भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.89

10.89.1

रमाजाने! जाने यदिह तव भक्तेषु विभवो
न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥

10.89.2

सद्यःप्रसादरुषितान् विधिशङ्करादीन्
कचिद् विभो! निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥

10.89.3

शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥

10.89.4

तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने
शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद् वव्रे भवति विमुखानां क्व शुभधूः ॥

10.89.5

मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं
दैत्याद् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥

10.89.6

भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥

10.89.7

भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥

10.89.8

सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य! भवेत् सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥

10.89.9

निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत! पुनश्च्युतिदोषहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥

10.89.10

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो! सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन्! पशुपविनताभाग्यनिवहं
परीतपश्रान्त्यै पवनपुरवासिन्! परिभजे ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc