न्यायसूत्र · अध्याय 1.1
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः
{पदार्थोद्देशसूत्रम्}
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः
{पदार्थोद्देशसूत्रम्}
[प्रमाणप्रकरणम्]
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
{प्रमाण-उद्देश-सूत्रम्}
इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्
{प्रत्यक्षलक्षणम्}
अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च
{अनुमानलक्षणम्}
प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्
{उपमानलक्षणम्}
आप्तोपदेशः शब्दः
{शब्दलक्षणम्}
सः द्विविधः दृष्टादृष्टार्थत्वात्
{शब्दभेदः}
[प्रमेयप्रकरणम्]
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्
{प्रमेय-उद्देश-सूत्रम्}
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति
{आत्मलक्षणम्}
चेष्टेन्द्रियार्थाश्रयः शरीरम्
{शरीरलक्षणम्}
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
{इन्द्रियलक्षणम्}
पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि
{भूतलक्षणम्}
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
{अर्थ(विषय)लक्षणम्}
बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्
{बुद्धिलक्षणम्}
युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्
{मनोलक्षणम्}
प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
{प्रवृत्तिलक्षणम्}
प्रवर्त्तनालक्षणाः दोषाः
{दोषलक्षणम्}
पुनरुत्पत्तिः प्रेत्यभावः
{प्रेत्यभावलक्षणम्}
प्रवृत्तिदोषजनितः अर्थः फलम्
{फललक्षणम्}
बाधनालक्षणम् दुःखम्
{दुःखलक्षणम्}
तदत्यन्तविमोक्षः अपवर्गः
{अपवर्गलक्षणम्}
[न्यायपूर्वाङ्गलक्षणप्रकरणम्]
समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
{संशयलक्षणम्}
यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्
{प्रयोजनलक्षणम्}
लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः
{दृष्टान्तलक्षणम्}
[न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
{तन्त्रभेद-उद्देशसूत्रम्}
सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
{सर्वतन्त्रसिद्धान्त-लक्षणम्}
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
{प्रतितन्त्रसिद्धान्त-लक्षणम्}
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
{अधिकरणसिद्धान्त-लक्षणम्}
अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः
{अभ्युपगमसिद्धान्त-लक्षणम्}
[न्यायप्रकरणम्]
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
{अवयव-उद्देशसूत्रम्}
साध्यनिर्देशः प्रतिज्ञा
{प्रतिज्ञा-लक्षणम्}
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः
{हेतु-लक्षणम्}
तथा वैधर्म्यात्
{हेतु-लक्षणम्}
साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्
{उदाहरण-लक्षणम्}
तद्विपर्ययात् वा विपरीतम्
{उदाहरण-लक्षणम्}
उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
{उपनय-लक्षणम्}
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्
{निगमन-लक्षणम्}
[न्यायोत्तराङ्गप्रकरणम्]
अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः
{तर्क-लक्षणम्}
विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः
{निर्णय-लक्षणम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्)
(अथ द्वितीयम् आह्निकम्)
[कथालक्षणप्रकरणम्]
मूल पाठ: Nyāyasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0