भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.68

10.68.1

तव विलोकनाद् गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! ।
अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥

10.68.2

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥

10.68.3

तव विभो! पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥

10.68.4

अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् पूगचर्वितम् ।
प्रतिगृहय्य तद् वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥

10.68.5

विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥

10.68.6

इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥

10.68.7

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान् वल्लवीजनैः ॥

10.68.8

अयि कुमारिका! नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान् भवान् ॥

10.68.9

अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ॥

10.68.10

इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc