भाषा

ENहिગુ
ग्रंथ पाठ

न्यायपरिशुद्धि, भूमिका · भाग 120

॥ भूमिका ॥
॥ श्रीमते भगवद्रामानुजाय नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
श्रीमद्वेङ्कटनाथदेशिकमणिप्रज्ञासरित्तरङ्गपरम्परापरिणामभूतं न्यायपरिशुद्ध्यभिधानं प्रबन्धरत्नमिदं जयति जीवितमिव न्यायविस्तरस्य विद्यास्थानस्य श्रीभगवद्रामानुजमुनिवरक्षुण्णवर्त्मनो ब्रह्ममीमांसाशास्त्रस्य च ।
अनुपजीव्य चेदं विद्यास्थानं को विभवः सपन्दितुमपि शेषस्य विद्यास्थानजातस्य ? ।
सर्वमेव हि लोके श्रुतं संशयविपर्ययाभ्यामाहितपारिप्लवं वात्यास्पृष्टमिव तृणशकलं न कथञ्चिदपि प्रतितिष्ठति ।
प्रमाणपरीक्षया तु यथावदुपपादितया दृषदेव व्यपोढविक्षोभं निष्कम्पमवतिष्ठते ।
प्रमाणपरीक्षैव च प्रथमावतारपदवी न्यायविस्तरस्य ।
पदवाक्यप्रमाणभेदेन हि त्रेधा विभजन्ति शास्त्रं शास्त्रविदः ।
तत्र तदं नाम ---शब्दानुशासनं पाणिन्यादिप्रणीतम् ।
वाक्यं च---विचारपूर्वकश्रौतवाक्यार्थनिर्णयरूपं कर्मब्रह्मात्मकविषयविभागविभक्तमुभयं मीमासाशास्त्रम् ।
प्रमाणं तु---क्वचिदप्यर्थेष्वनवगाढावष्टम्भां स्वात्मन्यप्यनुपजातविस्रम्भां डोलायमानां बुद्धिं करेणुमिव तर्कशृङ्खलाभिरालानयन्मननव्यपदेशं शास्त्रम् ; यस्य संज्ञान्तरं न्यायविस्तरः तर्कशास्त्रम् इत्यादि ॥
तदेतत् प्रमाणप्रधानमपि प्रमाणगतेः प्रमेयस्वरूपविवेचनपर्यवसानतया प्रमेयेपि न्यस्तपदं प्रवृत्तम् ।
इतरेतरविसंवादसंरब्धोद्धुरैरास्तिकैर्नास्तिकैश्च बहुधा वादिभिः स्वस्वच्छन्दानुरोधेनान्यथा चान्यथा च प्रमेयं प्रतिपद्यमानैरितस्ततः परिकृष्यमाणानि प्रमाणान्यपि परावृत्तरूपतया लक्षणतो दुर्ग्रहाण्यभूवन् ।
मानाभासव्यामिश्राणि हि मानानि न सुकराणि विवेक्तुम् ।
तदेवं शास्त्रमेव पङ्किलीकृतं चक्षुरिव तिमिरोपसृष्टं विगलितार्थग्रहणापाटव संवृत्तम् ।
अविपर्यस्तलक्षणं प्रमाणवर्गं परिगृह्णाद्भिरपि सौगतार्हतकापिलचार्वाकजैमिनीयादिभिरङ्गेष्ववान्तरभेदेषु चन्यूनातिरेकमास्थितैरनेकधोपयोगादनेकान्तीकृतमतयः कृतमतयोपि स्वस्वोपदेशपारम्परीप्रत्ययादेकतमं पक्षमभिमन्यमानाः स्परिग्रहावसादकातरतया पक्षान्तरेषु साभ्यसूयाश्चिरायापि गरुकुलेषु परिश्रम्यालब्धबुद्धिप्रसादा विभ्राम्यन्त एवानुभूयन्ते ।
अतः सर्वोपयोगाय दोषगुणहानोपादानाभ्यां शिक्षणीयस्यास्य न्यायविस्तरस्य पृथक्प्रस्थानं न्यायदर्शनं नाम सूत्रजातं गौतमेन मुनिना प्रथमं प्रणीतम् ; यत्र प्रमाणाप्रमाणादिविवेचनया तत्त्वनिर्णयोपायास्तत्र च संभवन्तो गुणदोषाः कथासु च ग्राह्यापरिहार्यविभागाः सविशेषं प्रदर्शिताः ॥
तच्च न्यायदर्शनं प्रथमं प्रमाणप्रमेयादिसूत्रेण षोडशधा पदार्थान् विभज्य तत्परीक्षणेन चरितार्थम ।
तत्र प्रमेयत्वस्य केवलान्वयिनः सर्वपदार्थसाधारणतया विभाजकत्वमनुपपद्यमानं मन्यमानेन कणादेन मुनिना कृत्स्नमेव प्रमेयजातं द्रव्यादिसप्तपदार्थपरिसंख्यानेनासंकीर्णं विभक्तम् ।
तत्र च सामान्यविशेषसमवायाभावान् वितथमेवापदार्थान् पदार्थयता तथाविधमेव चान्यदन्यदालपता ग्राह्यमगृह्णता त्याज्यं चात्यजता कणभक्षेण दूरमपथीकृतः शास्त्रपथ इति ब्रह्मसूत्रकारादिभिः प्रतिक्षिप्तो वैशेषिकः पक्षः ।
न्यायपक्षस्तु शङ्क्यमानोपसर्गोपि कथञ्चिद्व्याख्यानाधेयसंस्कारतया नात्यर्थपरिवर्जनीयः इति मन्यमानाः कतिपयसंस्कारसंस्कृतमिमं पक्षं परिगृह्य निबन्धान् निबबन्धुः पूर्वे केचिदाचार्याः ।
ते च निबन्धा एषु दिवसेषु नाम्नैव केवलमवशिष्यन्तोतद्यथा--श्रीमन्नाथमुनिमिश्रप्रणीतं न्यायतत्त्वम्, श्रीमत्पराशरभट्टारककृतिस्तत्त्वरत्नाकरः, श्रीभगवद्यामुनाचार्याणामाचार्यैः श्रीमन्नाथमुनिचरणाश्रयाणां श्रीपुण्डरीकाक्षाणां शिष्यैश्च श्रीराममिश्रगुरुभिर्विरचितं विवरणं षडर्थसंक्षेपश्चेति ग्रन्थद्वयम्, अविदितप्रबन्धृव्यपदेशं न्यायसुदर्शनं प्रज्ञापरित्राणां चेति प्रबन्धयुगलम्, श्रीमन्नारायणमुनिविरचितत्वेनाचार्योपात्तं नाम्ना चानुद्दिष्टं किमपि प्रबन्धरत्नम्, अस्यैव च न्यायपरिशुद्धिप्रणेतुराचार्यस्याचार्येण मातुलेन च वादिहंसाम्बुवाहः इति प्रशस्तिनामाङ्कितेन आत्रेयरामानुजाचार्येण कृतं स्वप्रतिभाद्रविणनिक्षेपायमाणं न्यायकुलिशाभिधानं चेत्येते निबन्धाः न्यायपरिशुद्धिकृतैवाचार्येण तत्र तत्र भूयिष्ठमुदाह्रियन्ते ।
यदेव यावदेव चाचार्येण क्वचित् क्वचिदुदाहृतं वाक्यं वाक्यखण्डं वा, तदतिरिक्तं कियदपि टीकाकृतामपि दृष्टिविषयीभूतं नोपलभ्यते ।
अयमत्र हेतुः प्रतिभाति---आचार्यसंनिहितकालेष्वप्यनतिसंक्षेपविस्तररमणीयानि प्रस्फुटार्थानि नित्यप्रकाशान्याचार्यश्रीसूक्तिरत्नान्यवमृश्य रसास्वादवादिविजयशिष्यप्रवचनाद्रिप्रवणेषु उपर्युपरि व्याख्यानादिप्रणयनैरविस्तृत्य शास्त्रं वितथमेवातिपातितकालेषु शिष्यप्रशिष्यवर्गेषु कुमारवेदान्ताचार्यादिषु, अतीते च गणरात्रे कैश्चिदर्वाचीनैराविर्भूतैर्ग्रन्थकृद्भिरज्ञातपूर्ववृत्तान्तैर्यथाकथञ्चिद्व्याख्यानेन कश्चिदुपकारः कृत इति ॥
हन्त ! निःशेषक्षालिताखिलकलङ्कस्याप्यस्य श्रीभगवद्रामानुजसिद्धान्तस्येदमेकं शोचनीयं वैशसम् ; यत् तावदाचार्यपदाभिषिक्तैरप्यर्वाचीनैर्बुधवरैः काणादगौतमीयादिसामान्यशास्त्रपरिश्रमेण व्ययितवयोभिरन्तिमे वयसि कथञ्चिदुपजातवेदान्ततृष्णैः शिष्यसंग्रहणकृतक्षणैरवश्योपादेयोपदेशश्रीभाष्यादिकतिपयग्रन्थग्रहणचरितार्थैरनादृताः प्राचामाचार्याणां वाग्विस्तरा एतर्हि श्रोतुमपि दुर्लभतां गमितार्ः ।
इदृशोयं विद्यावधः कस्य वा विद्याव्यसनिनो न दूनोति मानसम् ? ।
अथवा कृतं प्राचां प्रबन्धप्रणाशचिन्तनेन ।
अस्यैवाचार्यस्य वाङ्मधुनिष्यन्दो मुधैव कियान् न विस्रंसितः ।
सर्वतन्त्रस्वतन्त्राणामाचार्यचरणानां शताधिकाः प्रबन्धा हारविमलाः प्रसिद्धाः ।
संस्कृतप्राकृतद्राविडभाषाभिस्त्ररौशिकानि काव्यनाटकस्तोत्राणि, लोकशास्त्रव्यवहारनिरूढसंस्कृतव्यतिकीर्णद्राविडभाषामयानि च चतुर्थराशिनिविष्टानिलौकिकानामप्यनुग्राहकानि परीक्षकाणामपि सुग्रहसांप्रदायिकतत्त्वहितपुरुषार्थान्यादर्शविमलानि मणिप्रवालशब्दितानि नियतश्राव्यतया रहस्यसंज्ञितानि सिद्धान्तनिष्कर्षणेदंपराणि लोकश्रेयसे जातानि ग्रन्थजातानि ।
तत्र वेदान्ते तावत् तत्त्वटीका नाम श्रीभगवद्रामानुजमुनिवरविरचितस्य शारीरकमीमांसाभाष्यस्य विवृतिरपूर्वार्थविशेषविन्यासपरिभूषिता त्रैकाल्यसंभावनीयानामशेषाक्षेपाणामचलनिश्चयान् परिहारानुपदर्शयन्ती गङ्गेन गौरीगुरोरेतस्मादाचार्यवर्यादाविर्भूता ।
सा च प्रथमसूत्रमात्रमपि यावदसमग्रोपलब्धप्रचारा वेदान्तविद्याविचारकाङ्क्षिणां चिन्ताव्यसनायैव खण्डभूता परिदृश्यते ।

विचित्रायोधनाकुण्ठशक्तौ तेजस्विनि स्वां शक्ति समग्रमदर्शयित्वैव नियतियैयात्येनाकस्मादुपरतं योधरत्ने तटस्थदृष्टे कस्य वा वीरधर्ममनुतिष्ठतो हृदयं न दूयेत ।
सोयमस्य निबन्धरत्नस्य लोपे दृष्टान्तः ।
केचिन्मन्येरन् आचार्यैरेव न समापूरितायं ग्रन्थ इति, तदेतत् स्वोपमानेन सर्वत्र शक्तिपरिच्छेदं कलयतां प्रलपितमत्र न क्रमते ।
त्रिविधाः खलु लोके प्रबन्धकृतः---केचिद्गुरुकुलचिरपरिश्रमैरनेकशः श्रुतान् यथाश्रुतमर्थान् पत्रेषु विनिवेश्य प्रकाशयन्तो लोकमनुगृह्णन्ति ।
अथेतरे, ये पुनर्जात्यैव स्फटिकावदातबुद्धयः सत्त्वविशेषाविर्भावनिस्तुषाशयाः स्वतः स्वान्तमुकुरतलस्फुटसंक्रान्तसर्वार्थप्रतिच्छन्दा अपि संप्रदायपरिरक्षणश्रद्धलुतया गुरूपदेशदर्शितां पदवीमवर्जयन्तश्चित्तघण्टापथेषु समसमयसंचरदखिलप्रमाणतर्कगुरूपदेशसंप्रदायविशेषा एकहेलया भूयसोर्थानयत्नेन ग्रहीतुं प्रणेतुमप्यर्हन्ति ।
अन्ये तु निरन्तरभजनकृतप्रसदनेन भगवता सर्वेश्वरेण दूरप्रत्यूढप्रत्यूहविप्रुषो निःश्रेयसावधीनि कुशलजातान्यनुभवितुं निजचरणशरणानप्यनुभावयितुं चाकुण्ठशक्तयस्तृतीयकक्ष्यानिविष्टाः ।
त एते व्यासपराशरवाल्मीकिप्रमुखैर्महर्षिगणैरपि गणनीयानुभावा विलक्षणाः प्रबन्धकृतः; येषामेकप्रतिभासूत्रस्यूतानि प्रमेयरत्नानि पुनः पुनः परिशीलितान्यपि नवनवानीव प्रज्ञावतां हृदयेषु कमपि चमत्कारमावहन्ति न च कदाचित् पुराणचित्रवद् विच्छायानि भवन्ति ।

न्यापरिशुद्धिकृदाचार्यस्तु द्वितीयतृतीययोरुभयोरप्रि कक्ष्ययोः हारावल्योरिव नायकमणिः प्रकाशत इति तत्त्वविदामपरोक्षम् ।
प्रकृतिसिद्धं च प्रक्रान्तस्यान्तगमनं शक्तिमताम् ।
लोकानुग्रहमात्रफला येषां सर्वाः प्रवृत्तयः, तादृशानामयत्ननिर्वर्तनीये लोकोपकारार्थे समारम्भे चिकीर्षितविच्छेदः कथमुपपद्यते ? ।
एवङ्गुणेन चाचार्यचूडामणिपवना शिष्यबुद्धिं प्रसादयितुमारब्धा कृतिरसमाप्य मध्ये अपविद्धा भवतीति को नुखलु प्रभाववेदी प्रतिपत्तुमर्हति ? ।
अपि च "निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते ।
यतिपतिभुवो भाष्यस्यासौ यथाश्रताचिन्तित-- प्रवचनविधावष्टाविंशे जयध्वजपट्टिका" ॥
इति स्वकृतस्य भाष्यप्रवचनस्य अष्टाविंश्यामावृत्तौ तत्त्वटीकानिबन्धप्रणयनमाचार्यस्तत्त्वटीकाप्रारम्भे स्वयमेव स्पष्टमाह ।
संकल्पसूर्योदयप्रस्तावनायां च--- "विंशत्यब्दे विश्रुतनानाविधविद्य- स्त्रिंशद्वारं श्रावितशारीरकभाष्यः ।
श्रेयः श्रीमान् वेङ्कटनाथः श्रुतिपथ्यं नाथप्रीत्यै नाटकमर्थ्यं व्यधितैतत्" ॥
इति सूत्रधारवाचा शारीरकभाष्यप्रवचनं संकल्पसूर्योदयनिर्माणकाले त्रिंशद्वारकृतं प्रथयति ।
तदानीमेव त्रिंशद्वारं शारीरकभाष्यप्रवचनमासीद्यदि, ततः पश्चात् प्रवचनावृत्तयस्ततोपि हि भूयस्यो भवितुमर्हन्ति ।
कृष्णमिश्रसमागमकालो हि संकल्पसूर्योदयनिर्माणसमयः ।
ततश्चाष्टाविंश्यामावृत्तौ तत्त्वटीकानिर्माणं कृष्णमिश्रसमागमात् पूर्वतरं भवति ।
शतदूषण्याः समनन्तरं तत्त्वटीका कृतेति च प्रतीयते ।
उक्तं हि स्वयमेवाचार्यैस्तत्त्वटीकां प्रक्रममाणैः--- "शातितः शतदूषण्यां शङ्करादिमुधाग्रहः ।
शरीरकशरीरं तु व्यक्तमत्र प्रदर्श्यते ॥
" इति ।
"श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥
" इति कुमारवेदान्ताचार्यकृतमङ्गलाशासनपरामर्शने श्रुतप्रकाशिकाप्रवचनतत्परत्वमाचार्याणां तत्त्वटीकापूरणविघाताय जातं स्यादिति चापातरमणीयम् ।
श्रुप्रकाशिकाचार्यस्य हिम्लेच्छबलोपमर्दलग्नस्य निजगुरुसब्रह्मचारिणो मुमूर्षतः प्रार्थनया तद्ग्रन्थरक्षणप्रवचनयोरङ्गीकारेपि नैतावता स्वकीयं महीयांसं प्रबन्धप्रणयनप्रयत्नमाचार्यो वितथीकरिष्यति ।
न ह्मत्रत्यमपूर्वमर्थजातं ग्रन्थान्तरेण चरितार्थं भवति ।
तदिदमाचार्यग्रन्थे कृतश्रमाणां स्वत एव सुव्यक्तम् ।
इदानीमुपलभ्यमानपर्यन्तेपि तत्त्वटीकाग्रन्थखण्डे ये विषयाः प्रतिपाद्यन्तु, नैते श्रुतप्रकाशिकायामन्यत्र वा ग्रन्थान्तरे प्रतिपत्तुं सुलभाः ।
किञ्च स्वाचार्यैर्वादिहंसाम्बुवाहार्यैः प्रणीते विद्यमान एव हि न्यायकुलिशाख्ये न्यायनिबन्धरत्ने न्यायपरिशुद्धिमाचार्यः स्वयं निबबन्ध ।
अवश्यवक्तव्येषु चार्थेषु जोषंभावः कथञ्चिदपि शास्राचार्यतायाः सदृशो न भवति ।
न च नवनवार्थाविष्करणमर्वाचां प्राचीनाचार्यपरिभवाय ।
अपि च, "निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी निपुणमनसामाशासौधस्थलीषु निबध्यते" ॥
इति प्रबन्धोपक्रमप्रतिज्ञानमेव प्रदर्शयति ग्रन्थान्तरैरचरितार्थस्य सर्ववेदान्तार्थसंस्कारस्य महामतिभिरपि सर्वज्ञसकाशात् शुश्रूषितस्य प्रतिपादनार्थमपूर्वायाः कृतेः समारम्भ इति ।
स कथं न परिपूर्येत ? ।
किञ्च निजनिबन्धस्य श्रुतप्रकाशिकारक्षणाङ्गीकारसमय एव लब्धप्रसरतामनुस्मृत्य परकीयग्रन्थप्रवचनमङ्गीकृतमाचार्यैरिति शक्यमभ्यूहितुम् ।
तथाच सति तत्त्वटीकाग्रन्थलोपनिदानमर्वाचामाचार्याणां तत्रापरिशीलनमेव, न तु ग्रन्थापरिसमाप्तिः ।
यथाहि न्यायसिद्धाञ्जनमपि जडद्रव्यपरिच्छे देनैव पर्यवसितं सांप्रतं परिदृश्यते, अद्रव्यपरिच्छेदस्तु पतित एव ।
अशक्यं च तत्पूरणमन्यैः ।
इत्थममुमर्थं श्रीरङ्गरामानुजगुरुरेव न्यायसिद्धाञ्जनव्याख्याने "न क्वाप्यतः परमदृस्यत कोशशेष- स्तच्छेषपूरणकृतिः परिहासहेतुः ।
ज्ञातव्यमन्यदपि तैर्निरणायि सम्य- ग्ग्रन्थान्तरेष्विति न किञ्चिदिहास्ति चिन्त्यम्" ॥
इति निगमयन्निवेदयति ।
शतदूषण्यपि हि न समग्रा दृश्यते ।
षट्षष्टिरेव वादा लोके प्रचरन्ति ।
शेषे तु मिथ्यैव किमप्यैतिह्यं कल्पयित्वा कतिपये प्रजल्पन्ति ।

यत्तावत् द्वैतमतखण्डनपरः शेषो ग्रन्थः मध्वमतस्थेन केनचिद्यतिना भिक्षामटता सविनयमुपसृत्य प्रार्थितोयमाचार्यः तं तस्य भिक्षार्थे प्रायच्छिदिति, तदपि न विचारक्षमम् ।
न ह्याचार्यग्रन्थेषु क्वचिदपि मध्वमतं निरस्यते ।
तत्त्वविप्लवाभावात्, अवान्तरेषु चार्थेषु नैयायिकवैशेषिकादिप्रतिपादितस्यैव द्वैतस्यानुवादात्, अनतिप्रचुरतया तस्य मतस्य लोकविप्लवप्रसंगाभावाच्चानास्थैवाचार्याणां तत्र स्यात् ।
अतश्चतुस्त्रिंशद्वादा मध्वमतखण्डनपरा इति किंवदन्तीमात्रमेतत् ।
शतदूषणी च शङ्कादिकृतसूत्रव्याख्यानादिनिरासार्थमेव प्रवृत्तेति च तद्ग्रन्थमुख एव स्फुटीभवति ।
तत्र हि ---- "प्राचीमुपेत्य पदवीं यतिराजदृष्टां तत्संनिकृष्टमपि वा मतमाश्रयन्तः ।
प्राज्ञा यथोदितमिदं शुकवत् पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम्" ॥
इति प्रतिश्रुतम् ।
अत्र ऽतत्संनिकृष्टमपि वा मतमाश्रयन्तःऽ इत्यनेन द्वैतिनः स्वपक्षीक्रियन्ते ।
अद्वैतखण्डनमेव च ग्रन्थप्रवृत्तिप्रयोजनमिति च दर्शितम् ।
तथा च---विद्यारण्याक्षोभ्यमुनिविवादे निर्णयं ब्रुवद्भिराचार्येः "असिना तत्त्वमसिना परजीवप्रभेदिना ।
विद्यारण्यमहारण्यमक्षोभ्यमुनिरच्छिनत्" ॥
इत्युक्तम् ।
ऽशातितः शतदूषण्यां शङ्करादिमुधाग्रहः ।
ऽ इत्यत्र तु शङ्करादीत्यादिपदं यादवभास्करयोः संग्रहायेति स्थितम् ।
तस्मात् समग्रग्रन्थादर्शनमर्वाचामाचार्याणां प्रवचनविच्छेदनिबन्धनं प्रबन्धलोपहेतुरिति स्पष्टमेतत् ॥
अत्र प्रसक्तानुप्रसक्तमाचार्यस्य कृष्णमिश्रसमागमचरितं किञ्चिदुपन्यस्यते---कृष्णमिश्रो हि गौडदेशीयः पण्डितचूडामणिः सर्वासु विद्यासु कलासु च सविशेषकृतश्रमः कविश्च ब्रह्माद्वैतं सिद्धन्तमातिष्ठमानो वादकुतूहलितया सर्वा दिशः पर्यटन् जितकाशी क्रमेण दक्षिणान्दिशमाचक्राम ।
तत्र श्रीरङ्गं दिव्यक्षेत्रं विदुषामावासमाकर्ण्य देवसेवापदेशेन वादसमरमर्थयमानः श्रीरङ्गराजस्य भवगतः प्रासादमासदाद ।
तदानीं तत्र भाषामयीर्गाथाः सरागतालं गीयमाना निशम्य तत्कर्तॄणां च कवीनां वर्णावराणामपि प्रतिमास्तस्मिन् देवालये देवोपचारैराराध्यमाना विदित्वा तत्र सेवासमवेतान् ज्ञानवृद्धान् श्रीवैष्णवानामन्त्र्य ऽभोः प्राज्ञाः, भवतामनेनापभ्रंशपाठेन वर्णावरपूजनेन च दूरापोढं वेष्णवं तेजः ।
किमनेनाराधनेन ? ।
अन्थथाकृतमकृतं हि भवतिऽ इति साक्षेपं पप्रच्छ ।
यदा तैर्मिलितैरपि न किञ्चिदाक्षेपसदृशमुत्तरं प्रतिपन्नं, तदा तदातनाय तद्देशाधिपतये तमर्थमावेद्य, प्रतिष्ठाप्रभृति सर्व एवालयसंस्कारः कार्यः प्रत्यग्र एव इति च नियम्य तं दिव्यालयं गाढघटितार्गलद्वारं परित्यक्ताशेषपूजोत्सवं च कारयामास ।
लोकाचार्यप्रभृतयश्च बहवस्तत्र दर्शनगुरवस्तादृशं वैशसमचिन्तितोपनतमनुस्मृत्य दुरन्ते दुःखसागरे निमग्नास्तं च प्रतिवादिनं सर्वविद्याविशारदं वादाहवनवशूरमप्रकम्प्यमाकलयन्तः सभामभिनवां कामपि संगमय्य तस्यानर्थस्य किञ्चिदपि प्रतिविधानं चिन्तयामासुः ।
तस्मिन् महति सदसि विदुषां संप्रदायाचार्यः श्रीमान् लोकाचार्यः सर्वेषां सभासदामवधेयवचनः समर्थामभ्यर्हितां वाचमाददे--- "भोः भागवतप्रधानाः, बलवन्तं परिपन्थिनं पराङ्मुखीकर्तुमुपायः कश्चिदत्र मे प्रतिभाति ।
स तावदुच्यमानो भवद्भिरनुमन्यताम् ।
अस्ति किल काञ्च्यां नगर्यां वेङ्कटनाथार्यो नाम विदुषां प्रथमः ।
स हि वृषशैलनाथस्य घण्टांश एवावतीर्णः इति तत्त्वविदां ग्रहणम् ।
सोयं पञ्चवर्षदेशीयः शिशुरेव सन् निजमातुलेन वादिहंसाम्बुवाहेनात्रेयरामानुजाचार्येण शारीरकभाष्यग्रहणाय वरदगुरुसकाशं गच्छता प्रियभागिनेयेन नीतस्तत्र भाष्यविषये प्रसक्तान् बहून् संदेहशृङ्खलाग्रन्थीन् विस्रंसयंस्तया तत्रसमवेतया प्रज्ञावृद्धपरिषदा अपूर्वप्रसादविस्मयचित्रितचित्तया सबहुमानमवलोकितः श्रीमता च वरदगुरुणा श्रीभगवद्रामानुजसिद्धान्तस्य दैवात् संप्रति संजातमवलम्बनमिति बद्धाश्वासेन, ऽप्रतिष्ठापितवेदान्तः प्रतिक्षप्तबहिर्मतः ।
भूयास्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥
ऽ इत्याशिषं प्रयुञ्जानेन ऽअस्य कुमारस्य स्वतः प्रतिभातसमस्तशास्त्रार्थसारस्य विद्यासंस्कारमात्रफलो गुरूपदेशो भविष्यति ।
न तु ज्ञाने कश्चिदपि शक्तिलेश आधेयो भवति ।
भगवानपि हि देवकीनन्दनः विद्याग्रहणाय सांदीपिनेराचार्यस्य सकाशे गुरुकुलवासमग्रहीत् ।
किं चास्य शैशव एवायं प्रज्ञाप्रकर्षो दाशरथेरिव विक्रमतिशयो जन्मसिद्धः ।
नासौ पुरुषान्तरदृष्टिविषयं प्रापयितुं युक्तम् ।
साभ्यसूयाः सविस्माया वा दृशो नास्मिन् बालवयसि पतितुमर्हन्ति ।
दृष्टिदोषैर्हि विषानलैरिव प्रसरद्भिस्तरव इवावलाढाः कति नाम महागुणाः पुरुषाः स्वगुणैर्लोकमनुपकृत्यैवास्तं गताः ।
भवानेवामुं सर्वशास्त्रेषु कृतप्रज्ञं कर्तुमर्हति ।
श्रीभगवद्रामानुजसिद्धान्तस्यैष जयध्वजः समुच्छ्रीयताम्ऽ इयादिश्य शिशुरसौ निजमातुले वादिहंसाम्बुदाचार्ये न्यासीकृतः ॥
अथासौ वयसा विंशतिवर्षदेशीय एव सन् सर्वतोमुखप्रसृतप्रबोधतया परेषामनभिभवनीयः संवृत्तः ।
एवमक्षय्यप्रतिभाद्रविणेन सर्वेष्वपि च तन्त्रेषु निरामयं पन्थानमवगन्तुं प्रसादयितुं चालङ्कर्मीणेन चाचार्येणा सार्धं कदाचित् काञ्चीनगरे देवदेवस्य भगवतः श्रीदेवराजस्य वैशाखमासिके यात्रामहोत्सवे विद्वत्संवादकुतूहलितया समागतः सर्वपथीनवैदुषीविभवः प्रबन्धरत्नप्रणेता चाखिलशास्त्रेषु विद्यारण्य इति कृतप्रशस्तिनामधेयो माधवाचार्यो नाम वेदभाष्यकृत् वादाहवे लग्नो निरङ्कुशनिशिततर्कशरासारवर्षिणः आचार्यस्याग्रतः प्रत्यवस्थातुमक्षमो विस्मयबहुमानभरितमना विजयनगरं प्रयातः स्वशिष्यस्य राज्ञस्तमर्थं यथावृत्तमावेद्य तथाविधविद्वद्रत्नदर्शनोत्कण्ठात्वरितस्य प्रभोः प्रार्थनया छत्रचामरप्रभृतिसमस्तराजपरिबर्हपरिबृंहितं राजौपवाह्यपुरःसरं प्रधानसचिवहस्तार्पितसबहुमानसमाह्वानलेखं च चतुरङ्गबलं प्रणीयः प्रार्थितो वैराग्यपञ्चकं तस्य प्रत्युत्तरयाञ्चकार ।

तेन च माधवाचार्येण स्वीये सर्वदर्शनसंग्रहे रामानुजदर्शनमुपक्षिपता--- ऽतदुक्तं वेङ्कटनाथेन तत्त्वमुक्ताककलापेऽ इत्युपक्रम्य, ॥ श्रीः ॥
॥ श्रीमते हयवदनपरब्रह्मणे नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
श्रीमान वेङ्कटनाथार्थः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि
न्या. प. प्र. 1 पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् ।
शुद्धं संश्रितबादरायणतनोर्नारायणस्योक्तिभः श्रीमान् वेङ्कटनायकः स्थितिपदं निर्माति नीतेः शुभम् ॥
विद्यास्थानेषु धर्म्येषु गण्यते न्यायविस्तरः ।
स च विप्लावितस्तैस्तैस्ततो ऽत्र परिशोध्यते ॥
न्या. प. प्र. 2 ॥
गौतमसूत्रबहिष्कारपक्षः ॥
यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तु शक्यम्; न च कणभक्षपक्षनिक्षेपवत् क्लेशः; नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः; तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे ।
न खल्वार्षत्वादिभिस्तदादरः, अतिप्रसङ्गात् ।
प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा ।
लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥
अथवा पितामह एवात्र प्रमाणम्, य इन्द्रविरोचनायोश्चार्वाकमतमुपदिष्टवान् ।
तथा गौतमो ऽपि संभाव्यते ।
अथापि
"काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः ।
त्रिदण्डधारिणा पूर्वं विष्णुना रक्षिता त्रयी" ॥
इति स्मृतेः,
"बहवः पुरुषा राजन् सांख्ययोगविचारिणः ।
नैत इच्छन्ति पुरुषमेकं कुरुकुलोद्भव ॥
समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान् "।
इति महाभारतोक्तेश्च युक्तं तत्तद्बहिष्कारः ।
इह तु न तथेति चेन्न, तुल्यन्यायतया वचनस्योपलक्षणार्थत्वात् ।
न खलु तद्वा तादृग्वेति कश्चिद्विशेषः ।
यद्यपि काशकुशावलम्बन्यायेन पक्षान्तरादाधिक्यमस्य पक्षस्य, अथापि न तद्वेदान्तसंनिधौ; न खलुमशकाद्बलिष्ठो ऽपि मातङ्गः कण्ठीरवमुपरुणद्धि ॥
"यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद ।
कुतार्किकाज्ञाननिवृत्तिहेतुः कारिष्यते तस्य मया निबन्धः" ॥
इति वाक्यमक्षपादपक्षपातेनोक्तमित्यनास्थेयम् ॥
उक्तं च पूर्वाचार्यैः---
"काणादमाक्षपादं वा कापिलं तन्त्रमेव वा ।
तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णर्य" ॥
इति ॥
अत एव हि "एतेन शिष्टापरिग्रहा अपि व्याख्याताः" इति सूत्रे भाषितम्---"एतेन---वेदापरिगृहीतसांख्यपक्षक्षपणेन, शिष्टाश्च वेदापरिगृहीताः कणभक्षाक्षपादक्षपणकभिपक्षाः क्षपिता वेदितव्याः" इति ।
न च सूत्रनिबद्धं सर्वं विद्यास्थानमिति नियमो दृष्टः; न चैक एवैकस्य विद्यास्थानस्य सूत्रकृदित्यपि वा ऋषिरित्येव वा राजाज्ञा, अन्यैरपि च तत्करणदर्शनात् ॥
प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिः ।
1 एवं च प्रमैव प्रमाणमित्येके ।

2 प्रमाकरणमेवेत्यपरे ।
3 तयोरन्यतरदित्यन्ये ।
4 यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् ।
5 यदज्ञानात् संसारो यज्ज्ञानात् तन्निवृत्तिस्तत् प्रमेयं मुमुक्षुभिः प्रकर्षेण मेयत्वात् ।
6 तद्द्विविधं द्रव्याद्रव्यभेदात् ।
7 सामान्यतो वा प्रमाविषयः प्रमेयम् ।
8 आगन्तुकधर्माश्रयो द्रवयम् ।
9 अतथाभूतमद्रव्यम् ।
10 द्रव्यं द्वेधा जडमजडमिति ।
11 जडं च द्वेधा प्रकृतिः काल इति ।
12 अजडं च तथा प्रत्यक् परागिति ।
13 प्रत्यगपि द्विविधं जीवर् इश्वर इति ।
14 परागपि तथा धर्मभूतज्ञानं नित्यविभूतिश्चेति ।
15 अथवा द्रव्यं द्विविधमात्मानात्मभेदात् ।
16 त्रेधा वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् ।
17 षोढा वा त्रिगुणकालजीवेश्वरशुद्धसत्त्वमतिभेदात् ।
18 अस्वयंप्रकांशं जडम् ।
19 स्वयंप्रकाशमजडम् ।
20 मिश्रसत्त्वाश्रयः प्रकृतिः ।
21 कालः क्षणलवादिव्यवहारहेतुः ।
22 स्वस्मै भासमानं प्रत्यक् ।
23 परस्मै भासमानं पराक् ।
24 परतन्त्रचेतनो जीवः ।
25 स्वतन्त्रर् इश्वरः ।
26 अर्थप्रकाशो बुद्धिः ।
27 प्रकृतिव्यतिरिक्तत्वे सति सत्त्वाश्रयो नित्यविभूतिः ।
28 अद्रव्यमनेकधा सत्त्वशब्दादिवैचित्र्यात् ।
29 एकं वेतरविशिष्टं प्राधान्यतः प्रमेयं परं ब्रह्म ।
30 इतरेषां स्वनिष्ठब्रह्मैकनिष्ठत्वात् ।
31 तस्यैव च तथात्वेन मुमुक्षुभिः प्रकर्षेण मेयत्वश्रुतेः ।
32 अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः ।
33 अयथाव्यवहारकारणं ज्ञानं विपर्ययः ।
34 संस्कारमात्रजं ज्ञानं स्मृतिः ।
35 तद्व्यतिरिक्तं ज्ञानमनुभवः ।
36 पुरुषप्रवृत्त्युद्देश्यं प्रयोजनम् ।
37 व्याप्त्यधिगमस्थानं दृष्टान्तः ।
38 प्रामाणिकत्वाभिमतैः परिगृहीतोर्ऽथः सिद्धान्तः ।
39 परार्थप्रमाणप्रयोगवाक्यावान्तरवाक्यान्यवयवाः ।
40 व्याप्याङ्गीकारेण व्यापकानिष्टप्रसञ्जनं तर्कः ।
41 तर्कानुगृहीतप्रमाणपूर्वकतत्त्वावधारणं निर्णयः ।

42 वीतरागकथा वादः ।
43 पक्षद्वयसाधनवती विजिगीषुकथा जल्पः ।
44 प्रतिपक्षस्थापनहीना तु सा वितण्डा ।
45 हेत्वङ्गैकदेशविकला हेत्वाभासाः ।
46 अविवक्षितशब्दार्थारोपेण दूषणं छलम् ।
47 स्वव्यापिदूषणं जातिः ।
48 कथकाशक्तिलिङ्गं निग्रहस्थानम् ।
49 इत्येतादृशानि वाक्यानि किं न सूत्राणि स्युः ? तदिह संक्षिप्तं लक्षणादिवाक्यं सूत्रम्; तदुदाहरणादिवाक्यं तु भाष्यादिकमिति विभाव्य संतोष्टव्यम् ।
न च पूर्वप्राबल्यव्यवस्था, तत्पूर्वसंभवात् वार्तिकस्य चानवतारप्रसङ्गात् व्याकरणादिष्वन्यथाकरणस्वीकाराच्च ।
न च जैमिनेः प्रमाणलक्षणादिष्वौदासीन्यमात्रेण गौतमोक्तेषु काश्यपोक्तेषु वा निःशेषानुमतिसिद्धिरिति मन्तव्यम्, अन्यपरतया लोकप्रसिद्धोपजीवनात्, परकल्पिततटाकोपजीवनवत् ।
कर्मकाण्डवृत्तिकारादयो ऽपि हि लोसिद्धां प्रमाणादिव्यवस्थां यथायथमन्यथा संजगृहुः ।
अतो यावदिह युक्तियुक्तं तावदुपजीव्यते; न खलु तटाकस्थःपङ्को ऽप्यपङ्किलबुद्धिभिस्ततदवगाहिभिरुपजीव्यते ।
अतः सिंहवनगुप्तिन्यायेन यथावस्थितन्यायानुगृहीतं वेदं वेदानुमतं च न्यायमनुसरामः, न पुनर्न्यायमात्रम् ॥
यत्तु "ज्ञातसंबन्धस्य" इत्यादिग्रन्थमुपादायानन्तरमुक्तं श्रीविष्णुचित्तेः---- "व्याप्तिधीगर्भानुभवो ऽनुमानमित्यर्थः ।
न्यायशास्त्रे तु तद्विशेषनिर्णयः" इति, तदपि तन्निरूपणाधिकृतविद्यास्थानख्यापनपरम् ।
प्रमाणादिसूत्रमुपादाय व्याचक्षाणैस्तत्पक्षनिष्ठैरपि पूर्वैः क्वचित् सूत्राणि निराकृतानि ।
तन्न्यायस्य नास्मासु सर्पमारः, नापि दण्डनिवारणम् ।
ततश्च, यथालोकं यथावेदं लौकिके वैदिके ऽपि च ।
यो वक्ता स परिग्राह्यः प्राक्तनो ऽद्यतनो ऽपि वा ॥
विवक्षितार्थावैशद्यं व्याकुलत्वमपूर्णता उल्लोकतेत्यमी दोषा गुणकोटौ जडैः कृताः ॥
भगवन्नार्थमुनिभिर्न्यायतत्त्वसमाह्वया ।
अवधीर्याक्षपादादि न्यबन्धि न्यायपद्धतिः ॥
तदर्वाग्भिस्तथाचायैर्यथेष्टं मतमास्थितैः ।
प्रणिन्ये बहुधा तैस्तैः प्रमाणादिविचारणा ।
तदयं भाष्यस्वःससिद्धो बहिष्कारपक्षः ॥
न्या. प. प्र. 3 ॥
गौतमसूत्रस्वीकारपक्षः ॥
अङ्गीकारकाङ्क्षिणामक्षपादीयमप्यस्मदुक्तैकान्ततया स्थास्यति; तथैव स्थापयिष्यामः ।
अतो वयमपि महतामयुक्तार्थतात्पर्यकल्पनेन नापराध्येम, न्यूनाधिकविरुद्धव्यपदेशादीनामलक्षणलक्षणोक्तीनां चाध्याहारान्यपर्याम्यां तद्भक्तेरपि निर्वाहात् ।
तथास्मिन् यत्र स्फुटः श्रुतिस्मृतिशारीरकविरोधः, स उद्देशतो निरुह्यते ॥
यत्तावत्सूत्रितं प्रथमाध्याये --- "घ्राणरसनचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः" इति; अत्र ज्ञानेन्द्रियपञ्कोपादानं नेन्द्रियान्तरप्रतिक्षेपार्थम्, मनसः पृथक्प्रमेयतया उद्देशात् अनन्तरमेव च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति लक्षणकरणात् अभ्युपगमसिद्धान्तन्यायेन च तदिन्द्रियत्वपरीक्षणात् ।
अतश्चोक्तेन समानयोगक्षेमयुक्तिप्रमाणकः कर्मेन्द्रियवर्ग उपलक्षणीयः, "प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः" इति सूत्रे वाचः कण्ठोक्तेः पाण्यादिचतुष्टयस्य शारीरव्यापारकरणतया सूचनादिति ॥
शरीरके तु "सप्तगतेर्विशेषितत्वाच्च" इति पूर्वपक्षमुपक्षिप्यासाधयच्च हस्तादीनामपीन्द्रियत्वं भगवान् बादरायणः--- "हस्तादयस्तु स्थिते ऽतो नैवम्" इति ।
"भूतेभ्यः" इति च नोपादानाभिप्रायम्, अहङ्कारोपात्तानामाप्यायकभूतविवक्षयापि तदुपपत्तेः ।
तथा च वेदार्थसंग्रहे---"एवमाहङ्कारिकाणामिन्द्रियाणां भूतैश्चाप्यायनं महाभारत उच्यते" इति ।
समाधानम् ऋष्यन्तरवाक्यस्यापि समानन्यायस्य निर्वाहार्थम् ।
परस्परविरुद्धप्रमाणवाक्येषु तात्पर्यविशेषपरिकल्पनया परिहार एव हि पण्डितकृत्यम् ।
अनित्यमनोवादिभिरपि हि "अन्नमयं हि सोम्य मनः"--- इति श्रुतिराप्यायनपरतयैव योज्या ।
तुल्यमिदमन्यत्रापीति ॥
यत्तु---"बाधनालक्षणं दुःखम्" "तदत्यन्तविमोक्षो ऽपवर्गः" इति, तत्र दुःखात्यन्तनिवृत्तेरपवर्गत्वं सर्वाङ्गीकृतम् ।

न च तत्रानन्दः श्रौतः कण्ठोक्त्याः प्रतिषिध्यते ।
तदभिप्राये चानन्यथासिद्धं किमपि न लिङ्गं पश्यामः ।
अत एव हि भूषणमते नित्यसुखसंवेदनसंबन्धसिद्धिरपवर्गे साधिता ।
एतेन "तस्मात्सर्वदुःखविमाक्षो ऽपवर्गः" इति चतुर्थाध्यायवाक्यमपि निर्व्यूढम्, तत्राप्यानन्दनिषेधाभावात् ॥
यच्च शारीरकद्वितीयाध्यायविरुद्धमिह द्वितीयाध्याये अवयविसमर्थनमिवाभाति, तदपि तदेकार्थं योजयितुं शक्यम् ।
तथा हि---"न चैकदेशोपलब्धिरवयविसद्भावात् ।
साध्यत्वादवयविनि संदेहः ।
सर्वाग्रहणमवयव्यसिद्धेः ।
धारणाकर्षणोपपत्तेश्च ।
सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ।
" इत्येतानि हि तत्सूत्राणि; न तानि विरुध्यन्ते, सेनावनादिव्यावृत्तावयव्यारम्भकतया तदसमवायिकारणत्वाभिमतावस्थाविशेषापन्नः संघातविशेष एवावयविशब्देन निर्दिंश्यत इत्यविरोधात् तावतैव उपलम्भव्यवहारविशेषादेश्चरितार्थत्वात् ।
अतीन्द्रियाणुवचनमपि प्रदीपावयवानामिवैन्द्रियिकाणामेवावस्थाविशेषेणातीन्द्रियत्वाभ्युपगमादविरुद्धम् ।
अव्यक्तमेव हि त्रिगुणद्रव्यमवस्थाविशेषाद्रव्यक्तं भवतीत्यागमिकाः ।
प्रत्येकमुपलम्भायोग्यानामपि संहतिविशेषरूपावस्थाभेदादैन्द्रियिकत्वतत्तारतम्यादिकं हिमानीचूर्णपुञ्जादिष्वनारब्धावयविषु लोकसिद्धम् ।
उपमानाख्यप्रमाणान्तरसमर्थनं तु न्यायैकदेशिभिरेवोपमानस्यानुमानान्तर्भावप्रतिक्षेपमात्रपरतया निर्व्यूढम् ॥
यच्च---"पूरणप्रदाहपाटनानुपलब्धेश्च संबन्धाभावः" इति शब्दार्थसंबन्धाभावमुपक्षिप्य परिहरता "शब्दार्थव्यवस्थानादप्रतिषेध्ः" ।
"न सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य" इत्यादिना सामयिकत्वमुक्तम्; तदपि संप्रतिपन्नसामयिकत्वद्वारा अनुमानादिविलक्षणसंबन्धविशेषख्यापनार्थमिति योज्यम्, अनादिनिधनाविच्छिन्नसंप्रदायवेदवर्तिनां पदानां मन्वादिवचनविरुद्धसांकेतिकत्वोपपादनकॢप्त्यसंभवात् ।
यच्च "मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्" इति, एतदप्यनादिनिधनस्यैव वेदस्य प्रतिकल्पमीश्वरेणाप्ततमेन यथापूर्वं प्रवर्तनमभिसंधायेति सुगमम् ॥
वर्णानित्यत्ववर्णनं तु न श्रुत्यादिविरुद्धम्; प्रत्युतानुकूलमेव ।
शारीरकदेवताधिकरणे वर्णानित्यत्वमभ्युपगम्यैव हि "अत एक च नित्यत्वम्" "समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च" इति वेदनित्यत्वं साधितम् ॥
यत्तु जैमिनीये शब्दाधिकरणे वर्णनित्यत्वसमर्थनं व्याचख्युः; स तु व्याख्यातॄणामेवापराधः, असांकेतिकवाचकाकारनित्यत्वपरत्वेनान्यपरत्वात्तस्याधिकरणस्य ॥
यच्च द्वितीयाध्यायान्ते "व्यक्त्याकृतिजातयस्तु पदार्थः"इत्युक्तम्, तत्रापि न वैशेषिकाभ्युपगतजातिस्वीकारे लिङ्गं पश्यामः; नह्यत्र द्रव्यगुणादिपदार्थपरिसंख्यानं क्रियते, "ते विभक्त्यन्ताः पदम्" इति प्रतिपादितपदवाच्यप्रदर्शनपरत्वात् ।
अनन्तरं चतिसृणामेव लक्षणमाह---"व्यक्तिर्गुणविशेषाश्रयो मूर्तिः""आकृतिर्जातिलिङ्गाख्या" "समानप्रसवात्मिका जातिः" इति ।
इह तु वस्तुस्वरूपनिरूपितस्वरूपविशेषकधर्मस्वरूपनिरूपकधर्मविषयतया यथासंभवं योज्यम् ।
अतो न द्वितीयाध्याये ऽपि वेदान्तविरोधः ।
तृतीये "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्" इत्यादिकं बाह्यान्तरिन्द्रियादिनिरूपणादिकं चात्यन्तोपयुक्तम् ।
न च मनोनित्यत्वादिकं तत्र सूत्रितम्; येन तदुत्पत्त्यादिश्रुतिकोपः ॥
यच्चात्रोक्तम्---"गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं श्रुतिप्रामाण्याच्च" इति, एतदेव यथाश्रुतं सिद्धान्ततया स्वीकार्यम् ।
यदपि "गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः" "अप्तेजोवायूनां पूर्वपूर्वमपोह्याकाशस्योत्तरः" इति गुणव्यवस्थापनम्, तत्र तु तथैवाभ्युपगमे ऽपि न वस्त्वन्तरविरोधः ।
तथाप्याकाशादिषु शब्दादेरेकद्वित्रिचतुष्पञ्चक्रमेण पुराणेषु पाठात्, आकाशानुप्रवेशादन्यत्र शब्द इति निर्वाहे वारूवाद्यनुप्रवेशादुत्तरोत्तरेषु स्पर्शादिरिति निर्वोढुं शक्यत्वात्, उपलम्भान्वयव्यतिरेकाभ्यां व्यवस्थापनस्यापि समत्वात्, गन्धादिसूत्रं पृथिव्यास्ते सन्त्येवेत्ययोगव्यवच्छेदेन निर्वाह्यम् ।
"आकाशस्योत्तरः" इत्यत्र तु तस्य स एवेत्यन्ययोगव्यवच्छेदेन ।
कति कति चैवं सूत्राणि क्लिष्टानि परैरपि निरुह्यन्ते ॥
यच्च---"स्वगुणान्नोपलभन्त इन्द्रियाणि कस्मादितिचेत्" "सगुणानमिन्द्रियभावात्" इत्यत्र "न शब्दगुणोपलब्धेः" इत्युक्तम्; तत्रापि श्रोत्रेन्द्रियस्य आकाशाप्यायितात्वादाप्यायकगुणस्य तद्गुणतां पटनैल्यपानीयसौरभादिवत् प्रकल्पोक्तमुत्तरम् ।
अथवा यथागममाहङ्कारिकत्वमिन्द्रियाणामजानतश्चोद्ये भूताप्यायितेन्द्रियपक्षे स्थित्वैवेदमुत्तरं गूढाभिप्रायेण ददीय इति ।
एतदुक्तं भवति---भवता किमिन्द्रियगुणोपलम्भाभाव उच्यते, किं वा तदाप्यायकगुणोपलम्भाभावः ? पूर्वत्राङ्गीकार एवोत्तरम्, शब्दादीनामनिन्द्रियगुणत्वात् ।
उत्तरत्र व्यभिचार इति ।
अतो न वेदान्तविरोधप्रसङ्गः ॥
चतुर्थे ऽध्याये--प्रवृत्तिरागद्वेषादिनिरूपणम्, आत्मनित्यत्वादिना प्रेत्यभावादिप्रतिपादनम्, अनिमित्तभावोत्पत्तिसर्वानित्यत्वसर्वनित्यत्वादिनिरूपणं चात्यन्तानुगुणम् ।
अवयविप्रसङ्गश्च प्रागुक्तन्यायेन नेतव्यः ।
पञ्चमस्तु जातिनिग्रहस्थानमात्रोपक्षीणो न क्वचित्तत्त्व उपकरोति ।

व्यवहाराङ्गविमर्शसौन्दर्यासौन्दर्यादिकं तु वास्तवलक्ष्यलक्षणयुक्त्यादिपरामर्शवैज्ञानिकैरर्थस्थितिमात्रानुसारादनादरणीयम् ।
यत् पुनरर्वाग्भिरक्षचरणपञ्चाध्याय्यां कुशकाशावलम्बेन कणचरणकथां निवेश्य नैगमिक्यः पदव्यो निरुध्यन्ते, तत्र तु नूनं स एव गौतमः स्वयमन्तः प्रहसति ॥
इति स्वीकारपक्षः ॥
यद्वा नातीव च बहिष्कारो नातीव च परिग्रहः ।
सांख्यादिवदिहापि स्यात् समाधिस्तौषतंण्डुलः ॥
उपजीव्यबहुत्वेन विद्यास्थाननिवेशनम् ।
विरुद्धांशैकविषया सूत्रादिषु बहिष्क्रिया ॥
न्या. प. प्र. 4 ॥
अधिकारिविवेचनम् ॥
नियताधिकारश्चायं न्यायविस्तरः ।
अधिकाराच्च नियतः स्यादयं न्यायविस्तरः ।
अप्रत्यवायो माहात्म्याद्दयालुः शास्त्रमब्रवीत् ॥
सर्वाधिकारमित्येतदसमीक्षितभाषितम् ।
कथमागमवृत्तान्तमनधीतागमा विदुः ॥
निषिद्धे प्रेरयंस्तान्वा कथं कारुणिको भवेत् ।
न च शक्या नरशिरःपावित्र्याद्यनुमाक्षतिः ॥
विहायागममक्षाद्यैर्द्विधा तत्रापि विप्लवः ।
श्रुत्यां ह्यनधिकारित्वात्तदन्यत्राव्यवस्थितेः ॥
धर्मक्षोभामुमाभङ्गे कथं शूद्रादयः क्षमाः ।
अथ त्रैवर्णिकैरुक्ते त्वन्यो विश्वसितीत्यपि ॥
स्वयं न्यायविचारे ऽस्य फलत्यनधिकारिताम् ।
प्रत्यक्षानुमयोर्यत्र नित्यं वेदानपेखता ॥
तत्रापशूद्रभाष्योक्ता शूद्रादेरप्यधिक्रिया ।
चतुर्दशापि स्थानानि भगवान् धर्मविद्ययोः ॥
न स्प्रष्टव्यानि शूद्रैरित्यब्रवीदाश्वमेधिके ।
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत ।
उत्पन्नानि पवित्राणि पावनार्थं तथैव च ॥
तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि कथञ्चन ।
" इति ॥
तस्मादेतानि त्रैवर्णिकैरध्येतव्यानि ।
तत्र ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि ।
क्षत्रियवैश्याभ्यां धर्मानुष्ठानायैव ।
तथा शङ्खेन विद्यास्थानान्यनुक्रम्योक्तम्--- "एतानि ब्राह्मणो ऽधिकुरुते ।
स च वृत्तिं दर्शयतीतरेषाम्" इति ।
एवमेव धर्मशास्त्रसंग्राहकैः समर्थितम् ।
ततश्च येषां कर्मब्रह्ममीमांसावसेयतत्त्वहितरूपप्रमेयचिन्ताधिकारः, तेषामेव तात्पर्यपर्यवसायितया धर्मविद्यास्थानाभिमतन्यायंविस्तरान्धिकारप इति सिद्धम् ॥
न्या. प. प्र. 5 ॥
प्रयोजननिरूपणम् ॥

प्रत्यक्षादिप्रमाणेन शुद्धिः पदतदर्थयोः ।
मानमेयादिनियतिर्निर्देषोक्तेश्च मानता ॥
ग्रावप्लवनवाक्यादावान्यपर्यं विरोधतः ।
चित्रापशुफलत्वादावबाधद्वारसंग्रहः ॥
अनुवादविधानादिचिन्ता प्राप्त्यादिपूर्विका ।
प्रत्यक्षादिष्वसिद्धेषु न कल्पेत कथञ्चन ॥
एवमाद्युपयोगेन मुनिभिर्न्यायविस्तरः ।
वेदानुग्रहणाद्धर्मविद्यास्थानतयोदितः ॥
आगमाख्यप्रमाणे तु संशुद्धे न्यायविस्तरात् ।
तद्विशेषस्य मीमांसा साधयेद्धर्ममानताम् ॥
प्रमेयस्यापि संशुद्धिरन्ततो ब्रह्मचिन्तनात् ।
इह तस्य निवेशस्तु तादर्थ्यादिप्रसिद्धये ॥
प्रमाणमेवास्य शास्त्रस्य प्राधान्यतो विषयः ।
तत्र प्रेक्षावदधिचिकीर्षासिद्ध्यर्थम्---प्रमेयतत्त्वज्ञानं हानोपादानद्वारा निःश्रेयसहेतुः, तच्च सपरिकरात् प्रमाणात्---इति परम्परया प्रयोजनज्ञापनाय प्रदर्शनमात्रमिहाभिमतम् ।
अतः प्रधानविषयतया, प्रमेयादिसाधकतया च प्रमाणं प्रमेयादपि पूर्वमुच्यते ।
तत्र व्यवच्छेद्यत्वाङ्गत्वादिमुखेन संशयादयो ऽपि चतुर्दश यथायथं निरूप्यन्ते ।
न च षोडशत्वे निर्बन्धः, अतथात्वविपर्ययत्वाद्युपाध्यन्तराधीनसंग्रहविभजनाभ्यां न्यूनाधिकोद्देशस्यापि शक्यत्वात् उपयोगानुपयोगाविशेषाच्च ।
एतावदेवगौतमस्यापि हृदयमिति ॥
न्या. प. प्र. 6 ॥
प्रमाणाप्रमाणव्यवस्थापनम् ॥
अस्ति तावदिदं प्रमाणमिदमप्रमाणमिति प्रसिद्धो लौकिकपरीक्षकव्यवहारघण्टापथः ।
तदनादरे तु निराश्रयतया परीक्षणस्याप्यनुदयः ॥
व्यवहारो हि जगतो भवत्यालम्बने क्वचित् ।
न तत्सामान्यतो नास्ति कथन्ता तु परीक्ष्यते ॥
सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते ।
परीक्षा ह्युचिता स्वेष्टप्रमाणोत्पादनात्मिका ॥
न सर्वस्याप्रमाणत्वं स्वपक्षस्य स्वतः क्षतेः ।
न सर्वस्य प्रमाणत्वं स्वपक्षस्यान्यतः क्षतेः ॥
सिद्ध्यसिद्ध्यो स्वपक्षस्य सिद्धा लोकव्यवस्थितिः ।
तत्सिद्ध्यसिद्ध्योस्त्वत्पक्षो न कथञ्चन सिध्यति ॥
प्रमाणेन प्रमाणस्य बाधः स्वव्याहतेर्हतः ।
अप्रमाणेन तद्बाधे साधनं च ततो न किम् ॥
अप्रमाणात् प्रमाणाद्वा मानसिद्धिर्न चेन्न तत् ।
यतः प्रमाणतस्तस्य सिद्धिः स्वपररक्षिणी ॥
बाधाबाधव्यवस्थापि मानतः स्याद्रव्यवस्थितात् ।
अन्यथा त्वव्यवस्थाया न व्यवस्थेत्यवस्थितेः ॥
सर्वत्रानिर्णये न स्तः संशयोत्पत्तिनिर्णयौ ।
यथा तत्कोटितत्सिद्धिस्तथान्यत्रापि युज्यते ॥
धर्मिसाधारणाकारकोटीनां पूर्वनिश्चये ।
असावयमयं वेति ह्याविर्भवति संशयः ॥

सर्वत्र संशयस्तावन्न सर्वस्यापि दृश्यते ।
सर्वं संदिग्धमिति ते निपुणस्यास्ति निश्चयः ॥
संशयश्च न संदिग्धः संदिग्धाद्वैतवादिनः ।
दूरं गत्वापि दुर्वारः संशये निर्णयस्तव ॥
मानामानविभागे ऽतः सामान्येन व्यवस्थिते ।
क्वाचित्कसंशयोच्छित्त्यै लक्षणं संप्रचक्षते ॥
तत्र व्युत्पत्तिविवक्षाभेदात् प्रमितिं तत्करणं च यथेच्छं प्रमाणमाहुरित्यवोचाम, आश्रयप्रामाण्यस्यानादेशिकत्वात् ।
"आप्तप्रामाण्यात्"---आप्तोक्तत्वहेतोः प्रामाण्यादित्यर्थः ।
न हि वक्तृप्रामाण्यं वाक्यप्रामाण्य उपयुज्यते लौकिकवाक्येषु; किन्तु कारणदोषाभावः ।
द्विधापि प्रमितिरेव शोध्या ॥
न्या. प. प्र. 7 ॥
प्रमालक्षणपरीक्षणम् ॥
तत्रास्मदीया एव केचिदन्यथाख्यातिमिच्छन्तः स्मृतेः प्रामाण्यमनिच्छन्तः सम्यगनुभवः प्रमेति लक्षयन्ति; उभयमिच्छन्तः, यथार्थज्ञानं प्रमेति; उभयमनिच्छन्तः, अनुभूतिः प्रमेति ।
एवंप्रायाणि च वाद्यन्तरोक्तानि लक्षणानि ॥
वयं तु ब्रूमः--- यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति ।
यथार्थख्यातिमख्यातिमन्यथाख्यातिमेव वा ।
इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः ॥
स्मृतिमात्रांप्रमाणत्वं न युक्तमिति वक्ष्यते ।
अबाधितस्मृतेर्लोके प्रमाणत्वपरिग्रहात् ॥
बुद्धागमादित्यागे च न हेतुः स्मृतिमूलता ॥
विशुद्धस्मृतिमूले ऽपि मानवादौ प्रसङ्गतः ॥
भ्रान्तिं प्रमातो भिन्दन्तो न चाहुः स्मृतिमानताम् ।
स्मृतित्वमेव हि व्यक्तमप्रामाण्यं भवन्मते ॥
पीतशङ्खभ्रमादौ च न ह्येतदुपपद्यते ।
चक्षुषैव हि शङ्खादेः पीतिमादेश्च तत्र धीः ॥
ततश्च प्रतिपत्तौ वा व्यवहारोदये ऽपि वा ।
तथाभावान्यथात्वाभ्यां प्रमाभ्रान्तितव्यवस्थितिः ॥
विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति ।
यत्किञ्चिदन्यथात्वं हि वैपरीत्यमितीष्यते ॥
आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम् ।
भ्रमप्रवृत्तिबाधादेरन्यथा न हि संभवः ॥
एवं सत्यन्यथाधीस्तत्सामग्री वापि लाघवात् ।
अयथाव्यवहारस्य हेतुरित्यवशिष्यते ॥
सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी ।
तद्वादिनाप्यवर्ज्यत्वात् ततो ऽप्यख्यातिलाघवम् ॥
स्वारस्यमन्यथाख्यातावख्यातौ लाघवं स्थितम् ।
इति दर्शयितुं भाष्ये द्वितयं तदनुज्झितम् ।
यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् ।
तल्लोकबुद्ध्यनारोहाद्वैभवं केचिदूचिरे ॥
मानाद्रूप्यादिसत्त्वे ऽपि तयोरन्यतरद्ध्रुवम् ।

कार्याक्षमत्वाग्रहणात् तत्क्षमत्वग्रहेण वा ॥
ख्यात्यन्तराणां दोषास्तु तत्तत्सिद्धान्तशीलने ।
स्वयमेवोन्मिषन्त्येव संग्रहात् किञ्चिदुच्यते ॥
तत्रात्मख्यातौ तावत्--- अन्यद्विज्ञानमस्तीति धीरन्यविषया न वा ।
आद्येर्ऽथस्यापि तद्वद्धीरन्यत्रैकैव धीर्भवेत् ॥
संतानान्तरविज्ञानं स्वसंताने क्षणान्तरम् ।
या धीः साधयते सा हि स्वतो बाह्यं विगाहते ॥
सहोपलम्भनियमः संविदो ग्राह्यलक्ष्म च ।
बोधे ऽप्यर्थ इवेत्येवं ज्ञानार्थैक्यं न तद्भवेत् ॥
दोषादिहेतुजालस्य मिथ्यावे ऽपि यथेष्यते ।
अधिष्ठानस्य मिथ्यावे ऽप्यनिवार्यस्तथा भ्रमः ॥
ततो माध्यमिकस्यैव पक्षस्तत्रावशिष्यते ।
न च तत्रापि निस्तारः सर्वथानुपपत्तितः ॥
असत्त्वं लौकिकं ब्रूषे लोकोत्तरमथापि वा ।
न निषेधो निरुपधिः पूर्वत्रान्यन्न धीपदम् ॥
चतुष्कोटिविमुक्तं च तत्त्वं प्रामाणिकं न वा ।
पूर्वत्र तावती सत्ता न चेत् तद्धीरसन्मतिः ॥
अन्येषां च निरधिष्ठानख्यातौ --- अत्रासदेव भवतामत्रेति ख्यायते न वा ।
आद्ये सिद्धमधिष्ठानं द्वितीये ख्यात्यपह्नवः ॥
किं च स्वनेत्रनिष्ठ्यूतं तिमिरं तिमिरार्दितैः ।
केशस्तबकसादृश्यात् तथा भात्येवमीदृशाः ॥
यद्यप्यविद्यमानोर्ऽथो विद्यमानतया स्फुरेत् ।
तथाप्यसावधिष्ठानं स्वदेशादौ मितो हि सः ॥
इदन्त्वेन प्रतीतेर्ऽथे तदारोपं परे विदुः ।
तस्मिन्निदन्त्वारोपस्ते फलतस्तुल्यता द्वयोः ॥
अनिर्वचनीयख्यातौ --- अनिर्वाच्यतया वस्तु निरुच्येत न वा त्वया ।
आद्ये विरोधो विविधो द्वितीये ऽस्मन्मतस्थितिः ॥
सदसद्व्यतिरेको ऽपि विरुद्धो यदि गृह्यते ।
सदसद्रूपता किं नु प्रतीता तु न गृह्यते ॥
अनुष्णाशीतवत् तुच्छाद्ब्रह्मणश्चातिरेकिता ।
साध्येत ख्यातिबाधादेर्यदि सिद्धं तदत्र नः ॥
न च विश्वस्य बाधो ऽपि स्वरसादुपजायते ।
अप्रतिष्ठितयुक्त्या तु बाधो ब्रह्मापि संस्पृशेत् ॥
नाशात् सदितरत्वं च नाशकाले यदीष्यते ।
स्वकाले यदि बाधः स्यान्नाशस्याप्यनिरूपणम् ॥
नित्यत्वेन श्रुतानां च केषां चिन्न हि नाशिता ।
भागासिद्धस्ततो हेतुर्न चैक्यं नाशबाधयोः ॥
निर्विषयख्यातौ --- विषयालीकभावादौ ख्यात्यन्तरपरिग्रहः ।
अनुल्लेखस्तु रूप्यादिधीरित्युक्त्या निबर्हितः ॥
न्या. प. प्र. 8 ॥

निगमनम् ॥
ततश्चात्रान्यथाधीर्वा तद्धेतुमतिरेव वा ।
भ्रान्तिर्वस्तुविरूपस्य व्यवहारस्य कारणम् ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये प्रथममाह्निकम् ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
न्या. प. प्र. 9 ॥
द्वितीयमाह्निकम् ॥
तदिहान्यथाख्यातिपक्षे विपर्ययस्य संशयस्य च व्यवच्छेदार्थम् "यथावस्थितव्यवहारानुगुणं ज्ञानम्" इति प्रमाणलक्षणे यथावस्थितादिविशेषणम् ।
अख्यातिपक्षे ऽपि तत्सामग्र्यनुप्रविष्टं ज्ञानं तचछब्देन व्यपदिश्यते ।
तच्च तत्राप्रमाणमिति लोकसिद्धत्वाद्व्यवच्छेद्यमेव ।
तत्रापि प्रत्येकांशे याथार्थ्यं न विहन्यते ॥
न्या. प. प्र. 10 ॥
विपर्ययनिरूपणम् ॥
तत्राद्ये पक्षे अन्यस्य अन्यथाध्यवसायो विपर्ययः ।
द्वितीये तु पक्षे सामान्यतो धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसाय इति ॥
स चायमनेकविधः---एकानेकविरुद्धविशेषस्फुरणात् ।
तत्र एकविशेषस्फुरणं यथा--- पीतः शङ्ख इत्यादि ।
अनेकविशेषस्फुरणं यथा---एकमेव भिन्नमभिन्नं चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणो ऽसद्विलक्षणश्चेत्याद्यद्वैतवादिनाम् ।
परस्परविरुद्धानेकविशेषवतर् इदृशस्य विपर्ययस्य संशयाद्भेदो मिथोविरोधाभिमानविरहेण समुच्चिताध्यवसायः ।
धर्मविरोधे परस्पराविरुद्धानेकविशेषस्फुरणं यथा--- विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वद्वित्वादिग्रहः ।
विपर्ययमेव धर्मान्तरधर्म्यन्तरभेदादन्यथाख्यातिविपरीतख्यातिभेदेन क्वचिद्व्यवहरन्ति ।
यथा पीतशङ्खरज्जुसर्पभ्रमौ ।
तयोश्च रजस्तमसी मूलमिति गीयते ---
"यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्मं धर्ममिति या मन्यते तमसा वृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी" ॥
इति ॥
यद्यपि रज्जुसर्पादिभ्रमे रज्जुत्वादिधर्मविपरीतसर्पत्वादिधर्माध्यास एव, तथापि स्वरूपनिरूपकधर्मत्वेनान्तरङ्गतया धर्मिवैपरीत्यव्यपदेशः ।
श्वैत्यादेस्तु निरूपितस्वरूपविशेषकत्वमेव ।
विवरणे त्वेवमुक्तम्--- "त्रिविधमज्ञानम्---स्वरूपाज्ञानम्, अन्यथाज्ञानम्,विपरीतज्ञानमिति ।
स्वरूपाज्ञानं नाम वस्तुनो ऽप्रतिपत्तिः ।
अन्यथाज्ञानं वस्तुनो वस्त्वन्तरतया भानम्; यथा---शुक्तेः रूप्यतया ।
विपरीतज्ञानं तु यथावत् वस्तुनि भासमाने युक्तिभिस्तस्यान्यथोपपादनम्; यथा---ज्ञातृतया अहन्त्वेन आत्मनि भासमाने ऽपि कुयुक्तिभिरस्यभ्रान्तितोपपादनं कुदृशाम्" इति ।
अधर्मेन्द्रियदोषदुस्तर्काभ्यासदुर्व्याप्त्यनुसंधानविप्रलम्भकवाक्यश्रवणादिभिस्तत्त्वाग्रहसहकृतैर्विपर्ययस्य यथासंभवमुद्भवः ॥
न्या. प. प्र. 11 ॥
संशयनिरूपणम् ॥
सामान्यधर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेकविशेषस्फुरणं संशयः ।
यथा---ऊर्ध्ववस्तुमात्रग्रहणे सति तद्विरोधितयाननुसंधीयमानयोर्मिथःस्फुटविरोधयोः स्थाणुत्वपुरुषत्वयोः स्फुरणम्---अयं स्थाणुर्वा पुरुषो वेति ।
मिथो विरोधाग्रहणे तयोर्विकल्पो न स्यात् ।

तत एव "डोलावेगवदत्र स्फुरणक्रमः" इत्येके, एकस्मिन् युगपदन्योन्यप्रतिक्षेपस्य धीविरुद्धत्वात् ।
अत्र "चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः ।
तस्यैव बहुभिर्युगपददृढसंयोगः संशयः" इत्यात्मसिद्धिग्रन्थो ऽपि न विरुद्धः; इतरथा ज्ञानार्थयोर्दृढादृढसंश्लेषनिरूपणानुपपत्तेः ।
युगपदिति तु शैघ्षमात्रपरम् ।
यौगपद्याभ्युपगमे ऽपि अदृढत्वं परस्परप्रतिक्षेपप्रकारविशेष एव; अन्यथा अयमूर्ध्वो वा स्थाणुर्वेत्यादिसंशयप्रसङ्गः ।
यद्यप्यविरुद्धेष्वपि केषुचिदधर्मादिमूलकविरोधग्रहणात् केषाञ्चिदीदृशो ऽपि संशयः संभवति; यथा--- आत्मा ज्ञानं वा ज्ञाता वेति, ज्ञानं धर्मो धर्मि वेत्यादि; तथाप्याभिमानिकं परस्परप्रतिक्षेपित्वं तत्राप्यस्त्येव ।
अस्य च समानधर्मविप्रतिपत्तिभ्यामेवासाधारणकारणाभ्यामधर्मादिसहिताभ्यां यथासंभवमुद्भवः ।
तदुक्तं तत्त्वरत्नाकरे--- "कश्चैष संशयः कतिविधश्च? एकस्मिन् धर्मिणि विरुद्धानेकविशेषावभासः संशयः ।
स च द्विविधः---" इत्यादिना ।
तत्र समानधर्मः साधारणो धर्मः ।
तज्जनितो यथा---ऊर्ध्वत्वाविशेषात् स्थाणुर्वा पुरुषो वेति ।
अगृह्यमाणबलतारतम्यविरुद्धानेकज्ञापकोपस्थापनमिह विप्रतिपत्तिः ।
सा च सजातीयविजातीयाभासरूपद्वित्रिचतुरादिज्ञापकभेदाद्बहुप्रकारा ।
प्रत्यक्षतदाभासविप्रतिपत्तेः संशयो यथा--- चक्षुषा समुखं प्रतिभाति दर्पणतलम्, स्पर्शनेन त्वन्यथा; किमिदं समुखं निर्मुखं वेति ।
अनुमानतदाभासविप्रतिपत्तेर्यथा--- धूमवत्त्वात् पर्वतो ऽग्निमान्, निरालोकत्वादनग्निरित्यत्र साग्निरनग्निर्वेति ।
श्रुतिविप्रतिपत्तेर्यथा---भेदाभेदव्यपदेशाभ्यां जीवो ब्रह्मणो भिन्नो ऽभिन्नो वेत्यादि ।
वादिविप्रतिपत्तेर्यथा---वैशेषिकौपनिषदवाक्यद्वयश्राविणो मध्यस्थबुद्धेः किमिन्द्रियाणि भौतिकानि, आहङ्कारिकाणि वेति ।
एवं पामरादिवाक्यविप्रतिपत्तेरपि ---नद्यास्तीरे फलानि सन्ति, न सन्ति वेत्यादि ।
प्रत्यक्षानुमानविप्रतिपत्तेर्यथा---चक्षुषा पीतशङ्खभ्रमे शङ्खत्वाच्च सितत्वानुमाने, किमयं शङ्खः पीतः सितो वेति ।
प्रत्यक्षागमविप्रतिपत्तेर्यथा---किमहमर्थः स्थूलो ऽणुर्वे ऽति ।
अनुमानागमविप्रतिपत्तेर्यथा --- किं परमाणूपादानं जगत्, उत ब्रह्मोपादानमिति एषा दिक् ॥
केचित्तु विप्रतिपत्तिशब्दमात्रे मुह्यन्तो वादिविप्रतिपत्तिमेव विप्रतिपत्तिं मन्यन्ते, तदयुक्तम्, विशेषाभावात् ॥
यदुक्तं प्रज्ञापरित्राणे --- "साधारणाकृतेर्दृष्ट्यानेकाकारग्रहात्तथा ।
विपश्चितां विवादाच्च त्रिधा संशय इष्यते" ॥
इति ; तदपि नूनं परानुकारमात्रम्, द्वितीयतृतीययोरकैराश्यात् ग्राहकावान्तरभेदस्यातिप्रसङ्गित्वात् अप्रयोजकत्वाच्च ।
अत्र चानेकाकारग्रहो नानाकारग्रहो विवक्षितः, न त्वनेकव्यावृत्तासाधारणाकारग्रहः, अनन्तरम् "अर्थेष्वेष्वविशेषेण द्व्याकारग्राहिधीद्वयम् ।
" इत्यादिना तस्यैवोदाहरणात् ॥
असाधारणधर्मादपि केचित् संशयमाहुः; यथा---गन्धवत्त्वात् पृथिवी नित्या अनित्या वेत्यादि ।
अत्र गन्धवत्त्वस्य नित्यात्मादिव्यावृत्तेः कृतकत्वादिवदनित्यत्वस्मारकत्वम्, अनित्याबादिव्यावृत्तेर्निरवयवत्वादिवन्नित्यत्वस्मारकत्वमिति विरुद्धविशेषद्वयान्वितसमानधर्मस्येव तदुभयव्यावृत्तासाधारणधर्मस्यापि संशयहेतुत्वमुपपन्नमिति, तदयुक्तम्; न हि तत्र गन्धवत्त्वादिना संशयोत्पत्तिः, अपि तु व्यतिरेकनिरूपणविलम्बाप्रागेव गन्धादिविशिष्टद्रव्यस्य नित्यानित्यसाधारणतया भासमानैर्द्रव्यत्वादिभिरेव ।
तत्रान्यतरशिरोनिर्णिनीषया विशेषकधर्मचिन्तायां तु गन्धवत्त्वमुभयानन्वितत्वादुभयोरप्यनिष्कर्षमित्येतावदेव चिन्त्यते ।
केवलव्यतिरेकिभङ्गे चैतद्विशदं भविष्यति ।
गन्धवत्त्वात् पृथिवी नित्या वा अनित्या वेति तु यदा कश्चिद्व्यवहरेत्, तत्रापि गन्धवत्त्वं नित्यत्वानित्यत्वयोरन्यतरस्य प्रयोजकं न वा इत्येव संदेहः ।
सो ऽपि धर्मत्वादिलक्षणसमानधर्मादेव ।
अथ नित्यव्यावृत्तधर्मवत्त्वादनित्यत्वम् अनित्यव्यावृत्तधर्मवत्त्वाच्च नित्यत्वं पुरस्कृत्य नित्या अनित्या वेति संशते; तदापि हेतुभूतधर्मद्वयनिमित्तो ऽयं संशयः ।
न ह्येक एवात्र हेतुः ।
गन्धस्तु तत्र सामान्यरूपस्तटस्थः; न तु हेतुः ॥
विप्रतिपत्तिमपि केचित् समानधर्म एवान्तर्भावयन्ति ।
यथा हि ऊर्ध्वत्वमुभयसाधारणम्, तथा वादिपरिगृहीतत्वादेरपि साधारणत्वात् विमतिविषयस्य धर्मिणो वा सामान्यवेषस्य तदुभयसाधारण्यादिति ।
तथापि साधारणधर्मस्य सहानुभूतस्थाणुत्वपुरुषत्वस्मारकत्ववत् विप्रतिपत्तेरपिसमानधर्मोन्नीतिनिरपेक्षाया एव तदुपजीव्यतया तत्पूर्वभाविन्याः साक्षात्तद्विशेषस्मारकत्वसिद्धेर्द्वैधमुक्तमस्माभिः ॥
पुनश्चायं द्वित्रिचतुरादिशिरोधिकरणभेदाद्बहुविधः; यथा--- अयं स्थाणुर्वा पुरुषो वेति, घटः सत्यो ऽसत्यो निर्वचनीयो ऽनिर्वचनीयो वेत्यादि ।

तथा इमौ स्थाणू वा पुरुषौ वा, एते पदार्थाः सत्या असत्या निर्वचनीया अनिर्वचनीया वेत्यादि ।
यस्तु द्वयोरन्यतरस्य चोरत्वे सिद्धे अयं चोरः अयं वा चोर इति संदेहः, स तु अयं चोरो न वा इत्येवंरूपसंशयद्वयसमाहारः ।
यद्वा यश्चोरः, सः अयम् अयं वा इत्येक एव ।
अथ वा चोरत्वमेतन्निष्ठम् एतन्निष्ठं वेति ।
यद्यप्युभयव्यतिरिक्तपुरुषचोरत्वाभावो तयोरन्यतरस्य चोरत्वे वा तात्पर्यान्निर्णयगर्भत्वम्, तथापि उभयोरन्यतरविशेषनिर्णयाभावात् तस्मिन्नंशे संशय एव ।
न चैकस्यापि ज्ञानस्य संशयनिर्णयात्मताविरोधः, सर्वस्मिन्नपि संशये धर्म्यशादौ निर्णयस्य दुस्त्यजत्वात् ॥
पुनर्द्विविधो ऽयम्--- अन्यतरकोटिपरिशेषयोग्यत्वतदयोग्यत्वभेदात् ।
पूर्वो यथा--स्थाण्वात्मके वस्तुनि स्थाणुः पुरुषो वेति ।
उत्तरस्तु पलालकूटे द्विरदो गिरिशिखरं वेति ।
तत्र निरूपकाणां प्रायशः पूर्व एव भवति ।
तेनैव च प्रवृत्तस्य पाक्षिकोर्ऽथलाभः ।
यद्वा निरीहस्यैव कदाचित् द्वितीयेन संशयेन विपर्ययेण च प्रवृत्तस्य दैवात् तदातनार्थसंनिपातेनाभिमतलाभ इति ॥
पुनरपि इमौ संशयविपर्ययौ सामान्यधर्मिणो विशेषाणां चानुभूयमानत्वस्मर्यमाणत्वादिभेदात् बहुविधावूहनीयाविति ॥
किंसज्ञको ऽयं वृक्ष इत्येवमादिरूपो ऽनध्यवसायो नामान्यो ज्ञानविशेष इति केचित्; तदसारम्, तस्य संज्ञादिविशेषसंदेहसमनन्तरभावितद्विशेषबुभुत्सात्मकत्वात् ।
अथवा अवच्छेदकादर्शनादनवच्छिन्नकोटिविशेषः संशय एव ॥
ऊहस्तु प्रायः पुरुषेणानेन भवितव्यमित्यादिरूप एककोटिसहचरितभूयोधर्मदर्शनादनुत्कटान्यकोटिकः स एव ।
प्रायः पुरुषेण भवितव्यमिति पुरुष एवेत्यभिप्रायश्चेत् यथोचितं प्रत्यक्षानुमानादिष्वनुप्रवेशः ।
तर्करूपमूहं तु अनुमाने वक्ष्यामः ॥
त्रिविधं प्रमाणम्---प्रत्यक्षानुमानशब्दभेदात् ।
भगवतामनुनाप्युक्तम् --- "प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता" ॥
इति ॥
आह च भगवान् शौनकः--- "दृष्टानुमानागमजं ध्यानस्यालम्बनं त्रिधा ।
" इति ।
भाष्यकारेण च प्रत्यक्षादित्रयं स्वशब्देनोपादाय "प्रमाणसंख्याविवादे ऽपि सर्वाभ्युपगतप्रमाणानामयमेव विषय इति न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः" इत्यन्येषामनादरः कृतः ।
सर्वाभ्युपगतप्रमाणानामिति च पराभ्युपगममात्रं द्योतयति, तत्र प्रतिवादिनः षट्प्रमाणाभ्युपगमात् ।
प्रत्यक्षानुमानागमानामेव च मिथो भेदो वेदार्थसंग्रहे विशदमुपपादितः ॥
यत्तु "मत्तः स्मृतिज्ञार्नमपोहनं च" इत्यत्र भाष्यम्--- "ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः" इति, तत्रापि योगजस्य प्रत्यक्षस्य प्राधान्यात् पृथग्व्यपदेशः ।
अन्तर्भावं च वक्ष्यामः ।
उक्तं च श्रीविष्णुचित्तैः प्रमेयसंग्रहे--- "प्रमाणसंख्याविवादे ऽपीत्यत्र त्रिप्रमाणत्वं भाष्योक्तम्" इति ।
भाष्ये च केषुचित् कोशेषु यथार्थख्यातिसमर्थनदशायाम्--- "अथवा किमनेन बहुनोपपादनप्रकारेण ।
प्रत्यक्षानुमानागमाख्यं प्रमाणजातमागमगम्यं च निरस्तनिखिलदोषगन्धमनवधिकातिशयासंख्येयकल्याणगुणगणं सर्वज्ञं सत्यसंकल्पं परं ब्रह्माभ्युपगच्छतां किं न सेत्स्यति किं नोपपद्यते---" इत्यादिः पाठो दृश्यते ॥
यद्यपि स्मृतिरपि यथार्था प्रमाणमिति वक्ष्यते, तथापि प्रत्यक्षादिमूलतया तदविशेषात् पृथगनुक्तिः ।
उक्तं च तत्त्वरत्नाकरे --- "प्रत्यक्षादिमूलानां स्मृतीनां स्वस्वमूले ऽन्तर्भावविवक्षया प्रमाणत्रित्वाविरोधः ।
चतुष्ट्वे च वैदिकानुवादो दर्शितः" इति ।
स चाचमनुवादः पूर्वोपात्तः--- "स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्" इति प्रत्यक्षाद्यविशेषेण वेदानुवादाच्च---इति ।
प्रज्ञापरित्राणे तु स्मृतिप्रामाण्यानभ्युपगमे ऽपि ज्ञानस्य तावत् करणभेदाच्चातुर्विध्यमेवोक्तम्--- "तत्रेन्द्रियार्थसंबन्धो लिङ्गशब्दग्रहौ तथा ।
संस्कारोन्मेष इत्येते संविदां जन्महेतवः" ॥
इति ॥
यत्तु तत्रैव--- "स्वयंसिद्धिस्तथा दिव्यं प्रत्यक्षमनुमागमः ।

पञ्च सन्ति प्रमाणानि जैमिनिव्यासयोर्हृदि" ॥
इत्यादिना स्वयंसिद्धिदिव्ययोः पृथङ्निरूपणं कृतम्, तत् प्रत्यक्षावान्तरवैरूप्यबोधनाभिप्रायम् ।
यथोक्तं श्रीविष्णुचित्तैः---"भगवत्प्रसादलब्धयोगिप्रत्यक्षं दिव्यम्" इति ॥
न्या. प. प्र. 12 ॥
प्रत्यक्षलक्षणम् ॥
तत्र साक्षात्कारिप्रमा प्रत्यक्षम् ।
साक्षात्त्वं च जातिरूप उपाधिरूपो वा कश्चित् ज्ञानस्वभावविशेषः स्वात्मसाक्षिकः ॥
ज्ञातकारणजज्ञानस्मृतित्वरहिता मतिः ।
अपरोक्षेति निष्कर्षे नाव्याप्यादिप्रसञ्जनम् ॥
प्रमेयसंग्रहे त्वेवमुक्तम्--- "साक्षादनुभवः प्रत्यक्षम् ।
साक्षात्त्वं जातिः---" इत्यादि ।
तत्त्वरत्नाकरे ऽप्येवमुक्तम्--- "अपरोक्षप्रमाध्यक्षमापरोक्ष्यं च संविदः ।
व्यवहार्यार्थसंबन्धिज्ञानजत्वविवर्जनम्" ॥
इति ॥
पारोक्ष्यं चैवमुक्तम्--- "पारोक्ष्यं व्यवहार्यानन्तर्गतवस्तुवेदनापेक्षा ।
तदनन्तर्गतलिङ्गाद्यपेक्षा पारोक्ष्यमनुमादौ" इति ।
वरदविष्णुमिश्रैर्मानयार्थात्म्यनिर्णये त्वेवमुक्तम्--- "अपरोक्षप्रमा प्रत्यक्षम् ।
प्रमाया आपरोक्ष्यं नाम विशदावभासत्वमिति ब्रूमः ।
किमिदं वैशद्यं नाम ? असाधारणाकारेण वस्त्ववभासकत्वम्--" इत्यादि ॥
साक्षात्त्वं द्विधा---नित्यं चानित्यं चर् ।
इश्वरनित्यज्ञानादिनिष्ठं नित्यम् ।
अस्मदादिज्ञाननिष्ठं त्वनित्यम् ।
अस्मदादिप्रत्यक्षं द्विधा--- योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति ।
तत्र योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजम् ।
तत् युक्तावस्थायां मनोमात्रजन्यम् ।
वियुक्तावस्थायां तु बाह्येन्द्रियजन्यमपि ।
तच्च बुभुत्सादिप्रतिनियतमागमैकसिद्धं च ।
भावनाबलजमात्रं जगत्कर्तरि प्रत्यक्षं प्रतिक्षिप्तं शास्त्रयोन्यधिकरणे, अन्यत्र भाष्यकारैरेव साक्षाद्योगिप्रत्यक्षस्य कण्ठोक्तेः, तस्य संभवतो ऽप्यागमिकेश्वरज्ञानमूलस्यागमानुवादत्वापादनाशक्त्या तत्रौदासीन्यात्, धर्मादयः कस्यचिदिन्द्रियग्राह्याः, प्रमेयत्वात्, घटवत्, मीमांसकानामप्रत्यक्षत्वाद्वा, अस्मत्सुखादिवदित्याद्यनुमानानां विपक्षे बाधकविरहादिभिराभासत्वात्, आगमबाधप्रसङ्गस्यैव पुरस्कारे त्वागमेनैव चरितार्थत्वात्; अन्यथा धर्मादयः कस्यचिच्चक्षुर्ग्राह्या इति वदतो बौद्धस्य किं प्रतिवक्ष्यसि ।
यश्चानुव्यवसाये सविषयव्यवसायप्रत्यक्षतामिच्छति, तस्यास्मदादिष्वपि धर्मादिव्यवसायानुव्यवसाये धर्मादिप्रत्यक्षत्वसिद्धौ कथं तदतिरिक्तयोगिप्रत्यक्षानुमासिद्धिः ।
तद्व्यवच्छेदेन प्रयोगे ।
अपि सौगतोक्तचाक्षुषत्वादिसाधनप्रसङ्ग स्यादिति ।
स चादृष्टविशेषो योगाभ्यासतपश्चार्यादिभिर्जायते ।
तस्मादार्षाभिमतमपि प्रकृष्टादृष्टजत्वाविशेषात् तत्रैवान्तर्भूतम् ।
यथोक्तं प्रज्ञापरित्राणे --- "अत्रेन्द्रियानपेक्षं यज्ज्ञानमर्थावभासकम् ।
दिव्यं प्रमाणमित्येतत् प्रमाणज्ञाः प्रचक्षते ॥
परमेश्वरविज्ञानं मुक्तानां च धियस्तथा ।
संजयार्जुनवाल्मीकिप्रभृत्यार्षधियो ऽपि तत्" ॥
इति ॥
इन्द्रियानपेक्षमिति---अदिव्येन्र्दियानपेक्षमित्यर्थः ।
अत एव हि गीयते--- "दिव्यं ददामि ते चक्षुः---" इत्यादि ।

यद्वापरमेश्वरादिविज्ञानसहपाठादिभिस्तथैव मन्तव्यम् ।
अनन्तरं चैवमुक्तम्---- "स्वाभाविकस्य ज्ञानस्य स्वतः सर्वावभासिनः ।
अविद्याप्रतिबन्धस्य प्रतिबन्धो ऽक्षयोगतः ।
अविद्याहानितो मुक्तपुरुषाणां हि संविदाम् ।
स्वाभाविकस्वरूपेण निखिलार्थावभासिता ॥
प्रतिबन्धकभावस्य प्रत्युत्तम्भकभाविना ।
परेणानुगृहीता धीरृषीणां सर्वभासिका" ॥
इति ॥
मानसप्रत्यक्षमप्यस्मदादीनां नास्त्येवेति वृद्धसंप्रदायः, आत्मस्वरूपस्य तद्धर्मभूतज्ञानस्य च स्वयंप्रकाशत्वात्, सुखदुःखेच्छाद्वेषप्रयत्नानां तत्तद्धेतुतयाभिमतज्ञानविशेषानतिरेकस्य वेदार्थसंग्रहे समर्थितत्वात्, नित्यत्वादिविशिष्टास्मदाद्यनुभवस्य शास्त्रादिप्रसिद्धत्वात्, पूर्वानुभवादिज्ञानस्य स्मृतिरूपत्वात्, "आत्मसुखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः" इति शास्त्रयोन्यधिकरणभाष्यस्यान्वारोहेणाप्युपपत्तेरिति ॥
ततश्चादिव्यबाह्येन्द्रियप्रसूतं ज्ञानमयोगिप्रत्यक्षम् ।
तत् सामान्यादृष्टालोकविशेषादिसहकृतेन्द्रियजन्यं दृष्टसामग्रीविशेषात् प्रतिनियताविषयम् ।
तत् श्रोत्रादीन्द्रियासाधारणकारणभेदात् पञ्चधा ॥
विषयेन्द्रियसंबन्धश्च---द्रव्येषु संयोगः, द्रव्याश्रितेषु रूपादिषु तु संयुक्ताश्रयणम् ।
यथोक्तं तत्त्वरत्नाकरे--- "अत्र वृद्धा विदामासुः संयोगः संनिकर्षणम् ।
संयुक्ताश्रयणं चेति यथासंभवमूह्यताम्" ॥
इति ॥
पुनः प्रत्यक्षं द्विधा---सविकल्पकं निर्विकल्पकं चेति ।
सप्रत्यवमर्शं प्रतयक्षं सविकल्पकम् ।
तद्रहितं प्रत्यक्षं निर्विकल्पकम् ॥
न्या. प. प्र. 13 ॥
नैयायिकनिर्विकल्पकनिराकरणम् ॥
उभयविधमप्येतद्विशिष्टविषयमेव ।
अविशिष्टवस्तुग्राहिणो ज्ञानस्यानुपलम्भात् अनुपपत्तेश्च ।
बालमूकतिर्यगादिविज्ञानमपि हि संज्ञाविकल्परहितमपि विशिष्टवस्तुविषयमेव, अन्यथा तेषां हेयोपादेयविभागपूर्वकप्रवृत्तिशेषानुपपत्तेः ।
विप्रतिपन्नं विशिष्टज्ञानं विशेषणज्ञानपूर्वकम्, विशिष्टज्ञानत्वात्, सुरभि चन्दनमित्यादिविशिष्टज्ञानवदिति चेन्न, एकसामग्रीवेद्यविशेषणेषु तन्निरपेक्षत्वात्, स्वरूपसंबन्धपक्षे स्वरूपग्रहेणैव संबन्धस्यापि ग्रहणात्, तावतैव विशिष्टग्रहणसिद्धेः, समवायवादे ऽपि तस्यैव गृह्यमाणस्य विशेषणविशेष्यभावरूपत्वात्, समवायविशिष्टप्रत्यये तथैवाभ्युपगमात्, तद्वैशिष्ट्यग्रहे च गुणवैशिष्ट्यग्रहस्यावर्जनीयत्वात् ।
न च समवायस्य सविकल्पकैकविषयतेति वाच्यम्, निर्विकल्पके धर्मवद्धर्मिवच्च तत्संबन्धस्याप्यैन्द्रियिकत्वाविशेषेण ग्रहणसंभवात्, योग्यस्य संनिकृष्टगृह्यमाणसंबन्धिनः संबन्धस्याग्रहणानुपपत्तेः, अन्यथा नित्यं तदग्रहापातात् ।
प्रथमाक्षसंनिपातजा बुद्धिर्विशिष्टविषया, बुद्धित्वात्, संप्रतिपन्नवत्, इत्याद्यपि चिन्त्यम् ॥
न्या. प. प्र. 14 ॥
सविकल्पकनिरूपणम् ॥
न च सविकल्पकं न प्रत्यक्षमिति वाच्यम्, साक्षात्काराबाधाद्यविशेषात् ॥
सहकारिविशेषेण न वैजात्यं प्रसज्यते ।
तज्जातीये तु यत्किञ्चिद्वैषम्यं संभवेदपि ॥
यत्र दृश्येत वैजात्यं तथा तत्राभ्युपेयते ।
तावता नैव सर्वत्र भवेदेतस्य कल्पनम् ॥
केवलेन्द्रियजं चापि न किञ्चिज्ज्ञानमिष्यते ।
सहकारिविशेषां हि विभिद्यन्ते प्रतीन्द्रियम् ॥
अतः संस्कारसंभेदे ऽप्यपरोक्षत्वयोगतः ।
प्रत्यक्षत्वं विकल्पस्य न क्वचिद्विनिवर्तते ॥
"निर्विकल्पकमेकजातीयेषु द्रव्येषु प्रथमपिण्डग्रहणम्" इत्यादिभाष्यं तु उदाहरणपरं योज्यम् ।
अत एव हि श्रीविष्णुचित्तैरुक्तम्--- "संस्कारोद्बोधसहकृतेन्द्रियजन्यं ज्ञानं सविकल्पकम्, एकजातीयेषु प्रथमपिण्डग्रहणम् द्वितीयादिपिण्डग्रहणेषु प्रथमाक्षसंनिपातजं च ज्ञानं निर्विकल्पकम्" इति ।

अन्यत्र चोक्तम्--- "केवलचक्षुरादीन्द्रियजन्यं निर्विकल्पकम्" इत्यादि ॥
यत्तूक्तं तत्त्वरत्नाकरे --- "विशेषणानां स्वायोगव्यावृत्तिरविकल्पके ।
सविकल्पे ऽन्ययोगस्य व्यावृत्तिः संज्ञिता तथा" ॥
इति, तत्रापि संस्कारनिरपेक्षत्वसापेक्षत्वयोः प्रदर्शनपरत्वं ग्राह्यम् ।
प्रत्यक्षस्य चैवं विभागो ऽभिहितः--- "द्विविधं चैतत् प्रत्यक्षम्--- अर्वाचीनमनर्वाचीनं च ।
युगपदशेषविषयसाक्षात्कारक्षममनर्वाचीनम् ।
तत् योगिमुक्तेश्वराणां प्रभावविशेषाधीनमुपपादयिष्यते"इत्यादि ॥
अत एव कुदृष्टीनां सन्मात्रग्राहि प्रत्यक्षमित्यविलक्षजल्पितं निरस्तम् ।
क्रमयौगपद्यादिदूषणं तु भ्रान्तिविकल्पे ऽपि समानम् ।
भ्रान्तिरूपो ऽपि हि विकल्पः क्षणिकत्वान्न विरम्य व्यापर्तुमलम् ।
न च पूर्वज्ञानवार्तां जानाति ।
न च स्वयं धर्मिप्रतियोगिग्रहणाभावे भेदग्रहणं मन्यसे ।
तथापि यदि कल्पना भेदविशिष्टं युगपद्गृह्णाति, का प्रत्यक्षे सर्पमृतिः ? अतो धर्मिवद्योग्यत्वाज्जात्यादिरूपभेदो ऽपि युगपद्ग्राह्येः ।
अभेद इव भेदो ऽपि स्वरूपतः प्रतीतौ न प्रतियोगिसाकाङ्क्षः; भेदव्यवहारस्त्वभेदव्यवहारवत् तत्साकाङ्क्ष ।
अतः प्रथममेव भेदधीर्युक्ता ।
अत एव धर्मधर्मिणोर्धर्मिप्रतियोगिनोरन्येषां च प्रतीतावन्योन्याश्रयो निरस्तः ।
ततश्च व्युपत्तेस्तद्व्यवहारे ऽपि न तत्प्रसङ्गः ।
भेदशब्देन व्यवहारस्य तु प्रतिसंबन्धिनिरूपिताकारे व्युत्पन्नत्वात् तदपेक्षा ।
भेदत्वं हि भेदानां प्रतियोगिना निरूप्यम् न तु जात्यादिलक्षणं स्वरूपम्; यद्ग्रहो यत्र यदारोपविरोधी, स हि तस्य तस्माद्भेदः; गोत्वादि च गृह्यमाणं स्वस्मिन् स्वाश्रये चाश्वत्वाद्यारोपं निरूणद्धीति स्वस्य स्वाश्रयस्य च स्वयमेव तस्माद्भेदः ॥
अपि च प्रतियोगिसापेक्षत्वनिरपेक्षत्वलक्षणविरुद्धधर्माध्यासेन भेदात् स्वरूपभेदग्रहणैक्यां न संभवतीति वदन् भेददुषणार्थमेव भेदं साधयतीति स्ववचनविरोध इति ॥
न्या. प. प्र. 15 ॥
शाब्दापरोक्षनिरासः ॥
शब्दजन्यमपि प्रत्यक्षमस्तीति त एव वर्णयन्ति; तदप्ययुक्तम्, व्याघातात् ।
न हि परोक्षजननस्वभावतया सिद्धा सामग्री विशेषाभावे क्वचित् स्वभावमतिपतेत् ।
न चैकजातीयसामग्रीतः प्रसूतं कार्यं विचित्रं स्यात्, एकयैवव सामग्र्या सर्वजातीयोत्पत्तिप्रसङ्गात् एकस्य कार्यस्य विरुद्धजातियोगप्रसङ्गाच्च ।
"दशमस्त्वमसि" इत्यादिदृष्टान्ते ऽपि त्वमर्थमात्रं प्रत्यक्षम् ।
ऽदशमो ऽहम्ऽ इति प्रत्ययो हि नेन्द्रियस्वातन्त्र्येणोदेति, किन्तु पुरुषवचनानुरोधेन ।
तन्मूले ऽपि चेत् प्रत्यक्षता, एवम् ऽधर्मवांस्त्वमसिऽ इति कार्तान्तिकोपदेशादौ ऽतादृशो ऽहमस्मिऽ इति बोधे धर्मादेरपि प्रत्यक्षत्वप्रसङ्गः ।
ततश्चाप्रत्यक्षमिति जगति किञ्चिन्न स्यात्, प्रत्यक्षभूतं यत्किञ्चिदुद्दिश्य विशेषणतयैव सर्वस्य प्रत्यक्षत्वोपपत्तेः ।
पूर्वावगतदशमभावं तु पुरुषं प्रत्युपदेशे भाषराशिप्रविष्टमषीन्यायेन पूर्वापरापरोक्षणीनैरन्तर्येण मध्यवर्तिशब्दजन्यधियो ऽपरोक्षत्वव्यवहारः कस्यचित् स्याद्वा न वा ।
अत एव तत्त्वमस्यादिशब्दः स्वविषयगोचरप्रत्यक्षज्ञानजनकः, स्वतो ऽपरोक्षार्थगोचरत्वात् "दशमस्त्वमसि" "संवित् स्वप्रकाशा" इत्यादिवाक्यवत् इत्याद्यनुमानानि निरस्तानि, दशमत्वस्वप्रकाशत्वादिविशिष्टाकारेण दृष्टान्तेष्वपरोक्षज्ञानजननासिद्धेः ।
तथा विगीतः शब्दो न स्ववाच्यगोचरप्रत्यक्षधीजनकः, शब्दत्वात्, संप्रतिपन्नवत्, इत्याद्यपिप्रतिप्रयोक्तव्यम् ।
उपलम्भविरोधशाब्दप्रत्यक्षलक्षणसंकरादिप्रसङ्गो ऽत्र विपक्षे बाधकः ।
नैवं पूर्वस्य, शब्दजन्यप्रत्यक्षमन्तरेणापि योगजादृष्टजनितसाक्षात्कारात् प्रणिधानविशेषप्रसादितपरमात्मसंकल्पाद्वा निःश्रेयससिद्धेरिति ॥
प्रत्यक्षं चिदचिन्मयं जगदिदं यस्येत्यनुश्रूयते यश्चानन्यधियामनन्तविभवः प्रत्यक्षतामश्नुते ।
यश्चैको युगपत्सदा स्वत इदं विश्वं दरीदृश्यते प्राज्ञं तं प्रतिपन्नमोक्षणविधादक्षं दिदृक्षेमहि ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रत्यक्षाध्याये द्वितीयमाह्निकम् ॥
समाप्तश्च प्रत्यक्षाध्यायः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
अथ शब्दाध्यायः ॥

न्या. प. श. 1 अथानुमोदयं स्मृत्या हेतुत्वेनापि संस्थित्म् ।
मध्ये तयोरिहेतदानीं मानं शब्दं प्रचक्ष्महे ॥
अनाप्तानुक्तवाक्यजनितं तदर्थविज्ञानं तत् प्रमाणम्; कारणदोषबाधकादर्शनात् ।
नचानाप्तोक्तवाक्यं प्रमाणं, कारणदोषबाधकदर्शनात्, न च वाक्यत्वादिभिर्बाधः; स्ववचनविरोधात् ।
यदि बाधकोपन्यासवाक्यमयथार्थं, तदा कथं बाधः ।
अथ यथार्थम्, तस्यापि पक्षीकारे तद्बाधः ।
बहिष्कारे तेनैवानैकान्त्यम् ।
न चातिप्रसङ्गः; भ्रान्तादिवाक्यानां दोषमूलत्वस्य दुरपह्नवत्वात् ।
अत्र तु तदभावात् ।
उत्स्वप्नायितघुणक्षताक्षरादीनां तु विशिष्टतात्पर्यविरहेण बोधकत्वेप्यनाश्वसनीयत्वात्, व्यभिचारदर्शनाच्च ।
नित्येपि वेदे नित्येश्वरशासनात्मनि तत्तदर्थतात्पर्यानपायात् ।
तस्य चात्राभावात्, क्वाचित्कदोषदर्शनस्य च प्रत्यक्षादावपि असमत्वात्, स्वतः परतो वा प्रामाण्ये च ततो विशेषाभावात् ॥
न्या. प. श. 2 तच्च वेद्यांशे प्रत्यक्षातिरिक्तम्, असाक्षात्कारित्वात्, अनुमानवत् ।
अनुमानातिरिक्तं, पक्षलिङ्गपरामर्शाद्यदृष्टेः, पदवाक्यतत्संबन्धादीनां च विशिष्टवाक्यार्थं प्रत्यसिद्धव्याप्तिकत्वेनालिङ्गत्वात्, दृष्टान्ताभ्युपगमे सर्वत्राविशेषात्, व्युत्पत्तौ च स्वतन्त्रतयैव बोधकत्वसिद्धेः ।
अत एव वक्तृज्ञानानुमानाभ्युपगमेपि शब्दप्रामाण्यं सिद्धम् ।
आगमिकबुद्धिरनुमा, प्रत्यक्षेतरप्रमितित्वात्, संप्रतिपन्नवदिति चेन्न, उक्तोत्तरत्वात् ।
अन्यथा शब्दरसगन्धादि बुद्धिरनुमा, अचाक्षुषप्रमितित्वात्, संप्रतिपन्नवत्, इत्यपि प्रसङ्गात् ।
"प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
दृष्टानुमानागमजम्" इति मन्वादिमहर्षिसंमतेश्च शब्दानुमानयोर्भेदोदृश्यते ।
न चात्र गोबलीवर्दनयः; अन्तर्भावादर्शनात् ।
आगामोनुमानं, संबन्धग्रहणे सत्येव बोधकत्वादिति चेन्न; बोध्य बोधकभावातिरिक्तसंबन्धग्रहणापेक्षिण्यनुमानत्वनियमात् ।
न चात्र तदतिरिक्तः संबन्धः, यद्ग्रहणं नियमेनापेक्ष्येत ।
अन्यथा संबन्धसापेक्षतया तयोः प्रत्यक्षत्वस्यापि सुसाधत्वादिति ॥
न च स्मृतिः; अपूर्वविषयत्वात् ।
पदसंदोहविशेषो वाक्यम् ।
प्रामाणिकपदव्यवहारविषयः पदम् ।
तस्य सुप्तिङन्तत्वादिकल्पनयापि व्यक्तिः क्रियते ।
अत एव ह्यन्यथान्यथा प्रकृतिप्रत्ययादिकं व्याकरणान्तरेषु कल्प्यते ।
तच्च न सांकेतिकम्; संकेतयितृपुरुषासंभवात् ।
अत एव न भाषान्तरवत् तत्क्लप्तिः, नित्यवेदगतत्वाच्च ।
यानि वैदिकानि पदानि तान्येव लौकिकनीति "वेदशब्देभ्य एवादौ" इत्यादिवचनादपि सिद्धम् ।
भाषाच्छन्दसोस्तु कतिपयशब्दानां लक्षणभेदस्तत्तदानुपूर्वीप्रतिनियमापेक्षः ।
भाषाप्रयुक्तः सर्वोपि वेदे क्वापि प्रयोगवान् ।
वेदैकनियतः शब्दो नान्यत्रेति व्यवस्थितिः ॥
उक्तं चैतद्वेदार्थसंग्रहेपि--- "वैदिका एव सर्वे वाचकाः शब्दाश्च---" इत्यादिना ॥
न्या. प. श. 3 वाक्यं द्विधा---पौरुषेयापौरुषेयभेदात् ।
पुरुषस्वातन्त्र्याधीनरचनाविशेषविशिष्टं पौरुषेयम् ।
तद्द्विधा, अन्वितार्थमनन्वितार्थं च, आद्यं यथा---अग्निरुष्णः, आपो द्रवाः, इति ।
द्वितीयं यथा---अग्निरनुष्णः, आपः कठिनाः, इति ॥
न्या. प. श. 4 अत्रैकदेशिनो वदन्ति---अनन्वयाग्रहादन्वितव्यवहारः क्वचिज्जायत इति ।

अत एव लौकिकवाक्ये दृष्टव्यभिचारस्य न झटति वाक्याद्वाक्यार्थाध्यवसायः; योग्यताविमर्शसाकाङ्क्षत्वात् ।
सामान्ययोग्यताग्रहणेपि व्यक्तियोग्यतायाः वक्तृज्ञानानुमानमन्तेरणासिद्धेः---इति प्रमेयसंग्रहादिषु समर्थितम् ।
तथा---सन्मात्रग्राहिप्रत्यक्षनिराकरणाय शास्त्रस्यानुवादकत्वप्रसङ्गे विवरणकारैरुक्तम्--- "अबुद्धबोधनस्वरसस्य शब्दस्यातथात्वं दोष इत्यभिसन्धिः ।
अथवा अनुवादकत्वमेव स्यात् ।
न हि मानान्तरप्रतीतेर्थे शब्दः प्रमाणम् ।
तथैव हि तस्य व्युत्पत्तिः" इत्युक्त्वा "नन्वनुवादकतयैव व्युत्पत्तिः पुंवाक्येषु" इत्यादिना वक्तृज्ञानानुमानमुपपाद्य "सत्यम्, दैवात् तदनुवादकत्वमिति नाबुद्धबोधनस्वारस्यभङ्गप्रसङ्गः, यथा स्मृत्यनुमितवेदस्यानुवादकत्वेप्यर्थादिति न मानताभङ्गः" इत्यादि उक्तं च प्रज्ञापरित्राणे --- "पौरुषेयगिरः शङ्काग्रस्ता न सहसा मितिम् ।
जनयन्ति न यावत् तन्मूलमानानवग्रहः ॥
अनुमाय च वक्तुस्तन्मूलयोग्यप्रमान्तरम् ।
तदुक्तवाक्यलिङ्गेन वाक्यार्थमनुजानते ॥
अन्वितार्थाभिधानाय योग्यं वाक्यमिदं सदा ।
असौ च नानृतं वक्ति संज्ञात्वार्थं तदब्रवीत् ॥
वक्तृज्ञानानुमानेन ज्ञाताज्ञातस्ववाक्यतः ।
अन्वितार्थाभिधायित्वयोग्यतामात्रधीर्गिराम् ॥
परामर्श इति प्राप्तो नार्थसंसर्गगोचरः ।
मानान्तराविरोधित्वं योग्यतेत्यभिधीयते ॥
नन्वेवं लौकिकं वाक्यं लिङ्गं चेल्लिङ्गवत् ततः ।
शब्दो गृहीतसंबन्धात् तद्वदस्यापि लिङ्गता ॥
व्युत्पत्तिकाले व्युत्पित्सोर्लिङ्गधीर्नास्त्यसंशयात् ।
यथाव्युत्पत्तिशब्दास्तु बोधका इति चेदतः ॥
स्वत एवार्थबोधः स्यादिति नैवास्य लिङ्गता" ॥
इत्यादि ।
भगवद्यामुनमुनिभिस्तु आगमप्रमाण्ये वक्तृज्ञानानुमानं दूषितम् ।
निगमितं च ।
"तस्मादस्ति नदीतीरे फलमित्येवमादिषु ।
या सिद्धविषया बुद्धिः सा शब्दी नानुमानुकी" इति ।
अयमेव पक्षोनुसृतो वरदविष्णुमिश्रैः ।
तत्त्वरत्नाकरेप्यागमप्रामाण्यग्रन्थोपादानपूर्वकं प्रपञ्चितमेतत् ।
अपौरुषेयं तु सर्वमन्वितार्थमेवाकिन्तु आदित्यो यूपः-- इत्यादिषूपचारतो निर्वाहः ।
आकाङ्क्षासत्तिवोग्यतावन्ति हि पदान्यन्वितमभिदधति, अन्वये वा विश्राम्यन्ति ।
आदित्ययूपपदयोः प्रत्यक्षसिद्धस्वार्थभेदयोरयोग्यतया मुख्यवृत्तिपरित्यागः ॥
न्या. प. श. 5 वृत्तिर्द्विधा---अभिधोपचारभेदात् ।
व्युत्पत्तिसिद्धार्थ एव वृत्तिरभिधा ।
यथा सिंहशब्दस्पय मृगेन्द्रे ।
सा जातिगुणादिविषयभेदाद् योगरूढितत्समुच्चयभेदाच्च बहुविधा ।
मुख्यार्थबाधे सति तदासन्ने वृत्तिरुपचारः ।
आसत्तिश्च द्विविधा---मुख्यार्थसंबन्धस्तद्गुणसंबन्धश्चेति ।
तत्र पूर्वेण प्रवृत्तिर्लक्षणा, यथा---गङ्गायां घोषः प्रतिवसतीत्यत्र गङ्गशब्दस्य प्रवाहविशेषरूपवाच्यसंबन्धिनि तीरे ।
एवं लक्षितलक्षणा ग्राह्या ।
द्वितीयेन प्रवृत्तिर्गौणी ।
यथा सिंहो देवदत्त इत्यत्र सिंह्मशब्दस्य शौर्यादिगूणण्योगिनि देवदत्ते ।

तत्त्वरत्नाकरे त्वेवमुक्तम्--- "अभिधानाभिधेयत्वमतः शब्दार्थयोः स्थितम् ।
संबन्धोत्राभिधा द्वेधा बोध्या मुख्यजघन्यतः ॥
अभिधार्थावगत्यात्मा शब्दं व्यापारयिष्यतः ।
शब्दशक्तिनिमित्ता सा स्वार्थे मुख्याभिधीयते ॥
स्वार्थाभिधानद्वारा स्याज्जघन्यार्थान्तरे मता ।
" इति ॥
तद्विस्तरस्तत्रैव द्गष्टव्यः ॥
न च गौणलाक्षणिकप्रयोगयोरवाच्यविषयत्वादवाच्यत्वम् ।
संबन्धसादृश्यमात्रप्रवृत्तेप्यनादित्वात् ।
तत एव विवक्षितस्थले यथौचित्यं प्रयोगोपपत्तेः ।
एताः सर्वा अपि वृत्तयः अन्विताभिधानवृत्त्यन्तर्भूताः ।
पृथक्पदानां स्मारकत्वमेव ।
अभिहितान्वये हि पदानां पदार्थे पदार्थानां वावयार्थे पदानां च तत्रेति शक्तित्रयकल्पनागारैवं स्यात्, वाक्यार्थस्याशाब्दत्वप्रसङ्गो वा ।
पदार्थे लक्षणसमाप्तेः प्रमाणप्रसङ्गश्च ।
नचान्विताभिधानेन्योन्याश्रयणम्, मिथः स्मरणमात्रोपजीवनात् ।
यथाहुः--- "पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ।
न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्" ॥
इति ॥
नापि पौनरुक्त्यादिदोषः; तत्तदंशप्रतिनियतशक्तित्वात् ।
नापि वाक्यभेदः, एकप्रधानतया स्वार्थाभिधानात् ।
"पदार्थ एव वाक्यार्थः संसृष्टो ह्यभिधीयते" इत्युक्तं ।
तथा "नाना शब्दादिभेदात्" इत्याधिकरणे "यद्यपि ऽवेदऽ ऽउपासीतऽ इत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः, प्रत्ययाश्च ब्रह्मैकविषयाः; तथापि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादिविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्यवबोधिनः प्रत्ययावृत्तिरूपा विद्या भिन्दन्ति" इति ।
वेदार्थसंग्रहेपि--- "शोधकेष्वपि ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ ऽआनन्दो ब्रह्मऽ इत्यादिषु सामानाधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्ठैकार्थाभिधानमविरुद्धमिति सर्वविशिष्टं ब्रह्मैवाभिधीयते" इति ।
अत्रैव पूर्वभागे "समभिव्याहृतपदान्तरवाच्यान्वययोग्यमेवेतरपदप्रतिपाद्यमित्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमनन्तरमेव प्रतीयते ।
तच्च स्वर्गसाधनत्वरूपम् ।
अतः क्रियावदनन्यार्थता विरोधादेव परित्यक्ता" इति ।
एषां स्वारस्यमन्विताभिधाने ।
न चात्र पराभ्युपगमेनोक्तमिति ज्ञापकमस्ति ।
वरदविष्णुमिश्रैरपि "सत्यज्ञानादिपदानामखण्डैकरसार्थत्वे अन्विताभिधानानुपपत्तेश्च" इत्यादिषु बहुषु प्रदेशेषु अन्विताभिधानमेव मायावादिनं प्रत्युक्तम् ।
उक्तं चागमप्रामाण्ये--- "अन्यान्विताभिधानेपि व्यवहारोपपत्तितः ।
अवश्याश्रयणीयेयमन्वितार्थाभिधायिता" ॥
इत्यारभ्य, "तस्मादाकाङ्क्षितासन्नयोग्यार्थान्तरसङ्गते ।
स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः" ॥
इति ।
तत्त्वरत्नाकरेपि--- "अवश्याश्रयणीयेयमन्वितार्थाभिधायिता ।
इत्याहुर्यामुनाचार्याः पदैरेवान्विताभिधाम् ।
" इत्यारभ्य प्रपञ्चेनोपपाद्योपसंहृतम्--- "षड्भिः प्रतीतिप्रमुखोपपत्तिभि- र्निर्धूतचोद्याभिरिहान्विताभिधा ।
सिद्धा पदैर्नाभिहितान्वयस्थिति- र्विपर्ययादित्यखिलं समञ्जसम्" ॥
इति ॥
प्रज्ञापरित्राणन्यायसुदर्शनयोश्च बहुश उक्तम्--- "अन्वितार्थाभिधायित्वं शब्दशक्तिनिबन्धनम् ।

मूल पाठ: Nyāyapariśuddhi, Bhūmikā, 1, 3-5 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc