भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 2.7

2.7.2

सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् ।
तावत् त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥

2.7.3

कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्
तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥

2.7.4

माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ॥

2.7.5

यस्मिन् नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास्
तत् ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥

2.7.6

नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवा तत् ते ओअदं देहि मे ॥

2.7.7

तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।
श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत् ते विभो! भातु मे ॥

2.7.8

कालाम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा-
मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् ।
राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ॥

2.7.9

दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।
जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥

2.7.10

आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते ।
इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं
सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc