भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 6.22

6.22.1

अजामिलो नाम महीसुरः पुरा चरन् विभो! धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान् सुघृष्टशीलां कुलटां मदाकुलाम् ॥

6.22.2

स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् ।
अधर्मकारी दशमी भवन् पुनर्दधौ भवन्नामयुते सुते रतिम् ॥

6.22.3

स मृत्युकाले यमराजकिङ्गरान् भयङ्कराम्स्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥

6.22.4

दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥

6.22.5

अमुं च सम्पाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥

6.22.6

भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः! ।
न निष्कृतिः किईं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा बभाषिरे ॥

6.22.7

श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा बभाषिरे ॥

6.22.8

अनेन भो! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा बभाषिरे ॥

6.22.9

नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषेधं गदानिति प्रभो! त्वत्पुरुषा बभाषिरे ॥

6.22.10

इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कञ्चन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥

6.22.11

स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालय्नाथ! पाहि माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc