नारायणीय · अध्याय 10.67
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द! तिरोहितोऽभूः ॥
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे! ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥
हा चूत! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥
निरीक्षितोऽयं सखि! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥
ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो! ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥
सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0