भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 1.3

1.3.1

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः ।
चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु-
नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥

1.3.2

गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
ऽप्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
नहं गायंगायं कुहचन विवत्स्यामि विजने ॥

1.3.3

कृपा ते जाता चेत् किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥

1.3.4

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः ।
चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित्-
सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥

1.3.5

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥

1.3.6

भवद्भक्तिस्तावत् प्रमुखमधुरा त्वाद्गुणरसात्
मिमप्यारूढा चेदखिलपरितापप्रशमनी ।
पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥

1.3.7

विधूय क्लेशान् मे कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥

1.3.8

प्रभूताधिव्याधिप्रसभवलिते मामकहृदि
त्वदीयं तद् रूपं परमरसचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रूनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥

1.3.9

मरुद्गेहाधीश्! त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद् वरद! गदभारं प्रशमयन्
भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥

1.3.10

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं
तावद् देव! प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc