भाषा

ENहिગુ
ग्रंथ पाठ

न्यायसूत्र · अध्याय 5.2

5.2.1

प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि
{निग्रहस्थान-उद्देश-सूत्रम्}
[निग्रहस्थानपञ्चकप्रकरणम्(2-6)]

5.2.2

प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः
{प्रतिज्ञाहानिः लक्षण-सूत्रम्}

5.2.3

प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर.
{प्रतिज्ञान्तर-लक्षण-सूत्रम्}

5.2.4

प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः
{प्रतिज्ञाविरोधः लक्षण-सूत्रम्}

5.2.5

पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः
{प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्}

5.2.6

अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
{हेत्वन्तरम् लक्षण-सूत्रम्}
[निग्रहस्थानचतुष्कप्रकरणम्(7-10)]

5.2.7

प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्
{अर्थान्तरम् लक्षण-सूत्रम्}

5.2.8

वर्णक्रमनिर्देशवन्निरर्थकम्
{निरर्थकम् लक्षण-सूत्रम्}

5.2.9

परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
{अविज्ञातार्थम् लक्षण-सूत्रम्}

5.2.10

पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्
{अपार्थकम् लक्षण-सूत्रम्}
[निग्रहस्थानत्रिकप्रकरणम्(11-13)]

5.2.11

अवयवविपर्यासवचनमप्राप्तकालम्
{अप्राप्तकालम् लक्षण-सूत्रम्}

5.2.12

हीनमन्यतमेनाप्यवयवेन न्यूनम्
{न्यूनम् लक्षण-सूत्रम्}

5.2.13

हेतूदाहरणाधिकम् अधिकम्
{अधिकम् लक्षण-सूत्रम्}
[पुनरुक्तिनिग्रहस्थानप्रकरणम्(14-16)]

5.2.14

शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्
{पुनरुक्तम् लक्षण-सूत्रम्}

5.2.15

अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः
{पुनरुक्तम् लक्षणापवादसूत्रम्}

5.2.16

अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम्
{पुनरुक्तम् लक्षणापवादसूत्रम्}
[उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(17-20)]

5.2.17

विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम्
{अननुभाषणम् लक्षण-सूत्रम्}

5.2.18

अविज्ञातम् च अज्ञानम्
{अज्ञानम् लक्षण-सूत्रम्}

5.2.19

उत्तरस्य अप्रतिपत्तिः अप्रतिभा
{अप्रतिभा लक्षण-सूत्रम्}

5.2.20

कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः
{विक्षेपः लक्षण-सूत्रम्}
[मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(21-23)]

5.2.21

स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा
{मतानुज्ञा लक्षण-सूत्रम्}

5.2.22

निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्
{पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्}

5.2.23

अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
{निरनुयोज्यानुयोग लक्षण-सूत्रम्}
[कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(24-25)]

5.2.24

सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः
{अपसिद्धान्त लक्षण-सूत्रम्}

5.2.25

हेत्वाभासाः च यथोक्ताः
{हेत्वाभास निरूपणम्}
(इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तश्चायम् पञ्चमाध्यायः)
न्यायदर्शनं समाप्तम्

मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc