भाषा

ENहिગુ
ग्रंथ पाठ

niruttaratantram · अध्याय p4

चतुर्दशः पटलः
श्रीदेव्युवाच -
वेश्या च कीदृशी देव ! प्रशस्ता कुल-पूजने ?
कस्याः संसर्ग-मात्रेण श्रेष्ठो भवति साधकः ॥
नाना-कुल-गता वेश्या कथं शस्ता कुलार्चने ?
श्रीशिव उवाच -
गुप्त-वेश्या महा-वेश्या कुल-वेश्या महोदया ।
राज-वेश्या देव-वेश्या ब्रह्म-वेश्या च सप्तधा ॥
कुलजा गुप्त-वेश्या स्यान्निर्लज्जा मदनातुरा ।
पशु-भर्ताश्रिता लोके गुप्त-वेश्या प्रकीर्तिता ।
कुलजा कुल-वेश्या च महा-वेश्या प्रकीर्तिता ।
महा-वेश्या कुलेशानि ! स्वेच्छ्या च दिगम्बरी ॥
कुल-वेश्या कुलीना च वीर-पत्नी कुलेश्वरि !
महोदया समाख्याता स्वेच्छ्या विपरीतगा ॥
राज-वद् या च वेश्या स्याद् राज-वेश्या प्रकीर्तिता ।
देवं संयोज्य चक्रे च जप्त्वा तु विन्दु-पातनं ॥
भग-लिङ्ग-कपाले च चुम्बयेच्च पुनः पुनः ।
एवं-विधा कुलोना चेद् ब्रह्म-वेश्या प्रकीर्तिता ॥
दिव्य-शक्तिर्वीर-शक्तिस्तासां संज्ञा प्रकीर्तिता ।
चतुर्वर्णोद्भवानां च संज्ञिताः परिभाषिताः ॥
वेश्या-वद् भ्रमते यस्मात् तस्माद् वेश्या प्रकीर्तिता ।
वर्ण-सङ्करतो जाता सर्व-वेश्याः प्रकीर्तिताः ॥
कुल-मार्गे प्रवृत्ता या सा वेश्या मोक्ष-दायिनी ।
चुम्बनालिङ्गनाधातं रति-विग्रह-दर्शनं ॥
आमन्त्रणं त्रि-सन्ध्यं च भग-लिङ्गस्य कीर्तनं ।
वेश्यानां च जपाङ्गेदं शङ्करेण पुरोदितं ॥
जपाङ्गेन विना वेश्या न कुर्यात् स्थिर-सङ्गमं ।
जपाङ्ग प्रत्यहं कुर्यात् सा शिवः सह मोदिता ॥
निशायां प्रजपेन्मन्त्रं स्वयम्भू-शिव-योगातः ।
वेश्यानां जप-मात्रं तु पुरश्चरणमुच्यते ॥
विपरीता जपेन्मन्त्रं सा काली नात्र संशयः ।
योषितां मन्त्र-सिद्धिः स्याद् विपरीत रतौ प्रिये ॥
विपरीत-रतौ जप्त्वा 4 सर्व-सम्पत्तिमालभेत् ।
विपरोत-रतौ जप्त्वा निर्वाण-पदवीं व्रजेत् ॥
विपरीत-रतौ जप्त्वा काली-वद् विहरेत् भुवि ।
विपरीत-रता काली विपरीता च तारिणी ॥
विपरीता च या वेश्या सा काली नात्र संशयः ।
योषिद-विद्या न सिद्धचन्ति विपरीतरतिं विना ॥
विपरीत-रता वेश्या त्रिषु लोकेषु पूजिता ।
गाढमालिङ्गनं दत्त्वा चुम्बयित्वा पुनः पुनः ॥
एवं-विधा पुरश्चर्या वेश्यायाश्च कुलेश्वरि ॥
कटाक्षैर्दर्शयेद् यन्त्रं दक्षिणा कौलिकीरिता ।
एवं-विधा भवेद् वेश्या न वेश्या कुलटा प्रिये !
कुलटा-सङ्ग‌मादेव रौरवं नरकं व्रजेत् ॥
वीर-शक्तिर्भवेद् वेश्या सा शस्ता स्व-स्व-साधने ।
पुरश्चर्याश्च ता वेश्या योजयेत् कुल-साधने ॥
शिव-लिङ्ग-गता साध्वी शिव-लिङ्ग-गता सती ।
शिव-लिङ्ग-गता वेश्या कीर्तिता सा पतिव्रता ॥
योनिश्च जनिका माता निङ्गश्व जनकः पिता ।
विभाव्य पितरौ भावं उभयोः परि-चिन्तनं ॥
लिङ्ग-रूपो महा कालो योनि-रूपा च कालिका ।
तयोर्योग-परा धन्या तयोर्योग-परो महान् ॥
स्व-भैरवं विना वेश्या शिव-पूजां करोति या ।
रौरवे नरके घोरे वसेदाहूत-सम्प्लवं ॥
स्व-भैरवीं विना वीरो मनसा नैव संस्मरेत् ।
स्मरेच्च नरकं याति महा-व्याधि-परो भवेत् ॥
नाना-वीराश्रिता वेश्या पशु-वेश्या कुलेश्वरि !
सा वेश्या नरकं याति सत्यं सत्यं न संशयः ॥
कामाद्वा लोभतो वापि धनाद्वा वर-र्वाणनि !
नाना-वीराश्रिता वेश्या वेश्या च नरकं व्रजेत् ॥
धनाद्वा कामतो वापि लोभाद्वा कुल-सुन्दरि !
पशु-सङ्ग-गता वेश्या सा वेश्या नरकं व्रजेत् ॥
नाना-वीराश्रिता वेश्या पशु-सङ्ग-गता च या ।
वर्जनीया प्रयत्नेन कुल-साधन-कर्मणि ॥
योज्या चेत् सिद्धि-हानिः स्याद् भ्रष्ट-वेश्या कुलार्चने ।
रोगः शोको भवेत् तस्य धन-हानिः क्षणे क्षणे ॥
तस्मात् सर्व-प्रयत्नेन स्व-शिवं च समाश्रयेत् ।
जप-पूजादिकं वेश्या स्व-शिवे परि-कल्पयेत् ॥
पुष्पिता काममापन्ना सदा रमणमिच्छुका ।
सर्व-सिद्धि-प्रदा वेश्या कालिका-रूप-धारिणी ॥
पितृ-भूमिः समाख्याता सदाशिव-निवासिनो ।
शिव एव नरो ज्ञेयो लिङ्ग-रूप-धरो यतः ॥
शिव-स्थानं श्मशानं स्यात् श्मशानं कुलजं गृहं ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥
श्मशाने नागते नार्चेत् अवश्यं पशु-वद्भवेत् ।
तन्मन्त्रं पूजितं येन सर्व-मन्त्रं प्रपूजितम् ॥
तत्र सञ्जप्य देवेशि ! निर्वाण-पदवीं व्रजेत् ।
मातृ-मुखे पितृ-मुखं दत्वा जपेत् कालीं सनातनीं ॥
सर्व-पाप-विनिर्मुक्तो निर्वाण-पदवीं व्रजेत् ।
परस्मिन् गुप्त-वेश्या वाप्यथवा कुलीना भवेत् ॥
शुक्रोत्सारण-कालं तु निर्वाणं विद्धि पार्वति !
तत्कालस्तु महा-कालः फल-मार्ग-प्रवेशिनां ॥।
शुक्रोत्सारण-कालं तु कायेन मनसापि वा ।
अङ्ग-भङ्ग-क्रमेणैव कुलीनाय प्रकाशयेत् ॥
शुक्रोत्सारण-कालस्य ज्ञापनात् कालिका स्वयं ।
जपाङ्गे कालिका देवी महा-कालं विमोहयेत् ॥
कुलीना ब्रह्म-वेश्या चेन्नाल्पस्य तपसः फलं ।
बहुना जन्मनामन्ते ब्रह्म-वेश्या प्रजायते ॥
त्वत्समा प्रकृतिः काचिद् यदस्ति भूमि-मण्डले ।
न तथा त्वत्समो शक्तिस्त्रिषु लोकेषु गीयते ॥
सा चैव दक्षिणा काली मदनातुर-विह्वला ।
वेदेभ्यो जायते कर्म कर्मणा बन्धनं भवेत् ।
वैदिकं कर्म सन्त्यज्य सुरतेषु सदा जपेत् ।
आगमोक्त-पतिः शम्भुरागमोक्तः विवाहितः ।
स्व-पतिः कुलजायाश्च न पतिश्च विवाहितः ॥
विवाहित-पति-त्यागे दूषणं न कुलार्चने ॥
विवाहितं पतिं नैव त्यजेद् वेदोक्त-कर्मणि ।
आगमोक्त-पतिस्त्राता आगमोक्त-पतिः शिवः ॥
सिद्ध-विद्या न सिद्धयन्ति आगमोक्त-ति विना ।
आगमोक्त-पतिर्देवि ! योषितां मोक्ष-दायकः ॥
कालीं नैव यजेद् योषिदागमोक्त-पति विना ।
कुलजा गुरवे देवि ! पतित्वे वरणं चरेत् ॥
तदा सा गुप्त-वेश्या स्यात् कुलजा च पति विना ।
गुप्त-वेश्या भवेत् सैव कुल-मार्ग-प्रतिता ॥
कुल-मार्ग-प्रसक्ताया सा मुक्ता नात्र संशयः ।
कुलजा गुस्वे देवि ! यदि न स्यात् पतीच्छुका ॥
तस्याः शिवो महा-कालः सत्यं सत्यं न संशयः ।
षोडशाब्दा सदा सा स्यात् काली विक्रम-तत्परा ॥
तारा पञ्च-दशाब्दा चेत् चतुर्दशाब्दा च सुन्दरी ।
त्रयोदशो चोन्मुखी सा द्वादशाब्दा च भैरवी ॥
एकादश-गुणोपेता ब्रह्म-वेश्या कुलेश्वरि !
महा-साध्वी समाख्याता त्रिषु लोकेषु दुर्लभा ॥
स्वर्गे मत्यें च पाताले या यास्तिष्ठन्ति चाङ्गनाः ।
सर्वासामपि भर्ता च दिव्यो वीरश्च साधकः ॥
योगी दिव्यो यदा वीरः सर्व-नारी-पतिर्भवेत् ।
दिव्योऽपि वीर-भावेन सर्व-जात्युद्भवां यजेत् ॥
गुप्त-वेश्या महा-वेश्या अयोध्या मथुरा प्रिये !
माया च कुल-वेश्या स्यात् महोत्रया च कालिका ॥
राज-वेश्या देव-वेश्या द्वारका परि-कीर्तिता ।
काञ्ची च राज-वेश्या स्याद् देव-वेश्या अवन्तिका ॥
द्वारावती ब्रह्म-वेश्या सप्तैता मोक्ष-दायिका ।
कुलीना भगवती साक्षात् काली तारा सरस्वती ॥
कुलीना भैरवी राधा कुलीना छिन्नमस्तका ।
कुलीना सुन्दरी देवि ! कुलीना महिष-दिनी ॥
कुलीना भुवना बाला कुलीना बगलामुखी ।
धूमावती कुलीना च मातङ्गी कुलीना प्रिये ॥
कुलीना चान्नपूर्णा च त्रिपुटा त्वरिता तथा ।
पतिव्रता कुलीना च सती साध्वी महोदया ॥
कुलीना मन्त्र-तन्त्राणां सिद्धिदा नात्र संशयः ।
कुलजा देव-कन्या च कुलीना योगिनी-गणाः ॥
रम्भोर्वशी रती-रामा तिलोत्तमा कुल-सुन्दरी ।
एताः सर्वाः पृथग् विहरन्ति कुलात्मजाः ॥
कुलजाः कुल-वेश्या याः कुल-धर्म-परायणाः ।
पशु-भर्त्राश्रिता लोका काम-कौतुक-लालसाः ॥
कुल-वर्त्म-क्रमेणैव सदैव रमणोत्सुका ।
विदग्धा वीर-भावेन वोर-गोपन-तत्परा ॥
विहितान्यां हीन-जातां पूजयेदथवा यतः ।
ब्रह्मचारी गृहस्थोऽपि विहितान्यां न चार्चयेत् ॥
अर्चयेत् सिद्धि-हानिः स्याद् दुःखं तस्य पदे पदे ।

हीनजां विहितां वेश्यां मनसा च प्रपूजयेत् ॥
तद्-योगं चिन्तयेद् धीमान् शतमष्टोत्तरं जपेत् ।
जप्त्वा प्रणम्य देवेशि ! भक्ष्य-द्रव्यं निवेदयेत् ॥
कामाद्वा मोहतो वापि हीनजां यदि चेच्छति ।
रौरवं नरकं याति हीनजा-सङ्गमेन च ॥
हीनजा-सङ्गमं देवि ! मनसा न स्मरेत् कलौ ।
कुल-कर्म-प्रवृत्ता या सा मुक्ता नात्र संशयः ॥
कुलजा कुल-वेश्या च वीजमेकं समाश्रयेत् ।
सन्त्यज्य पशु-भर्तारं कुल-मार्गे प्रवेशयेत् ॥
कुल-मार्ग समाश्रित्य वीरमेकं समाश्रयेत् ।
कुल-मार्ग-प्रवृत्ता चेत् पति-हीना भवेद् यदि ॥
कुलजा वा कुलीना वा पर-जन्मनि जायते ।
कुल-धर्म-रता शस्ता कुल-धर्मोत्सुका तथा ॥
पूजार्हा सा महेशानि ! पति-हीना प्रपूजयेत् ।
लोकाचार-क्रमेणैव पूजार्हा लंघिता यदि ॥
तां विहाय कुलेशानि ! कुलजां च प्रपूजयेत् ।
गङ्गा-स्मरण-मात्रेण तथा पाप-क्षयो भवेत् ॥
कुलजा च कुलीनाय मन्त्र-तन्त्र-फल-प्रदा ।
महा-वेश्या भवेत् सैव सर्व-वेश्या फल-प्रदा ॥
यासां च सर्व-विद्यानां प्रशस्ता या कुलार्चने ।
सैव शक्तिविशेषेण सर्व-वेश्याः प्रकीतिताः ॥
कुलीना-दर्शनेनैव सर्व-पाप-क्षयो भवेत् ।
कुलजानां पुरश्रर्या कुलीना-वत् कुलेश्वरि ॥
सर्व-वेश्या होनजा च सर्व-सिद्धि-प्रदायिनो ।
अनेक जन्मनामान्ते कुल-धर्मः प्रवर्तते ॥
फुल-धर्म विना देवि ! न च मोक्षः प्रजायते ।
कुल-पूजां विना देवि ! सुन्दरी नैव सिद्धयति ॥
कुल-पूजां विना देवि ! पञ्चमी नहि सिद्धयति ।
कुल-पूजां विना नैव भैरवी न च सिद्धचति ॥
कुल-पूजां विना देवि ! छिन्नमस्ता न सिद्धयति ।
कुल-पूजां विना देवि ! काली-कुलं न सिद्धयति ॥
कुल-पूजां विना देवि ! तत्त्व-ज्ञानं न जायते ।
तत्व-ज्ञानं विना देवि ! निर्वाणं नैव जायते ॥
निर्वाणं श्रेयसं प्राप्य मम योगं प्रजायते ।
निर्वाणं श्रेयसं चापि मूलं च कुल-मन्दिरं ॥
पञ्चमैः पूजयेत् कालों कुलीनं च कुल-मन्दिरे ।
ब्रह्मा विष्णुश्च रुद्रश्व ईश्वरश्च सदाशिवः ॥
इन्द्रादि दश-दिक्पाला आदित्यादि-नव-ग्रहाः।
असिताङ्गादयो ये ये भैरवाश्र्व सुरादयः ॥
कुल-पूजा-कृताः सर्वे कृतार्थाः कुलीना-गृहे
शक्ति विना महेशानि ! शक्ति-मन्त्रो न सिद्धयति ।
सर्वेषां शक्ति-मन्त्राणां शक्तिः सिद्धि-प्रदायिनी ।
नटी कापालिका वेश्या रजकी नापिताङ्ग‌ना ।
योगिनी श्वपची शौण्डी भूमीन्द्र-तनया तथा ।
गोपिनी मालिका रम्या आसां कार्य-विभेदतः ॥।
चतुर्वर्णोद्भवा रम्या कापालो सा प्रकीर्तिता ।
पूजा-द्रव्यं समालोक्य नृत्य-गीत-परायणा ॥
चतुर्वर्णोद्भवा रम्या सा नटी परि-कीर्तिता ।
पूजा-द्रव्यं समालोक्य वेश्या रमणमिच्छता ॥
चतुर्वर्णोद्भवा रम्या सा वेश्या परि-कीर्तिता ।
पूजा-द्रव्यं समालोक्य रजोऽवस्थां प्रकाशयेत् ॥
सर्व-वर्णोद्भवा रम्या रजकी सा प्रकीर्तिता ।
पूजा-द्रर्व्य समालोक्य कुलजा वीरमाश्रयेत् ॥
सन्त्यज्य पशु-भर्तारं कर्म-चाण्डालिनी स्मृता ।
शिव-शक्ति-समायोगा योगिनी सा व्यवस्थिता ॥
विपरीत-रता पत्यौ पात्रं या परि-पृच्छति ।
सर्व-वर्णोद्भवा रम्या सा शौण्डी परि-कीर्तिता ।
सर्वदा यन्त्र-संस्कारो यस्याश्च परि-जायते ।
सैव भूमीन्द्रजा रम्या सर्व-वर्णोद्भवा प्रिये ॥
अथान्यं गोपयेद् यस्तु सर्वदा पशु-सङ्कटे ।
सर्व-वर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता ॥
पूजा-द्रव्यं समालोक्य या मनौ परिकीर्तिता ।
सर्व-वर्णोद्भवा रम्या मालिनी सा प्रकीर्तिता ॥
शक्त्यभावे महेशानि ! यासां च काञ्चिदाहरेत् ।
संशोध्य पञ्चमं तत्त्वं तर्पयेत् कुल-सुन्दरि ॥
अंगुष्ठानामिका-योगाद् वाम-हस्तस्य पार्वति!
तर्पयेत् कालिकां वीरः सायुधां परि-वाहनां ॥
अंगुष्ठो भैरवो देवः अनामा शक्तिरुच्यते ।
शिव-शक्ति-समायोगात् तर्पयेद् देवि ! दक्षिणां ॥
तर्पणं त्रिविधं देवि ! श्रेष्ठं मध्यं कनीयसं ।
श्रेष्ठं च दिव्य-भावस्य वीर-भावस्य मध्यमं ॥
कनीयांसं पशूनां च हृदि यन्त्रे जले क्रमात् ॥
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे चतुर्दशः पटलः ॥

मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc