भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 5.21

5.21.1

मध्योद्भवओ भुव इलावृतनाम्रि वर्षे
गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं
सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वाम् ॥

5.21.2

भद्राश्वनामक इलावृतपूर्ववर्षे
भद्रश्रवोभिरृषिभिः परिणूयमानम् ।
कल्पान्तगूढनिगमोद्धरणप्रवीणं
ध्यायामि देव! हयशीर्षतनुं भवन्तम् ॥

5.21.3

ध्यायामि दक्षिणगते हरिवर्षवर्षे
प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-
ज्ञानप्रदं नरहरिं भगवन्! भवन्तम् ॥

5.21.4

वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥

5.21.5

रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे
तद्वर्षनाथमनुवर्य्सपर्यमाणम् ।
भक्तैकवत्सलममत्सरहृत्सु भान्तं
मत्स्याकृतिं भुवननाथ! भजे भवन्तम् ॥

5.21.6

वर्षं हिरण्मयसमाह्वयमौत्तराह-
मासीनमद्रिधृतिकर्मठकामठाङ्गम् ।
संसेवते पितृगणप्रवरोऽर्यमायं
तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ॥

5.21.7

किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
संसेवितो महितमन्त्रनुतिप्रभेदैः ।
दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा
त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ॥

5.21.8

याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
संसेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली
रामात्मकः परिलसन् परिपाहि विष्णो! ॥

5.21.9

श्रीनारदेन सह भारतखण्डमुख्यैस्
त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्सी
नारायणो नरसखः परिपाहि भूमन्! ॥

5.21.10

प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
द्वीये भजन्ति कुशनामनि वह्निरूपम् ।
क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥

5.21.11

सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च
पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
त्वं शिंशुमारवपुषा महतामुपास्यः
सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ॥

5.21.12

पातालमूलभुवि शेषतनुं भवन्तं
लोलैककुण्डलविराजिसहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्-
जुष्टं भजे हर गदान् गुरुगेहनाथ! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc