नारायणीय · अध्याय 8.27
दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः ।
नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ॥
ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन् वरद! पुरः परेण धाम्ना ।
हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥
सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् ।
भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्य्स्त्वं विनिहितवान् पयः पयोधौ ॥
आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात् त्वं भुजगमुखेऽकरोः सुरारीन् ॥
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥
वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात् परिगतलक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे ।
आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥
उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥
दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
कारुण्यात् तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान् न दैत्यसङ्घान् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0