नारायणीय · अध्याय 10.51
कदाचन व्रजशिशुभिः समं भवान्
वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः
सतेमनैर्निरगमदीश! जेमनैः ॥
विनिर्यतस्तव चरणाम्बुजद्वया-
दुदाञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरै-
रुदूहिरे धृतभवदीक्षणोत्सवाः ॥
प्रचारयत्यविरलशाद्वले तले
पशून् विभो! भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं
भयानकः सपदि शयानकाकृतिः ॥
महाचलप्रतिमतनोर्गुहानिभ-
प्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद् गताः
कुमारकाः किमपि विदूरगे त्वयि ॥
प्रमादतः प्रविशति पन्नगोदरं
क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो!
सुहृज्जनं विशरणामाशु रक्षितुम् ॥
गलेदरे विपुलितवर्ष्मणा त्वया
महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान् विदलितकण्ठमण्डलो
विमोचयन् पशुपशून् विनिर्ययौ ॥
क्षणं दिवि त्वदुपगमार्थमास्थितं
महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा
नभःस्ह्तले ननृतुरथो जगुः सुराः ॥
सविस्मयैः कमलभवादिभिः सुरैर्-
अनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि
स्वकैर्भवानतनुत भोजनोत्सवम् ॥
विषाणिकामपि मुरलीं नितम्बके
निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥
सुखाशनं त्विह तव गोपमण्डले
मखाशनात् प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्प्रभो!
मरुत्पुरीनिलय! गदात् प्रपाहि माम् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0