niruttaratantram · अध्याय p10
नवमः पटलः
श्रीदेव्युवाच -
देवदेव महादेव सर्व-सिद्धीश्वर प्रभो !
सिद्ध-मन्त्री भवेत् केन कर्मणा वद मे प्रभो ॥
श्रीशिव उवाच -
आनीय मङ्गलं रम्यं कुल-भक्तं कुलार्चने ।
स्व-चक्रं विविधं कृत्वा शक्ति-भाले लिखेत् ततः ॥
तत्र काम-कलां देवीं वीर-कोणे लिखेत् प्रिये !
तन्मध्ये देव-मन्त्रं च विहितं कामलाञ्छितम्॥
तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूजयेत् ॥
ततो लक्षं च संजप्य स्थिर-धीः कुल-साधकः ॥
ततस्तच्छक्ति-कर्णे च ऋषिच्छन्दः समन्वितं ।
मूल-मन्त्रं विधावृत्या कथयेद् वाम-कर्णके ॥
अद्य प्रभृति शक्तिस्त्वं कुल-देवार्चनं चर ।
गुरोराज्ञां समादाय घृणा-लज्जा-विर्वाजता ॥
शिवोक्त-विधिना सैव करिष्यामि कुलार्चनं ।
त्राहि नाथ ! कुलाचार-कामिनी काम-नायक ॥
त्वत्पदाम्भोरुहच्छायां देहि मे कुल-वर्त्मनि ।
गते च प्रथमे यामे स्व-कुलं कुलिकोपरि ॥
वाम-भागे समासीनं रक्त-वस्त्र-समन्वितं ।
नाना गन्ध-समायुक्तं नाना रत्नेन भूषितं ॥
ललाटे मन्त्रमा लिख्य मध्ये नाम विभितं ।
ताम्बूल-पूरित-मुखस्ताम्बूलारुण-लोचनः ॥
कुलाकुल-जपं कृत्वा ध्रुवमायाति तत्क्षणात् ।
एवमार्काषतो मन्त्री सिद्ध-मन्त्री कुलेश्वरि ॥
तावत् प्रयोगः कर्तव्यो यावत् सिद्धिर्न जायते ।
सिद्ध-मन्त्री कुलाचारे पर-योषां प्रपूजयेत् ॥
सिद्ध-मन्त्री श्मशाने च पर-योषां प्रपूजयेत् ।
योषिदाकर्षणादेव कन्यां चैवावकर्षयेत् ॥
देव-कन्याकर्षणेन देवतां कर्षयेत् तदा ।
आकर्षण-प्रसादेन शिव एव प्रजायते ॥
आकर्षणं विना गच्छेत् तच्छ्रुक्त कौलिकों परां ।
आकर्षणाद् भवेत् सिद्धिर्देवानामपि दुर्लभा ॥
आकर्षणाच्च निर्वाणं लभते नात्र संशयः ।
यावन्न पूजये देवीं रजनीं कुल-मन्दिरे ॥
निर्वाणमपि चाङ्गस्य तावदाविर्भवेत् पुनः ।
प्रकृत्या जायते विश्वं प्रकृत्या च विलीयते ॥
शैवानां वैष्णवानां च सौराणां च महेश्वरि !
स्याच्च निर्वाणमेतेषां मातुराविर्भवन्ति हि ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
सर्वे मुक्ति-प्रदा देवा निर्वाणं श्रेयसं विनां ॥
निर्वाणं श्रेयसं देवि ! प्रकृत्या परिजायते ।
तस्मात् सर्व-प्रयत्नेन प्रकृति परिपूजयेत् ॥
प्रकृतिर्या महामाया सैव प्रकृति-रूपिणी ।
विकृतौ मन्त्र-सिद्धिः स्यात् प्रकृतेः कुहकं गृहे ॥
निर्वाणं श्रेयसं सैव प्रकृतेः कुहकं विना ।
लिखनं मन्त्र-यन्त्राणां पूजनं च जपं प्रिये।
नियतं गुरु-मार्गेण साधको विजने चरेत् ।
तच्चक्रं सिद्धि-मूलं च मन्त्र-यन्त्र-विलेखनात् ॥
मन्त्र-यन्त्रं विना देवि ! कुहकं विकृतेर्यदि ।
न गच्छेत् साधको वीरो न गच्छेन्नरकं व्रजेत् ॥
प्रकृतेः कुहक योनौ यन्त्रे भाले च पार्वति !
असंलिख्य यन्त्राणि दैन्यं गच्छेत् कुल-साधकः ॥
कामाद्वा मोहतो वापि लोभाद्वा वर-र्वाणनि !
प्रकृतेः कुहकं यन्त्रे यजेच्च नरकं व्रजेत् ॥
सिद्धि-मूलं कुलेशानि ! विकृतेः कुहकं स्मृतं ।
तत्र सम्मोहयेत् सर्वं जगदेतच्चराचरं ॥
विकृतेः कुहकापन्नो मन्त्र-तन्त्र-विशारदः।
तद्वरं च परिज्ञाप्य निर्वाणं श्रेयसं व्रजेत् ॥
ब्रह्मणि न न वा विष्णौ न गणेशे षडानने ।
प्रकृतेः कुहकं दानं न कुत्रापि प्रकाशितम् ॥
॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-संवादे नवमः पटलः ॥
मूल पाठ: niruttaratantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0