niruttaratantram · अध्याय p11
पञ्चदशः पटलः
श्रीदेव्युवाच -
देव-देव महा-देव कुल-मार्ग-प्रकाशक !
पञ्चमं कीदृशं द्रव्यं तेषां शुद्धिस्तु कीदृशी ॥
तत्प्रकाशय सम्यङ् मे मयि नाथ ! कृपां कुरु ।
श्रीशिव उवाच -
मद्यं मांसं तथा मीनं मुद्रा मैथुन-पञ्चमं ।
एषां शुद्धि प्रवक्ष्यामि मन्त्र-कोष-क्रमेण च ॥
निशीथे मुक्त-केशश्च सुकुलं वाम-भागतः ।
संस्थाप्य न्यास-जालं च तद्-गात्रे विन्यसेत् क्रमात् ॥
स्व-गात्रे च ततो न्यस्य न्यास-जाल-क्रमेण च ।
भूत-शुद्धिविधेया च वर्ण-न्यासं ततश्चरेत् ॥
अङ्ग-न्यास-कर-न्यासौ लिपि-न्यासं तु तत्परम्।
ततोऽन्तर्मातृकां कृत्वा मातृका-न्यासमाचरेत् ॥
प्राणायामं ततः कृत्वा ऋषि-न्यासं ततः परं ।
पीठ-न्यासं व्यापकं च काली-कुलस्य पूजने ॥
क्रम-भङ्गो भवेन्नैव भवेच्च विफलं ध्रुवम्।
जप-पूजादिकं कर्म सर्वं निष्फलतामियात्॥
तस्मात् सर्व-प्रयत्नेन क्रम-भङ्ग न कारयेत् ।
जीव-न्यासं व्यापका दौ विद्या-राज्ञीं प्रपूजयेत् ॥
बोढा-न्यासं नील-कण्ठं कामं च परि-कीर्तितं ।
ततो ध्यात्वा महा-कालीं मानसैः परि-पूजयेत् ॥
ततश्च पञ्चमं शुद्धं विशेषार्ध्य ततःपरम्।
ततः कुलं च सम्पूज्य पञ्चानां शुद्धिमाचरेत् ॥
स्व-वामे विन्दु-षट्-कोणं वृत्तं च चतुरस्रकं ।
चतुर्दारं च संलिख्य सामान्यार्थ्योदकेन च ॥
अभ्युक्षणं ततः स्थानं तत्न देवीं विचिन्तयेत् ।
नम इति क्षालिताधार-यन्त्रं संस्थाप्यः पूजयेत् ॥
वह्न देश-कलां तत्त्र पूजयेंद् विधि-पूर्वकम् ।
आद्यष्ट-देव्यः सम्पूज्याः तथा धूम्रार्चिका कला ॥
पूर्वं त्रि-पदिकामिष्ट्वा गन्ध-पुष्पेण पूजयेत् ।
अष्टदिक्षु च सूर्यस्य द्वादशीं कलां ॥
ततश्च रक्त-वस्त्रेण वेष्टयेद् घटमुत्तमं ।
घटं सम्पूरयेद् देवि ! हेतुना मूलमुच्चरन् ॥।
ॐ अमृतादिक-सोमस्य कलास्तत्रैवं पूजयेत् ।
तत्रापि पञ्च-मुद्राभिः प्रणम्य तु कुलेश्वरि ॥
नितम्ब-सवशाकारैर्नमो करतलद्वयम्।
ह्रीं नमः इति नमस्कुर्यात् चतुरस्त्रा तु सा स्मृता ॥
पुटाकार करं बध्वा मुष्टि-बद्धं च भू-तले ।
विधाय च नमस्कुर्यात् ह्रीं नमः सम्वृताः स्मृताः ॥
कृत्वा पुटाञ्जल भूमौ क्लीं नमः प्रणमेत् प्रित्रे !
कथिता सम्पुटा मुद्रा शृणु देवि ! पुटाञ्जल ॥
वृद्धा-कनिष्ठयोर्मूले निःक्षिप्य च पुटाञ्जलिम् ।
कृत्वा च हूं नमो भूमौ प्रणमेत् सा पुटाञ्जलिः ॥
सः नमो योनि-मुद्रायाः पञ्च-मुद्राः प्रकीर्तिताः ।
ततः कुम्भ-समीपे तु चन्दनेन च संलिखेत् ॥
त्रिकोण-वृत्त-भू-बिम्बं तत्र सर्व-पथिकाय च ।
पूजयित्वा बलिं तत्र निधाय परमेश्वरि ॥
माया-त्रि-सर्व-पथिकाभ्यो नमः प्रिये !
बलिमुत्सृज्य देवेशि ! तत्त्व-मुद्रा-क्रमेण च ॥
वाम-हस्तेन तत्त्वस्य मुद्रां बध्वा महेश्वरि !
त्रि-परिभ्राम्य मूलेन द्रव्योपरि कुलेश्वरि ॥
देवता-पश्चिमे भागे स्थापयेत् तत् कुलेश्वरि !
एवं सुधूपितं कृत्वा पञ्चीकरणमाचरेत् ॥
द्रव्यं दर्भेश्चास्त्र-मन्त्रैः सन्ताड्य परमेश्वरि !
हमिति वाम-हस्तेन मुष्टि कृत्वा कुलेश्वरि ॥
अधोमुख्या च तर्जन्या वेष्टयेत् त्रिः कुलेश्वरि !
मूलेन वीक्षणं देवि ! अस्त्रेणाभ्युक्षणं चरेत् ॥
त्रि-सुगन्धश्च मूलेन गृह्णीयात् परमेश्वरि !
पञ्चीकरणमित्युक्तं क्रमशो विद्धि पार्वति ॥
कुम्भे पुष्पं ततो दत्त्वा प्रणवेन कुलेश्वरि !
त्रिकोणं तत्र संलिख्य तन्मध्ये च हसौः प्रिये ॥
ह्सौः ह्सौः नमोऽन्तेन त्रिश्च तत्र प्रपूजयेत् ।
प्रणवं पूर्वमुच्चार्य वरुणं तदनन्तरं ॥
बामदेवं ततो डेन्तं वौषट् मन्त्रेण पूजयेत् ।
सम्पूज्य वाम-देवं च पशुति ततो यजेत् ॥
प्रणवं कूर्च-वीजं च ङेन्तं पशु-पतिं ततः ।
कूर्च-युग्ममस्त्र-वीज-मन्त्रे पशुर्पात यजेत् ॥
माया-वीजं समुच्चार्य काली-वीजं ततः परं ।
ततः परं पदं देवि ! स्वामिनि च ततः परं ॥
परा-कोष-गता देवी शून्य-वाहिनी ततः परं ।
चन्द्र-सूर्याग्नि-भक्षिणी पश्चात् पात्रं च तदनन्तरं ॥
विष-युग्मं वह्नि-जाया दशधा संजपेत् प्रिये !
वाग्भवं भुवना लक्ष्मीः आनन्देश्वर-ङेन्तकं ॥
विद्महे च ततो देवि ! धीमहीति तदनन्तरं ।
इति गायत्रीं त्रिर्जप्त्वा ऋक्-त्रयं च जपेदिति ॥
ॐ रां रीं रूं समुद्धृत्य रैं रौं क्रौं क्रौं क्रस्ततः परं ।
ततः स्वधा कृष्ण-शापं मोचय-द्वय ततः परं ॥
अमृतं स्त्रावय-द्वन्द्वं वह्नि-जाया कुलेश्वरि !
इति द्वादशधा जप्त्वा मन्त्राण्येतानि त्रिर्जपेत् ॥
ॐ एक एव परं-ब्रह्म स्थूल-सूक्ष्म-मयं ध्रुवं ।
कचोद्भवां ब्रह्म-हत्यां तेन ते नाशयाम्यहं ॥
ॐ सूर्य-मण्डल-सम्भूते वरुणालय-सम्भवे ।
अमा-वीज-मये देवि ! शुक्र-शापाद् विमुच्यते ॥
ॐ देवानां प्रणवो वीजं ब्रह्मानन्द-वयं यदि ।
तेन सत्येन मे देवि ! ब्रह्म-हत्यां व्यपोहतु ।
इति मन्त्र-त्रयेणैव त्रिधा समभिमन्त्रय च ।
ह्रीं श्रीं श्रूं श्रींकारेति शोभिनि च ततः परं ॥
ततो विकारानस्येति द्रव्यस्य हरद्वय वह्नि वल्लभा ।
इति त्रयं जप्त्वा द्रीं श्रीं ऐं च ततः परं ॥
इति प्रकाशिनों त्रिश्च जप्त्वा तिरस्करणीं जपेत् ।
ह्रीं क्लीं ऐं श्रौं समुद्धृत्य तिरस्करणी ततः परं ॥
सकल-जन-वाग्वादिनि ततः सकल-पशु-वृते ।
जन-मनश्चक्षुस्ततो देवि ! श्रोत्र-जिह्वा ततः परं ॥
प्राणोक्ति-तिरस्करणं कुरु-युग्मं ततः परं ।
नीलं हयं समधिरुह्य पुरः प्रयान्ती ॥
नीलांशुकाभरण-माल्य-विलेपनाढ्या।
निद्रा-पटेन भुवनानि तिरोदधाना ॥
खड्गेन भुजैर्भगवती परिपातु भक्तान् ।
इति ध्यात्वा कुलेशानि ! इमं मन्त्रं त्रिधा जपेत् ॥
ठः ठः बह्नि-वधूर्वेवि ! द्रव्योपरि त्रिधा जपेत् ।
पवमानः परानन्दः परिमाणः परो रसः ॥
पवमानं परं ज्ञानं तेन त्वां पावयाम्यहं ॥
पावमानं च त्रिर्जप्त्वा वायु-वीजेन शोधयेत् ॥
रमिति वह्नि-वीजेन सन्दह्य प्रणमेदिति ।
काली तारा महाविद्या षोडशी भुवनेश्वरी ॥
भैरवी छिन्नमस्ता च विद्या धूमावती तथा।
वगला सिद्ध-विद्या च मातङ्गी कमलात्मिका ॥
एता दश महा-विद्याः सिद्ध-विद्याः प्रकीर्तिताः ।
काली तारा तथा छिन्ना मातङ्गी भुवनेश्वरी ॥
अन्नपूर्णा तथा नित्या दुर्गा महिष-मर्दिनी ।
त्वरिता त्रिपुरा पुटा भैरवी वगला तथा।
धूमावती तथा ज्ञेया कमला च सरस्वती॥
जय-दुर्गा तथा भद्रे ! तथा त्रिपुर-सुन्दरी ॥
अष्टादश महा-विद्या तन्त्रादौ कथिताः प्रिये !
नात्र काल-विशुद्धिः स्यात् समया समयादिकं ॥
न वार-तिथि-नक्षत्रं न योग करणं तथा ।
सिद्ध-विद्या महा-विद्या युग-सेवा प्रकीर्तिताः ॥
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे पञ्चदशः पटलः ॥
मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0