नारायणीय · अध्याय 8.30
शक्रेण संयति हतोऽपि बलिर्महात्मा
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥
पुत्रार्तिदर्शनवशाददितिर्विषण्णा
तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
सा द्वादशाहमचरत् त्वयि भक्तिपूर्णा ॥
तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥
त्वं काश्यपे तपसि सन्निदधत् तदानीं
प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकटवैष्णवदिव्यरूपं
सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥
पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्-
हर्षाकुले सुरकुले कृततूर्यघोषे ।
बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥
तावत् प्रजापतिमुखैरुपनीय मौञ्जी-
दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश! कृताग्निकार्यस्
त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥
गात्रेण भाविमहिमोचितगौरवं प्राग्
व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
दण्डं च दानवजनेष्विवं सन्निधातुम् ॥
तां नर्मदित्तरतटे हयमेधशाला-
मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान् किमेष दहनो नु सनत्कुमारो
योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥
आनीतमाशु भृगुभिर्महसाभिभूतैस्
त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।
भक्त्या समेत्य सुकृती परिषिच्य पादौ
तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥
प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
यत् ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
स त्वं विभो! गुरुपुरालय! पालयेथाः ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0