भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 8.29

8.29.1

उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सधस्तिरोदधिथ देव! भवत्प्रभावाद्
उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥

8.29.2

श्यामां रुचापि वयसापि तनुं तदानीं
प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वम् ।
पीयुषकुम्भकलहं परिमुच्य सर्वे
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥

8.29.3

का त्वं मृगाक्षि! विभजस्व सुधामिमामि-
त्यारूढरागविवशानभियाचतोऽमून् ।
विश्वस्यते मयि कथं कुलटास्मि दैत्या!
इत्यालपन्नपि सुविश्वसितानतानीः ॥

8.29.4

मोदात् सुधाकलशमेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
लीलाविलासगतिभिः समदाः सुधां ताम् ॥

8.29.5

अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो मिजरूपमेत्य
स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥

8.29.6

त्वत्तं सुधाहरणयोग्यफलं परेषु
दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥

8.29.7

त्वं कालनेमिमथ मालिसुखाञ्जघन्थ
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्रदुष्करवधे नमुचौ च लूने
फेनेन नारदगिरा न्यरुणो रणं तम् ॥

8.29.8

योषावपुर्दनुजमोहनमाहितं ते
श्रुत्वं विलोकनकुतूहलवान् महेशः ।
भूतैः समं गिरिजया च गतः पदं ते
स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥

8.29.9

आरामसीमनि च कन्दुकघातलीला-
लोलायमाननयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥

8.29.10

भूयोऽपि विद्रुतवतीमुपधाव्य देवो
वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्त्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc