नारायणीय · अध्याय 8.28
गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थम् ॥
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! ।
हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥
जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥
त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥
अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् ।
मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।
पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् ।
त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वम् ॥
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
अमृतं कलशे वहन् कराभ्यामखिलार्तिं हर मारुतालयेश! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0