भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.47

10.47.1

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥

10.47.2

अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश! दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥

10.47.3

सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥

10.47.4

उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विसृतं क्षितौ ॥

10.47.5

वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥

10.47.6

त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥

10.47.7

बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् व्द्यङ्गुलोनमखिलं किलैक्षत ॥

10.47.8

विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे! बन्धमेव कृपयान्वमयथाः ॥

10.47.9

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ॥

10.47.10

यद्यपाशसुगमो भवान् विभो! संयतः किमु सपाशयानया ।
एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc