भाषा

ENहिગુ
ग्रंथ पाठ

niruttaratantram · अध्याय p8

द्वादशः पटलः
श्राशिव उवाच-
अथान्यत् सम्प्रवक्ष्यामि साधनं भुवि दुर्लभं ।
येन कृते लभेत् सिद्धि देवानामपि दुर्लभां ॥
ललाटे शक्ति-मन्त्रं तु त्रिरावृत्या लिखेद् बुधः ।
तन्मध्ये काम-वीजं च विलिखेत् काम-लाञ्छितं ॥
कामेन पुटितं कृत्वा पूजयेत् परमेश्वरीं ।
सम्पूज्य कालिकां देवीं यन्त्रं च परि-पूजयेत् ।
तत्त्व-चिन्ता-परो योगी जपेल्लक्षं निराकुलः ।
संगृह्य कुल-पुष्पं तु पूजयेच्च पुनः पुनः ॥
सहस्रं तर्पयेत् पीठे यन्त्र-प्रक्षालनोदकैः ।
एवं कृते लभेत् सिद्धि सत्यं सत्यं न संशयः ॥
अथान्यत् सम्प्रवक्ष्यामि पुरश्चरणमुत्तमं ।
शतं भाले शतं केशे शतं सिन्दूर-मण्डले ॥
शतमेकं मुखाब्जेषु पुष्प-वक्त्रे शत-द्वयं ।
शत-द्वन्द्वं कुच-द्वन्द्वे शतं च नाभि मण्डले ॥
शतमेकं कुलागारे प्रजपेद् भक्ति-भावतः ।
एवं दश-शतं जप्त्वा कुलागारे ततो जपेत् ॥
पूजयित्वा जपेन्मन्त्रं गजान्तक-सहस्रकं ।
ततस्तु तत्त्व-योगेन शतमष्टोत्तरं जपेत् ॥
पूजनं च पुनस्तत्र पुरश्चरणमुच्यते ॥
अथान्यत् सम्प्रवक्ष्यामि कुलागारस्य साधनं ।
येन कृते कुलेशा नि ! सर्व-पाप क्षयो भवेत् ॥
कुलागारे कुलाष्टम्यां कुलमाहूय पूजयेत् ॥
तर्पणं च जपं होमं तत्तदक्षरतां व्रजेत् ।
कदलो-तरु-मूलं च द्वि-गुणं यदि दृश्यते ॥
तत्रैव महतो पूजा कर्त्तव्या वर-र्वाणनि !
तद्-धृते ब्रह्म-वक्त्रेण होमं कुर्याद् विचक्षणः ॥
होमं कृत्वा जपेन्मन्त्रं कोटि-कोटि-गुणं भवेत् ।
द्वि-गुणं रजनी-मूलं संवीक्ष्य यो जपेन्मनुं ॥
स भवेत् सर्व-सिद्धीशस्तस्य पुण्यं न विद्यते ॥
रजनी स्वेच्छ्याहूय साधकं कुल-भूषणं ॥
विपरीता जपेन्मन्त्रं तस्याः पुण्यं न गण्यते ।
रजन्याथ कुलागारे पुलिने निपुणा यदि ॥
तत्समा रजनी कान्ता कमला वाथ राधिका ।
त्रिषु लोकेषु सा धन्या ब्रह्म-विष्णु-शिवात्मिका ॥
सिद्ध-विद्या महा-विद्या मन्त्र-यन्त्र-फल-प्रदा ।
तस्याः प्रसाद-मात्रेण दुष्ट-मन्त्रोऽपि सिद्धयति ।
तस्मात् सर्व प्रयत्नेन तामेव शरणं व्रजेत् ।
रजन्यां रजनी-योगं विहरेद् यदि साधकः ॥
जपेद्वा पूजयेत् तत्त्र सर्वं तत् निष्फलं भवेत् ।
येन तेन प्रकारेण रजनी-तोषणं चरेत् ॥
बाह्याद्वा क्रीडनाद्वापि रणाद्वा तोषयेत् सदा ।
यं यं भावं रजन्यां च तं तं भावं प्रकल्पयेत् ॥
अतिरिक्तः कृतो भावो रौरवं नरकं व्रजेत् ।
कलायाः सर्मांत कृत्वा साधयेत् कुल-साधनं ॥
अन्यथा नरकं याति सत्यं सत्यं न संशयः ।
कलापि साधकं ज्ञात्वा सर्मात नंव जायते ॥
सा चैवं नरके घोरे वसेदेव न संशयः ।
उभयोः सर्मात ज्ञात्वा साधयेत् कुल-साधनं ॥
श्रसम्मत-कुला-सङ्गात् सिद्धि-हानिः प्रजायते ।
यो गच्छेद् रजनी-गेहं कुल-साधन-जिते ॥
स एव नरकं याति सत्यं सत्यं न संशयः ।
क्रोधाद्वा कामतो वापि द्वेषाद्वा वर-वर्वाणनि ॥
न गच्छेद् रजनो-गेहं गच्छेच्च नरकं व्रजेत् ।
अज्ञात्वा कुल-सङ्केत कुल-मार्ग विशेद् यदि ॥
स याति नरकं घोरं का कथा पर-जन्मनि ।
गुरुं विलंघ्य शास्त्रेऽस्मिन् नाधिकारी कदाचन ॥
गुरोराज्ञां समादाय कुल-पूजां चरेत् सुधीः ।
पशोर्वापि शठाद्वापि धूर्ताद्वा चुल्लुकादपि ॥
न गृह्णीयात् सिद्धि-विद्यां गृह्णीयाद् दुःख-भाग् भवेत् ।
मधु-लुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ॥
ज्ञान-लुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ।
तस्मात् सर्व-प्रयत्नेन कुलीनं गुरुमाश्रयेत् ॥
कुलीनस्तन्त्र-मन्त्राणां अधिकारोति गीयते ।
आजन्म च परं वस्तु कुलीनाय निवेदयेत् ॥
शुभे मासि शुभे पक्षे शुभे लग्ने शुभे दिने ।
पूर्वोक्त-मन्त्र-ज्ञानेन घटं संस्थापयेत् ततः ॥
भूर्ज-पत्रेण संलिख्य घटे संस्थाप्य यत्नतः ।
तत्र पूजां चरेद् धीमान् महा-चीन-क्रमेण च ॥
पूजयित्वा ततो देवीं गुरुः सूर्यं विचिन्तयेत् ।
ततः कुलीनामाश्रित्य मन्त्रं तन्त्रं विलोकयेत् ॥
अभिषेकं च तत्रैव कुर्यात् कुल-परायणः ।
पशोर्वा चुल्लुकाद् वापि धूर्ताद्वा कुल-पामरात् ॥
सिद्धि-विद्यां न गृह्णीयात् गृह्णीयान्नरकं व्रजेत् ।
जप-पूजां तथा होमं साधनं सर्व-कर्मसु ॥
सर्वं च निष्फलं याति दुःखं तस्य पदे पदे।
कुल-द्रव्याणि देवेशि ! पश्वादिभ्यो न दर्शयेत् ॥
तर्पयेत् सिद्धि-हानिः स्यात् रौरवं नरकं व्रजेत्।
कुल-पूजादिकं कर्म पशोरग्रे चरेद् यदि ॥
तत्कर्म निष्फलं याति का कथा पर-जन्मनि ।
पशोरालापनाद् देवि ! कुल-कर्म प्रणश्यति ॥
पशोर्दर्शन-मात्रेण सूर्य-दर्शनमाचरेत् ।
स एव द्विविधो देवि ! दीक्षितोऽदीक्षितः पशुः ॥
दीक्षितो हि भवेत् पूर्वोऽदोक्षितो हि महा-पशुः ।
पूर्व-सङ्गात् कुलेशानि ! सिद्धि-हानिः प्रजायते ॥
महा-पशु-समायोगान्न कुलं शरणं व्रजेत् ।
पशु-मात्र समायोगात् प्रेत-राज्याधिपो भवेत् ॥
पशु-मात्र-समायोगात् कुल-कर्म प्रणश्यति ।
तस्मात् सर्व-प्रयत्नेन कुलीनं गुरुमाश्रयेत् ॥
कुलीन-सेवितस्यापि मन्त्र-सिद्धिः प्रजायते ॥
पशुं शठं च धूर्त च चुल्लुकं च विशेषतः ॥
धर्मार्थ-काम-मोक्षार्थी गुरुत्वेन न चार्चयेत् ।
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे द्वादशः पटलः ॥

मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc