नारायणीय · अध्याय 2.4
कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥
भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥
अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥
ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनाम् ।
सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ॥
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! ।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।ण्
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥
लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥
अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः ।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥
तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृती ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो! ॥
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते! ।
सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि माम् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0