भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 2.5

2.5.1

व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये
मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति-
स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥

2.5.2

कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो!
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम्
नो चेत् किं गगनप्रसुनसदृशां भूयो भवेत् सम्भवः ॥

2.5.3

एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥

2.5.4

मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः ।
कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं
माया सा खलु बुद्धितत्त्वमसृजद् योऽसौ महानुच्यते ॥

2.5.5

तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं
जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
चक्रेऽ स्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसु
संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥

2.5.6

सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्यवैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥

2.5.7

भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
तच्चान्तः करणं विभो! तव बलात् सत्त्वांश् एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात् पुन-
स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ॥

2.5.8

शब्दाद् व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं
तस्माद् रूपमतो महोऽथच रसं तोयं गन्धं महीम् ।
एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ॥

2.5.9

एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्
नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा ।
त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
श्चेष्टाशक्तिमुदीर्य तानि बटयन् हैरण्यमण्डं व्यधाः ॥

2.5.10

अण्डं तत् खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समा
निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc