नवसाहसाङ्कचरित · अध्याय 1
अव्यात् स वो यस्य निसर्गवक्रः स्पृशत्य् अधिज्यस्मरचापलीलाम्
जटापिनद्धोरगराजरत्न मरीचिलीढोभयकोटिर् इन्दुः ॥
जटाहिरत्नद्युतिपाटलो ऽव्यात् स वः शशी शङ्करमौलिरत्नम्
श्रुताव् अशोकाङ्कुरकौतुकेन यं कर्तुम् इच्छत्य् अचलेन्द्रकन्या ॥
कुम्भस्थली रक्षतु वो विकीर्ण सिन्दूररेणुर् द्विरदाननस्य
प्रशान्तये विघ्नतमश्छटानां निष्ठ्यूतबालातपपल्लवेव ॥
चक्षुस् तद् उन्मेषि सदा मुखे वः सारस्वतं शाश्वतम् आविर् अस्तु
पश्यन्ति येनावहिताः कवीन्द्रास् त्रिविष्टपाभ्यन्तरवर्ति वस्तु ॥
तत्त्वस्पृशस् ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति
निस्तृंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ॥
पूर्णेन्दुबिम्बाद् अपि सुन्दराणि तेषाम् अदूरे पुरतो यशांसि
ये भर्तृमेण्ठादिकवीन्द्रसूक्ति व्यक्तोपदिष्टेन पथा प्रयान्ति ॥
सरस्वतीकल्पलतैककन्दं वन्दामहे वाक्पतिराजदेवम्
यस्य प्रसादाद् वयम् अप्य् अनन्य कवीन्द्रचीर्णे पथि सञ्चरामः ॥
दिवं यियासुर् मम वाचि मुद्राम् अदत्त यां वाक्पतिराजदेवः
तस्यानुजन्मा कविबान्धवस्य भिनत्ति तां संप्रति सिन्धुराजः ॥
नैते कवीन्द्राः कति काव्यबन्धे तद् एष राज्ञा किम् अहं नियुक्तः
किं वालुकापर्वतके धरेयम् आरोप्यते सत्सु कुलाचलेषु ॥
अहो महत्साहसम् एतद् एव यद् वर्णणीयो नवसाहसाङ्कः
दूरे परिच्छेदकथा हि सत्यम् एतद्गुणानाम् उदधेर् अपां च ॥
भक्त्याथवास्यैव मम प्रबन्धे सूक्ष्मो ऽयम् उन्मीलति शक्तिलेशः
उल्लङ्घितो यत् कपिना पयोधिः सेवानुभवः स रघूद्वहस्य ॥
समत्सरे चेतसि दुर्जनानां न जातुचित् सूक्तिगुणो गुणाय
निसर्गकृष्णेन्द्रवधूकपोले निरर्थकः कुङ्कुमपत्त्रभङ्गः ॥
किम् अन्यद् अस्याश् चरितैर् नृपस्य मुक्तावदातैः कृतमण्डनायाः
मदीयसूक्तेर् मुकुलीभवन्तु स्वभावशुद्धानि सतां मनांसि ॥
नमो ऽस्तु साहित्यरसाय तस्मै निषिक्तम् अन्तः पृषतापि यस्य
सुवर्णतां वक्त्रम् उपैति सधोर् दुर्वर्णतां याति च दुर्जनस्य ॥
श्रीसाहसाङ्कोज्ज्वलकीर्तिगर्भा ममाथवा कं न हरन्ति वाचः
कस्यात्र लोभाय न शुक्तयस् ता मुक्ता हि यासाम् उदरे स्फुरन्ति ॥
एतान्य् अवन्तीश्वरपारिजात जातानि तारापतिपाण्डुराणि
सम्प्रत्य् अहं पश्यत! दिग्वधूनां यशःप्रसूनान्य् अवतंसयामि ॥
अस्ति क्षितऊज्जयिनीति नाम्ना पुरी विहायस्य् अमरावतीव
बबन्ध यस्यां पदम् इन्द्रकल्पः श्रीविक्रमादित्य इति क्षितीशः ॥
आमञ्जुगुञ्जत्कलहंसपङ्क्ति विकस्वराम्भोजरजःपिशङ्गा
आभाति यस्याः परिखा नितम्बे सशब्दजम्बूनदमेखलेव ॥
प्राकारवप्रच्छलतः शरीरम् आवर्त्य लीलाशयनं मुरारेः
यत्रान्तरस्थायिनिधानरक्षां विधातुम् उन्मग्न इवोरगेन्द्रः ॥
पदे पदे सान्द्रसुधोज्ज्वलानि गृहाणि या नाकसदां बिभर्ति
अभ्युद्गतानीव फणीन्द्रलोकम् आपूर्य तद्भूमिभृतां यशांसि ॥
हिमच्छटाहारिभिर् अंशुजालैः प्रालम्बिमुक्ताफलजालकानि
विलासिनीविभ्रममन्दिराणि यस्यां हसन्तीव परस्परस्य ॥
गृहाणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः
रूपं समुन्मीलितसद्विलासम् अस्त्रं विलासाः कुसुमायुधस्य ॥
यत्राननैर् एणादृशाम् अभिख्यां सिताश्मवातायनपङ्क्तिर् एति
अम्भोरुहैर् उज्ज्वलहेमकॢप्तैर् आकाशगङ्गाजलवेणिकेव ॥
विधूयमानाः पवनेन यस्यां नीलाश्मवेश्मारुणवैजयन्त्यः
भिन्नाञ्जनश्यामघनोद्गतानां तडिल्लतानां द्युतिम् आवहन्ति ॥
उदेति कान्तामणिमेखलानां गृहे गृहे यत्र मुहुर् निनादः
आयाति यो ऽनङ्गजयद्विपस्य मदावतारोत्सवडिण्डिमत्वम् ॥
मुखेन्दुभिः पौरविलासिनीनां कपोलकान्त्या कृतसंविभागः
न याति कार्श्यं बहुले ऽपि यत्र वातायनासन्नतरः शशाङ्कः ॥
न पक्षपातेन वदामि सत्यम् उषस्सु यस्यां भवनाङ्गनेभ्यः
सम्मर्जनीभिः परतः क्रियन्ते विसूत्रितैकावलिमौक्तिकानि ॥
यस्याम् असङ्क्षिप्तदृशां स्तनाङ्के कस्तूरिकापत्त्रलता चकास्ति
शरासनाभ्यासविधौ समाप्ते मुक्तेव गोधा मकरध्वजेन ॥
विलासिनीसद्मलसत्पताका पटाञ्चले काञ्चनकिङ्किणीनाम्
निरन्तरैर् या रणितैर् अजस्रम् आज्ञाम् इवोद्घोषयति स्मरस्य ॥
प्रतिक्षणं या गलितांशुकानाम् अनङ्गलीलाकलहोत्सवेषु
अनल्पकृष्णागुरुधूमभङ्ग्या वामभ्रुवाम् अर्पयतीव वासः ॥
यत्राष्टमीचन्द्रम् उपेयिवांसम् आलम्ब्य सौधेष्व् असमग्रकान्तिम्
केशाहृतैः केतकगर्भबर्हैर् आपूरयन्त्य् अर्धम् अरालकेश्यः ॥
लीलाकटाक्षे मदिरेक्षणानां सम्मोहनास्त्रस्फुरितं निवेश्य
रत्या सह कृईडति पुष्पधन्वा यस्याम् अशोकद्रुमवीथिकासु ॥
जाने जगन्मोहनकौतुकेन विधाय कूजामिषम् अन्यपुष्टैः
अहर्निशं चूतवनेषु यस्याम् अधीयते मान्मथम् अस्त्रवेदम् ॥
दिक्चक्रसंचारिमरीचिदण्ड= च्छलेन चामीकरतोरणानाम्
अवैमि दिक्पालपुरीर् विजित्य या हेमवेत्रग्रहणे नियुङ्क्ते ॥
उल्लासिषु स्वर्णगवाक्षपङ्क्तेर् या रश्मिदण्डेषु विघूर्णमानैः
भात्य् अग्रवेदिस्फटिकांशुजालैर् दोधूयमानोज्ज्वलचामरेव ॥
यस्यां गृहप्राङ्गनपद्मराग रश्मिच्छटापाटलम् अन्तरिक्षम्
आलिङ्गितं किंशुकशोणभासा सन्ध्यातपेनेव सदा विभाति ॥
अवाप्य यस्यां गृहदीर्घिकाच्छ वैडूर्यसोपानमयूखसख्यम्
हारीतशङ्कां कलहंसशावा वामभ्रुवां प्रत्यहम् अर्पयन्ति ॥
निकामम् अच्छैः प्रमदाकपोलैर् यत्रेन्दुबिम्बाकृतिभिः क्रियन्ते
स्ववक्त्रसौन्दर्यविलोकनेषु विलासिनो दर्पणनिर्व्यपेक्षाः ॥
पराङ्मुखीनाम् अपि रत्नभित्तौ प्रसादवत् तद्वदनं विलोक्य
यस्यां युवानो हरिणेक्षणानाम् अलीककोपं सहसा विदन्ति ॥
कुर्वन्ति यस्यां कुसुमेषुकेलि श्रमोन्मिषत्स्वेदलवास् तरुण्यः
कपोलकालागुरुपत्त्रवल्ली कल्माषम् अम्भो गृहदीर्घिकासु ॥
यस्यां समुन्मीलति सुन्दरीणां सा कापि सौभाग्यविशेषलक्ष्मीः
विलासमुक्तागुणवद् यद् आसां सदा प्रियस् तिष्ठति कण्ठलग्नः ॥
अवैमि गीतेन हृते कुरङ्गे पुरन्ध्रिभिः सौधतलस्थिताभिः
श्यामासु यस्यां लभते तदच्छ= कपोलबिम्बानुकृतिं मृगाङ्कः ॥
दुर्गेति सर्वत्र गता प्रसिद्धिं नगेन्द्रकन्येव सनीलकण्ठा
या लग्नकाञ्चीविषयेण कान्तिं सिंहासनेनातितरां बिभर्ति ॥
वृन्ताद् अपास्तैर् मरुता विकीर्णैः सुगन्धिभिस् तीरतरुप्रसूनैः
शिप्रासरित् कूलतमालनीला विभाति यस्याः कबरीलतेव ॥
धूमेन या नैकमुखोगतेन संवेष्ट्यमाणा परितश् चकास्ति
मदात्तरत्नेति समत्सरेण कृतोपरोधेव महार्णवेण ॥
विलङ्घयन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि
बिभर्ति यस्याम् अपि वक्रिमाणम् एको महाकालजटार्धचन्द्रः ॥
ध्वजाग्रलग्नेन विलम्बता खम् अनेकरत्नांशुकदम्बकेन
यस्यां स चण्डीपतिमण्डपो ऽपि बिभर्ति मायूरम् इवातपत्त्रम् ॥
पुरा किल ब्रह्मकमण्डलोर् यत् आपूरितं पुण्यतमाभिर् अद्भिः
धत्ते ऽत्र या तत् त्रिपुरान्तकस्य तडागम् आदर्शम् इवाङ्कदेशे ॥
यस्याम् अनेकामरवेश्मराजिर् मणिध्वजाग्रोच्छलितैर् मयूखैः
लिखत्य् अमर्त्यप्रमदाकुचेषु विचित्रवर्णा इव पत्रलेखाः ॥
यस्यां विसूत्रोज्झितमेखलानि तथा शुकावर्तितसीत्कृतानि
शंसन्ति संकेतम् उषस्सु यूनां शिप्रातटोद्यानलतागृहाणि ॥
मनोहरैः कामिजनस्य यस्यां नीरन्ध्रनिर्यन्मृगनाभिगन्धैः
सचन्दनैः काञ्चनकेलिशैलैः कुचैर् इवोद्यानभुवो विभान्ति ॥
गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु
यत्रोल्लसत्फेनततिच्छलेन मुक्तार्द्रहासेव विभाति शिप्रा ॥
संसर्गम् आसाद्य विलासिनीनां विलासवेश्मागुरुधूपधूमैः
बद्धास्पदाः सौधशिखासु यस्यां सुगन्धि तोयं जलदा वमन्ति ॥
सत्पुष्करोद्द्योतितरङ्गशोभि न्य् अमन्दम् आरब्धमृदङ्गवाद्ये
उद्यानवापीपयसीव यस्याम् एणीदृशो लास्यगृहे रमन्ते ॥
माणिक्यवातायनकान्तिजाल विलुप्तरथ्यातिमिरोत्करासु
श्यामासु यस्यां प्रमदाः कथं चित् सङ्केतम् उत्कम्पिकुचाः प्रयान्ति ॥
नवाम्बुवाहप्रतिबिम्बवत्यां यत्रोच्चहर्म्यारुणरत्नभूमौ
व्यक्तिं लभन्ते सुरसुन्दरीणां सालक्तकाः प्रावृषि पादमुद्राः ॥
कृतावधानातिशयेन मन्ये या वेधसा मध्यमलोकरत्नम्
स्वशिल्पविज्ञानपरप्रकर्ष प्रकाशनायात्र विनिर्मितेव ॥
राजास्ति तस्यां स कुलाचलेन्द्र निकुञ्जविश्रान्तयशस्तरङ्गः
भास्वान् ग्रहाणाम् इव भूपतीनाम् अवाप्तसंख्यो धुरि सिन्धुराजः ॥
निर्व्यूढनानाद्भुतसाहसं च रणे वृतं च स्वयम् एव लक्ष्म्या
नाम्ना यम् एके नवसाहसाङ्कं कुमारनारायणम् आहुर् अन्ये ॥
सहेलम् अभ्युद्धरता धरित्रीं मग्नां द्विषद्वारिनिधाव् अगाधे
येनात्र नीता पृथुविक्रमेण व्यक्तिं जगत्य् आदिवराहलीला ॥
उद्दामदुग्धाब्धितरङ्गहासे यस्यारिकान्ताकुचमण्डलानि
हाराः पतत्साञ्जनबाष्पपङ्क कलङ्कभीत्येव परित्यजन्ति ॥
सद्यः करस्पर्शम् अवाप्य चित्रं रणे रणे यस्य कृपाणलेखा
तमालनीला शरदिन्दुपाण्डु यशस् त्रिलोकाभरणं प्रसूते ॥
पराङ्मुखेनापि सदा परस्वे पत्या भुवः सागरमेखलायाः
अहो यशः पूर्वमहीपतीनाम् अनाविलं येन बलाद् विलुप्तम् ॥
चित्तं प्रसादश् च मनस्विता च भुजं प्रतापश् च वसुन्धरा च
अध्यासते यस्य मुखारविन्दं द्वे एव सत्यं च सरस्वती च ॥
यस्याप्सरोभिः परिगीयमानम् आकर्ण्य बाह्वोर् विजयप्रपञ्चम्
शचीकुचस्पर्शम् इवाप्य धत्ते रोमोद्गमाध्यासितम् अङ्गम् इन्द्रः ॥
प्रसाधिता येन च बाल्य एव चतुर्भिर् उत्साहवता चतस्रः
श्रुतेन बुद्धिः प्रभुता नयेन त्यागेन लक्ष्मीर् वसुधा बलेन ॥
रणे रणे मुक्तकृपः कृपाणं यः शातधारं कृतवान् कृतास्त्रः
अनेकराजन्यघटाकिरीट माणिक्यशाणोपलपट्टिकासु ॥
भरेण भूमेः स्फुटम् आ नमन्त्याः पांसुच्छटाः शेषफणामणीनाम्
न्यमीलयन् यद्विजयप्रयाणे नागाङ्गनानां नयनोत्पलानि ॥
अन्योन्यसंश्लेषविशीर्णहार च्युतेन सेवावसरे नृपाणाम्
कीर्णासु मुक्तानिकरेण यस्य कक्ष्यासु वारप्रमदाः स्खलन्ति ॥
आक्षिप्य हारान् निजविक्रमाग्नि स्फुलिङ्गशङ्काम् अनुसन्दधन्ति
येनारिकान्ताकुचमण्डलेषु गुञ्जाफलान्य् आभरणीकृतानि ॥
कृपाणपातैर् दलताम् अराति करीन्द्रकुम्भस्थलमौक्तिकानाम्
धूलिच्छटा मांसलयन्ति यस्य समुद्गतान्य् आजिमुखे यशांसि ॥
इन्दुद्युतिः कुन्दसितान् दधाना गुणान् अनङ्गोत्सववैजयन्ती
येन द्विषां दूरम् अनायि कण्ठाद् एकावली वामविलोचना च ॥
यस्मिन् वहत्य् अम्बुधिनेमिम् उर्वीम् मौर्वीकिणश्यामलदीर्घदोष्णि
विभाव्यते पौरवराङ्गनानाम् मध्यं परं धाम दरिद्रतायाः ॥
आक्रान्तदिङ्मण्डलकुन्तलेन्द्र सान्द्रान्धकारान्तरितं रणे यः
स्वराज्यम् अस्त्रारुणमण्डलाग्रो गृहीतवान् दीधितिमान् इवाहः ॥
आकम्पितानां मरुतेव यस्य दोष्णाजिभूमाव् अतिदक्षिणेन
अजायतारिप्रमदालतानां बाष्पोदबिन्दूत्करपुष्पमोक्षः ॥
विपक्षहृद्भङ्गकृता नितान्तम् भ्रूलेखयाकुञ्चितयोल्लसन्त्या
नाकारमात्रेण परन्तपस्य यस्यान्वकारि क्रिययापि चापम् ॥
दोश्चन्दनानोकहम् आप्य यस्य समुल्लसत्सान्द्रयशःप्रसूना
गतातिवृद्धिं लवलीलतेव निबद्धमूला परमारलक्ष्मीः ॥
कृतानतिभ्यः सहसा ददाति यः साम्परायेष्व् अभयं रिपुभ्यः
यशश् च गृह्णाति तुषारहार मृणालकर्पूरपरागपाण्डु ॥
प्रकाशिताशं परितः प्रजानां यस्योदयं धामनिधेर् वदन्ति
मुक्ताञ्जनध्वान्तपरिग्रहाणि नेत्राणि शत्रुप्रमदाजनस्य ॥
यस्य प्रयाणे पृतनाभरेण परिस्खलत्सप्तसमुद्रमुद्रा
परस्परक्षोदसमाकुलासु दोलायते भूः फणभृत्फणासु ॥
विभिन्नमानं कमलेक्षणानां व्यक्तानुभावं भुवनत्रये ऽपि
आहुर् जना दीर्घगुणाभिरामं यम् एकचापं कुसुमायुधस्य ॥
असंशयं प्राग् असृजद् विधाता यम् एकम् एव त्रिजगद्वदान्यम्
कल्पद्रुमादीन् अथ तैस् तदीय निर्माणशेषैः परमाणुलेशैः ॥
अकृत्रिमत्यागसमुद्गतानि विपक्वतालीदलपाण्डुराणि
आशालतानां वलयेषु भर्तुर् यशांसि यस्य स्तबकीभवन्ति ॥
यत्र प्रतापोर्जितराजचक्र किरीटरत्नद्युतिचुम्बिताङ्घ्रौ
यथार्थतां याति ययातिपाण्डु दिलीपतुल्यौजसि राजशब्दः ॥
उच्छिन्दतः क्ष्मासरसीं विगाह्य धर्मक्रियापङ्कजिनीवनानि
स्वैरप्रचारः कलिकुञ्जरस्य येनाङ्कुशेनेव बलान् निरुद्धः ॥
चिरं विभिन्नाः कुमुदेन्दुकुन्द भासः समग्रा अपि यत्र ते ते
अन्योन्यम् एकत्र निवाससौख्य कुतूहलेनेव गुणा घटन्ते ॥
कान्त्यानुलिप्तानि विलोचनानाम् आ पाटलानाम् अतिरोदनेन
सकुङ्कुमानीव पुनो भवन्ति यस्यारिनारीकुचमण्डलानि ॥
श्रियि प्रतापे यशसि क्षमायां त्यागे विलासे विनये महिम्नि
किम् अन्यद् आरोहति यस्य साम्यं न रन्तिदेवो न पृथुर् न पार्थः ॥
साम्राज्यभारोद्वहनप्रगल्भो यशोभटाख्यः सचिवो ऽस्ति यस्य
स्वसूक्तिचर्यास्व् अपरेण नाम्ना रमाङ्गदं यं कवयो वदन्ति ॥
विजित्य लङ्काम् अपि वर्तते या यस्याश् च नायात्य् अलकापि साम्यम्
जेतुः पुरी साप्य् अपरास्ति तस्य धारेति नाम्ना कुलराजधानी ॥
तस्यां स साहसजितावनिपालमौलि रत्नांशुपल्लवितकाञ्चनपादपीठः
देवः क्षमावलयम् एतद् उदञ्चितैक लीलातपत्रसुलभाभरणं भुनक्ति ॥
मूल पाठ: Navasāhasāṅkacarita · Edition: Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0