नारायणीय · अध्याय 10.59
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥
मन्मथोन्मथितमानसाः क्रमात् त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे! काननोपगतिमप्यहर्मुखे ॥
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥
काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो! तावकं व्यजनि वेणुकूजितम् ॥
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् ।
तत् स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ॥
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान् पशूनपि ।
त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ॥
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो! नित्यमापुरिह कृत्यमूढताम् ॥
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मार्य्तेश! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0