भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.46

10.46.1

अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥

10.46.2

पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥

10.46.3

अयि ते प्रलयावधौ विभो! क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥।

10.46.4

अयि दुर्विनयात्मक! त्वया किमु मृत्सा बत वत्स! भक्षिता ।
इति मातृगिरं चिरं विभो! वितथां त्वं प्रतिजज्ञिषे हसन् ॥

10.46.5

अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥

10.46.6

अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥

10.46.7

कुहचिद् वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद् रसातलम् ।
मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥

10.46.8

कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥

10.46.9

विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥

10.46.10

धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब! दिशेत्युपासजन् भगवन्नद्भुतबाल! पाहि माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc