नारायणीय · अध्याय 4.19
पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत् त्वत्करुणाङ्कुरानिव ॥
पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्तव स्तवम् ॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान् बभूव कलो ध्रुववन्न शीघ्रता ॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषाम् गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥
कृपाबलेनैव तत्ः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद् वारानदाः ।
भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥
ततश्च ते भूतलरोधिनस्तरून् क्रूधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि माम् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0