परया च वैखानसैरधीयमानतया विप्लवस्याप्यनवकाशत्वात् ।
अस्तु किमपि तत्, इदं तदिति किं नियाकममिति चेत्, इतरानुपलमः तदुपलम्भश्च, अन्यथा सर्वत्र श्रुतिस्मृत्यादीनां तथा तथा संशयप्रसङ्गात् ।
अस्त्विदमेव तत्, प्रमाणं च, तथापि भार्गवादिचतुष्कस्य कथं प्रामाण्यम् ? इति चेन्न, उक्तोत्तरत्वात्, महर्षिप्रणीतत्ववेदाविरुद्धत्वादेः समत्वात् ।
पञ्चरात्रविरोधोस्तीति चेन्न, तत्त्वे तदभावात्, कर्तव्यक्रियादिभेदस्यापि प्रतिनियताधिकारिविषयत्वेनैवोपपत्तेः, कल्पसूत्रप्रक्रियाभेदवत्, आगमदिव्यतन्त्रतन्त्रान्तररूपपञ्चरात्रावान्तरचतुष्कक्रियादिविभागवच्च ।
आश्वमोधिके श्रीवैष्णवधर्मशास्त्रे द्वितयमपि समप्रामाण्यतयोपात्तम् ।
द्वयोरपि परस्परप्रामाण्यम् "विष्णोस्तन्त्रं द्विधा प्रोक्तम्" इत्यादिषु व्यञ्जितम् ।
परस्पराक्षेपवचनानि तु इक्षुभक्षकृतिचिकीर्षुभिरसहिष्णुभिरुपक्षिप्तानि वा स्वशास्त्रप्रशंसार्थवादरूपाणि वेति न ततो विरोधः ॥
न्या. प. श. 46 ननु भार्गवादीनि न तावत् कल्पसूत्राणि, तथानभ्युपगमात्, अप्रसिद्धेः, अयुक्तेश्च, ।
न स्मृत्यन्तराणि, मन्वादिष्वपाठात् तद्वत् तत्प्रसिद्ध्यभावाच्चान च स्वतन्त्रतन्त्रान्तराणि, सांख्ययोगादिसहपाठादर्शनात्, वैखानसानुवर्तनाच्च ।
तत् कतमां विधामवलम्ब्यामीषां प्रामाण्यमुच्यते ? ।
मन्वत्रिभार्गवादिवत् नारदीयादिवच्च धर्मशास्त्रतयैव तेषामपि प्रामाण्यम्, अष्टादशादिपरिगणनस्य उपलक्षणतायाः प्रामाणिकैरभ्युपगमात् ।
स्मृत्यन्तरेषु देवोत्सवादिप्रपञ्चनं नास्तीति चेत्, मा भूत् प्रपञ्चनम्, स्वरूपं तावदनुज्ञातं तत्प्रपञ्चपराणाम् ।
तथापि जीवानामन्ततोन्योन्यवैषम्यमात्रस्य च सार्वत्रिकत्वान्निकृष्टाधिकारिकाणि तानीति चेन्न, तेष्वन्येषु च ब्राह्मण्यैकप्रधानत्ववचतात्, तथोपलब्धेश्च ।
कथं तेषां ब्राह्मण्यमिति चेत्, शान्तं पापम् ।
श्रवसी पिदधीमहि ।
तथापि वक्तव्यम् ।
दृश्यन्ते ह्येते वंशपरम्परया वेदमधीयाना वेखानससूत्रोक्तवैदिकसकलसंस्कारशालिनो वर्णाश्रमधर्मकर्मठा भगवदेकान्ता ब्राह्मणाः ।
नूनममीषां ब्राह्मण्यैककारणेन भागवतत्वेनैव विपरीतं बम्भ्रमीति ब्राह्मणगर्दभः; अन्यथा वैखानसकल्पस्यापि निरधिकारित्वेनाप्रामाण्यप्रसङ्गः ।
अस्तु तत्प्रामाण्यम्; सन्तु च देशान्तरे कालान्तरे वा तदधिकारिणः; अमी तु कतमे ? इति चेत्, देशान्तरादावप्येवं वक्तुं शक्यत्वात्; विपरीतं वा कस्मान्न स्यात् ?; एवं च सति सूत्रान्तरादिष्वपि कः समाश्वासः ? ।
वैखानसानां निकृष्टजातित्ववचनविवादाभ्यां सन्देहविषयत्वमितिचेत्, आप्तग्रन्थस्थतादृशवचनाभावात्; भावेप्येतेषां निकृष्टजातित्वे प्रमाणाभावात्; आगमप्रामाण्योक्तसात्वतादिसमाख्यानिर्वाहसमत्वात्; न ह्यनेकार्थः शब्दो नास्ति, न च शब्दैक्यादर्थैक्यम्, शब्दभेदेनार्थभेदो वा; अन्यथा विलीनं तृतीयाश्रमेणापि; विवादस्य तुभवादृशजिह्वास्पन्दमात्राधीनस्य सूत्रगोत्रादावपि सुशकत्वात् ।
इतः पूर्वं तावन्नास्तीति चेन्न, अस्यापि विवादस्यानादित्वायोगात्, ततः पूर्वमभावात; तथा च भवतो भविष्यतो वा विवादस्य विवादत्वाविशेषात् ततः परं तेषामनाश्वासप्रसङ्गात् ।
अस्माकं तावत् तेषु संशयो नास्तीति चेत्, अस्माकं वा किमस्त्यमीषु ? ।
क्व तर्हि निकृष्टजात्यन्तरम् ? ।
किमस्मासु तन्न्यासीकृतम् ?; येनास्माभिः प्रदर्शनीयम् ।
न चास्माभिरनन्ता देशा द्रष्टुं शाक्याः ।
सम्भवति चोच्छेदः, इदानीं क्षत्रियवैश्यमाहिष्यादिवत् ।
तेषां केषां चिन्नामसाम्यमात्रादत्रानुप्रवेशः संभवतीति चेन्न, कस्या अपि शङ्कायाः सर्वत्र सुलभत्वात्; अस्ति च वर्णित्वभिक्षुत्वादीनां साम्यमन्यत्रापि ।
यश्चैवमतिशङ्कया दूयते, स तु स्वमातापितृचरितानवधारणेन स्वब्राह्मण्यमपि यथार्हमतिशङ्केतेति जितं लोकायतेन ।
उक्तं च भगवता--- "अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोस्ति न परो न सुख संशयात्मनः" ॥
इति ।
तत् सिद्धं विशिष्टाधिकारिकं वेदाविरुद्धं वैखानसादिस्मरणं प्रमाणमिति ।
यच्च धर्मशास्त्रादिषु अष्टादशादिपरिसंख्यानम्, न तदधिकसंख्याव्यवच्छेदपरम्, अन्येषामपि शिष्टपरिग्रहादेरविशिष्टत्वात्, अनुक्तांशदर्शनादिना उपजीव्यत्वाच्चेति ।
एवं सपरिकरो वेदः प्रमाणमिति सिद्धम् ॥
"छन्दः पादौ शब्दशास्त्रं न वक्त्रं कल्पः पाणी ज्यौतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि षट् च ॥
" एवं सपरिकरवेदार्थतत्त्वनिर्णयविषया "अथातो धर्मजिज्ञासा" इत्यारभ्य "अनावृत्तिः शब्दादनावृत्तिः शब्दात् इत्येवमन्ता विंशतिलक्षणी मीमांसा ।
"तत्र च संहितमेतच्छरीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः" इति भाष्योपात्तो वृत्तिग्रन्थः ॥
न्या. प. श. 47 तत्त्वरत्नाकरे त्वेवमुक्तम्--- "कर्मदेवताब्रह्मगोचरा सा त्रिधोद्भभौ सूत्रकारतः ।
जैमिनेर्मुनेः काशकृत्स्नतो बादारयणादित्यतः क्रमात्" ॥
इति ।
अनयोर्देवताकाण्डस्य जैमिनीयत्वकाशकृत्स्नीयत्वोक्ती तादधीन्यादिविवक्षय समानार्थे गमयितव्ये ।
तत्र कर्मकाण्डार्थमेवं संजगृहुः--- "धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः ।
सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः" ॥
इति ।
"वेदार्थे न्यायचिन्त्ये प्रथममवसितं कर्म तद्देवता चा- थातः शारीरकांशे निरवधिकफलब्रह्मचिन्ता त्वसूत्रि ।
तत्राध्याये परस्मिन् स्वयमुपनिषदामन्वयोस्याविरोधो मोक्षोपायोथ मुक्तिर्विषयविषयिणौ सिद्धसाध्यौ द्विकार्थौ ॥
" "तत्राद्येत्यन्तगूढाविशदविशदतच्छायजीवादिवाचः पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
दोषादोषौ तृतीयेप्यवरपरगतौ भक्तिरङ्गानि चाथो- पासानुष्ठाप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥
" विचारात् पूर्वमेवात्र प्राप्तमध्ययनं विधेः ।
अतोनधीतवेदस्य विचारः शास्त्रबाधितः ॥
क्रमो विंशतिलक्षण्या न वैधः किन्तु यौक्तिकः ।
अतो व्युत्क्रमचिन्तायामनौचित्यं प्रशिष्यते ॥
न्या. प. श. 48 एवं विंशतिलक्षणीश्रवणमननाभ्यां सुप्रतिष्ठितसमस्तशास्त्रार्थस्य मोक्षसाधनतया विधेयं निदिध्यासनं न वाक्यार्थज्ञानमात्रम्, तस्य रागप्राप्तश्रवणादिसिद्धत्वात् ।
अत एव च तस्मिन् विशेषे वेदनादिसामान्यशब्दपर्यवसानम् ।
न च निदिध्यासनादिकं निषिद्धम्, वरणीयत्वमेव विहितमिति वाच्यम्; स्वतन्त्रान्यकर्तृकवरणकर्मीभावस्यापुरुषतन्त्रेत्वेनाविधेयत्वात् ।
अतस्तद्धेतुना प्रीतिरूपत्वेन उपासनमेव विशिष्यते;तथा सति "भक्त्या त्वनन्यया" इति स्मृत्यविरोधश्च ।
तदेव च निदिध्यासनं प्रीतिरूपं प्रकरणविशेषात् समाधिः ।
च चाष्टाङ्गः शास्त्रेषु शिष्यते ।
तावति च पातञ्जलप्रामाण्यमपि ।
आगमशीलनं च आफलान्मात्रया अनुवर्तनीयम् ।
स्मरन्ति च--- "स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमाविशेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते" ॥
इति ।
यत् पुनः श्रूयते--- "ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिम धान्यार्थी त्यजेद् ग्रन्थमशेषतः" ॥
इति, तत् कोशत्यागाभिप्रायम्; न च सादरपटुसंस्कारप्रचयसंसिद्धमेधासंपदः पुरुषस्य कोशेन किञ्चित् साद्ध्यम् ।
मेधावीति च विशेष्वते ।
"धीर्धारणावती मेधा" इति च नैघण्टुकाः ।
अधीमहे च-- "मेधामनीषे मा विशतां समीचीन भूतस्य भव्यस्यावरुद्ध्यै" इति ।
यद्धा मुक्तप्रायात्यन्तनिष्पन्नयोगपुरुषविषयमेतत्; न हि तस्य शास्त्रेण ज्ञातव्यं तदानीमस्ति, साक्षात्कृतसमस्ततत्त्वार्थत्वात् ।
यत्तु स्मर्यते--- शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् ।
उपदेशाद्धरिं बुद्ध्वा विरमेत् सर्वकर्मसु" ॥
इति, इदं तु तीव्रसंवेगिनामलसास्तिकानां च ग्राह्मम्; बुद्धिचलनहेतूनामसच्छास्त्राणां त्यागार्थं वा; तदा विशेषणसाफल्यम्; धर्मविद्यास्थानेष्वपि हि बहिर्दलेष्वतिसंरम्भो मुमुक्षोरपोद्यते--- "न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।
न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य" ॥
इति, तत् शाब्दं प्रमेयतत्त्वमधिजिगमिषतां प्रमाणेषु सारम्, तदभावे पुंसः पशुभिः समत्वप्रसङ्गात् इति ॥
यस्याज्ञा निगमैकहर्म्यवलभीवास्तव्यपारावती यद्भ्रूलास्यवशंवदा विधिशिवस्वस्थानसुस्थासिका ।
यः सर्वत्र यथापुरं वितनुते नामानि विश्वाकृति- र्नित्यं नः प्रतिभातु सर्ववचसां निष्ठा स नारायणः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तानचार्यस्य कृतिषुन्यायपरिशुद्धौ शब्दाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च तृतीयोध्यायः ॥
॥ स्मृत्यध्यायः ॥
॥ प्रथममाह्निकम् ॥
न्या. प. श. 49 अथ स्मृतिर्निरूप्यते--- संस्कारमात्रजं ज्ञानं स्मृतिः, इति तल्लक्षणम् ।
ननु स्मृतिर्न प्रमाणम्, अविद्यमानविषयत्वात्, अननुभूतित्वात्, भ्रमसम्भवोच्चेति चेन्न, स्मृतिमात्राप्रामाण्यस्य प्रथमाह्निक्रे प्रतिक्षिप्तत्वात्, अवाधितबाह्यार्थदर्शनात्, अतीतानागतविषयानुमानादिबाधप्रसङ्गात्, सर्वलोकविरोधात्, अननुभूते अर्थान्तरेपि स्मृतिप्रसङ्गात्, स्मृतेरपि स्वप्रकाशत्वेपि वेद्याकारे संस्कारादिसापेक्षत्वात् ।
न च पूर्वानुभवपुरस्कारेणैव ग्रहणादप्रामाण्यमिति चेन्न, स्मृतिप्रमोषे तदभावात्, प्रमाणतया संमतायां प्रत्यभिज्ञायां भावाच्च ।
परतन्त्रत्वादप्रमाण्यमिति चेन्न, स्वहेतुपारतन्त्र्यमात्रस्य सार्वत्रिकत्वात्, अनुभवमूलत्वस्य प्रमाणमूलत्वस्य च सविकल्पकादिभिरनैकान्तिकत्वात्, संस्कारमात्रजन्यत्वस्यासाधारणत्वात्, स्वविषयप्रकाशव्यवहारयोस्तु स्मृतेरपि स्वतन्त्रत्वात् ।
इच्छादिवद्विषयनियमेपि पारतन्त्र्यमस्तीति चेन्न, तद्वदेवाज्ञानत्वप्रसङ्गात्; ज्ञानमेव हि स्वतो विषयप्रवणमिच्छसि; अत एव हि नित्ययोरपि रिश्वरचिकीर्षाप्रयत्नयोर्विषय नियमाय ज्ञानापेक्षां ब्रूषे ।
इच्छादीनामपि स्वतो विषयप्रावण्यं ज्ञानत्वं चास्माभिः स्वीकृतम् ।
ननु संस्कारवदिति चेन्न, तस्यापि स्वहेतुसमानविषयज्ञानोत्पादनशक्तस्वभावत्वात् ।
अतो हेतुनियतविषयत्वमेव फलितम् ।
तच्च अनुभवेपि समम् ।
तथा च समानविषयानुभवजन्यत्वतदभावाभ्यां स्मृत्यनुभवयोः पारतन्त्र्यस्वातन्त्र्यव्यवहारो मन्दानाम् ।
स्वप्रामाण्यनिर्णयादावपि नानुभवापेक्षत्वनिर्बन्धः, स्वविषयप्रकाशनबाधविरहादिभिसतत्सिद्धेः, गृहीतमात्रग्राहित्वस्यासाधारणत्वात् ।
प्राभाकराणामनुमानादौ नैयायिकादीनां धारावाहिकादौ योगसिद्धसर्वज्ञवादिनां द्वितीययोगप्रत्यक्षादौ केषाञ्चिदीश्वरवादिनामनित्येश्वरज्ञाने च व्यभिचाराच्च ।
निष्प्रयोजनत्वादप्रामाण्यमिति चेन्न, तृणादिविषयप्रत्नयक्षादिनानैकान्त्यात्, असिद्धेश्च;स्मृत्यैव हि जगतां कृताकृतप्रत्यवेक्षणादिसिद्धिः; स्मृत्यैव हि शब्दानुमानयोः प्रवृतिः; परभक्त्यादिनिष्पत्तिश्च ।
पूर्वानुभुवस्यैव तानिप्रयोजनानीतिचेत्, सर्वजगदादिकारणस्य ब्रह्मसंकल्पस्यैव किं न स्युः ? ।
एवं चानुभवस्यापि न तत्सिद्धिः, तत्कारणस्येति वक्तुं शक्यत्वात् ।
यदुक्तं प्रज्ञापरित्राणे--- "ज्ञातात्मज्ञानरूपत्वात् स्वप्रमेयप्रहाणतः ।
विषयाव्यभिचारित्वेप्यप्रामाण्यं स्मृतेर्मतम्" ॥
इत्यादि, तदप्यनेन परिहृतम् ।
प्रमाणव्यवहाराभावादप्रामाण्यमिति चेन्न, पामरव्यवद्वाराभावस्यानैकान्तिकत्वात्, एवं परीक्षकव्यवहार भावस्यापि; विगीतत्वाच्च; सर्वपरीक्षकव्यवहाराभावस्य चासिद्धेः; मानमनोहरादौ वागीश्वरादिभिस्तप्रामाण्यस्योक्तत्वात्, कतिपयपरीक्षकव्यहाराभावस्य चातिप्रसञ्जकत्वात्, अक्षपादादिव्यहाराव्यवहारयोर्बृहस्पत्यादिव्यवहारवदस्माभिर्नातीवादरणात्, इन्द्रपाणिन्यादीनां तु सर्वसंप्रतिपत्तेरबाधाच्चादरात्, पाराशर्यादीनां प्रमाणपरिगणनानधिकृतत्वेन तदनुक्तेरप्रयोजकत्वात्, आगमः प्रमाणमित्यपि व्यवहाराभावात् ।
"प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
इत्यादिषु च प्रत्यक्षादिमूलस्मृतेः प्रत्यक्षादिसमानचर्चत्वेन पृथग्व्यवहाराभावोपपत्तेः ।
प्रमाणहेतुका स्मृतिः प्रमाणमेव, अविसंवादात्, इति ।
उक्तं च न्यायतत्त्वे स्मृत्युदासीनभेदके चतुर्थेधिकरणे--- "अप्रमाणमूलत्वं तु उभयोरपि नास्ति, व्यभिचाराभावेनानधिगतार्थं प्रमाणमिति विशेषणस्यायुक्तत्वात् ।
प्रमिते प्रमित्यनुपपत्तिः क्व दृष्टा ? ।
स्मृतौ चेत्, प्रतिज्ञैव दृष्टान्तः स्यात्; ज्ञानान्तरे चेन्न नुजानामि" इत्यादि ।
तत्त्वरत्नाकरे च--- "यथार्थनिश्चयो मानं तद्धेतुश्चेति सूरयः ।
नातिव्याप्तिः स्मृतौ व्याप्तिर्यथार्थेन हि सा प्रमा" ॥
इत्युक्त्वा अस्योत्तरार्धविवरणेप्युक्तम्--- "अनुभूतविषयासंप्रमोषः स्मृतिः; यथा---स घट अति ।
ननु तामपि व्याप्नोति लक्षणम्य ; सत्यम्; तद्व्याप्तौ नातिव्याप्तिः, तस्यापि लक्ष्यपक्षे निक्षेपात् ।
"लक्ष्यालक्ष्ये अनालक्ष्य क्षिप्यते लक्षणं कथम् ।
लोकधीव्यवहारं हि लक्ष्यालक्ष्यावधि विदुः" ॥
इत्यादि ।
यत्तु--- "अनुभवः प्रमाणम् ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभवः" इत्यादिना स्मृतेरप्रामाण्यमुक्तमिव श्रीविष्णुचित्तैः, तन्नूनं परमतान्वारोहेण ।
अत एव हि तैः स्वतः प्रामाण्यनिर्णयदशायामन्यथा व्यवहृतम् ।
तथाहि--- "तस्मात् सिद्धमेतत् प्रमाणानां यथार्थत्वलक्षणं प्रामाण्यं गुणज्ञानानपेक्षात् स्वप्रमाणादेवावसीयते, स्वकीयात् कारणादेव ज्ञायत इति च" इति ।
तथा "अर्थतथात्वं गुणसंवादज्ञानानपेक्षज्ञप्ति, तदभावेपि ज्ञायमानत्वात्" इत्यादौ ।
"न च हेतोरसिद्धत्वम्; तथाहि--- रजतज्ञानस्यार्थतथात्वं नाम रजतविषयत्वम्; तच्चासति बाधके रजतग्राहिणैव ज्ञानेनावगम्यते" इत्यादि ।
अतो यथावस्थितवस्तुनिश्चयात्मकत्वमेव प्रामाण्यं प्रमाणज्ञानानामात्मीयात् कारणाज्ज्ञायते, न गुणसंवादज्ञानमपेक्षते, इति ।
तथा प्रमाणानां यथावस्थितवस्तुनिश्चयात्मकत्वमेव प्रामाण्यम् ।
तदाभासयुक्तयः पूर्वपक्षिणोच्यन्ते ।
सिद्धान्तेपि विवेकप्रदर्शनमेवेति ।
यदि चानुभव एव प्रमाणम्, तन्न युक्तमुपयुक्तं वा ।
न च सर्वमनुभवं प्रमाणतया व्यवहरन्ति, पीतशङ्खभ्रमादिष्वदर्शनात्; नापि सर्वां स्मृतिमप्रमाणतया, प्रमाणमूलस्मृतिषु तदभावात् ।
"अगृहीतग्रहणशक्तं प्रमाणम्" इति वरदविष्णुमिश्रोक्तिरपि परमतान्वारोहेण नेतव्या ।
यत्तु आगमप्रामाण्ये प्रोक्तम्--- "प्रमाणान्तरदृष्टार्थविषयव्यापिशेमुषी ।
प्रमाणमेव तत्पूर्वं न चेत् स्वार्थं विगाहते" ॥
इति, इदमप्यनुवादवाक्यस्यान्यपरतया स्वार्थप्रामाण्यव्यवच्छेदार्थम्; अन्यथा स्मृतिप्रमोषे प्रमुषिततदंशे पूर्वानुभवपुरस्कारेण स्वार्थावगाहनासिद्धेः कथं तत्र स्मृतित्वनिबन्धनमप्रामाण्यं भविष्यति ? ॥
न्या. प. श. 50 यत्तु भाष्ये सन्मात्रग्राहिप्रत्यक्षनिराकरणदशायामुक्तम्-- "अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेनोपरितनस्य गृहीतग्राहित्वाद् विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात्" इति, न तत्र स्मृतेरप्रामाण्यं सूचितम्, प्रकारान्तरेणापि वैलक्षण्यसिद्धेः, तदपेक्षया च प्रसङ्गोपपत्तेः ।
यच्चापरं भाष्यम्--- "इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत् स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम्, न तु सर्वेषां ज्ञानानां प्रमाणानां च, स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोपि ग्रहणदर्शनात्" इत्यादि, तत्रापि परस्यानिष्टप्रसङ्गाय तदभिप्रायानुधावनेन विभज्योदाहरणं युक्तम् ।
यच्च शास्त्रयोन्यधिकरणे भाषितम्--- "भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता ?" इति, इदमपि न साक्षात् सिद्धान्तस्थम्; न च याथार्थ्यं तत्र प्रतिक्षिप्तम् ।
एवमन्यदपि भाव्यम् ।
स्मृत्यप्रामाण्यवादिनोपि वैशेषिकास्तां यथार्थ्याद्विद्याकोटौ पठन्ति ।
तत एव च तदेकदेशिभिरपि तत्प्रामाण्यं स्वीकृतम्, इति ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ स्मृत्यध्याये प्रथममाह्निकम् ॥
॥ स्मृत्यध्यायः ॥
॥ द्वितीयमाह्निकम् ॥
न्या. प. श. 51 एवं तावद्विवेचितं प्रमाणम् ।
चार्वाकास्तु प्रत्यक्षमेकं प्रमाणमित्याहुः ।
तेष्वेव केचित् अनुमानस्य प्रत्यक्षेन्तर्भावमिच्छन्ति; केचित्तु अप्रामाण्यम्; प्रत्यक्षमनुमानं च काणादाः सौगताश्च ।
तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः; परे तु केचित् अन्तर्भावम्; केचिदप्रामाण्यम्; ते चागमं च सांख्याः, भूषणमतानुवर्तिनश्च ।
तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः; उत्तरे त्वीश्वरसृष्टताम्; तानि च स्मृतिं च वैशेषिकैकदेशिनोस्मत्सिद्धान्तैकदेशिनश्च; तान्येव सार्थापत्तिकानि प्राभाकराः; अनुपलब्धिषष्ठानि तान्येव तौतातिताः, तत्प्रलोभनरुचयो मायावादिनश्च; तान्येव संभवतिह्ययुक्तानि पुराणशरणाः ।
अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रियेयम् ।
अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यात्, इति को जानात्यन्यत्र कल्पसाक्षात्कारिणस्तस्मादेकस्माद्देवात् ।
इह च न्यूनवादिनस्तदवसरे निरस्ताः ।
अधिकतया पराभिमतानां तु अर्न्तभावो वक्तव्यः ।
तत्र यथा प्रत्यभिज्ञादीनां प्रत्यक्षादिष्वेव निवेश इष्यते, एवमन्येषामपि ।
प्रत्यभिज्ञा तावत् ग्रहणात्मिकैवेत्येके; तथाहि--- "प्रत्यभिज्ञायामपि स्मृतिरनुभव इत्यंशभेदोस्ति चेत्" इत्याशङ्क्य प्रत्युक्तं श्रीविष्णुचित्तैः--- "यदि विषयभेदः, तदा अंशभेदः संभवेत्; ऐक्यमेव हि निरंशं प्रत्यभिज्ञाप्रत्यक्षविषयः ।
कथं संस्कारःअपरोक्षधीजनकः इति चेत्, न, चक्षुरादीन्द्रियसहकृतस्य संस्कारस्य ज्ञातुरैक्यात् तदिदमित्यपरोक्षधीहेतुत्वोपपत्तेः ।
अपरोक्षार्थैक्यसाधिका ।
सा प्रत्यभिज्ञा सोयं वै पुमानित्येवमात्मिका ।
संस्कारमात्रजन्यत्वान्न स्मृतिर्मानमेव तत्" ॥
इति ।
दीपे च ऽअनुस्मृतेश्चऽ इति सूत्रे भाषितम्- "प्रत्यभिज्ञानाच्च न पटादेः क्षणिकत्वम्; तदेवेदमिति प्रत्यभिज्ञायते; प्रत्यभिज्ञा हि नामातीतवर्तमानकालवर्त्येकवस्तुविषयमेकं प्रत्यक्षज्ञानम् ।
तस्य कालद्वयसम्बन्धाविशिष्टमेकमेव वस्तु विषयः ।
न च तदित्यंशः स्मरणम्, इदमंशश्च ग्रहणम्, अतीतसम्बन्धिनीन्द्रियसंप्रयोगाभावात् इति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात् ।
पूर्वानुभवजनितसंस्कारसचिवेन्द्रियसंप्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव; अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम्" इति ।
अन्ये तु अत्र धीभेदबाद्ध्यपरिहारौ मत्वा तदिदमंशयोस्तदंशे संस्कारान्वयव्यतिरेकानुविधानदर्शनात् परोक्षरूपतया इदमंशे च पत्यक्षरूपतया चोभयात्मकत्वमाहुः ।
तन्मते संस्काराधीनप्रकाशा स्मृतिरिति लक्षणम्, अपरोक्षज्ञानं प्रत्यक्षम्, उभयलक्षणयोगात् प्रत्यभिज्ञायामुभयात्मकत्वम्, इति ।
अभ्युपगन्तव्यं चास्मत्सिद्धान्तिभिः सर्वैः प्रत्यक्षेतरज्ञानानां परोक्षापरोक्षरूपत्वम्, स्वयंप्रकाशत्वात्, सर्वज्ञानानां वेद्येतरांशापेक्षया च प्रत्यक्षत्वात् ।
उक्तं चेदं श्रीविष्णुचित्तैरपि --- "स्वप्रकाशकं विषयप्रकाशकं चैकमेव ज्ञानम्; तत्र स्मृत्रिरनुभूतिरिति कुतो भेदः ?" इति परिचोद्य, "प्रकाशमानभेदात्, इति ब्रूमः; यथा--- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा--- गौरयमित्येकस्मिन्नेव ज्ञाने प्रकारिप्रकारविषयभेदेन ज्ञानांशभेदः; यथा च घटपटावित्येकस्मिन्नेव ज्ञानेंशभेदः; यथा वा पराभ्युपगतभ्रमज्ञानेष्वधिष्ठानांशे प्रामाण्यम्, इतरत्राप्रामाण्यं च" इति परिहारात्; तथा "स्मृतेः स्वप्रकाशांशोपि संस्कारमात्रज एव, इन्द्रियादिप्रतिनियतकारणान्तराभावात्" इति परिचोद्य "नैवम्, ज्ञानानां प्रकाशमानत्वस्य स्वाभाविकत्वात्" इति परिहाराच्च ।
तस्मात् सर्वत्र विषयापेक्षयैव अपरोक्षत्वानुमितित्वस्मृतित्वादिविभागः ।
जातिसंकरासंकरादि तु दर्शनादर्शनाभ्यां व्यवस्थाप्यम्, औपाधिकसंकरादिवच्च ।
तदेवमुभयात्मकत्वोपपत्तेः प्रत्यभिज्ञाप्युभयात्मिका इति ॥
न्या. प. श. 52 प्रत्यभिज्ञाप्यभिज्ञावत् त्रिधा चाक्षादिभेदतः ।
तत्तत्संस्कारसंभेदमूलत्वान्नवधा भवेत् ॥
प्रत्यक्षतोक्तिर्दीपादौ प्रदर्शनपरेष्यताम् ।
न हि लिङ्गादिभिः सोयमिति ज्ञानं न जायते ॥
शब्दजं प्रत्यभिज्ञानमुपजीव्य प्रवर्तते ।
शाखान्तराधिकरणन्यायश्च क्रतुविद्ययोः ॥
दीपादिष्विव सर्वत्र बाधकादेरसंभवात् ।
विगीतं प्रत्यभिज्ञानं प्रमाणं सविकल्पवत् ॥
करणाकरणादीनां कालभेदाद्युपाधितः ।
अविरोधान्न बीजादौ शक्यते भेदकल्पनम् ॥
अन्यथा देशभेदेन करणाकरणादिभिः ।
एकं जगति नैव स्यादिति स्यात् सर्वशून्यता ॥
तस्माद् विरुद्धसंस्पृष्टविषयप्रत्यभिज्ञया ।
स्थिरत्वमात्मनां सिद्धं बाह्यानामपि वास्तवम् ॥
न्या. प. श. 53 प्रतिसन्धानमप्यात्मगोचरं प्रत्यभिज्ञाविशेष एव; योहमद्राक्षं स एव स्पृशामि, इत्येवमादिरूपत्वात् ।
प्रतिसन्धिरर्थद्वयविषयैकबुद्धिरित्येके ।
तत्रापि पृथगनुभूतानेकार्थगोचरैककर्तृकैकबुद्धिरिति पूरणीयम्, इति ।
संवादो नाम ज्ञानजात्यन्तरम्, इति केचित्; तदयुक्तम्, संख्यान्तरासंभवात् ।
यत्तु वरदविष्णुमिश्रैरुक्तम्--- "गृहीतार्थविषयं शब्दकारणकं ज्ञानं संवादः" इति, तदपि शाब्दावान्तरभेदे संज्ञाविशेषनिवेशमात्रपरम्;"न हि गृहीतार्थविषयत्वे शब्दशक्तिप्रसूतत्वमपैति; गृहीतमात्रगोचरप्रमाणान्तरेपि तदन्यत्वप्रसङ्गात्; भवति हि पर्वतोयमग्निमानिति शब्दश्रवणानन्तरं धूमं परामृशतोपि तादृशी बुद्धिः ।
तथा द्वितीययोगिप्रत्यक्षादावपि द्रष्टव्यम् ।
अनपेक्षितत्वादिकमपि श्रुतविषयानुमानादौ समम् ।
न चापेक्षायुक्तं प्रामाण्यं भेदोभेदो वा, तृणादिप्रत्यक्षस्यापि तथा प्रसङ्गात्" इत्युक्तम् ।
किमर्थं तर्हि वेदानां वेदान्तानां चाप्राप्तविषयत्वं समर्थ्यते ? इति चेत्, अतथाप्राप्तौ साक्षादप्रामाण्यप्रसङ्गात्; तथाप्राप्तावपि अनपेक्षिततया प्रेक्षावद्भिर्निरर्थकप्रयासभीरुभिस्त्याज्यत्वापातेन फलतोप्रामाण्यप्रसङ्गात्, इति पश्य ॥
न्या. प. श. 54 उपमानमपि यदि गृह्यमाणपदार्थगतसादृश्यविज्ञानात् स्मर्यमाणपदार्थगतसादृश्यविज्ञानम्, तदा स्मृतिः, तत्तद्वस्तुसंस्थानविशेषाद्यतिरिक्तस्य सादृश्यस्याभावात्, तस्य च पूर्वदृष्टत्वात्, स्मर्यमाणत्वाच्च ।
व्यवहारोप्यस्त्वपूर्वः तत्तद्व्यवहारवत् प्रतिसम्बन्धविशेषपरामर्शोपाधिकः ।
यद्वा यो यत्सदृशः, स तद्गतसादृश्यप्रतियोगी; यथा---मिथः स्वहस्तौ, इति व्याप्तिसिद्धौ गौरेतत्सदृशः, एतद्गतसादृश्यप्रतियोगित्वात्, इत्यनुमानात् स्मर्यमाणगतसादृश्यासिद्धिः; अन्यथा गृह्यमाणगतवैसादृश्यज्ञानात् स्मर्यमाणगतवैसादृश्यप्रतीतिरपि मानान्तरं स्यात् ।
सा चेत् अर्थापत्तिः, सादृश्यधीरपि तथा किं न स्यात् ? इति ।
अथवा युगपदेव तत्सदृशोयमिति प्रत्ययेनैवोभयवृत्तिसादृश्यस्फुरणान्न तद्धेतुकम्, अन्यथा पृथगनुभूतयोस्तदानीमप्रतीतसादृश्ययोः परस्ताद्युगपत् स्मर्यमाणयोर्युगपदेव प्रतीयमानसादृययोःको निर्वाहः ?, तत्रापि वा प्रमाणान्तरं कल्प्यते ? ।
यथा गौः तथा गवयः, गोवद् द्विशफो न भवत्यश्वः, दीर्घग्रीवः प्रलम्बोष्ठो विकटाकृतिः पशुः क्रमेलकः, इति तु साधर्म्यवैधर्म्यधर्म्यमात्रविषयम् ।
त्रिविधमप्यतिदेशवाक्यमागम एव ।
यत्तु-- "श्रुतातिदेशवाक्यस्यगवयादावतिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम्, तच्च व्युत्पत्तिफलकम्" इति, तदप्यनुपपननम्, प्रागेव व्युत्पत्तिसिद्धेः ।
यत्तु--- "सादृश्यस्य निमित्तत्त्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा" ॥
इति, तत्र निमित्तस्याप्रतीतितः, इति त्वसिद्धम्, गवयत्वादेरेव जातिविशेषस्य गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्याकारोपलक्षितस्य प्रथममेव वाक्यार्थतया प्रतीतिः; गोसादृश्योपलक्षितः कश्चिद् व्यक्तिविशेषो गवय इति हि प्रतीतिः ।
पश्चात् प्रत्यक्षितगवयस्य तद्वैशद्यमात्रमेव; उक्तं च श्रीविष्णुचित्तेः--- "गोसदृशो गवयः इति गोसादृश्यैकाधिकरणं सामान्यं वाच्यमिति व्युत्पन्नम्, प्रथमं वाक्यार्थतया प्रतीतेः ।
गोसादृश्योपलक्षितस्यानिर्णये पश्चादप्यनिर्णयः ।
अन्यथानिर्णये तथा पश्चादपि ।
ततो वाक्यश्रवणवेलायामेव निर्णितम्" इति ।
एवं चानभ्युपगमे कथमिन्र्दादिशब्दव्युत्पत्तिः ?; न ह्यत्र निमित्तभूतसंस्थानविशेषादिदृष्टिः ।
न च नित्यं तत्राव्युत्पत्तिः, तदर्थविशिष्टवाक्यार्थबोधापातात् ।
एवं नित्यातीन्द्रियविषयसंस्कारादिशब्दानामपि नित्यमव्युत्पत्तिरेव स्यात् ।
तत्र चेत् कथञ्चिन्निर्वाहः, तथात्रापि ।
तत् सिद्धं नोपमानमतिरिक्तम्, इति ।
अर्थापत्तिस्त्वनुमानमेव; तथाहि---अनुपपद्यमानदर्शनादुपपादककल्पनं नाम व्याप्याद्व्यापकज्ञानम्, अव्याप्यस्य तेन विनानुपपद्यमानत्वाभावात्, अव्यापकस्य च तदुपपादकत्वायोगात्, इति ।
प्रमाणद्वयविरोधे सति विषयव्यवस्थापनमर्थापत्तिः, इत्यपि न वाच्यम्, प्रमाणयोः सतोर्विरोधाभावात्, विरुद्धयोरपि प्रामाण्यायोगात् ।
ननु देवदत्तस्य जीवने कुतश्चित् प्रमाणात् प्रमिते, जीवता क्वचित् स्थातव्यम्, इत्यविशेषेण देशसामान्यसम्बन्धावगतौ गृहमप्यास्कन्दन्त्यां सत्यां प्रत्यक्षे च गृहे तदभावं प्रतिपादयति स्पष्टो विरोधः, अतस्तच्छान्यै बहिर्भावकल्पनमर्थापत्तिः, इति; मैवम्, क्वचिदिति विदितस्य जीवनस्य नियमाभावात्, बहिर्विद्यमानतासंदेहे निश्चयरूपेण गृहाभावप्रत्यक्षेण प्रतिस्पर्धितुमसामर्थ्यात् ।
न च विरुद्धविषययोर्वास्तवं कुत्रापि समबलत्वं समस्ति;उभयाप्रामाण्ये तु कथञ्चित् स्यात् ।
आभिमानिकबलसाम्येपि तथैव ।
यदा वैषम्यग्रहः, तदा तत एव बलाबलसिद्धौ किमर्थापत्त्या साध्यम् ? ।
अतः केवलनिरवकाशविरोधिविशेषसन्निधौ सति सावकाशं सामान्यं संकोचयितव्यमिति व्यवस्था स्यात् ।
सापि च तथैव व्याप्तेः, इत्यनुमानफलमेव; अन्यथा विरोधिविषयत्याग इवाविरोधिविशेषपर्यवसानादावपि मानान्तरकॢप्तिः किं न स्यात् ? ।
एवमनभ्युपगमे च धूमानुमानादावप्यर्थापत्तित्वप्रसङ्गः ।
अग्निं विनानुपपद्यमानत्वस्वय लिङ्गप्रत्यक्षरूपप्रमाणद्वयविरोधस्य च वक्तुं शक्यत्वात् ।
धूमो हि कारणभूतं वह्निमाक्षिपति, प्रतिक्षिपति तु प्रत्यक्षम्, इति विरोधे पर्वतार्वाग्भागे वह्निरिति व्यवस्थाकल्पनस्यार्थापत्तित्वं स्यात् ।
व्याप्तिनिरूपणमन्तरेण गमकता गमकस्यैव धर्मान्तरयोगितया गम्यते इत्यादिभेदास्त्वाशामात्रकल्पिताः, इति ।
उक्तं च श्रीविष्णुत्तित्तैः--- "अर्थापत्तिरनुमानम्" इत्यादि ।
केचित्तु केवलव्यतिरेकिणि अर्थापत्तिसंज्ञां निवेशयन्ति ।
तस्य प्रागेव निरासान्न प्रमाणवर्गानुप्रवेशः ।
अनुप्रवेशेपि वा न पृथक्त्वम् ॥
न्या. प. श. 55 यत्तु आगमप्रामाण्ये "अनुभवश्चेन्द्रियलिङ्गशब्दसदृशान्यथानुपपद्यमानार्थपूर्वकः" इत्यादिषु उपमानार्थापत्तिपरिग्रहः प्रतिभाति, तदपि पूर्वपक्षप्रदेशगतत्वान्न सिद्धान्तत्वाय कल्पते ।
अभावस्त्वस्मन्मते भावान्तरात्मा ।
स चाक्षादिभिर्यथासंभवं सिध्यति ।
अभावात्मना तु ग्रहणेपि प्रतियोगिस्मरणादिसहकारिसहितानि तान्येव प्रमाणनीति न तदतिरिक्तकल्पनावकाशः ।
अत एव हि प्रागर्तजाभावादिविज्ञानमपि निर्व्यूढम्; दृष्ट एव हि देशकालादिसंसर्गादिविशेषः पश्चात् प्रतियोगिस्मरणादिमतः पुरुषस्य तदभावात्मना धियमधिरोहति, स्मर्तव्यस्य स्मरणाभावाद्वा; तत्र तदभावानुमानम् ।
एवमतिरिक्ताभावपक्षेपि निर्मूला प्रमाणान्तरकॢप्तिः; सघटं भूतलमितिवत् अघटं भूतलमित्यपि ह्यपरोक्षा प्रतीतिः; न चाधिकरणग्रहणोपक्षीणमिन्द्रियम्, गुणादिष्वपि प्रसङ्गात्; अतिरेकवदनतिरेकेप्यज्ञातकरणत्वादीन्यनुमानानि च सुलभानीति ।
संभवोप्यनुमानमेव, सहस्रे शतं संभवति इत्यादेः पूर्वानुभूसहस्रगतव्याप्तिबोधनत्वात्, संभवति क्षत्रिये शैर्यमित्यादेः संदेहात्मकत्वेनाप्रमाणत्वात् ।
अविरोधनिश्चयरूपत्वेपि तदविरोधनिश्चायकप्रमाणान्तरे विश्रमः ।
ऐतिह्यं तु प्रमाणमूलं चेदागमः; तदाभासमूलं चेत् तदाभासः ।
एवं चेष्टालिप्यक्षरादिकमप्यभिप्रायवर्णविशेषाद्यविनाभूतमनुमानमेव ।
मूल पाठ: Nyāyapariśuddhi, Bhūmikā, 1, 3-5 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0