नारायणीय · अध्याय 10.66
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥
वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥
विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0