नारायणीय · अध्याय 10.37
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्-
एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे! ॥
ऊचे चाम्बुजभूरमूनयि सुराः! सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनम् ॥
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
यावत् त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभूह् ।
त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा-
नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्-
तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
स्वान्तेष्वीश! गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
धन्यां देवकनन्दनामुदवहद् राजा स शूरात्मजः ॥
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय-
न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
सत्त्रासात् स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ॥
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्-
नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ॥
तावत् त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! ।
मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना-
दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव! रोहिणीं त्वमपि भोः! सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो! संस्तूयमानः सुरैः
स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0