भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.38

10.38.1

आनन्दरूप! भगवन्नयि! तेऽवतारे
प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
मावृण्वती विरुरुचे किल वर्षवेला ॥

10.38.2

आशासु शीतलतरासु पयोदतोयै-
राशासिताप्तिविवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥

10.38.3

बाल्यसृशापि वपुषा दधुषा वुभूती-
रुद्यत्किरीटकटकाङ्गदहारभासा ।
शङ्खारिवारिजगदापरिभासितेन
मेघासितेन परिलेसिथ सूतिगेहे ॥

10.38.4

वक्षःस्थलीसुखनिलानविलासिलक्ष्मी-
मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
मुन्मार्जयन्निव विरेजिथ वासुदेव! ॥

10.38.5

शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबष्पपुलकोद्गमगद्गदार्द्र-
स्तुष्टाव दृष्तिमकरन्दरसं भवन्तम् ॥

10.38.6

देव! प्रसीद परपूरुष! तापवल्ली-
निर्लूनिदात्र! समनेत्र! कलाविलासिन्! ।
खेदानपाकुरु कृपागुरुभिः कटाक्षैर्-
इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥

10.38.7

मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या
स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥

10.38.8

त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधित चित्ताविधार्यमार्यै-
रम्भोरुहस्थकलहंसकिशोररम्यम् ॥

10.38.9

जाता तदा पुशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद्
द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढम् ॥

10.38.10

शेषेण भूरिफणवारितवारिणाथ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc