भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 2.6

2.6.1

एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश! तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव! रसातलं त
गुल्फद्वयम् खलु महातलमद्भुतात्मन् ॥

2.6.2

जङ्घे तलातलमथो सुतलं च जान्
किञ्चोरुभागयुगलं वितलातेले द्वे ।
क्षोणीतलं जघनमम्बरमङ्ग! नाभिर्-
वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ॥

2.6.3

ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयन्तयो! जगदाश्रीतैर-
प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ॥

2.6.4

त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द-
च्छन्दांसि केशष्! धनास्तव केशपाशाः ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥

2.6.5

निश्शेषविश्वरचना च कटाक्षमोक्षः
कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥

2.6.6

माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्
देवा भुजाः स्तनयुगं तव धर्मदेवः ॥

2.6.7

पृष्ठं त्वधर्मैह देव! मनः सुधांशु-
रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! ।
कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥

2.6.8

श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहु-
चारूरुयुग्मचरणंकरुणाम्बुधे! ते ॥

2.6.9

संसारचक्रमायि चक्रधर! क्रियास्ते
वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
नाड्यः सरित्समुदयास्तरवश्च रोम
जीयादिदं वपुरनिर्वचनीयमीश्! ॥

2.6.10

ईदृग् जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात् मने ते
वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ॥
एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस्
तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयम् ।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc