भाषा

ENहिગુ
ग्रंथ पाठ

नाट्यशास्त्र · अध्याय 2

2.1

इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमो ऽध्यायः
अथ भारतीये नाट्यशास्त्रे द्वितीयो ऽध्यायः
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः ।
भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम्

2.2

अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् ।
भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि

2.3

इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि ।
तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि

2.4

तेषां तु वचनं श्रुत्वा मुनीनां भरतो ऽब्रवीत् ।
लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः

2.5

दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
(यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) ।
नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया

2.6

श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः ।
तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः

2.7

इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा ।
त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः

2.8

विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः ।
तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम्

2.9

प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् ।
शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च

2.10

अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् ।
कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते

2.11

देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् ।
शेषाणां प्रकृतीनां तु कनीयः संविधीयते

2.12

प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् ।
तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ भ्न्_2.11* ॥
प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ भ्न्_2.11** ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ भ्न्_2.11*** ॥
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा ।
प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत

2.13

अणू रजश्च वालश्च लिक्षा यूका यवस्तथा ।
अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः

2.14

अणवो ऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते ।
वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत्

2.15

यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् ।
अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते

2.16

चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः ।
अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम्

2.17

चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् ।
द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह

2.18

अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः ।
यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति

2.19

मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् ।
अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत्

2.20

यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः
स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम्

2.21

प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते ।
यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत्

2.22

प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।
विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ भ्न्_2.21* ॥
कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् ।
ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ भ्न्_2.21** ॥
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च ।
यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा

2.23

तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ।
मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम्

2.24

भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक ।
ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया

2.25

समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् ।
भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः

2.26

प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् ।
अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत्

2.27

शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः ।
(त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ।
हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि) ।
पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत्

2.28

कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च ।
सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते

2.29

अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् ।
त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते

2.30

छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते ।
हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत्

2.31

तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते ।
कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु

2.32

मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च ।
ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः

2.33

शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् ।
चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान्

2.34

पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु ।
सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत्

2.35

पश्चिमे च विभागे ऽथ नेपथ्यगृहमादिशेत् ।
विभज्य भागान्विधिवद्ययथावदनुपूर्वशः

2.36

शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् ।
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः

2.37

सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु ।
उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा

2.38

काषायवसनाश्चैव विकलाश्चैअव ये नराः ।
निशायां च बलिः कार्या नानाभोजनसंयुतः

2.39

गन्धपुष्पफलोपेता दिशो दश समाश्रितः ।
पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च

2.40

पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु ।
यादृशं दिशि यस्यां तु दैवतं परिकल्पितम्

2.41

तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः ।
स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम्

2.42

मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् ।
नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः

2.43

मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च ।
एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत्

2.44

भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः ।
तिथिनक्षत्रयोगेन शुभेन करणेन च

2.45

स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा ।
आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च

2.46

स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे ।
प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः

2.47

सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च ।
ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम्

2.48

सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् ।
वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे

2.49

सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् ।
शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये

2.50

नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् ।
पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने

2.51

निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् ।
ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके

2.52

वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् ।
शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च

2.53

सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् ।
स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि

2.54

स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् ।
रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः

2.55

ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः ।
अचलं चाप्यकम्पञ्च तथैवावलितं पुनः

2.56

स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः ।
अवृष्टिरुक्ता चलने वलने मृत्युतो भयम्

2.57

कम्पने परचक्रात्तु भयं भवति दारुणम् ।
दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम्

2.58

पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः ।
शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम्

2.59

मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता ।
पुरोहितं नृपं चैव भोजयेन्मधुपायसैः

2.60

कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् ।
सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः

2.61

अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः ।
ऽयथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः

2.62

जयावहो नरेन्द्रस्य तथा त्वमचलो भवऽ ।
स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च

2.63

एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा ।
रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी

2.64

चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः ।
अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी

2.65

उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् ।
तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च

2.66

नानावर्णानि देयानि तथा भूतप्रियो बलिः ।
आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः

2.67

भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् ।
एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी

2.68

रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा ।
रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम्

2.69

कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु ।
पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः

2.70

लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् ।
लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः

2.71

कर्तारः पुरुषश्चात्र ये ऽङ्गदोषविविर्जिताः ।
अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः

2.72

एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः ।
कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च

2.73

शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते ।
रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः

2.74

वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा ।
प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत्

2.75

एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् ।
ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम्

2.76

नानासञ्जवनोपेतं बहुव्यालोपशोभितम् ।
ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम्

2.77

निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् ।
नानाविन्याससंयुक्तं चित्रजालगवाक्षकम्

2.78

सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् ।
नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम्

2.79

एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् ।
स्तम्भं वा नागदन्तं वा वातायनमथापि वा

2.80

कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् ।
कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः

2.81

मन्दवातायनोपेतो निर्वातो धीरशब्दवान् ।
तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः

2.82

गम्भीरस्वरता येन कुतपस्य भविष्यति ।
भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत्

2.83

सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः ।
भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः

2.84

समासु जातशोभासु चित्रकर्म प्रयोजयेत् ।
चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा

2.85

लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् ।
एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः

2.86

पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् ।
समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु

2.87

शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः ।
यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च

2.88

विकृष्टे तान्यशेषाणि चतुरश्रे ऽपि कारयेत् ।
चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च

2.89

बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा ।
तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः

2.90

दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे ।
स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम्

2.91

इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् ।
हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः

2.92

रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् ।
षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम्

2.93

विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे ।
अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत्

2.94

स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः ।
विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत्

2.95

तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे ।
धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः

2.96

नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः ।
द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम्

2.97

जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् ।
रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु

2.98

अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः ।
चतुरश्रं समतलं वेदिकासमलङ्कृतम्

2.99

पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी ।
चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः

2.100

समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् ।
विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा

2.101

एवमेतेन विधिना चतुरश्रं गृहं भवेत् ।
अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम्

2.102

त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः ।
मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत्

2.103

द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः ।
द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः

2.104

विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः ।
स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः

2.105

एवमेतेन विधिना कार्या नाट्यगृहा बुधैः ।
पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः

मूल पाठ: Nāṭyaśāstra 1-16, 18-30, 33, 35-37 · Data entry Padmakar Dadegaonkar Sowmya Krishnapur Haresh Bakshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc