भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 5.20

5.20.1

प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।
त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥

5.20.2

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥

5.20.3

नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः ।
अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥

5.20.4

त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥

5.20.5

इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधाः सुवर्षम् ॥

5.20.6

जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
अजीजनत् तत्र शतं तनूजान् येषां क्षितीषो भरतोऽग्रजन्मा ॥

5.20.7

नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥

5.20.8

उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥

5.20.9

परात्मभूतोऽपि परोपदेशं कुर्वन् भवन् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥

5.20.10

शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc