भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.60

10.60.1

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥

10.60.2

तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥

10.60.3

इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत् तदनुग्रहेच्छया ॥

10.60.4

नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥

10.60.5

त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥

10.60.6

इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथम् ।
इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥

10.60.7

अयि जीव चिरं किशोर! नस्तव दासीरवशीकरोषि किम् ।
प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ॥

10.60.8

अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥

10.60.9

विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥

10.60.10

उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥

10.60.11

इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् ।
करुणाशिशिरो हरे! हर त्वरया मे सकलामयावलिम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc