भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.90

10.90.1

वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते-
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।
स्थितमिह परमात्मन्! निष्कलार्वागभिन्नं
किमपि यदवभातं तद्धि रूपं तवैव ॥

10.90.2

मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥

10.90.3

तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्-
धाता तु सत्त्वविरलो रजसैव पूर्णः ।
सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार-
चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥

10.90.4

तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां
शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
शंसन्त्युपासनअविधौ तदपि स्वतस्तु
त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥

10.90.5

श्रीशङ्करोऽपि भगवान् सकलेषु तावत्
त्वामेव मानयति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि
व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥

10.90.6

मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्-
यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥

10.90.7

समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥

10.90.8

यद् ब्राह्मकल्प इह भागवतद्वितीय-
स्कन्धोदितं वपुरनावृतमीश! धात्रे ।
तस्यैव नाम हरिशर्वमुखं जगाद
श्रीमाधवं शिवपरोऽपि पुराणसारे ॥

10.90.9

ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीयभक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥

10.90.10

भूतार्थकीर्तिरनुवादविरुद्धवादौ
त्रेधार्थवादगतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्-
त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥

10.90.11

यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत!
क्लेशान् विधूय कुरु भक्तिभरं परात्मन्! ॥।

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc