नारायणीय · अध्याय 3.9
स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकअयन् ।
तदीक्षणकुतूहलात् प्रतिदिशं विवृत्ताननश्
चतुर्वदनतामगाद् विकसदष्टदृष्ट्यम्बुजाम् ॥
महार्णवविघूर्ण्तं कमलमेव तत् केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥
अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
सयोगबलविद्यया समवरूढवान् प्रौढधीस्
त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥
ततः सकलनालिकाविवरमार्गगो मार्गयन्
प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधिबलमादधे भवदनुग्रहैकाग्रही ॥
शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥
किरीटमकृटोल्लसत् कटकहारकेयूरयुग्
मणिस्फुरितमेखलं सुपरिवीतपीताम्बरम् ।
कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
वपुस्तदयि! भावये कमलजन्मने दर्शितम् ॥
श्रुतिप्रकरदर्शितप्रचुरवैभव! श्रीपते!
हरे! जय जय प्रभो! पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम्
इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥
लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे! ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥
शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥
तवैव कृपया पुनः सरसिजेन तेनैव स
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर!
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0