भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.62

10.62.1

कदाचिद् गोपालान् विहितमखसम्भारविभवान्
निरीक्ष्य त्वं शौरे! मघवमदमुद्ध्वंसितुमनाः ।
विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-
नपृच्छः को वायं जनक! भवतामुद्यम इति ॥

10.62.2

बभाषे नन्दस्त्वां सुत! ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥

10.62.3

इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥

10.62.4

इदं तावत् सत्यं यदिह पशपो नः कुलधनं
तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥

10.62.5

भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा
द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्-
त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥

10.62.6

अवोचश्चैवं तान् किमिह वितथं मे निगदितं
गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥

10.62.7

परिप्रीता याताः खलु भवदुपेता व्रजजुषो
व्रजं यावत् तावन्निजमखविभङ्गं निशमयन् ।
भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥

10.62.8

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥

10.62.9

त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो
भवन्माया नैव त्रिभूवनपते! मोहयति कम् ॥

10.62.10

सुरेन्द्रः कुद्धश्चेद् द्विजकरुणया शैलकृपया-
प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
मरुद्गेहाधीश! प्रणुद मुरवैरिन्! मम गदान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc