भाषा

ENहिગુ
ग्रंथ पाठ

Nirukta · अध्याय 1

1.1

समाम्नायः.समाम्नातः.स.व्याख्यातव्यः
तम्.इमम्.समाम्नायम्.निघण्टव.इत्य्.आचक्षते
निघण्टवः.कस्मान्.निगमा.इमे.भवन्ति
छन्दोभ्यः.समाहृत्य.समाहृत्य.(समाहत्य.ऋ).समाम्नाताः
ते.निगन्तव.एव.सन्तो.निगमनान्.निघण्टव.उच्यन्त.इत्य्.औपमन्यवः
अपि.वा.हननाद्.एव.स्युः.समाहता.भवन्ति
यद्.वा.समाहृता.भवन्ति
तद्.यान्य्.[एतानि.भ्].चत्वारि.पद.जातानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च.तानि.इमानि.भवन्ति
तत्र.एतन्.नाम.आख्यातयोर्.लक्षणम्.प्रदिशन्ति
भाव.प्रधानम्.आख्यातम्.सत्त्व.प्रधानानि.नामानि
तद्.यत्र.उभे.भाव.प्रधाने.भवतः
पूर्व.अपरी.भूतम्.भावम्.आख्यातेन.आचष्टे.व्रजति.पचति.इति
उपक्रम.प्रभृत्य्.अपवर्ग.पर्यन्तम्.मूर्तम्.सत्त्व.भूतम्.सत्त्व.नामभिर्.व्रज्या.पक्तिर्.इति
अद.इति.सत्त्वानाम्.उपदेशो.गौर्.अश्वः.पुरुषो.हस्ती.इति
भवति.इति.भावस्य.आस्ते.शेते.व्रजति.तिष्ठति.इति
इन्द्रिय.नित्यम्.वचनम्.औदुम्बरायणः

1.2

तत्र.चतुष्ट्वम्.न.उपपद्यते
अयुगपद्.(युगपद्.भ्).उत्पन्नानाम्.वा.शब्दानाम्.इतरेतर.उपदेशः.शास्त्र.कृतो.योगश्.च
व्याप्तिमत्त्वात्.तु.शब्दस्य.अणीयस्त्वाच्.च.शब्देन.सञ्ज्ञा.करणम्.व्यवहार.अर्थम्.लोके
तेषाम्.मनुष्यवद्.देवता.अभिधानम्
पुरुष.विद्या.अनित्यत्वात्.कर्म.सम्पत्तिर्.मन्त्रो.वेदे
षड्.भाव.विकारा.भवन्ति.इति.वार्ष्यायणिर्
जायते.अस्ति.विपरिणमते.वर्धते.अपक्षीयते.विनश्यति.इति
जायत.इति.पूर्व.भावस्य.आदिम्.आचष्टे.न.अपर.भावम्.आचष्टे.न.प्रतिषेधति
अस्ति.इत्य्.उत्पन्नस्य.सत्त्वस्य.अवधारणम्
विपरिणमत.इत्य्.अप्रच्यवमानस्य.तत्त्वाद्.विकारम्
वर्धत.इति.स्व.अङ्ग.अभ्युच्चयम्.साम्यौगिकानाम्.वा.अर्थानाम्
वर्धते.विजयेन.इति.वा.वर्धते.शरीरेण.इति.वा
अपक्षीयत.इत्य्.एतेन.एव.व्याख्यातः.प्रतिलोमम्
विनश्यति.इत्य्.अपर.भावस्य.आदिम्.आचष्टे.न.पूर्व.भावम्.आचष्टे.न.प्रतिषेधति

1.3

अतो.अन्ये.भाव.विकारा.एतेषाम्.एव.विकारा.भवन्ति.इति.ह.स्म.आह.ते.यथा.वचनम्.अभ्यूहितव्याः
न.निर्बद्धा.उपसर्गा.अर्थान्.निराहुर्.इति.शाकटायनः
नाम.आख्यातयोस्.तु.कर्म.उपसम्योग.द्योतका.भवन्त्य्
उच्च.अवचाः.पद.अर्था.भवन्ति.इति.गार्ग्यस्
तद्.य.एषु.पद.अर्थः.प्राहुर्.इमे.तम्.नाम.आख्यातयोर्.अर्थ.विकरणम्
आ.इत्य्.अर्वाग्.अर्थे.प्र.परा.इत्य्.एतस्य.प्रातिलोम्यम्
अभि.इत्य्.आभिमुख्यम्.प्रति.इत्य्.एतस्य.प्रातिलोम्यम्
अति.सु.इत्य्.अभिपूजित.अर्थे.निर्.दुर्.इत्य्.एतयोः.प्रातिलोम्यम्
न्य्.अव.इति.विनिग्रह.अर्थीया.उद्.इत्य्.एतयोः.प्रातिलोम्यम्
सम्.इत्य्.एकी.भावम्.व्य्.अप.इत्य्.एतस्य.प्रातिलोम्यम्
अन्व्.इति.सादृश्य.अपर.भावम्
अपि.इति.संसर्गम्
उप.इत्य्.उपजनम्
परि.इति.सर्वतो.भावम्
अधि.इत्य्.उपरि.भावम्.ऐश्वर्यम्.वा
एवम्.उच्च.अवचान्.अर्थान्.प्राहुस्.त.उपेक्षितव्याः

1.4

अथ.निपाता.उच्च.अवचेष्व्.अर्थेषु.निपतन्ति
अप्य्.उपमा.अर्थे.अपि.कर्म.उपसंग्रह.अर्थे.अपि.पद.पूरणाः
तेषाम्.एते.चत्वार.उपमा.अर्थे.भवन्ति
इव.इति.भाषायांश्.च.अन्वध्यायंश्.च
``.अग्निर्.इव.ऽऽ.(ऋव्.x,84,2;.106,3).``.इन्द्र.इव.ऽऽ.(ऋव्.x,84,5;.166,2;.173,2).इति
न.इति.प्रतिषेध.अर्थीयो.भाषायाम्.उभयम्.अन्वध्यायम्
``.न.इन्द्रम्.देवम्.अमंसत.ऽऽ.(ऋव्.x,86,1).इति.प्रतिषेध.अर्थीयः
पुरस्ताद्.उपाचारस्.तस्य.यत्.प्रतिषेधति
``.दुर्मदासो.न.सुरायाम्.ऽऽ.(ऋव्.व्21,2,12).इत्य्.उपमा.अर्थीय
उपरिष्टाद्.उपाचारस्.तस्य.येन.उपमिमीते
चिद्.इत्य्.एषो.अनेक.कर्मा.आचार्यश्.चिद्.इदम्.ब्रूयाद्.इति.पूजायाम्
आचार्यः.कस्माद्.आचार्य.आचारम्.ग्राहयत्य्.आचिनोत्य्.अर्थान्.आचिनोति.बुद्धिम्.इति.वा
दधि.चिद्.इत्य्.उपमा.अर्थे
कुल्माषांश्.चिद्.आहर.इत्य्.अवकुत्सिते
कुल्माषाः.कुलेषु.सीदन्ति
नु.इत्य्.एषो.अनेक.कर्मा.इदम्.नु.करिष्यति.इति.हेत्व्.अपदेशः
कथम्.नु.करिष्यति.इत्य्.अनुपृष्टे.नन्व्.एतद्.अकार्षीद्.इति.च.अथ.अप्य्.उपमा.अर्थे.भवति
``.वृक्षस्य.नु.ते.पुरु.हूत.वयाः.ऽऽ.(ऋव्.व्1,24,3)
वृक्षस्य.इव.ते.पुरु.हूत.शाखा
वयाः.शाखा.वेतेर्.वात.अयना.भवन्ति
शाखाः.खशयाः.शक्नोतेर्.वा
अथ.यस्य.आगमाद्.अर्थ.पृथक्त्वम्.अह.विज्ञायते.न.त्व्.औद्देशिकम्.इव.विग्रहेण.पृथक्त्वात्.स.कर्म.उपसंग्रहः
च.इति.समुच्चय.अर्थ.उभाभ्याम्.सम्प्रयुज्यते
``.अहंश्.च.त्वंश्.च.वृत्रहन्.ऽऽ.(ऋव्.व्21,62,11).इत्य्.एतस्मिन्न्.एव.अर्थे
``.देवेभ्यश्.च.पितृभ्य.आ.ऽऽ.(ऋव्.x,16,11).इति.आ.कारस्
वा.इति.विचारण.अर्थे
``.हन्त.अहम्.पृथिवीम्.इमाम्.नि.दधानि.इह.वा.इह.वा.ऽऽ.(ऋव्.x,119,9).इति
अथ.अपि.समुच्चय.अर्थे.भवति

1.5

``.वायुर्.वा.त्वा.मनुर्.वा.त्वा.ऽऽ.(ट्ष्.1,7,7,2;.क्ष्.13,14).इति
अह.इति.च.ह.इति.च.विनिग्रह.अर्थीयौ.पूर्वेन.सम्प्रयुज्येते
अयम्.अह.इदम्.करोत्व्.अयम्.इदम्.इदम्.ह.करिष्यति.इदम्.न.करिष्यति.इति
अथ.अप्य्.उ.कार.एतस्मिन्न्.एव.अर्थ.उत्तरेण
मृषा.इमे.वदन्ति.सत्यम्.उ.ते.वदन्ति.इति
अथ.अपि.पद.पूरण
``.इदम्.उ.ऽऽ.(ऋव्.1व्,51,1).``.तद्.उ.ऽऽ.(ऋव्.1,62,6)
हि.इत्य्.एषो.अनेक.कर्मा
इदम्.हि.करिष्यति.इति.हेतु.अपदेशे
कथम्.हि.करिष्यति.इत्य्.अनुपृष्टे
कथम्.हि.व्याकरिष्यति.इत्य्.असूयायाम्
किल.इति.विद्या.प्रकर्ष.एवम्.किल.इति
अथ.अपि.न.ननु.इत्य्.एताभ्याम्.सम्प्रयुज्यते.अनुपृष्टे
न.किल.एवम्.ननु.किल.एवम्
मा.इति.प्रतिषेधे.मा.कार्षीर्.मा.हार्षीर्.इति.च
खल्व्.इति.च.खलु.कृत्वा.खलु.कृतम्
अथ.अपि.पद.पूरण.एवम्.खलु.तद्.बभूव.इति
शश्वद्.इति.विचिकित्सा.अर्थीयो.भाषायाम्
शश्वद्.एवम्.इत्य्.अनुपृष्टे
एवम्.शश्वद्.इत्य्.अस्वयम्.पृष्टे
नूनम्.इति.विचिकित्सा.अर्थीयो.भाषायाम्
उभयम्.अन्वध्यायम्.विचिकित्सा.अर्थीयश्.च.पद.पूरणश्.च
अगस्त्य.इन्द्राय.हविर्.निरूप्य.(निरुप्य.भ्).मरुद्भ्यः.सम्प्रदित्साम्.चकार
स.इन्द्र.एत्य.परिदेवयाम्.चक्रे

1.6

``.न.नूनम्.अस्ति.नो.श्वः.कस्.तद्.वेद.यद्.अद्भुतम्.ऽऽ.(ऋव्.1,170,1)
``.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्.उत.अधीतम्.वि.नश्यति.ऽऽ.(ऋव्.1,170,1)
न.नूनम्.अस्त्य्.अद्यतनम्.नो.एव.श्वस्तनम्
अद्य.अस्मिन्.द्यवि
द्युर्.इत्य्.अह्नो.नामधेयम्.द्योतत.इति.सतः
श्व.उपाशंसनीयः.कालः.ह्यो.हीनः.कालः
``.कस्.तद्.वेद.यद्.अद्भुतम्ऽऽ.कस्.तद्.वेद.यद्.अभूतम्
इदम्.अपि.इतरद्.अद्भुतम्.अभूतम्.इव
``.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्ऽऽ.अभिसञ्चार्य्.अन्यो.न.आनेयस्
चित्तंश्.चेततेः
``.उत.अधीतम्.विनश्यतिऽऽ.इत्य्.अप्य्.अध्यातम्.विनश्यत्य्.अध्यातम्.अभिप्रेतम्
अथ.अपि.पद.पूरणः

1.7

``.नूनम्.सा.ते.प्रति.वरम्.जरित्रे.दुहीयद्.इन्द्र.दक्षिणा.मघोनी.ऽऽ.(ऋव्.2,11,21)
``.शिक्षा.स्तोतृभ्यो.माति.धग्भगो.नो.बृहद्.वदेम.विदथे.सुवीराः.ऽऽ.(ऋव्.2,11,21)
सा.ते.प्रति.दुग्धाम्.वरम्.जनित्रे
वरो.वरयितव्यो.भवति
जरिता.गरिता
दक्षिणा.मघोनी.मघवती
मघम्.इति.धन.नामधेयम्.मंहतेर्.दान.कर्मणः
दक्षिणा.दक्षतेः.समर्धयति.कर्मणः.व्यृद्धम्.समर्धयति.इति
अपि.वा.प्रदक्षिण.आगमनात्
दिशम्.अभिप्रेत्य.दिग्.हस्त.प्रकृतिर्.दाक्षिनो.हस्तः
दक्षतेर्.उत्साह.कर्मणो.दाशतेर्.वा.स्यात्
हस्तो.हन्तेर्.प्राशुर्.हनने
देहि.स्तोतृभ्यः.कामान्
मा.अस्मान्.अतिदंहीः
मा.अस्मान्.अतिहाय.दाः
भगो.नो.अस्तु
बृहद्.वदेम.स्वे.वेदने
भगो.भजतेर्
बृहद्.इत्य्.महतो.नामधेयम्.परिवृळ्हम्.(परिवृढम्.भ्).भवति
वीरवन्तः.कल्याण.वीरा.वा
वीरो.वीरयत्य्.अमित्रान्.वेतेर्.वा.स्याद्.गति.कर्मणो.वीरयतेर्.वा
सीम्.इति.परिग्रह.अर्थीयो.वा.पद.पूरणो.वा
``.प्र.सीम्.आदित्यो.असृजत्.ऽऽ.(ऋव्.2,28,4)
प्रासृजद्.इति.वा.प्रासृजत्.सर्वत.इति.वा
``.वि.सीम्.अतः.सुरुचो.वेन.आवः.ऽऽ.(अव्.4,1,1;.5,6,1;.ष्व्.1,321;.व्ष्.13,3).इति.च
व्यवृणोत्.सर्वत.आदित्यः
सुरुच.आदित्य.रश्मयः.सुरोचनात्
अपि.वा.सीमा.इत्य्.एतद्.अनर्थकम्.उपबन्धम्.आददीत.पञ्चमी.कर्माणम्
सीम्नः.सीमतः.सीमातो.मर्यादातः
सीमा.मर्यादा.विषीव्यति.देशाव्.इति
त्व.इति.विनिग्रह.अर्थीयम्.सर्वनाम.अनुदात्तम्,.अर्धनाम.इत्य्.एके

1.8

``.ऋचाम्.त्वः.पोषम्.आस्ते.पुपुष्वान्.गायत्रम्.त्वो.गायति.शक्वरीषु.ऽऽ.(ऋव्.x,71,11)
``.ब्रह्मा.त्वो.वदति.जात.विद्याम्.यज्ञस्य.मात्राम्.वि.मिमीत.उ.त्वः.ऽऽ.(ऋव्.x,71,11)
इत्य्.ऋत्विक्.कर्मणाम्.विनियोगम्.आचष्टे
ऋचाम्.एकः.पोषम्.आस्ते.पुपुष्वान्.होता.ऋग्.अर्चनी
गायत्रम्.एको.गायति.शक्वरीषु.उद्गाता
गायत्रम्.गायतेः.स्तुति.कर्मणः
शक्वर्य.ऋचः.शक्नोतेः
``.तद्.यद्.आभिर्.वृत्रम्.अशकद्.हन्तुम्.तच्.शक्वरीणाम्.शक्वरीत्वम्.ऽऽ.(क्ब्.23,2;.अब्.5,7,3).इति.विज्ञायते
ब्रह्मा.एको.जाते.जाते.विद्याम्.वदति
ब्रह्मा.सर्वविद्यः.सर्वम्.वेदितुम्.अर्हति
ब्रह्मा.परिवृळ्हः.(परिवृढः.भ्).श्रुततो.ब्रह्म.परिवृळ्हम्.(परिवृढम्.भ्).सर्वतः
यज्ञस्य.मात्राम्.विमिमीत.एकः
अध्वर्युर्.अध्वर्युर्.अध्वरयुर्.अध्वरम्.युनक्त्य्.अध्वरस्य.नेता.अध्वरम्.कामयत.इति.वा
अपि.वा.अधीयाने.युर्.उपबन्धस्
अध्वर.इति.यज्ञ.नाम.ध्वरतिर्.हिंसा.कर्मा.तत्.प्रतिषेधः
निपात.इत्य्.एके.तत्.कथम्.अनुदात्त.प्रकृति.नाम.स्याद्.दृष्ट.व्ययम्.तु.भवति
``.उत.त्वम्.सख्ये.स्थिर.पीतम्.आहुः.ऽऽ.(ऋव्.x,71,5).इति.द्वितीयायाम्
``.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.ऽऽ.(ऋव्.x,71,4).इति.चतुर्थ्याम्
अथ.अपि.प्रथमा.बहुवचने

1.9

``.अक्षण्वन्तः.कर्णवन्तः.सखायो.मनोजवेष्व्.असमा.बभूवुः.ऽऽ.(ऋव्.x,71,7)
``.आदघ्नास.उपकक्षास.उ.त्वे.ह्रदा.इव.स्नात्वा.उ.त्वे.ददृश्रे.ऽऽ.(ऋव्.x,71,7)
अक्षिमन्तः.कर्णवन्तः.सखायः
अक्षि.चस्तेर्.अनक्तेर्.इत्य्.आग्रायणः
``.तस्माद्.एते.व्यक्ततरे.इव.भवतः.ऽऽ.(उन्त्रचेद्).इति.ह.विज्ञायते
कर्णः.कृण्ततेर्.निकृत्त.द्वारो.भवत्य्.ऋच्छतेर्.इत्य्.आग्रायणः
``.ऋच्छन्ति.इव.खे.उदगन्ताम्ऽऽ.इति.ह.विज्ञायते
मनसाम्.प्रजवेष्व्.असमा.बभूवुर्.आस्य.दघ्ना.अपर.उपकक्ष.दघ्ना.अपरे
आस्यम्.अस्यतेर्.आस्यन्दत.एनद्.अन्नम्.इति.वा
दघ्नम्.दघ्यतेः.स्रवति.कर्मणो.दस्यतेर्.वा.स्याद्.विदस्ततरम्.भवति
प्रस्नेया.ह्रदा.इव.एके.ददृशिरे.प्रस्नेया.(प्रस्नेया.ददृशिरे.भ्).स्नान.अर्हा
ह्रदो.ह्रादतेः.शब्द.कर्मणो.ह्लादतेर्.वा.स्याच्.शीती.भाव.कर्मणः
अथ.अपि.समुच्चय.अर्थे.भवति
``.पर्याया.इव.त्वद्.आश्विनम्.ऽऽ.(ंब्.17,4)
आश्विनंश्.च.पर्यायाश्.च.इति
अथ.ये.प्रवृत्ते.अर्थे.अमित.अक्षरेषु.ग्रन्थेषु.वाक्य.पूरणा.आगच्छन्ति.पद.पूरणास्.ते.मित.अक्षरेष्व्.अनर्थकाः.कम्.ईम्.इद्.व्.इति

1.10

``.निष्ट्वक्त्रासश्.चिद्.इन्.नरो.भूरि.तोका.वृकाद्.इव.ऽऽ.(उन्त्रचेद्)
``.बिभ्यस्यन्तो.ववाशिरे.शिशिरम्.जीवनाय.कम्.ऽऽ.(उन्त्रचेद्)
शिशिरम्.जीवनाय.शिशिरम्.शृणातेः.शम्नातेर्.वा
``.आ.ईम्.एनम्.सृजता.सुते.ऽऽ.(ऋव्.1,9,2)
आसृजत.एनम्.सुते
``.तम्.इद्.वर्धन्तु.नो.गिरः.ऽऽ.(ऋव्.व्21,92,21;.1x,61,14)
तम्.वर्धयन्तु.नो.गिरः.स्तुतयः.गिरो.गृणातेः
``.अयम्.उ.ते.समतसि.ऽऽ.(ऋव्.1,30,4)
अयम्.ते.समतसि
इवो.अपि.दृश्यते.सु.विदुर्.इव.सु.विज्ञायेते.इव
अथ.अपि.न.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.परिभये

1.11

``.हविर्भिर्.एके.स्वरितः.सचन्ते.सुन्वन्त.एके.सवनेषु.सोमान्.ऽऽ.(ऋव्ख्.10,106,1)
``.शचीर्.मदन्त.उत.दक्षिणाभिर्.न.इज्.जिह्मायन्त्यो.नरकम्.पताम.ऽऽ.(ऋव्ख्.10,106,1)
नरकम्.न्यरकम्.नीचैर्.गमनम्.न.अस्मिन्.रमणम्.स्थानम्.अल्पम्.अप्य्.अस्ति.इति.वा
अथ.अपि.न.च.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.अनुपृष्टे.न.च.इत्.सुराम्.पिबन्ति.इति
सुरा.सुनोतेः
एवम्.उच्च.अवचेष्व्.अर्थेष्व्.निपतन्ति.त.उपेक्षितव्याः

1.12

इति.इमानि.चत्वारि.पद.जातान्य्.अनुक्रान्तानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च
तत्र.नामान्य्.आख्यातजानि.इति.शाकटायनो.नैरुक्त.समयश्.च
न.सर्वाणि.इति.गार्ग्यो.वैयाकरणानांश्.च.एके
तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुनेन.भ्).अन्वितौ.स्याताम्
संविज्ञातानि.तानि.यथा.गौर्.अश्वः.पुरुषो.हस्ती.इति
अथ.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः
यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन्
यः.कश्.च.अध्वानम्.अश्नुवीत.अश्वः.स.वचनीयः.स्यात्
यत्.किंचित्.तृन्द्यात्.तृणम्.तद्
अथ.अपि.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः
यावद्भिर्.भावैः.सम्प्रयुज्येत.तावद्भ्यो.नामधेय.प्रतिलम्भः.स्यात्
तत्र.एवम्.स्थूणा.दर.शया.वा.सञ्जनी.च.स्यात्

1.13

अथ.अपि.य.एषाम्.न्यायवान्.कार्मनामिकः.संस्कारः
यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन्
पुरुषम्.पुरिशय.इत्य्.आचक्षीरन्.अष्टा.इत्य्.अश्वम्.तर्दनम्.इति.तृणम्
अथ.अपि.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति
प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति
अथ.अनन्विते.अर्थे.अप्रादेशिके.विकारे.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.शाकटायनः
एतेः.कारितंश्.च.य.कार.आदिम्.च.अन्त.करणम्.अस्तेः.शुद्धंश्.च.स.कार.आदिम्.च
अथ.अपि.सत्त्व.पूर्वो.भाव.इत्य्.आहुः
अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.न.उपपद्यत.इति
तद्.एतन्.न.उपपद्यते

1.14

यथो.हि.नु.वा.एतत्
तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुणेन.भ्).अन्वितौ.स्याताम्
सर्वम्.प्रादेशिकम्.इत्य्.एवम्.सत्य्.अनुपालम्भ.एष.भवति
यथो.एतद्.यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन्न्.इति
पश्यामः.समान.कर्मणाम्.नामधेय.प्रतिलम्भम्.एकेसाम्.न.एकेसाम्
यथा.तक्षा.परिव्राजको.जीवनो.भूमिज.इत्य्.एतेन.एव.उत्तरः.प्रत्युक्तः
यथो.एतद्.यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन्न्.इति.1,14:सन्त्य्.अल्प.प्रयोगाः.कृतो.अप्य्.ऐकपदिका.यथा.व्रततिर्.दमूना.जाट्य.आट्णारो.जागरूको.दर्विहोमी.इति
यथो.एतत्.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति.इति
भवति.हि.निष्पन्ने.अभ्य्व्याहारे.योग.परीष्टिः
प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति
अथ.वै.दर्शनेन.पृथुर्.अप्रथिता.चेद्.अप्य्.अन्यैः
अथ.अप्य्.एवम्.सर्व.एव.दृष्ट.प्रवादा.उपालभ्यन्ते
यथो.एतत्.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.इति
यो.अनन्विते.अर्थे.सञ्चस्कार.स.तेन.गर्ह्यः.सा.एषा.पुरुष.गर्हा.न.शास्त्र.गर्हा.इति
यथो.एतद्.अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.न.उपपद्यत.इति
पश्यामः.पूर्व.उत्पन्नानाम्.सत्त्वानाम्.अपरस्माद्.भावान्.नामधेय.प्रतिलम्भम्.एकेषाम्.न.एकेषाम्.यथा.बिल्व.अदो.लम्ब.चूडक.इति
बिल्वम्.भरणाद्.वा.भेदनाद्.वा

1.15

अथ.अपि.इदम्.अन्तरेण.मन्त्रेष्व्.अर्थ.प्रत्ययो.न.विद्यते
अर्थम्.अप्रतियतो.न.अत्यन्तम्.स्वर.संस्कार.उद्देशः
तद्.इदम्.विद्या.स्थानम्.व्याकरणस्य.कार्त्स्न्यम्.स्व.अर्थ.साधकंश्.च
यदि.मन्त्र.अर्थ.प्रत्ययाय.अनर्थकम्.भवति.इति.कौत्सो.अनर्थका.हि.मन्त्राः
तद्.एतेन.उपेक्षितव्यम्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति
अथ.अपि.ब्राह्मणेन.रूप.सम्पन्न.विधीयन्ते
``.उरु.प्रस्थस्व.ऽऽ.(व्ष्.1,22;.ट्ष्.इ-1,8,1;.वि-2,7,3;.क्ष्.1,8;.31,7;.ंस्.इ-1,9).इति.प्रथयति
``.प्रोहाणि.ऽऽ.(उन्त्रचेद्).इति.प्रोहति
अथ.अप्य्.अनुपपन्न.अर्था.भवन्ति
``.ओषधे.त्रायस्व.एनम्.ऽऽ.(ट्ष्.इ-2,1,1;.3,5,1;.वि-3,3,2;.क्ष्.2,1;.ंस्.इ-1,9)
``.स्वधिते.मा.एनम्.हिंसीः.ऽऽ.(व्ष्.4,1;.5,42;.6,15;.ट्ष्.इ-2,1,1;.3,5,1;.वि-3,3,2;.क्ष्.2,1;.ंस्.इ-2,1;.ईइ-9,3).इत्य्.आह.हिंसन्
अथ.अपि.विप्रतिषिद्ध.अर्था.भवन्ति
``.एक.एव.रुद्रो.अवतस्थे.न.द्वितीयः.ऽऽ.(उन्त्रचेद्)
``.असङ्ख्याता.सहस्राणि.ये.रुद्रा.अधि.भूम्याम्.ऽऽ.(व्ष्.16,54;.ंस्.ई-9,9)
``.अशत्रुर्.इन्द्र.जज्ञिषे.ऽऽ.(ऋव्.x,133,2;.ष्व्.2,1152)
``.शतम्.सेना.अजयत्.साकम्.इन्द्रः.ऽऽ.(ऋव्.x,103,1;.ष्व्.2,1199;.व्ष्.17,33).इति
अथ.अपि.जानन्तम्.सम्प्रेष्यति
``.अग्नये.समिध्यम्.आनाय.अनु.ब्रूहि.ऽऽ.(ट्ष्.वि-3,7,1;.ंस्.1,4,11;.ट्ब्.21,3,7,1;.ण्ब्.ई-5,2,9).इति
अथ.अप्य्.आह.अदितिः.सर्वम्.इति
``.अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.ऽऽ.(ऋव्.1,89,10).इति
तद्.उपरिष्टाद्.व्याख्यास्मामः
अथ.अप्य्.अविस्पष्ट.अर्था.भवन्त्य्
``.अम्यक्.ऽऽ.(ऋव्.1,169,3).``.यादृश्मिन्.ऽऽ.(ऋव्.व्,44,8).``.जारयायि.ऽऽ.(ऋव्.व्1,12,4).``.काणुका.ऽऽ.(ऋव्.व्21,77,4).इति

1.16

अर्थवन्तः.शब्द.सामान्यात्
``.एतद्.वै.यज्ञस्य.स्मृद्धम्.यद्.रूप.समृद्धम्.यत्.कर्म.क्रियमाणम्.ऋग्.यजुर्.वा.अभिवदति.ऽऽ.(ङ्ब्.2,2,6).इति.च.ब्राह्मणम्
``.क्रीळन्तौ.पुत्रैर्.नप्तृभिः.ऽऽ.(ऋव्.x,85,42).इति
यथो.एतन्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद्
यथा.इन्द्राग्नी.पितापुत्राव्.इति
यथो.एतद्.ब्राह्मणेन.रूप.सम्पन्ना.विधीयन्त.इत्य्.उदित.अनुवादः.स.भवति
यथो.एतद्.अनुपपन्न.अर्था.भवन्ति.इत्य्.आम्नाय.वचनाद्.अहिंसा.प्रतीयेत
यथो.एतद्.विप्रतिषिद्ध.अर्था.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद्
यथा.असपत्नो.अयम्.ब्राह्मणो.अनमित्रस्.राजा.इति
यथो.एतत्.जानन्तम्.सम्प्रेष्यति.इति.जानन्तम्.अभिवादयते.जानते.मधु.पर्कम्.प्राह.इति
यथो.एतद्.अदितिः.सर्वम्.इति.लौकिकेष्व्.अप्य्.एतद्
यथा.सर्व.रसा.अनुप्राप्ताः.पानीयम्.इति
यथो.एतद्.अविस्पष्ट.अर्था.भवन्ति.इति.न.एष.स्थानोर्.अपराधो.यद्.एनम्.अन्धो.न.पश्यति.पुरुष.अपराधः.स.भवति
यथा.जानपदीषु.विद्यातः.पुरुष.विशेषो.भवति.पारोवर्यवित्सु.तु.खलु.वेदितृषु.भूयोविद्यः.प्रशस्यो.भवति

1.17

अथ.अपि.इदम्.अन्तरेण.पद.विभागो.न.विद्यते
``अवसाय.पद्वते.रुद्र.मृळे.ऽऽ.(ऋव्.x,169,1).इति
पद्वद्.अवसम्.गावः.पथ्यदनम्.अवतेर्.गति.अर्थस्य.असो.नाम.करणस्.तस्मान्.न.अवगृह्णन्ति
``अव.साय.अश्वान्ऽऽ.इति
स्यतिर्.उपसृष्टो.विमोचने.तस्माद्.अवगृह्णन्ति
``दूतो.निरृत्या.इदम्.आ.जगाम.ऽऽ.(ऋव्.x,165,1).इति
पञ्चमी.अर्थ.प्रेक्षा.वा.षष्थी.अर्थ.प्रेक्षा.वा.आः.कार.अन्तम्
``परो.निरृत्या.आ.चक्ष्व.ऽऽ.(ऋव्.x,164,1).इति.चतुर्थी.अर्थ.प्रेक्षा.ऐ.कार.अन्तम्
परः.सम्निकर्षः.संहिता
पद.प्रकृतिः.संहिता
पद.प्रकृतीनि.सर्व.चरणानाम्.पार्षदानि
अथ.अपि.याज्ञे.दैवतेन.बहवः.प्रदेशा.भवन्ति.तद्.एतेन.उपेक्षितव्यम्
ते.चेद्.ब्रूयुर्.लिङ्गज्ञा.अत्र.स्म.इति
``.इन्द्रम्.न.त्वा.शवसा.देवता.वायुम्.पृणन्ति.ऽऽ.(ऋव्.व्1,4,7;.व्ष्.33,13).इति
वायु.लिङ्गंश्.च.इन्द्र.लिङ्गंश्.च.आग्नेये.मन्त्रे
``.अग्निर्.इव.मन्यो.त्विषितः.सहस्व.ऽऽ.(ऋव्.x,84,2).इति
तथा.अग्निर्.मान्यवे.मन्त्रे
त्विषितो.ज्वलितस्.त्विषिर्.इत्य्.अप्य्.अस्य.दीप्ति.नाम.भवति
अथ.अपि.ज्ञान.प्रशंसा.भवत्य्.अज्ञान.निन्दा.च

1.18

``.स्थाणुर्.अयम्.भार.हारः.किल.अभूद्.अधीत्य.वेदम्.न.विजानाति.यो.अर्थम्.ऽऽ.(उन्त्रचेद्)
``.यो.अर्थज्ञ.इत्.सकलम्.भद्रम्.अश्नुते.नाकम्.एति.ज्ञान.विधूत.पाप्मा.ऽऽ.(उन्त्रचेद्)
``.यद्.गृहीतम्.अविज्ञातम्.निगदेन.एव.शब्द्यते.ऽऽ.(उन्त्रचेद्)
``.अनग्नाव्.इव.शुष्क.एधो.न.तज्.ज्वलति.कर्हिचित्.ऽऽ.(उन्त्रचेद्)
स्थाणुस्.तिष्ठतेर्.अर्थो.अर्तेर्.अरणस्थो.वा

1.19

``.उत.त्वः.पश्यन्.न.ददर्श.वाचम्.उत.त्वः.शृण्वन्.न.शृणोत्य्.एनाम्.ऽऽ.(ऋव्.x,71,4)
``.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.जाया.इव.पत्य.उशती.सुवासाः.ऽऽ.(ऋव्.x,71,4)
अप्य्.एकः.पश्यन्.न.पश्यति.वाचम्.अपि.च.शृण्वन्.न.शृणोत्य्.एनाम्.इत्य्.अविद्वांसम्.आह.अर्धम्
अप्य्.एकस्मै.तन्वम्.विवस्र.इति.स्वम्.आत्मानम्.विवृणुते
ज्ञानम्.प्रकाशनम्.अर्थस्य.आह.अनया.वाचा,.उपमा.उत्तमया.वाचा
जाया.इव.पत्ये.कामयमाना.सुवासा.ऋतु.कालेषु.सुवासाः.कल्याण.वासाः.कामयमानाः
ऋतु.कालेषु.यथा.स.एनाम्.पश्यति.स.शृणोति.इत्य्.अर्थज्ञ.प्रशंसा
तस्य.उत्तरा.भूयसे.निर्वचनाय
``उत.त्वम्.सख्ये.स्थिर.पीतम्.आहुर्.न.एनम्.हिन्वन्त्य्.अपि.वाजिनेषु.ऽऽ.(ऋव्.x,71,5)
``.अधेन्वा.चरति.मायया.एष.वाचम्.शुश्रुवाम्.अफलाम्.अपुष्पाम्.ऽऽ.(ऋव्.x,71,5)

1.20

अप्य्.एकम्.वाच्.सख्ये.स्थिर.पीतम्.आहू.रममाणम्.विपीत.अर्थम्,.देव.सख्ये.रमणीये.स्थान.इति.वा
विज्ञात.अर्थम्.यम्.न.आप्नुवन्ति.वाच्.ज्ञेयेषु.बलवत्स्व्.अप्य्
अधेन्वा.ह्य्.एष.चरति.मायया.वाच्.प्रतिरूपया
न.अस्मै.कामान्.दुग्धे.वाच्.दोह्यान्.देव.मनुष्य.स्थानेषु.यो.वाचम्.श्रुतवान्.भवत्य्.अफलाम्.अपुष्पाम्.इत्य्
अफला.अस्मा.अपुस्पा.वाग्.भवति.इति.वा
किंचित्.पुष्प.फला.इति.वा
अर्थम्.वाचः.पुष्प.फलम्.आह
याज्ञ.दैवते.पुष्प.फले.देवता.अध्यात्मे.वा
साक्षात्.कृत.धर्माण.ऋषयो.बभूवुः
ते.अवरेभ्यो.असाक्षात्.कृत.धर्मभ्य.उपदेशेन.मन्त्रान्त्.सम्प्रादुः
उपदेशाय.ग्लायन्तो.अवरे.बिल्म.ग्रहनाय.इमम्.ग्रन्थम्.समाम्नासिषुर्.वेदंश्.च.वेद.अङ्गानि.च
बिल्मम्.भिल्मम्.भासनम्.इति.वा
एतावन्तः.समान.कर्माणो.धातवो.धातुर्.दधातेः
एतावन्त्य्.अस्य.सत्त्वस्य.नामधेयानि
एतावताम्.अर्थानाम्.इदम्.अभिधानम्
नैघण्टुकम्.इदम्.देवता.नाम.प्राधान्येन.इदम्.इति
तद्.यद्.अन्य.देवते.मन्त्रे.निपतति.नैघण्टुकम्.तत्
``.अश्वम्.न.त्वा.वारवन्तम्.ऽऽ.(ऋव्,1,27,1;.ष्व्.1,17;.2,984)
अश्वम्.इव.त्वा.वालवन्तम्
वाला.दंश.वारण.अर्था.भवन्ति.दंशो.दशतेः
``.मृगो.न.भीमः.कुचरो.गिरिष्ठाः.ऽऽ.(ऋव्.1,154,2;.x,180,2)
मृग.इव.भीमः.कुचरो.गिरिष्ठाः
मृगो.मार्ष्टेर्.गति.कर्मणः
भीमो.बिभ्यत्य्.अस्माद्.भीष्मो.अप्य्.एतस्माद्.एव
कुचर.इति.चरति.कर्म.कुत्सितम्
अथ.चेद्.देवता.अभिधानम्.क्व.अयम्.न.चरति.इति
गिरिष्ठा.गिरि.स्थायी
गिरिः.पर्वतः.समुद्गीर्णो.भवति
पर्ववान्.पर्वतः.पर्व.पुनः.पृणातेः.प्रीणातेर्.वा
अर्ध.मास.पर्व.देवान्.अस्मिन्.प्रीणन्ति.इति
तत्.प्रकृति.इतरत्.सन्धि.सामान्यात्
मेघ.स्थायी.मेघो.अपि.गिरिर्.एतस्माद्.एव
तद्.यानि.नामानि.प्राधान्य.स्तुतीनाम्.देवतानाम्.तद्.दैवतम्.इत्य्.आचक्षते
तद्.उपरिष्टाद्.व्याख्यास्यामः
नैघण्टुकानि.नैगमानि.इह.इह

मूल पाठ: Nirukta · Edition: Lakshman Sarup · Data entry Munoe Tokunaga (and partly M. Kobayashi) · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc