न्यायसूत्र · अध्याय 5.1
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः
{सिद्धान्त-सूत्र}
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
{सिद्धान्त-सूत्र}
गोत्वाद् गोसिद्धिवत् तत्सिद्धिः
{सिद्धान्त-सूत्र}
उत्कर्षसमादिजातिषट्कप्रकरणम्(4-6)ट
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
{सिद्धान्त-सूत्र}
किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
{सिद्धान्त-सूत्र}
साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
{सिद्धान्त-सूत्र}
[प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(7-8)]
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
{सिद्धान्त-सूत्र}
घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः
{सिद्धान्त-सूत्र}
[प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(9-11)]
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
{सिद्धान्त-सूत्र}
प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः
{सिद्धान्त-सूत्र}
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
{सिद्धान्त-सूत्र}
[अनुत्पत्तिसमप्रकरणम्(12-13)]
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
{सिद्धान्त-सूत्र}
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
{सिद्धान्त-सूत्र}
[संशयसमप्रकरणम्(14-15)]
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः
{सिद्धान्त-सूत्र}
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
{सिद्धान्त-सूत्र}
[प्रकरणसमप्रकरणम्(16-17)]
उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः
{सिद्धान्त-सूत्र}
प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
{सिद्धान्त-सूत्र}
[अहेतुसमप्रकरणम्(18-20)]
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
{सिद्धान्त-सूत्र}
न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
{सिद्धान्त-सूत्र}
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
{सिद्धान्त-सूत्र}
[अर्थापत्तिसमप्रकरणम्(21-22)]
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
{सिद्धान्त-सूत्र}
अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः
{सिद्धान्त-सूत्र}
[अविशेषसमप्रकरणम्(23-24)]
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्-
अविशेषसमः
{सिद्धान्त-सूत्र}
क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}
[उअपपत्तिसमप्रकरणम्(25-26)]
उभयोकारणोपपत्तेरुपपत्तिसमः
{सिद्धान्त-सूत्र}
उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
{सिद्धान्त-सूत्र}
[उपलब्धिसमप्रकरणम्(27-28)]
निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः
{सिद्धान्त-सूत्र}
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र}
[अनुपलब्धिसमप्रकरणम्(29-31)]
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः
{सिद्धान्त-सूत्र}
अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
{सिद्धान्त-सूत्र}
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
{सिद्धान्त-सूत्र}
[अनित्यसमप्रकरणम्(32-34)
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
{सिद्धान्त-सूत्र}
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
{सिद्धान्त-सूत्र}
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
{सिद्धान्त-सूत्र}
[अनित्यसमप्रकरणम्(35-36)]
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
{सिद्धान्त-सूत्र}
प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}
[कार्यसमप्रकरणम्(37-38)]
प्रयत्नकार्यानेकत्वात् कार्यसमः
{सिद्धान्त-सूत्र}
कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
{सिद्धान्त-सूत्र}
[षट्पक्षीप्रकरणम्(39-40)]
प्रतिषेधे ऽपि समानदोषः
{सिद्धान्त-सूत्र}
सर्वत्रैवम्
{सिद्धान्त-सूत्र}
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः
{सिद्धान्त-सूत्र}
प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
{सिद्धान्त-सूत्र}
स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति
{सिद्धान्त-सूत्र}
(इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्)
(द्वितीयम् आह्निकम्)
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0