नारायणीय · अध्याय 10.63
ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥
विपुलकरकमिश्चैस्तोयधारानिपातैर्-
दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित! शृण्वन् मा बिभीतेत्यभाणीः ॥
कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्-
विहतिमिह स रुन्ध्यत् को नुः वः संशअयोऽस्मिन् ।
इति सहसितवादी देव! गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्याम् ॥
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान् धेनुगोपानधस्ता-
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥
भवति विधृतशैले बालिकाभिर्वयस्यैर्-
अपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दू-
यति सति पशुपालास्तोषमैषन्त सर्वे ॥
अतिमहान् गिरिरेषु तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ॥
अचलति त्वयि देव! पदात् पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कुमलापते! गुरुपुरालय! पालय मां गदात् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0