नारायणीय · अध्याय 10.65
गोपीजनाय कथितं नियमावसाने
मरोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥
सम्भूर्छनाभिरुदितस्वरमण्डलाभिः
सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो! तरुण्यस्-
तत्तादृशं कमपि चित्तविमोहमापुः ॥
ता गेहकृत्यनिरतास्तनयप्रसक्ताः
कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
कान्तारदेशमयि कान्ततनो! समेताः ॥
काश्चिन्निजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्यस्-
ता एव संरुरुचिरे तव लोचनाय ॥
हारं नितम्बभूवि काचन धारयन्ती
काञ्चीं च कण्ठभुवि देव! समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं
व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥
काचित् कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार-
राज्याभिषेकविधये कलशीधरेव ॥
काश्चिद् गृहात् किल निरेतुमपारयन्त्यस्-
त्वामेव देव! हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥
जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि-
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥
अभ्यागताभिरभितो व्रजसुन्दरीभिर्-
मुग्धास्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य! हर मे परमेश! रोगान् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0