भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.64

10.64.1

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥

10.64.2

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद् बहुमानभारः ॥

10.64.3

ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्ताव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥

10.64.4

स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥

10.64.5

जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः ।
नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥

10.64.6

कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥

10.64.7

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥

10.64.8

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो! परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥

10.64.9

स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्! पुनरुद्धृतास्ते ॥

10.64.10

करबदरवदेवं देव! कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात् परात्मन्!
पवनपुरनिवासिन्! पाहि मामामयेभ्यः ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc